प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५९ ब्रह्मवैवर्तपुराणम्
अध्यायः ६०
वेदव्यासः
अध्यायः ६१ →

नारद उवाच ।।
नारायण महाभाग वेदवेदाङ्गपारग ।।
निपीतं च महाख्यानं त्वन्मुखेन्दुविनिसृतम् ।। १ ।।
अधुना श्रोतुमिच्छामि किमुवाच बृहस्पतिः ।।
शिवं च गत्वा कैलासं दातारं सर्वसम्पदाम् ।। २ ।।
जगत्कर्ता विधाता च किं वा तं प्रत्युवाच सः ।।
एतत्सर्वं समालोच्य वद वेदविदां वर ।। ३ ।।
नारायण उवाच ।।
शीघ्रं गत्वा च कैलासं भ्रष्टश्रीः शंकरं गुरुः ।।
प्रणम्य तस्थौ पुरतो लज्जावनतकन्धरः ।। ।। ४ ।।
दृष्ट्वा गुरुसुतं शम्भुरुदतिष्ठत्कुशासनात् ।।
आलिङ्गनं ददौ तस्मै शीघ्रं मांगलिकाशिषः ।। ५ ।।
स्वासने वासयित्वा वै पप्रच्छ कुशलं वचः ।।
उवाच मधुरं वाक्यं भीतं तं लज्जितं शिवः ।। ६ ।।
श्रीशङ्कर उवाच ।।
कथमेवंविधस्त्वं च दुःखी मलिन विग्रहः ।।
साश्रुनेत्रो लज्जितश्च भ्रातस्तत्कारणं वद ।। ७ ।।
किं वा तपस्या हीना ते सन्ध्या हीनाऽथवा मुने ।।
किं वा श्रीकृष्णसेवा सा विहीना दैवदोषतः ।। ८ ।।
किं वा गुरौ भक्तिहीनोऽभीष्टदेवेऽथवा गुरौ ।।
किं वा न रक्षितुं शक्तः प्रपन्नं शरणागतम् ।। ९ ।।
किं वाऽतिथिस्ते विमुखः किं वा पोष्या बुभुक्षिताः ।।
किं वा स्वतन्त्रा स्त्री वा ते किं वा पुत्रोऽवचस्करः ।।2.60.१ ०।।
सुशासितो न शिष्यो वा किं भृत्याश्चोत्तरप्रदाः ।।
किं वा ते विमुखा लक्ष्मीः किं वा रुष्टो गुरुस्तव ।। ११ ।।
गरिष्ठश्च वरिष्ठश्च शश्वत्सन्तुष्ट मानस ।।
गुरुस्तव वसिष्ठश्च प्रेष्ठः श्रेष्ठः सतामहो ।।१२।।
किं वा रुष्टोऽभीष्टदेवः किं वा रुष्टाश्च वाडवाः ।।
किं वा रुष्टा वैष्णवाश्च किं वा ते प्रबलो रिपुः ।। १३ ।।
किं वा ते बन्धुविच्छेदो विग्रहो बलिना सह ।।
किं वा पदं परग्रस्तं किं वा बन्धुधनं च वा ।।१४।।
केन ते वा कृता निन्दा खलैर्वा पापिभिर्मुने ।।
केन वा त्वं परित्यक्तो बान्धवेन प्रियेण वा।।१५।।
बन्धुस्त्यक्तस्त्वया किं वा वैराग्येण क्रुधाऽथवा ।।
किं वा तीर्थे नहि स्नातं न दत्तं पुण्यवासरे।।१६।।
गुरुनिन्दा बन्धुनिन्दा खलवक्त्राच्छ्रुताऽथवा ।।
गुरुनिन्दा हि साधूनां मरणादतिरिच्यते ।। १७ ।।
असद्वंशप्रजातानां खलानां निन्दनं तथा ।।
दौश्शील्यमेवमसतां शश्वन्नारकिणामिह ।। १८ ।।
परप्रशंसकाः सन्तः पुण्यवन्तो हि भारते ।।
शश्वन्मङ्गलयुक्ताश्च राजन्ते मनसा सदा ।। १९ ।।
पुत्रे यशसि तोये च समृद्धे च पराक्रमे ।।
ऐश्वर्ये वा प्रतापे च प्रजाभूमिधनेषु च ।। 2.60.२० ।।
वचनेषु च बुद्धौ च स्वभावे च चरित्रतः ।।
आचारे व्यवहारे च जायते हृदयं नृणाम्।।२१।।
यादृग्येषां च हदये तादृक्तेषां च मंगलम् ।।
यादृग्येषां पूर्वपुण्यं तादृक्तेषां च मानसम् ।। २२ ।।
इत्युक्त्वा च महादेवो विरराम स्वसंसदि ।।
तमुवाच महावक्ता स्वयमेव बृहस्पतिः ।। २३ ।।
बृहस्पतिरुवाच ।।
अकथ्यमेव वृत्तान्तं कथयामि किमीश्वर ।।
लोकाः कर्मवशान्नित्यं नानाजन्मसु यत्कृतम् ।। २४ ।।
स्वकर्मणां फलं भुङ्क्ते जन्तुर्जन्मनि जन्मनि ।।
नहि नष्टं च तत्कर्म विना भोगाच्च भारते ।। २५ ।।
सुखं दुःखं भयं शोको नराणां भारते प्रभो ।।
केचिद्वदन्ति हि भवेत्स्वकृतेन च कर्मणा ।। २५ ।।
केचिद्वदन्ति दैवेन स्वभावेनेति केचन ।।
त्रिविधा गतयो ह्यस्य वेदवेदाङ्गपारग ।। २७ ।।
स्वयं च कर्मजनकः कर्म वै दैवकारणम् ।।
स्वभावो जायते नॄणां स्वात्मनः पूर्वकर्मणः ।। २८ ।।
स्वकर्मणां च सर्वेषां जन्तूनां प्रतिजन्मनि ।।
सुखं दुःखं भयं शोकं स्वात्मनश्च प्रजायते ।। २९ ।।
स्वकर्मफलभोक्ता च जीवो हि सगुणः सदा ।।
आत्मभोजयिता साक्षी निर्गुणः प्रकृतेः परः ।। 2.60.३० ।।
स एवात्मा सर्वसेव्यः सर्वेषां च फलप्रदः ।।
स वै सृजति दैवं च स्वभावं कर्म चैव हि ।। ३३ ।।
कर्मणा च नृणां लज्जा प्रशंसा च प्रफुल्लता ।।
लज्जाबीजं च वृत्तान्तं तथाऽपि कथयामि ते ।। ३२ ।।
इत्युक्त्वा सर्ववृत्तान्तमवोचत्तं बृहस्पतिः ।।
श्रुत्वा बभूव नम्रास्यो गौरीशो लज्जया तदा ।।३३।।
जपमाला कराद्भ्रष्टा कोपाविष्टस्य शूलिनः ।।
बभूव सद्यःकम्पश्च रक्तपंकजलोचने।।३४।।
संहर्त्तुरीशो रुद्रस्य विष्णोः पातुः सखा शिवः ।।
स्रष्टुः स्तुत्यश्च मान्यश्च स्वात्मनः परमात्मनः ।। ३५ ।।
निर्गुणस्य च कृष्णस्य प्रकृतीशस्य नारद ।।
कोपात्प्रवक्तुमारेभे शुष्ककण्ठौष्ठतालुकः ।। ३६ ।।
शिव उवाच ।।
शिवमस्तु च साधूनां वैष्णवानां सतामिह ।।
अवैष्णवानामसतामशिवं च पदे पदे ।। ३७ ।।
ददाति वैष्णवेभ्यश्च यो दुःखं सुस्थितो जनः ।।
श्रीकृष्णस्तस्य संहर्त्ता विघ्नस्तस्य पदे पदे ।। ३८ ।।
अवैष्णवानां हृदयं नहि शुद्धं सदामलम् ।।
श्रीकृष्णमन्त्रस्मरणं मनोनैर्मल्यकारणम् ।। ३९ ।।
भिद्यते हदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।।
विष्णुमन्त्रोपासनया क्षीयते कर्म तन्नृणाम् ।। 2.60.४० ।।
अहो श्रीकृष्णदासानां कः स्वभावः सुनिर्मलः ।।
हृतभार्य्यं मूर्च्छितश्च न शशाप रिपुं गुरुः ।। ४१ ।।
गुरुर्यस्य वरिष्ठश्च क्रोधहीनश्च धार्मिकः ।।
शतपुत्रघ्नमप्येनं न शशाप रिपुं मुनिः ।। ४२ ।।
निश्श्वासाद्वै सुरगुरोर्भ्रातुर्मम बृहस्पतेः ।।
भस्मीभूतो निमेषेण शतचन्द्रो भवेद्ध्रुवम् ।। ।। ४३ ।।
तथाऽपि तं नो शशाप धर्म्मभङ्गभयेन च ।।
तपस्या हीयते शप्तुः कोपाविष्टस्य नित्यशः ।। ४४ ।।
अहो ह्यत्रेरसत्पुत्रः परस्त्रीलुब्धकः शठः ।।
तपस्विनो वैष्णवस्य ब्रह्मपुत्रस्य धीमतः ।। ४५ ।।
धर्मिष्ठा ब्रह्मणः पुत्रा वैष्णवा ब्राह्मणास्तथा ।।
केचिद्देवा द्विजा दैत्याः पौत्राश्च त्रिविधा मताः ।। ४६ ।।
ये सात्त्विका ब्राह्मणास्ते देवा राजसिकास्तथा ।।
दैत्यास्तामसिका रौद्रा बलिष्ठाश्चोद्धताः सदा ।। ४७ ।।
स्वधर्मनिरता विप्रा नारायणपरायणाः ।।
शैवाः शाक्ताश्च ते देवा दैत्याः पूजाविवर्जिताः ।। ४८ ।।
मुमुक्षवो विष्णुभक्ता ब्राह्मणा दास्यलिप्सवः ।।
ऐश्वर्य्यलिप्सवो देवाश्चासुरास्तामसास्तथा ।। ४९ ।।
ब्राह्मणानां स्वधर्मश्च कृष्णस्यार्च्चनमीप्सितम् ।।
निष्कामानां निर्गुणस्य परस्य प्रकृतेरपि ।। 2.60.५० ।।
ये ब्राह्मणा वैष्णवाश्च स्वतन्त्राः परमं पदम् ।।
यान्त्यन्योपासकाश्चान्यैः सार्द्धं च प्राकृते लये ।। ५१ ।।
वर्णानां ब्राह्मणाः श्रेष्ठाः साधवो वैष्णवा यदि ।।
विष्णुमन्त्रविहीनेभ्यो द्विजेभ्यः श्वपचो वरः ।। ५२ ।।
परिपक्वा विपक्वा वा वैष्णवाः साधवश्च ते ।।
सततं पाति तांश्चैव विष्णुचक्रं सुदर्शनम् ।। ५३ ।।
यथा वह्नौ शुष्कतृणं भस्मीभूतं भवेत्सदा।।
तथा पापं वैष्णवेषु काष्ठानीव हुताशने ।। ५४ ।।
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रवेक्ष्यति ।।
तं वैष्णवं महापूतं प्रवदन्ति मनीषिणः ।। ५५ ।।
पुंसां शतं पितॄणां च शतं मातामहस्य च ।।
स्वसोदरांश्च जननीमुद्धरन्त्येव वैष्णवाः ।। ५६ ।।
गयायां पिण्डदानेन पिण्डदाः पिण्डभोजिनम् ।।
समुद्धरन्ति पुंसां च वैष्णवाश्च शतं शतम् ।।९७।।
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ।।
यमस्तस्मान्महाभीतो वैनतेयादिवोरगः ।। ५८ ।।
पुनन्त्येव हि तीर्थानि गङ्गादीनि च भारते ।।
कृष्णमन्त्रोपासकाश्च स्पर्शमात्रेण वाक्पते ।। ५९ ।।
पापानि पापिनां तीर्थे यावन्ति प्रभवन्ति च ।।
नश्यन्ति तानि सर्वाणि वैष्णवस्पर्शमात्रतः ।। 2.60.६० ।।
कृष्णमन्त्रोपासकानां रजसा पादपद्मयोः ।।
सद्यो मुक्ताः पातकेभ्यः कृत्स्ना पूता वसुन्धरा ।। ६१ ।।
वायुश्च पवनो वह्निः सूर्य्यः सर्वं पुनाति च ।।
एते पूता वैष्णवानां स्पर्शमात्रेण लीलया ।। ६२ ।।
अहं ब्रह्मा च शेषश्च धर्मः साक्षी च कर्म्मणाम् ।।
एते हृष्टाश्च वाञ्छन्ति वैष्णवानां समागमम् ।। ६३ ।।
फलं कर्मानुरूपेण सर्वेषां भारते भवेत् ।।
न भवेत्तद्वैष्णवे च सिद्धधान्ये यथांऽकुरम् ।। ६४ ।।
हन्ति तेषां कर्म पूर्वं भक्तानां भक्तवत्सलः ।।
कृपया स्वपदं तेभ्यो ददात्येव कृपानिधिः ।। ६५ ।।
तेजस्विनां च प्रवरं वैष्णवं भृगुनन्दनम् ।।
स चन्द्रो दुर्बलो भीतः शुक्रं च शरणं ययौ ।। ६६ ।।
सुदर्शनो बलिष्ठं च शुक्रं जेतुं न शक्तिमान् ।।
तथाऽपि चोद्धरिष्यामि तारां मन्त्रेण मद्गुरोः ।। ६७ ।।
भज सत्यं परं ब्रह्म कृष्णमात्मानमीश्वरम् ।।
सुप्रसन्ने भगवति पत्नीं प्राप्स्यसि लीलया ।। ६८ ।।
मन्त्रं तस्य प्रदास्यामि भ्रातः कल्पतरुं परम् ।।
कोटिजन्माघनिघ्नं च सर्वमंगलकारणम् ।।६९।।
ब्रह्मादिस्तंबपर्य्यन्तं नश्वरं जलबिम्बवत् ।।
शरणं याहि गोविन्दं परमात्मानमीश्वरम् ।।
तावद्भवेच्छा भोगेच्छा स्त्रीसुखेच्छा नृणामिह ।। 2.60.७० ।।
यावद्गुरुमुखाम्भोजान्न प्राप्नोति मनुं हरेः ।।
संप्राप्य दुर्लभं मन्त्रं वितृष्णो हि भवेन्नरः ।। ७१ ।।
इन्द्रत्वममरत्वं च नहि वाञ्छन्ति वैष्णवाः ।।
नहि वाञ्छन्ति मोक्षं च दास्यं भक्तिं विना हरेः ।। ७२ ।।
भक्ति निर्मथनं भक्तो मोक्षं नो वाञ्छति प्रभोः ।।
ज्ञानं मृत्युञ्जयत्वं च सर्वसिद्धिं तदीप्सितम् ।। ७३ ।।
वाक्सिद्धिं चैव धातृत्वं भक्तानां नहि वाञ्छितम् ।।
भक्तिं विहाय कृष्णस्य विषयं यो हि वाञ्छति ।।।७४।।।
विषमत्ति सुधां त्यक्त्वा वञ्चितो विष्णुमायया ।।
अहं ब्रह्मा च विष्णुश्च धर्मोऽनन्तश्च कश्यपः ।।७५।।
कपिलश्च कुमारश्च नरनारायणावृषी ।।
स्वायम्भुवो मनुश्चैव प्रह्लादश्च पराशरः ।। ।। ७६ ।।
भृगुः शुक्रश्च दुर्वासा वसिष्ठः क्रतुरंगिराः ।।
बलिश्च वालखिल्याश्च वरुणश्च हुताशनः ।। ७७ ।।
वायुः सूर्यश्च गरुडो दक्षो गणपतिः स्वयम् ।।
एते परा भक्तवराः कृष्णस्य परमात्मनः ।।७८।।
ये च तस्य कलाः श्रेष्ठास्ते तद्भक्तिपरायणाः ।।
इत्युक्त्वा शङ्करस्तस्मै ददौ कल्पतरुं मनुम् ।।७९।।
लक्ष्मीमायाकामबीजं ङेन्तं कृष्णपदं मुने ।।
परं पूजाविधानं च स्तोत्रं च कवचं मुने ।। ।। 2.60.८० ।।
तत्पुरश्चरणं ध्यानं शुद्धे मन्दाकिनीतटे ।।
गुरुः संप्राप्य तं मन्त्रं शङ्कराच्च जगद्गुरोः ।। ८१ ।।
विषण्णो हि भवाब्धौ च बभूव तमुवाच ह ।। ८२ ।।
बृहस्पतिरुवाच ।।
आज्ञां कुरु जगन्नाथ यामि तप्तुं हरेस्तपः ।।
तारा तिष्ठतु तत्रैव न तया मे प्रयोजनम् ।।८३।।
पश्यामि विषतुल्यं च सर्वं नश्वरमीश्वर ।।
श्रीकृष्णं शरणं यामि सत्यं नित्यं च निर्गुणम्।।८४।।
श्रीमहादेव उवाच ।।
परग्रस्तां स्त्रियं त्यक्त्वा न प्रशंस्यं तपो मुने ।।
सम्भावितस्य दुश्चर्च्चा मरणादतिरिच्यते ।। ८५ ।।
पुरो गच्छ महाभाग तमेतं नर्मदातटम् ।।
यत्र ब्रह्मादयो देवास्तत्राहं यामि सत्वरम् ।।८६।।
शिवस्य वचनं श्रुत्वा ययौ सुरगुरुः स्वयम् ।।
आययौ च महाभागः शङ्करो नर्मदातटम् ।। ८७ ।।
सगणं शङ्करं दृष्ट्वा प्रसन्नवदनेक्षणम् ।।
प्रणेमुर्देवताः सर्वा मनवो मुनयस्तथा ।। ८८ ।।
ननाम शम्भुः शिरसा विष्णुं च कमलोद्भवम् ।।
ददौ विष्णुर्महेशाय प्रेम्णाऽऽलिङ्गनमासनम् ।। ८९ ।।
एतस्मिन्नन्तरे तत्र चागमच्च बृहस्पतिः ।।
प्रणनाम महादेवं विष्णुं च कमलोद्भवम् ।। 2.60.९० ।।
सूर्य्यं धर्ममनन्तं च नरं मां च मुनीश्वरान् ।।
स्वगुरुं पितरं भक्त्या चावसत्तत्र संसदि ।। ९१ ।।
सञ्चिन्त्य मनसा युक्तिमूचे तत्र च संसदि ।।
स्वयं विष्णुश्च भगवान्ब्रह्माणं चन्द्रशेखरम् ।।९२।।
विष्णुरुवाच।।
युवां च मुनयश्चैव समुद्रपुलिनं द्रुतम्।।
शुक्रं कञ्चिच्च मध्यस्थं प्रस्थापयितुमर्हथ ।।९३।।
विग्रहेणैव विषमं भविष्यति न संशयः ।।
मदाशिषा सुरगुरुस्तारां प्राप्स्यति निश्चितम् ।। ९४ ।।
सुरैः स्तुतश्च सन्तुष्टः शुक्राचार्य्यो भविष्यति ।।
सुरैः शुक्रो हि न जितः कृष्णचक्रेण रक्षितः ।। ९५ ।।
युवाभ्यां प्रार्थ्यमानोऽहं युवयोः स्तवनेन च ।।
श्वेतद्वीपादागतोऽस्मि परितुष्टः स्तवेन च ।। ९६ ।।
शुक्राश्रममसीपर्णं सर्वा गच्छन्तु देवताः ।।
रिपुर्बलिष्ठः स्तोत्रेण वशीभूत इति श्रुतिः ।। ९७ ।।
इत्युक्त्वा जगतां नाथस्तत्रैवान्तर धीयत ।।
स्तुतो ब्रह्मादिभिदेवैः प्रणतैः परिपूजितः ।।९८।।
गते च जगतां नाथे श्वेतद्वीपं च नारद ।।
चिन्तिताश्च सुराः सर्वे विषण्णमनसस्तथा ।। ९९ ।।
मुनीन्देवांश्च संबोध्य ब्रह्मा वै तत्र संसदि ।।
उवाच नीतिसारं तत्सम्मतं शङ्करस्य सः ।। 2.60.१०० ।।
ब्रह्मोवाच ।।
मम शम्भोश्च धर्मस्य विष्णोर्वा सर्वसाक्षिणः ।।
अस्माकं च समः स्नेहो दैत्ये देवे च पुत्रकाः ।। १०१ ।।
दैत्यानां च गुरुं शुक्रं प्रपन्नश्च निशाकरः ।।
न जितश्च सुरैः शुक्रः पूजितो दितिनन्दनैः ।। १०२ ।।
ताराहेतोरहं यामि शुक्रस्य भवनं सुराः ।।
सर्वे समुद्रपुलिनं यान्तु विष्णोर्निदेशतः ।।१०३।।
इत्युक्त्वा जगतां धाता चागमच्छुक्रसन्निधिम् ।।
प्रययुर्देवता विप्राः समुद्रपुलिनं मुने।। ।। १०४ ।।
इति श्रीब्रह्मवैवर्त्ते म०द्वि०प्र०नारदनारायणसंवादे श्रीकृष्णोपदिष्टतारोद्धरणोपायज्ञानं नाम षष्टितमोऽध्यायः ।। ६० ।।