प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६२ ब्रह्मवैवर्तपुराणम्
अध्यायः ६३
वेदव्यासः
अध्यायः ६४ →

नारद उवाच ।।
नारायण महाभाग वद वेदविदां वर ।।
राजा केन प्रकारेण सिषेवे प्रकृतिं पराम् ।। १ ।।
समाधिर्नाम वैश्यो वा निष्कामं निर्गुणं विभुम् ।।
भेजे केन प्रकारेण प्रकृतेरुपदेशतः ।। २ ।।
किं वा पूजाविधानं च ध्यानं वा मनुरेव च ।।
किं स्तोत्रं कवचं किं वा ददौ राज्ञे महामुनिः ।। ३ ।।
वैश्याय प्रकृतिस्तस्मै किं वा ज्ञानं ददौ परम् ।।
साक्षाद्बभूव सहसा केन वा प्रकृतिस्तयोः ।। ४ ।।
ज्ञानं संप्राप्य वैश्यश्च किं पदं प्राप दुर्लभम् ।।
गतिर्बभूव राज्ञश्च का वा तां च शृणोम्यहम् ।। ५ ।।
श्रीनारायण उवाच ।।
राजा वैश्यश्च संप्राप्य मन्त्रं वै मेधसो मुनेः ।।
स्तोत्रं च कवचं देव्या ध्यानं चैव पुरस्क्रियाम् ।।
जजाप परमं मन्त्रं राजा वैश्यश्च पुष्करे ।। ६ ।।
स्नात्वा त्रिकालं वर्षं च ततः शुद्धो बभूव सः ।।
साक्षाद्बभूव तत्रैव मूलप्रकृतिरीश्वरी ।। ७ ।।
राज्ञे ददौ राज्यवरं मनुत्वं वाञ्छितं सुखम् ।।
ज्ञानं निगूढं वैश्याय ददौ चातिसुदुर्लभम् ।। ८ ।।
यद्दत्तं शूलिने पूर्वं कृष्णेन परमात्मना ।।
निराहारमतिक्लिष्टं दृष्ट्वा वैश्यं कृपामयी ।।९ ।।
रुरोद कृत्वा क्रोडे तमचेष्टं श्वासवर्जितम् ।।
चेतनां कुरु भो वत्सेत्युच्चार्य्य च पुनः पुनः ।।2.63.१०।।
चेतनां च ददौ तस्मै स्वयं चैतन्यरूपिणी ।।
संप्राप्य चेतनां वैश्यो रुरोद प्रकृतेः पुरः ।। ११ ।।
तमुवाच प्रसन्नाऽसौ कृपयाऽतिकृपामयी ।। १२ ।।
श्रीप्रकृतिरुवाच ।।
वरं वृणुष्व हे वत्स यत्ते मनसि वर्त्तते ।।
ब्रह्मत्वममरत्वं वा ततो वाऽतिसुदुर्लभम् ।। १३ ।।
इन्द्रत्वं वा मनुत्वं वा सर्वसिद्धत्वमेव च ।।
तुच्छं तुभ्यं न दास्यामि नश्वरं बालवञ्चनम् ।। १४।।
वैश्य उवाच ।।
ब्रह्मत्वममरत्वं वा मातर्मे नहि वाञ्छितम् ।।
ततोऽतिदुर्लभं किं वा न जाने तदभीप्सितम् ।। १५ ।।
त्वय्येव शरणापन्नो देहि यद्वाञ्छितं तव ।।
अनश्वरं सर्वसारं वरं मे दातुमर्हसि ।। १६ ।।
प्रकृतिरुवाच ।।
अदेयं नास्ति मे तुभ्यं दास्यामि मम वाञ्छितम् ।।
यतो यास्यसि गोलोकं पदमेव सुदुर्लभम् ।। १७ ।।
सर्वसारं च यज्ज्ञानं सुरर्षीणां सुदुर्लभम् ।।
तद्गृह्यतां महाभाग गच्छ वत्स हरेः पदम् ।। १८ ।।
स्मरणं वन्दनं ध्यानमर्चनं गुणकीर्त्तनम् ।।
श्रवणं भावनं सेवा कृष्णे सर्वनिवेदनम् ।।१९।।
एतदेवं वैष्णवानां नवधा भक्तिलक्षणम् ।।
जन्ममृत्युजराव्याधियमताडनखण्डनम् ।।2.63.२०।।
आयुर्हरति लोकानां रविरेव हि सन्ततम् ।।
नवधा भक्तिहीनानामसतां पापिनामपि ।। २१ ।।
भक्तास्तद्गतचित्ताश्च वैष्णवाश्चिरजीविनः ।।
जीवन्मुक्ताश्च निष्पापा जन्मादिपरिवर्जिताः ।। २२ ।।
शिवः शेषश्च धर्मश्च ब्रह्मा विष्णुर्महान्विराट् ।।
सनत्कुमारः कपिलः सनकश्च सनन्दनः ।। २३ ।।
वोढुः पञ्चशिखो दक्षो नारदश्च सनातनः ।।
भृगुर्मरीचिर्दुर्वासाः कश्यपः पुलहोऽङ्गिराः ।। २४ ।।
मेधावी लोमशः शुक्रो वसिष्ठः क्रतुरेव च ।।
बृहस्पतिः कर्दमश्च शक्तिरत्रिः पराशरः ।। २५ ।।
मार्कण्डेयो बलिश्चैव प्रह्लादश्च गणेश्वरः ।।
यमः सूर्य्यश्च वरुणो वायुश्चन्द्रो हुताशनः ।। २६ ।।
अकूपार उलूकश्च नाडीजंघश्च वायुजः ।।
नरनारायणौ कूर्म्म इन्द्रद्युम्नो विभीषणः ।। २७ ।।
नवधा भक्तियुक्ताश्च कृष्णस्य परमात्मनः ।।
एते महान्तो धर्मिष्ठा भक्तानां प्रवरास्तथा ।। २८ ।।
ये तद्भक्तास्ते तदंशा जीवन्मुक्ताश्च सन्ततम् ।।
पापापहारास्तीर्थानां पृथिव्याश्च विशां पते ।। २९ ।।
ऊर्ध्वं च सप्त स्वर्गाश्च सप्तद्वीपा वसुन्धरा ।।
अधस्सप्त च पाताला एतद्ब्रह्माण्डमेव च ।। 2.63.३० ।।
एवंविधानां विश्वानां संख्या नास्त्येव पुत्रक ।।
एवं च प्रतिविश्वेषु ब्रह्मविष्णुशिवादयः।।३१।।
देवा देवर्षयश्चैव मनवो मानवादयः ।।
सर्वाश्रमाश्च सर्वत्र सन्ति बद्धाश्च मायया ।। ३२ ।।
महाविष्णोर्लोमकूपे सन्ति विश्वानि यस्य च ।।
स षोडशांशः कृष्णस्य चात्मनश्च महाविराट् ।। ।। ३३ ।।
भज सत्यं परं ब्रह्म नित्यं निर्गुणमच्युतम् ।।
प्रकृतेः परमीशानं कृष्णमात्मानमीप्सितम् ।। ३४ ।।
निरीहं च निराकारं निर्विकारं निरञ्जनम् ।।
निष्कामं निर्विरोधं च नित्यानन्दं सनातनम् ।। ३९ ।।
स्वेच्छामयं सर्वरूपं भक्तानुग्रहविग्रहम् ।।
तेजस्स्वरूपं परमं दातारं सर्वसम्पदाम् ।। ३६ ।।
ध्यानासाध्यं दुराराध्यं शिवादीनां च योगिनाम् ।।
सर्वेश्वरं सर्वपूज्यं सर्वेषां सर्वकामदम् ।। ३७ ।।
सर्वाधारं च सर्वज्ञं सर्वानन्दकरं परम् ।।
सर्वधर्मप्रदं सर्वं सर्वज्ञं प्राणरूपिणम् ।। ३८ ।।
सर्वधर्मस्वरूपं च सर्वकारणकारणम् ।।
सुखदं मोक्षदं सारं पररूपं च भक्तिदम् ।। ३९ ।।
दास्यदं धर्मदं चैव सर्वसिद्धिप्रदं सताम् ।।
सर्वं तदतिरिक्तं च नश्वरं कृत्रिमं सदा ।। 2.63.४० ।।
परात्परतरं शुद्धं परिपूर्णतमं शिवम् ।।
यथासुखं गच्छ वत्स भगवन्तमधोक्षजम् ।। ४१ ।।
कृष्णेति द्व्यक्षरं मन्त्रं गृहीत्वा कृष्णदास्यदम् ।।
पुष्करं दुष्करं गत्वा दशलक्षमिमं जप ।। ४२ ।।
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेत्तव ।।
इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत ।।४३।।
वैश्यो नत्वा च तां भक्त्या चागमत्पुष्करं मुने ।।
पुष्करे दुष्करं तप्त्वा स लेभे कृष्णमीश्वरम् ।।
भगवत्याः प्रसादेन कृष्णदासो बभूव सः ।। ४४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसं वादे दुर्गोपाख्याने सुरथसमाधिमेधस्संवादे प्रकृतिवैश्यसंवादकथनं नाम त्रिषष्टितमोऽध्यायः ।। ६३ ।।