प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६४ ब्रह्मवैवर्तपुराणम्
अध्यायः ६५
वेदव्यासः
अध्यायः ६६ →

नारद उवाच ।।
श्रुतं सर्वं महाभाग सुधारसपरं वरम् ।।
स्तोत्रं च कवचं पूजाफलं कालं वद प्रभो ।।१।।
नारायण उवाच ।।
आर्द्रायां बोधयेद्देवीं मूलेनैव प्रवेशयेत् ।।
उत्तरेणार्च्चयित्वा तां श्रवणायां विसर्जयेत् ।।२।।
आर्द्रायुक्तनवम्यां तु कृत्वा देव्याश्च बोधनम् ।।
पूजायाः शतवार्षिक्याः फलमाप्नोति मानवः ।। ३ ।।
मूलायां तु प्रवेशे च नरमेधफलं लभेत् ।। ४ ।।
कृत्वा विसर्जनं देव्याः श्रवणायां च मानवः।।
लक्ष्मीं च पुत्रपौत्रांश्च लभते नात्र संशयः।।५।।
भुवः प्रदक्षिणं पुण्यं पूजायां लभते नरः ।।
नक्षत्रयोगाभावे तु पार्वत्याश्चैव नारद ।।६।।
नवम्यां बोधनं कृत्वा पक्षं संपूज्य मानवः।।
अश्वमेधफलावाप्त्यै दशम्यां च विसर्जयेत् ।।७।।
सप्तम्यां पूजनं कृत्वा बलिं दद्याद्विचक्षणः ।।
अष्टम्यां पूजनं शस्तं बलिदानविवर्जितम् ।।८।।
अष्टम्यां बलिदानेन विपत्तिर्जायते नृणाम् ।।
दद्याद्विचक्षणो भक्त्या नवम्यां विधिवद्बलिम्।।९।।
बलिदानेन विप्रेन्द्र दुर्गाप्रीतिर्भवेन्नृणाम्।।
हिंसाजन्यं न पापं च लभते यज्ञकर्मणि।।2.65.१०।।
उत्सर्गकर्त्ता दाता च च्छेत्ता पोष्टा च रक्षकः ।।
अग्रे पश्चान्निबद्धा च सप्तैतेऽवधकारिणः ।। ११ ।।
यो यं हन्ति स तं हन्ति नेति वेदोक्तमेव च ।।
कुर्वन्ति वैष्णवीं पूजां वैष्णवास्तेन हेतुना ।। १२ ।।
एवं संपूज्य सुरथः पूर्णं वर्षं च भक्तितः ।।
कवचं च गले बद्ध्वा तुष्टाव परमेश्वरीम् ।। १३ ।।
स्तोत्रेण परितुष्टा सा तस्य साक्षाद्बभूव ह ।।
स ददर्श पुरो देवीं ग्रीष्मसूर्य्यसमप्रभाम् ।। १४ ।।
तेजस्वरूपां परमां सगुणां निर्गुणां वराम् ।।
दृष्ट्वा तां कमनीयां च तेजोमण्डलमध्यतः ।। १५ ।।
स्वेच्छामयीं कृपारूपां भक्तानुग्रहकारिणीम् ।।
पुनस्तुष्टाव राजेन्द्रो भक्तिनम्रात्मकन्धरः ।। १६ ।।
स्तवेन परितुष्टा सा सस्मिता भक्तिपूर्वकम् ।।
उवाच सत्यं राजेन्द्रं कृपया जगदम्बिका ।। १७ ।।
प्रकृतिरुवाच ।।
साक्षात्संप्राप्य मां राजन्वृणोषि विभवं वरम् ।।
ददामि तुभ्यं विभवं साम्प्रतं वाञ्छितं तव।।१८।।
निर्जित्य सर्वाञ्छत्रूंश्च लब्ध्वा राज्यमकण्टकम् ।।
भविष्यसि महाराज सावर्णिर्मनुरष्टमः।।१९।।
दास्यामि तुभ्यं ज्ञानं च परिणामे नराधिप ।।
भक्तिं दास्यं च परमे श्रीकृष्णे परमात्मनि ।। 2.65.२० ।।
वृणोति विभवं यो हि साक्षान्मां प्राप्य मन्दधीः ।।
मायया वञ्चितः सोऽपि विषमत्त्यमृतं त्यजेत् ।। २१ ।।
ब्रह्मादिस्तम्बपर्यन्तं सर्वं नश्वरमेव च ।।
नित्यं सत्यं परं ब्रह्म कृष्णं निर्गुणमेव च ।। २२ ।।
ब्रह्मविष्णुशिवादीनामहमाद्या परात्परा ।।
सगुणा निर्गुणा चापि वरा स्वेच्छामयी सदा ।।२३।।
नित्या ऽनित्या सर्वरूपा सर्वकारणकारणम् ।।
बीजरूपा च सर्वेषां मूलप्रकृतिरीश्वरी ।। २४ ।।
पुण्ये वृन्दावने रम्ये गोलोके रासमण्डले।।
राधा प्राणाधिकाऽहं च कृष्णस्य परमात्मनः ।। २५ ।।
अहं दुर्गा विष्णुमाया बुद्ध्यधिष्ठातृदेवता ।।
अहं लक्ष्मीश्च वैकुण्ठे स्वयं देवी सरस्वती ।। २५ ।।
सावित्री वेदमाताऽहं ब्रह्माणी ब्रह्मलोकतः ।।
अहं गङ्गा च तुलसी सर्वाधारा वसुन्धरा ।। २७ ।।
नानाविधाऽहं कलया मायया सर्वयोषितः ।।
साऽहं कृष्णेन संसृष्टा नृप भ्रूभंगलीलया ।।२८।।
भ्रूभंगलीलया सृष्टो येन पुंसा महान्विराट्।।
लोम्नां कूपेषु विश्वानि यस्य सन्ति हि नित्यशः ।। २९ ।।
असंख्यानि च तान्येव कृत्रिमाणि च मायया ।।
अनित्ये नित्यबुद्धिं च सर्वे कुर्वन्ति सन्ततम् ।। 2.65.३० ।।
सप्तसागरसंयुक्ता सप्तद्वीपा वसुन्धरा ।।
तदधः सप्त पातालाः स्वर्लोकाश्चैव सप्त च ।। ३१ ।।
एवं विश्वं बहुविधं ब्रह्माण्डं ब्रह्मणा कृतम् ।।
प्रत्येकं सर्वविध्यण्डे ब्रह्मविष्णुशिवादयः ।।३२।।
सर्वेषामीश्वरः कृष्ण इति ज्ञानं परात्परम् ।।
वेदानां च व्रतानां च तीर्थानां तपसां तथा ।।३३।।
देवानां चैव सर्वेषां सारः कृष्ण इति स्मृतः ।।
तद्भक्तिहीनो यो मूढः स च जीवन्मृतो धुवम् ।। ३४ ।।
पवित्राणि च तीर्थानि तद्भक्तस्पर्शवायुना ।।
तन्मन्त्रोपासकश्चैव जीवन्मुक्त इति स्मृतः ।। ३९ ।।
मन्त्रग्रहणमात्रेण नरो नारायणो भवेत् ।।
विना जपेन तपसा विना तीर्थेन पूजया ।। ३६ ।।
मातामहानां शतकं पितॄणां च सहस्रकम् ।।
पुंसामेवं समुद्धृत्य गोलोकं च स गच्छति ।। ३७ ।।
इदं ज्ञानं सारभूतं कथितं ते नराधिप ।।
मन्वन्तरान्ते भोगान्ते भक्तिं दास्यामि ते हरौ ।। ३८ ।।
नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ।।
अवश्यमेव भोक्तव्यं कृतं कर्म्म शुभाशुभम् ।। ।। ३९ ।।
अहं यमनुगृह्णामि तस्मै दास्यामि निर्मलाम् ।।
निश्चलां सुदृढां भक्तिं श्रीकृष्णे परमात्मनि ।। 2.65.४० ।।
करोमि वञ्चनां यं यं तेभ्यो दास्यामि सम्पदम् ।।
प्रातः स्वप्नस्वरूपां च मिथ्येति भ्रमरूपिणीम् ।। ४१ ।।
इति ते कथितं ज्ञानं गच्छ वत्स यथासुखम्।।
इत्युक्त्वा च महादेवी तत्रैवान्तरधीयत।।४२।।
राजा संप्राप्य राज्यं च नत्वा तां प्रययौ गृहम् ।।
इति ते कथितं वत्स दुर्गोपाख्यानमुत्तमम् ।। ४३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने प्रकृतिसुरथसंवादे ज्ञानकथनं नाम पञ्चषष्टितमोऽध्यायः ।। ६५ ।।