ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ०४

← अध्यायः ०३ ब्रह्मवैवर्तपुराणम्
अध्यायः ०४
वेदव्यासः
अध्यायः ०५ →

नारायण उवाच ।।
श्रुत्वा व्रतविधानं च दुर्गा संहृष्टमानसा ।।
सर्वं व्रतविधानं च संप्रष्टुमुपचक्रमे ।। १ ।।
पार्वत्युवाच ।।
सर्वं व्रतविधानं मां वद वेदविदां वर ।।
हे नाथ करुणासिन्धो दीनबन्धो परात्पर ।। २ ।।
कानि व्रतोपयुक्तानि द्रव्याणि च फलानि च ।।
सनियमं सभक्ष्यं च विधानं तत्फलं प्रभो।।३।।
देहि मह्यं विनीतायै नियुक्तं सत्पुरोहितम्।।
पुष्पोपहारान्विप्रांश्च द्रव्याहरणकिंकरान् ।। ४ ।।
अन्यानि चोपयुक्तानि मयाऽज्ञातानि यानि च ।।
सन्नियोजय तत्सर्वं स्त्रीणां स्वामी च सर्वदः ।। ९ ।।
पिता कौमारकाले च सदा पालनकारकः ।।
भर्त्ता मध्ये सुतः शेषे त्रिधाऽवस्था सुयोषिताम् ।।६ ।। .
तातोऽशोकः प्राणतुल्यां दत्त्वा सत्त्वामिने सुताम् ।।
स्वामी निर्वृतिमाप्नोति संन्यस्य स्वसुते प्रियाम् ।। ७ ।।
बन्धुत्रययुता या स्त्री सा च भाग्यवती परा ।।
किञ्चिद्विहीना मध्या च सर्वहीनाऽधमा भुवि।।।।
एतेषां च समीपस्था प्रशंस्या सा जगत्त्रये।।
निन्दिताऽन्येषु संन्यस्ता सर्वमेतच्छ्रुतौ श्रुतम्।।९।।
सर्वात्मा भगवांस्त्वं च सर्वसाक्षी च सर्ववित्।।
देहि मह्यं पुत्रवरं स्वात्मनिर्वृतिहेतुकम्।।१०।।'
स्वात्मबोधानुमानेन महात्मनि निवेदितम्।।
सर्वान्तराभिप्रायज्ञं बोधज्ञं बोधयामि किम्।।११।।
इत्युक्त्वा पार्वती प्रीत्या पपात स्वामिनः पदे ।।
कृपासिन्धुश्च भगवान्प्रवक्तुमुपचक्रमे।।१२।।
श्रीमहादेव उवाच ।।
शृणु देवि प्रवक्ष्यामि विधानं नियमं फलम् ।।
फलानि चैव द्रव्याणि व्रतयोग्यानि यानि च ।। १३ ।।
विप्राणां शतकं शुद्धं फलपुष्पोपहारकम् ।।
किंकराणां च शतकं द्रव्याहरणकारकम्।।१४।।
दासीनां शतकं लक्षं नियुक्तं च पुरोहितम् ।।
सर्वव्रतविधानज्ञं वेदवेदान्तपारगम् ।। १५ ।।
प्रवरं हरिभक्तानां सर्वज्ञं ज्ञानिनां वरम्।।
सनत्कुमारं मत्तुल्यं गृहाण व्रतहेतवे।।१६।।
देवि शुद्धे च काले च परं नियमपूर्वकम्।।
माघशुक्लत्रयोदश्यां व्रतारम्भः शुभः प्रिये।।१७।।
गात्रं सुनिर्मलं कृत्वा शिरस्संस्कारपूर्वकम् ।।
उपोष्य पूर्वदिवसे वस्त्रं संशोध्य यत्नतः ।। १८ ।।
अरुणोदयवेलायां तल्पादुत्थाय सुव्रती ।।
मुखप्रक्षालनं कृत्वा स्नात्वा वै निर्मले जले।।१९।।
आचम्य यत्नपूतो हि हरिस्मरणपूर्वकम् ।।
दत्त्वाऽर्घ्यं हरये भक्त्या गृहमागत्य सत्वरम्।।२०।।
धौते च वाससी धृत्वा ह्युपविश्यासने शुचौ।।
आचम्य तिलकं धृत्वा समाप्य स्वाह्निकं पुनः ।।२१।।
घटं संस्थाप्य विधिवत्स्वस्तिवाचनपूर्वकम् ।।
पुरोहितस्य वरणं पुरः कृत्वा प्रयत्नतः ।।२२।।
सङ्कल्पं वेदविहितं व्रतमेतत्समाचरेत् ।।
व्रते द्रव्याणि नित्यानि चोपचारास्तु षोडश।।२३।।
देयानि नित्यं देवेशि कृष्णाय परमात्मने ।।
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।।२४।।
स्नानीयं मधुपर्कं च वस्त्राण्याभरणानि च ।।
सुगन्धि पुष्पधूपं च दीपनैवेद्यचन्दनम् ।। २५ ।।
यज्ञसूत्रं च ताम्बूलं कर्पूरादिसुवासितम् ।।
द्रव्याण्येतानि पूजायाश्चाङ्गरूपाणि सुन्दरि ।।२६।।
देवि किञ्चिद्विहीनेन चाङ्गहानिः प्रजायते ।।
अंगहीनं च यत्कर्म्म चाङ्गहीनो यथा नरः ।।
अंगहीने च कार्य्ये च फलहानिः प्रजायते ।। २७ ।।
अष्टोत्तरशतं पुष्पं पारिजातस्य विष्णवे ।।
देयं प्रतिदिनं दुर्गे स्वात्मनो रूपहेतवे ।। २८ ।।
श्वेतचम्पकपुष्पाणां लक्षमक्षतमीप्सितम् ।।
प्रदेयं हरये भक्त्या वर्णसौन्दर्य्यहेतवे ।। २९ ।।
सहस्रपत्रपद्मानामक्षतं लक्षकं तथा ।।
भक्त्या देयं च हरये मुखसौन्दर्य्यहेतवे ।। ३० ।।
अमूल्यरत्नरचितं दर्पणानां सहस्रकम् ।।
देयं नारायणायैव नेत्रयोर्दीप्तिहेतवे ।। ३१ ।।
नीलोत्पलानां लक्षं च देयं कृष्णाय भक्तितः ।।
व्रताङ्गभूतं देवेशि चक्षुषो रूपहेतवे ।। ।। ३२ ।।
हिमालयोद्भवं लक्षं रुचिरं श्वेतचामरम् ।।
प्रदेयं केशवायैव केशसौन्दर्य्यहेतवे ।। ३३ ।।
अमूल्यरत्नरचितं पुटकानां सहस्रकम् ।।
प्रदेयं गोपिकेशाय नासासौन्दर्यहेतवे ।। ३४ ।।
बन्धूकपुष्पलक्षं च देयं राधेश्वराय च ।।
सौम्यौष्ठाधरयोश्चैव वर्णसौन्दर्यहेतवे ।। ३५ ।।
मुक्ताफलानां लक्षं च दन्तसौन्दर्यहेतवे ।।
देयं गोलोकनाथाय शैलजे भक्तिपूर्वकम् ।। ३६ ।।
रत्नगण्डूषलक्षं च गण्डसौन्दर्य्यहेतवे ।।
महेश्वराय दातव्यं व्रते शैलेन्द्रकन्यके ।। ३७ ।।
रत्नपाशकलक्षं च देयं ब्रह्मेश्वराय च ।।
ओष्ठाधः स्थलरूपाय व्रती प्राणेशि भक्तितः ।। ३८ ।।
कर्णभूषणलक्षं च रत्नसारविनिर्म्मितम् ।।
देयं सर्वेश्वरायैव कर्णसौन्दर्य्यहेतवे ।।३९।।
माध्वीककलशानां च लक्षं रत्नविनिर्म्मितम् ।।
देयं विश्वेश्वरायैव स्वरसौन्दर्य्यहेतवे ।।४०।।
सुधापूर्णं च कुम्भानां सहस्रं रत्ननिर्म्मितम् ।।
देयं कृष्णाय देवेशि वाक्यसौन्दर्य्यहेतवे ।। ४१ ।।
रत्नप्रदीपलक्षं च गोपवेषविधायिने ।।
देयं किशोरवेषाय दृष्टिसौन्दर्य्य हेतवे ।। ४२ ।।
धत्तूरकुसुमाकारं रत्नपात्रसहस्रकम् ।।
देयं गोरक्षकायैव बलसौन्दर्य्यहेतवे ।। ४३ ।।
सद्रत्नसाररचितं पद्मनालसहस्रकम् ।।
देयं चण्डकपालाय बाहुसौन्दर्य्यहेतवे ।। ४४ ।।
लक्षं च रक्तपद्मानां करसौन्दर्यहेतवे।।
देयं गोपांगनेशाय नारायणि हरिव्रते ।। ४५ ।।
अंगुलीयकलक्षं च रत्नसारविनिर्म्मितम् ।।
अंगुलीनां च रूपार्थं देयं देवेश्वराय च ।। ४६ ।।
मणीन्द्रसारलक्षं च श्वेतवर्णं मनोहरम् ।।
देयं मुनीन्द्रनाथाय नखसौन्दर्य्यहेतवे ।। ४७ ।।
सद्रत्नसारहाराणां लक्षं चातिमनोहरम् ।।
देयं मदनमोहाय वक्षःसौन्दर्य्यहेतवे ।। ४८ ।।
सुपक्वश्रीफलानां च लक्षं च सुमनोहरम् ।।
देयं सिद्धेन्द्रनाथाय स्तनसौन्दर्य्यहेतवे ।। ४९ ।।
सद्रत्नवर्तुलाकारपत्रलशं मनोहरम् ।।
देयं पद्मालयेशाय देहसौन्दर्य्यहेतवे ।। ५० ।।
सद्रत्नसाररचितं नाभीनां च सहस्रकम् ।।
प्रदेयं पद्मनाभाय नाभिसौन्दर्य्यहेतवे ।। ५१ ।।
सद्रत्नसाररचितं रथचक्रसहस्रकम् ।।
नितम्बसौन्दर्य्यार्थं च देयं वै चक्रपाणये ।। ५२ ।।
सुवर्णरम्भास्तम्भानां लक्षं च सुमनोहरम् ।।
प्रदेयं श्रीनिवासाय श्रोणिसौन्दर्य्यहेतवे ।। ५३ ।।
शतपत्रस्थलाब्जानां लक्षमम्लानमक्षतम् ।।
प्रदेयं पद्मनेत्राय पादसौन्दर्य्यहेतवे ।। ९४ ।।
सुवर्णरचितानां च खञ्जनानां सहस्रकम् ।।
गतिसौन्दर्य्यहेत्वर्थं देयं लक्ष्मीश्वराय च ।। ५५ ।।
राजहंससहस्रं च गजेन्द्राणां सहस्रकम् ।।
सुवर्णरचितं देयं हरये गतिहेतवे ।। ।। ५६ ।।
सुवर्णच्छत्रलक्षं च देयं नारायणाय च ।।
विचित्रं रत्नसारेण मूर्द्धसौन्दर्य्यहेतवे ।। ५७ ।।
मालतीनां च कुसुममक्षतं लक्षमीश्वरि ।।
देयं वृन्दावनेशाय हास्यसौन्दर्य्यहेतवे ।। ५८ ।।
अमूल्यरत्नलक्षं च देयं नारायणाय वै ।।
सुव्रते व्रतपूर्णार्थं शीलसौन्दर्य्यहेतवे ।। ५९ ।।
स्वच्छस्फटिकसङ्काशं मणीन्द्रश्रेष्ठलक्षकम् ।।
देयं मुनीन्द्रनाथाय मनस्सौन्दर्य्यहेतवे ।। ६० ।।
प्रवालसारसंकाशं मणिसारसहस्रकम् ।।
देयं कृष्णाय भक्त्या च प्रियारागविवृद्धये ।। ६१ ।।
माणिक्यसारलक्षं च देयं कृष्णाय यत्नतः ।।
जन्मनः कोटिपर्य्यन्तं स्वामिसौभाग्यहेतवे ।। ६२ ।।
कूष्माण्डं नारिकेलं च जम्बीरं श्रीफलं तथा ।।
फलान्येतानि देयानि हरये पुत्रहेतवे ।। ६३ ।।
रत्नेन्द्रसारलक्षं च देयं कृष्णाय यत्नतः ।।
असंख्यजन्मपर्य्यन्तं स्वामिनो धनवृद्धये ।। ६४ ।।
वाद्यं नानाप्रकारं च कांस्यतालादिकं परम् ।।
व्रते सम्पत्तिवृद्ध्यर्थ श्रीहरिं श्रावयेद्व्रती ।।६५।।
पायसं पिष्टकं सर्पिः शर्कराक्तं मनोहरम् ।।
प्रदेयं हरये भक्त्या स्वामिनो भोगवृद्धये ।। ६६ ।।
सुगन्धिपुष्पमालानां लक्षमक्षतमीप्सितम् ।।
प्रदेयं हरये भक्त्या हरिभक्तिविवृद्धये ।। ६७ ।।
नैवेद्यानि च देयानि स्वादूनि मधुराणि च ।।
श्रीकृष्णप्रीतिप्राप्त्यर्थं दुर्गे नानाविधानि च ।। ६८ ।।
नानाविधानि पुष्पाणि तुलसीसंयुतानि च ।।
श्रीकृष्णप्रीतये भक्त्या व्रते देयानि सुव्रते ।। ६९ ।।
ब्राह्मणानां सहस्रं च प्रत्यहं भोजयेद्व्रती ।।
स्वात्मनः सस्यवृद्ध्यर्थं व्रते जन्मनि जन्मनि ।। ७० ।।
पुष्पाञ्जलिशतं देयं नित्यं पूर्णं च पूजने ।।
प्रणामशतकं देवि कर्तव्यं भक्तिवृद्धये ।। ७१ ।।
षण्मासांश्च हविष्यान्नं मासान्पञ्च फलादिकम् ।।
हविः पक्षं जलं पक्षं व्रते भक्षेच्च सुव्रते ।। ७२ ।।
रत्नप्रदीपशतकं वह्निं दद्याद्दिवानिशम् ।।
रात्रौ कुशासनं कृत्वा नित्यं जागरणं व्रते ।। ७३ ।।
स्मरणं कीर्त्ततं केलिः प्रेक्षणं गुह्यभाषणम् ।।
संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरित्यपि ।। ७४ ।।
स्वप्नमैथुनकं त्याज्यं व्रतिना व्रतशुद्धये ।।
सम्पूर्णे च व्रते देवि प्रतिष्ठा तदनन्तरम् ।। ७५ ।।
त्रिशतं वै षष्ट्यधिकं रल्लकं वस्त्रसंयुतम् ।।
सभोज्यं सोपवीतं च सोपहारं ददात्वयम् ।। ७६ ।।
त्रिशतं वै षष्ट्यधिकसहस्रं विप्रभोजनम् ।।
त्रिशतं वै षष्ट्यधिकं सहस्रं तिलहोमकम् ।। ७७ ।।
त्रिशतं वै षष्ट्यधिकं सहस्रं स्वर्णमेव च ।।
देया व्रतसमाप्तौ च दक्षिणा विधिबोधिता ।। ७८ ।।
अन्यां समाप्तिदिवसे कथयिष्यामि दक्षिणाम् ।।
एतद्व्रतफलं देवि दृढा भक्तिर्हरौ भवेत् ।। ७९ ।।
हरितुल्यो भवेत्पुत्रो विख्यातो भुवनत्रये ।।
सौन्दर्यं स्वामिसौभाग्यमैश्वर्य्यं विपुलं धनम् ।। ८० ।।
सर्ववाञ्छितसिद्धीनां बीजं जन्मनि जन्मनि ।।
इत्येवं कथितं देवि व्रतं कुरु महेश्वरि ।। ८१ ।।
पुत्रस्ते भविता साध्वीत्युक्त्वा स विरराम ह ।। ८२ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे पुण्यक व्रतविधानं नाम चतुर्थोऽध्यायः ।। ४ ।।