प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०४ ब्रह्मवैवर्तपुराणम्
अध्यायः ०५
वेदव्यासः
अध्यायः ०६ →

नारायण उवाच ।।
श्रुत्वा व्रतविधाने च दुर्गा संहृष्टमानसा ।।
पुनः पप्रच्छ कान्तं सा दिव्यां व्रतकथां शुभाम् ।। १ ।।
श्रीपार्वत्युवाच ।।
किमद्भुतं व्रतं नाथ विधानफलमस्य च ।।
अधिकां तत्कथां ब्रूहि व्रतं केन प्रकाशितम् ।। २ ।।
अथ पुण्यकव्रतकथा ।।
श्रीमहादेव उवाच ।।
शतरूपा मनोः पत्नी पुत्रदुःखेन दुःखिता ।।
ब्रह्मणः स्थानमागत्य सा ब्रह्माणमुवाच ह ।। ३ ।।
शतरूपोवाच ।।
ब्रह्मन्केन प्रकारेण वन्ध्यायाश्च सुतो भवेत् ।।
तन्मे ब्रूहि जगद्धातः सृष्टिकारणकारण ।। ४ ।।
तज्जन्म निष्फलं ब्रह्मन्नैश्वर्य्यं धनमेव च ।।
किंचिन्न शोभते गेहे विना पुत्रेण पुत्रिणाम् ।।९।।
तपोदानोद्भवं पुण्यं जन्मांतरसुखावहम् ।।
सुखदो मोक्षः प्रीतिदाता पुत्रश्च पुत्रिणाम् ।। ६ ।।
पुत्री पुत्रमुखं दृष्ट्वा चाश्वमेधशतोद्भवम् ।।
फलं पुन्नामनरकत्राणहेतुं लभेद्ध्रुवम् ।। ७ ।।
पुत्रोत्पत्तेरुपायं वै वद मां तापसंयुताम् ।।
तदा भद्रं न चेद्भर्त्रा सह यास्यामि काननम् ।। ८ ।।
गृहाण राज्यमैश्वर्य्य धनं पृथ्वीं प्रजावहाम् ।।
किमेतेनावयोस्तात विना पुत्रैरपुत्रिणोः ।। ९ ।।
अपुत्रिणो मुखं द्रष्टुं विद्वान्नोत्सहते ऽशिवम् ।।
मुखं दर्शयितुं लज्जां समवाप्नोत्यपुत्रकः ।। १० ।।
अथवा गरलं भुक्त्वा प्रवेक्ष्यामि हुताशनम् ।।
अपुत्रपौत्रमशिवं गृहं स्यात्स्त्रीविहीनकम् ।। ११ ।।
इत्येवमुक्त्वा सा साक्षाद्ब्रह्मणोऽग्रे रुरोद ह ।।
कृपानिधिश्च तां दृष्ट्वा प्रवक्तुमुपचक्रमे ।।१२।।
ब्रह्मोवाच ।। शृणु वत्से प्रवक्ष्यामि पुत्रोपायं सुखावहम् ।।
सर्वैश्वर्य्यादिबीजं च सर्ववाञ्छाप्रदं शुभम् ।।१३।।
माघशुक्लत्रयोदश्यां व्रतमेतत्सुपुण्यकम् ।।
कर्तव्यं शुक्लकाले च कृष्णमाराध्य सर्वदम् ।। १४ ।।
संवत्सरं च कर्तव्यं सर्वविघ्नविनाशनम् ।।
द्रव्याणि वेदैरुक्तानि व्रते देयानि सुव्रते ।। १५ ।।
व्रतं च काण्वशाखोक्तं सर्ववाञ्छितसिद्धिदम् ।।
कृत्वा पुत्रं लभ शुभे विष्णुतुल्यपराक्रमम् ।। ।। १६ ।।
ब्रह्मणश्च वचः श्रुत्वा सा कृत्वा व्रतमुत्तमम् ।।
प्रियव्रतोत्तानपादौ लेभे पुत्रौ मनोहरौ ।। १७ ।।
व्रतं कृत्वा देवहूतिर्लेभे सिद्धेश्वरं सुतम् ।।
नारायणांशं कपिलं पुण्यकं पुण्यदं शुभम् ।। १८ ।।
अरुन्धतीदं कृत्वा तु लेभे शक्तिसुतं शुभा ।।
शक्तिकान्ता व्रतं कृत्वा सुतं लेभे पराशरम् ।। १९ ।।
अदितिश्च व्रतं कृत्वा लेभे वामनकं सुतम्।।
शची जयन्तं पुत्रं च लेभे कृत्वेदमीश्वरी ।।२०।।
उत्तानपादपत्नीदं कृत्वा लेभे ध्रुवं सुतम् ।।
कुबेरजाया कृत्वेदं लेभे च नलकूबरम् ।। २१ ।।
सूर्य्यपत्नी मनुं लेभे कृत्वेदं व्रतमुत्तमम् ।।
अत्रिपत्नी सुतं चन्द्रं लेभे कृत्वेदमुत्तमम् ।। २२ ।।
लेभे चांगिरसः पत्नी कृत्वेदं व्रतमुत्तमम् ।।
बृहस्पतिं सुरगुरुं पुत्रमस्य प्रभावतः ।। २३ ।।
भृगोर्भार्य्या व्रतं कृत्वा लेभे दैत्यगुरुं सुतम् ।।
शुक्रं नारायणांशं च सर्वतेजस्विनां वरम् ।।२४।।
इत्येवं कथितं देवि व्रतानां व्रतमुत्तमम् ।।
त्वमेवं कुरु कल्याणि हिमालयसुते शुभे।।२९।।
साध्यं राजेन्द्रपत्नीनां देवीनां च सुखावहम् ।।
व्रतमेतन्महासाध्वि साध्वीनां प्राणतः प्रियम् ।। २६ ।।
व्रतस्यास्य प्रभावेण स्वयं गोपाङ्गनेश्वरः ।।
ईश्वरः सर्वभूतानां तव पुत्रो भविष्यति ।। ।। २७ ।।
इत्युक्त्वा शंकरस्तत्र विरराम च नारद ।।
व्रतं चकार सा देवी प्रदृष्टा शङ्कराज्ञया ।। २८ ।।
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।।
सुखदं मोक्षदं सारं गणेशजनिकारणम् ।। २९ ।।
इति श्रीबह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे पुण्यकव्रतकथनं नाम पञ्चमोऽध्यायः ।। ५ ।।