प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०८ ब्रह्मवैवर्तपुराणम्
अध्यायः ०९
वेदव्यासः
अध्यायः १० →

नारायण उवाच ।।
हरौ तिरोहिते शर्वाणी दुर्गा शंकरस्तदा ।।
ब्राह्मणान्वेषणं कृत्वा बभ्राम परितो मुने ।। १ ।।
पार्वत्युवाच ।।
अये विप्रेन्द्रातिवृद्ध क्व गतोऽसि क्षुधाऽऽतुरः ।।
हे तात दर्शनं देहि प्राणान्वै रक्ष मे विभो ।। २ ।।
शिव शीघ्रं समुत्तिष्ठ ब्राह्मणान्वेषणं कुरु ।।
क्षणमुन्मनसोरेष गतः प्रत्यक्षमावयोः ।। ३ ।।
अगृहीत्वा गृहात्पूजां गृहिणोऽतिथिरीश्वर ।।
यदि याति क्षुधाऽऽर्त्तश्च तस्य किं जीवनं वृथा ।। ४ ।।
पितरस्तन्न गृह्णन्ति पिण्डदानं च तर्पणम् ।।
तस्याहुतिं न गृह्णाति वह्निः पुष्पं जलं सुराः ।। ५ ।।
हव्यं पुष्पं जलं द्रव्यमशुचेश्च सुरासमम् ।।
अमेध्यसदृशः पिण्डः स्पर्शनं पुण्यनाशनम् ।। ६ ।।
एतस्मिन्नन्तरे तत्र वाग् बभूवाशरीरिणी ।।
कैवल्ययुक्ता सा दुर्गा तां शुश्राव शुचाऽऽतुरा ।। ७ ।।
शान्ता भव जगन्मातस्स्वसुतं पश्य मन्दिरे ।।
कृष्णं गोलोकनाथं तं परिपूर्णतमं परम् ।।८।।
सुपुण्यकव्रततरोः फलरूपं सनातनम् ।।
यत्तेजो योगिनः शश्वद्ध्यायन्ति सन्ततं मुदा ।। ९ ।।
ध्यायन्ति वैष्णवा देवा ब्रह्मविष्णुशिवादयः ।।
यस्य पूज्यस्य सर्वाग्रे कल्पे कल्पे च पूजनम् ।। १० ।।
यस्य स्मरणमात्रेण सर्वविघ्नो विनश्यति ।।
पुण्यराशिस्वरूपं च स्वसुतं पश्य मन्दिरे ।। ११ ।।
कल्पे कल्पे ध्यायसि यं ज्योतीरूपं सनातनम् ।।
पश्य त्वं मुक्तिदं पुत्रं भक्तानुग्रहविग्रहम् ।।१२।।
तव वाञ्छापूर्णबीजं तपःकल्पतरोः फलम्।।
सुन्दरं स्वसुतं पश्य कोटिकन्दर्पनिन्दकम् ।।१३।।
नायं विप्रः क्षुधाऽऽर्त्तश्च विप्ररूपी जनार्दनः ।।
किं वा विलापं कुरुषे क्व वा वृद्धः क्व चातिथिः ।।
सरस्वती त्वेवमुक्त्वा विरराम च नारद ।। १४ ।।
त्रस्ता श्रुत्वाऽऽकाशवाणीं जगाम स्वालयं सती ।।
ददर्श बालं पर्य्यङ्के शयानं सस्मितं मुदा।।१५।।
पश्यन्तं गेहशिखरं शतचन्द्रसमप्रभम् ।।
स्वप्रभापटलेनैव द्योतयन्तं महीतलम् ।। १६ ।।
कुर्वन्तं भ्रमणं तल्पे पश्यन्तं स्वेच्छया मुदा ।।
उमेति शब्दं कुर्वन्तं रुदन्तं तं स्तनार्थिनम् ।। १७ ।।
दृष्ट्वा तदद्भुतं रूपं त्रस्ता शंकरसन्निधिम् ।।
गत्वा सोवाच गिरिशं सर्वमङ्गलमङ्गला ।। १८ ।।
पार्वत्युवाच ।।
गृहमागच्छ सर्वेश तपसां फलदायकम् ।।
कल्पे कल्पे ध्यायसि यं तं पश्यागत्य मन्दिरम् ।। १९ ।।
शीघ्रं पुत्रमुखं पश्य पुण्यबीजं महोत्सवम् ।।
पुन्नामनरकत्राणकारणं भवतारणम् ।। २० ।।
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणम् ।।
पुत्रसंदर्शनस्यास्य कलां नार्हति षोडशीम् ।। २१ ।।
सर्वदानेन यत्पुण्यं क्ष्माप्रदक्षिणतश्च यत् ।।
पुत्रदर्शनपुण्यस्य कलां नार्हति षोडशीम् ।। २२ ।।
सर्वैस्तपोभिर्यत्पुण्यं देवानशनैर्व्रतैः ।।
सत्पुत्रोद्भवपुण्यस्य कलां नार्हति षोडशीम् ।। २३ ।।
यद्विप्रभोजनैः पुण्यं यदेव सुरसेवनैः ।।
सत्पुत्रप्राप्तिपुण्यस्य कलां नार्हति षोडशीम् ।। २४ ।।
पार्वत्या वचनं श्रुत्वा शिवः संहृष्टमानसः ।।
आजगाम स्वभवनं क्षिप्रं वै कान्तया सह ।।
ददर्श तल्पे स्वसुतं तप्तकाञ्चनसन्निभम् ।। २५ ।।
हदयस्थं च यद्रूपं तदेवातिमनोहरम् ।।
दुर्गातल्पात्समादाय कृत्वा वक्षसि तं सुतम्।।
चुचुम्बानन्दजलधौ निमग्ना सेत्युवाच तम् ।। २६ ।।
संप्राप्यामूल्यरत्नं त्वां पूर्णमेव सनातनम् ।।
यथा मनो दरिद्रस्य सहसा प्राप्य सद्धनम् ।। २७ ।।
कान्ते सुचिरमायाते प्रोषिते योषितो यथा ।।
मानसं परिपूर्णं च बभूव च तथा मम ।। २८ ।।
सुचिरं गतमायातमेकपुत्रा कथा सुतम् ।।
दृष्ट्वा तुष्टा यथा वत्स तथाऽहमपि साम्प्रतम् ।। २९ ।।
सद्रत्नं सुचिरं भ्रष्टं प्राप्य हृष्टो यथा जनः ।।
अनावृष्टौ सुवृष्टिं च संप्राप्याहं तथा सुतम् ।। ३० ।।
यथा सुचिरमन्धानां स्थितानां च निराश्रये ।।
चक्षुस्सुनिर्म्मलं प्राप्य मनः पूर्णं तथैव मे ।। ३१ ।।
दुस्तरे सागरे घोरे पतितस्य च संकटे ।।
अनौकस्य प्राप्य नौकां मनः पूर्णं तथा मम ।। ३२ ।।
तृष्णया शुष्ककण्ठानां सुचिराच्च सुशीतलम्।।
सुवासितं जलं प्राप्य मनः पूर्णं तथा मम।।३३।।
दावाग्निपतितानां च स्थितानां च निराश्रये ।।
निरग्निमाश्रयं प्राप्य मनः पूर्णं तथा मम ।। ३४ ।।
चिरं बुभुक्षितानां च व्रतोपोषणकारिणाम् ।।३५।।
सदन्नं पुरतो दृष्ट्वा मनः पूर्णं तथा मम ।।
इत्युक्त्वा पार्वती तत्र क्रोडे कृत्वा स्वबालकम् ।।३६।।
प्रीत्या स्तनं ददौ तस्मै परमानन्दमानसा ।।
क्रोडे चकार भगवान्बालकं हृष्टमानसः ।। ३७ ।।
चुचुम्ब गण्डे वेदोक्तं युयुजे चाशिषं मुदा ।। ३८ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराण तृतीये गणपति खण्डे नारदनारायणसंवादे बालगणेशदर्शनं नाम नवमोऽध्यायः ।। ९ ।।