प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १५ ब्रह्मवैवर्तपुराणम्
अध्यायः १६
वेदव्यासः
अध्यायः १७ →

नारायण उवाच ।।
इत्येवमुक्त्वा तं शीघ्रं बोधयित्वा च कृत्तिकाः ।।
उवाच किंचिद्युक्तं च वचनं शङ्करात्मजः ।। १ ।।
कार्तिकेय उवाच ।।
यास्यामि शंकरस्थानं द्रक्ष्यामि सुरसञ्चयम् ।।
मातरं बन्धुवर्गांश्चाप्याज्ञां मे दत्त मातरः ।। २ ।।
दैवाधीनं जगत्सर्वं जन्म कर्म शुभावहम् ।।
संयोगश्च वियोगश्च न च दैवात्परं बलम् ।। ३ ।।
कृष्णायत्तं च तद्दैवं स च दैवात्परस्ततः ।।
भजन्ति सततं सन्तः परमात्मानमीश्वरम् ।। ४ ।।
दैवं वर्द्धयितुं शक्तः क्षयं कर्त्तुं स्वलीलया ।।
न दैवबद्धस्तद्भक्तश्चाविनाशीति निर्णयः ।।५।।
तस्माद्भजत गोविन्दं मोहं त्यजत दुःखदम्।।
सुखदं मोक्षदं सारं जन्ममृत्युभयापहम् ।। ६ ।।
परमानन्दजननं मोहजालनिकृन्तनम् ।।
शश्वद्भजन्ति यत्सर्वे ब्रह्मविष्णुशिवादयः ।। ७ ।।
कोऽहं भवाब्धौ युष्माकं का वा यूयं ममात्मिकाः ।।
तत्कर्मस्रोतसां सर्वं पुञ्जीभूतं च फेनवत् ।। ८ ।।
संश्लेषं वा वियोगं वा सर्वमीश्वरचिन्तया ।।
ब्रह्माण्डमीश्वराधीनं न स्वतन्त्रं विदुर्बुधाः ।। ९ ।।
जलबुद्बुदवत्सर्वमनित्यं च जगत्त्रयम् ।।
मायामनित्ये कुर्वन्ति मायया मूढचेतसः ।। १० ।।
सन्तस्तत्र न लिप्यन्ते वायुवत्कृष्णचेतसः ।।
तस्मान्मोहं परित्यज्य चाज्ञप्तिं दत्त मातरः ।। ११ ।।
इत्येवमुक्त्वा ता नत्वा सार्द्धं शङ्करपार्षदैः ।।
यात्रां चकार भगवान्मनसा श्रीहरिं स्मरन् ।। १२ ।।
एतस्मिन्नन्तरे तत्र ददर्श रथमुत्तमम् ।।
विश्वकर्मकृतं रम्यं हीरकेण विराजितम् ।। १३ ।।
सद्रत्नसाररचितं माणिक्येन विराजितम् ।।
पारिजातप्रसूनानां मालाजालैश्च शोभितम् ।। १४ ।।
मणीन्द्रदर्पणः श्वेतचामरैरतिदीपितम् ।।
क्रीडार्हमन्दिरै रम्यैश्चित्रितैश्चित्रितं वरम् ।। १५ ।।
शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् ।।
प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ।। १६ ।।
समारुहन्तं यानं ता हृदयेन विदूयता ।।
सहसा चेतनां प्राप्य मुक्तकेश्यः शुचाऽऽतुराः ।। १७ ।।
दृष्ट्वा च स्वपुरः स्कन्दं स्तंभिताश्चातिशोकतः ।।
उन्मत्ता इव तत्रैव वक्तुमारेभिरे भिया ।। १८ ।।
कृत्तिका ऊचुः ।।
किं कुर्मः क्व च यास्यामो वयं वत्स त्वदाश्रयाः ।।
विहायास्मान्क्व यासि त्वं नायं धर्म्मस्तवाधुना ।। १९ ।।
स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं स्वधर्मतः ।।
नायं धर्मो मातृवर्गाननुरक्तः सुतस्त्यजेत् ।। २० ।।
इत्युक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि तं सुतम् ।।
पुनर्मूर्च्छामवापुस्ताः सुतविच्छेददारुणम् ।। २१ ।।
कुमारो बोधयित्वा ता अध्यात्मवचनेन वै ।।
ताभिश्च पार्षदैः सार्द्धमारुरोह रथं मुने ।। २२ ।।
पूर्णकुम्भं द्विजं वेश्यां शुक्लधान्यानि दर्पणम्।।
दध्याज्यं मधु लाजांश्च पुष्पं दूर्वाक्षतान्सितान् ।। २३ ।।
वृषं गजेन्द्रं तुरगं ज्वलदग्निं सुवर्णकम् ।।
पूर्णं च परिपक्वानि फलानि विविधानि च ।। २४ ।।
पतिपुत्रवतीं नारीं प्रदीपं मणिमुत्तमम् ।।
मुक्तां प्रसूनमालां च सद्योमांसं च चन्दनम् ।। २५ ।।
ददर्शैतानि वस्तूनि मङ्गलानि पुरो मुने ।।
शृगालं नकुलं कुम्भं शवं वामे शुभावहम् ।। २६ ।।
राजहंसं मयूरं च खञ्जनं च शुकं पिकम् ।।
पारावतं शङ्खचिल्लं चक्रवाकं च मङ्गलम् ।। २७ ।।
कृष्णसारं च सुरभिं चमरीं श्वेतचामरम्।।
धेनुं च वत्ससंयुक्तां पताकां दक्षिणे शुभाम्।। ।। २८ ।।
नानाप्रकारवाद्यं चाप्यश्रौषीन्मंगलध्वनिम् ।।
मनोहरं च संगीतं घण्टाशंखध्वनिं तथा ।। २९ ।।
दृष्ट्वा श्रुत्वा मङ्गलं स ह्यगमत्तातमन्दिरम् ।।
क्षणेनानन्दयुक्तश्च मनोयायिरथेन च ।। ३० ।।
कुमारः प्राप्य कैलासं न्यग्रोधाक्षयमूलके ।।
क्षणं तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह ।। ३१ ।।
पार्वती मंगलं कृत्वा राजमार्गं मनोहरम् ।।
पद्मरागैरिन्द्रनीलैः संस्कृतं परितः पुरम् ।। ३२ ।।
रम्भास्तम्भसमूहैश्च पट्टसूत्रांशुकैस्तथा ।।
श्रीखण्डपल्लवैर्युक्तं पूर्णकुम्भैः सुशोभितम् ।। ३३ ।।
पूर्णकुम्भजलैर्व्याप्तं सिक्तं चन्दनवारिभिः ।।
असंख्यरत्नदीपैश्च मणिराजैर्विराजितम् ।। ३४ ।।
नटनर्त्तकवेश्यानामुत्सवैः संकुलं सदा ।।
बन्दिभिर्विप्रवर्गैश्च दूर्वापुष्पकरैर्युतम्।।३५।।
पतिपुत्रवतीभिश्च साध्वीभिश्च समन्वितम्।।
लक्ष्मीं सरस्वतीं दुर्गां सावित्रीं तुलसीं रतिम्।।३६।।
अरुन्धतीमहल्यां च दितिं तारां मनोरमाम् ।।
अदितिं शतरूपां च शचीं सन्ध्यां च रोहिणीम् ।। ३७ ।।
अनसूयां तथा स्वाहां संज्ञां वरुणकामिनीम्।।
आकूतिं च प्रसूतिं च देवहूतिं च मेनकाम् ।। ३८ ।।
तामेकपाटलामेकपर्णां मैनाककामिनीम् ।।
वसुन्धरां च मनसां पुरस्कृत्य समाययौ।। ।। ३९ ।।
रम्भा तिलोत्तमा मेना घृताची मोहिनी शुभा ।।
उर्वशी रत्नमाला च सुशीला ललिता कला ।। ४० ।।
कदम्बमाला सुरसा वनमाला च सुन्दरी ।।
एताश्चान्याश्च बहवो विप्रेन्द्राप्सरसां गणाः ।। ४१ ।।
संगीतनर्त्तनपराः सस्मिता वेषसंयुताः ।।
करतालकराः सर्वा जग्मुरानन्दपूर्वकम् ।। ४२ ।।
देवाश्च मुनयः शैला गन्धर्वाः किन्नरास्तथा ।।
सर्वे ययुः प्रमुदिताः कुमारस्यानुमज्जने ।। ४३ ।।
नानाप्रकारवाद्यैश्च रुद्रैर्वा पार्षदैः सह ।।
भैरवैः क्षेत्रपालैश्च ययौ सार्द्धं महेश्वरः ।। ४४ ।।
अथ शक्तिधरो हृष्टो दृष्ट्वा ऽऽरात्पार्वतीं तदा ।।
अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह।।४५।।
तं पद्माप्रमुखं देवीगणं च मुनिकामिनीम् ।।
शिवं च परया भक्त्या सर्वान्संभाष्य यत्नतः ।। ४६ ।।
कार्त्तिकेयं शिवा दृष्ट्वा क्रोडे कृत्वा चुचुम्ब च ।।
शङ्करश्च सुराः शैला देव्यो वै शैलयोषितः ।।४७।।
पार्वतीप्रमुखा देव्यस्तथा देवश्च शङ्करः ।।
शैलाश्च मुनयः सर्वे ददुस्तस्मै शुभाशिषः ।। ४८ ।।
कुमारः स गणैः सार्द्धमागत्य च शिवालयम् ।।
ददर्श तं सभामध्ये विष्णुं क्षीरोदशायिनम्।।४९।।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।।
धर्मब्रह्मेन्द्रचन्द्रार्कवह्निवाय्वादिभिर्युतम् ।। ५० ।।
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकारकम् ।।
स्तुतं मुनीन्द्रैर्देवेन्द्रैः सेवितं श्वेतचामरैः ।।५१।।
तं दृष्ट्वा जगतां नाथं भक्तिनम्रात्मकन्धरः ।।
पुलकान्वितसर्वांगः शिरसा प्रणनाम ह ।। ५२ ।।
विधिं धर्मं च देवांश्च मुनीन्द्रांश्च मुदाऽन्वितान् ।।
प्रणनाम पृथक्तत्र प्राप तेभ्यश्शुभाशिषः ।। ५३ ।।
पृथक्संभाष्य सर्वांश्चाप्युवास कनकासने ।।
ददौ धनानि विप्रेभ्यः पार्वत्या सह शङ्करः ।। ५४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे कार्त्तिकेयागमनं नाम षोडशोऽध्यायः ।। १६ ।।