प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १४ ब्रह्मवैवर्तपुराणम्
अध्यायः १५
वेदव्यासः
अध्यायः १६ →

नारायण उवाच ।।
पुत्रस्य वार्त्तां सम्प्राप्य पार्वत्या सह शङ्करः ।।
प्रेरितो विष्णुना देवैर्मुनिभिः पर्वतैर्मुने ।। १ ।।
दूतान्प्रस्थापयामास महाबलपराक्रमान् ।।
वीरभद्रं विशालाक्षं शङ्कुकर्णं कबन्धकम् ।। २ ।।
नन्दीश्वरं महाकालं वज्रदन्तं भगन्दरम् ।।
गोधामुखं दधिमुखं ज्वलदग्निशिखोपमम् ।। ३ ।।
लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम् ।।
वेतालानां चतुर्लक्षं यक्षाणां पञ्चलक्षकम् ।। ४ ।।
कूष्माण्डानां चतुर्लक्षं त्रिलक्षं ब्रह्मराक्षसान् ।।
डाकिनीनां चतुर्लक्षं योगिनीनां त्रिलक्षकम् ।। ५ ।।
रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान् ।।
अन्यांश्च विकृताकारानसंख्यानपि नारद ।। ६ ।।
ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः ।।
कृत्तिकानां च भवनं वेष्टयामासुरुज्ज्वलम् ।।७।।
दृष्ट्वा तान्कृत्तिकाः सर्वा भयविह्वलमानसाः।।
कार्त्तिकेयं च जगृहुर्ज्वलन्तं ब्रह्मतेजसा ।। ८ ।।
कृत्तिका ऊचुः ।।
वत्स सैन्यान्यसंख्यानि वेष्टयामासुरायलम् ।।
न जानीमो वयं कस्य करालानि च बालक ।। ९ ।।
कार्त्तिकेय उवाच ।।
भयं त्यजत कल्याण्यो भयं किं वो मयि स्थिते ।।
दुर्निवार्य्यः कर्मपाको मातरः केन वार्य्यते ।।१०।।
एतस्मिन्नन्तरे तत्र सेनानीर्नन्दिकेश्वरः ।।
पुरतः कार्त्तिकेयस्य तिष्ठंस्तासामुवाच ह ।। ११ ।।
नन्दिकेश्वर उवाच।।
भ्रातः प्रवृत्तिं शृणु मे मातुश्चापि शुभावहाम् ।।
प्रेषितस्य सुरेन्द्रस्य संहर्तुः शंकरस्य च ।। १२ ।।
कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः ।।
सभायां ते वसन्तश्च गणेशोत्सवमङ्गलम् ।। १३ ।।
शैलेन्द्रकन्या तं विष्णुं जगतां परिपालकम् ।।
संबोध्य कथयामास तवान्वेषणकारणम् ।। १४ ।।
पप्रच्छ देवान्विष्णुस्तान्क्रमेणावाप्तिहेतवे ।।
प्रत्युत्तरं ददुस्ते तु प्रत्येकं च यथोचितम्।। १५ ।।
त्वमत्र कृत्तिकास्थाने कथयामासुरीश्वरम् ।।
सर्वे धर्मादयो देवा धर्माधर्मस्य साक्षिणः ।।
या बभूव रहःक्रीडा पार्वतीशिवयोः पुरा ।। १६ ।।
दृष्टस्य च सुरैः शम्भोवीर्य्यं भूमौ पपात ह ।।
भूमिस्तदक्षिपद्वह्नौ वह्निश्च शरकानने ।।
ततो लब्धः कृत्तिकाभिरमूभिर्गच्छ साम्प्रतम् ।।१७।।
तवाभिषेकं विष्णुश्च करिष्यति सुरैः सह ।।
शस्त्रं लब्ध्वाऽखिलं देव तारकं संहनिष्यति।।
पुत्रस्त्वं विश्वसंहर्त्तुस्त्वां गोप्तुं न क्षमा इमाः ।।१८।।
नाग्निं गोप्तुं यथा शक्तः शुष्कवृक्षः स्वकोटरे ।।
दीप्तिमांस्त्वं च विश्वेषु तासां गेहेषु शोभसे ।।
यथा पतन्महाकूपे द्विजराजो न राजते ।। १९ ।।
करोषि जगदालोकं नाच्छन्नोऽस्याङ्गतेजसा ।।
यथा सूर्य्यः कराच्छन्नो न भवेत्पूरुषस्य च ।। २० ।।
विष्णुस्त्वं च जगद्व्यापी नासां व्याप्योऽसि शाम्भव ।।
यथा न केषां व्याप्यं च तत्सर्वं व्यापकं नभः ।। २१ ।।
योगीन्द्रो नानुलिप्तस्त्वं भोगी च परिपोषणे ।।
नैव लिप्तो यथाऽऽत्मा च कर्म्म भोगेषु जीविनाम् ।। २२ ।।
विश्वाधारस्त्वमीशश्च नामृते सम्भवेत्स्थितिः ।।
सागरस्य यथा नद्यां सरितामाश्रयस्य च ।। २३ ।।
नहि सर्वेश्वरावासः सम्भवेत्कृत्तिकालये ।।
गरुडस्य यथा वासः क्षुद्रे च चटकोदरे ।। २४ ।।
त्वां च देवा न जानन्ति भक्तानुग्रह विग्रहम् ।।
गुणानां तेजसां राशिं यथा ज्ञानमयोगिनः ।।२५।।
त्वामनिर्वचनीयं च कथं जानन्ति कृत्तिकाः ।।
यथा परां हरेर्भक्तिमभक्ता मूढचेतसः ।। २६ ।।
भ्रातर्ये यं न जानन्ति ते तं कुर्वन्त्यनादरम् ।।
नाद्रियन्ते यथा भेकास्त्वेकावासं च पङ्कजम् ।। २७ ।।
कार्त्तिकेय उवाच।।
भ्रातः सर्वं विजानामि ज्ञानं त्रैकालिकं च यत्।।
ज्ञानी त्वं का प्रशंसा ते यतो मृत्युञ्जयाश्रितः।।२८।।
कर्मणा जन्म येषां वा यासु यासु च योनिषु ।।
तासु ते निर्वृतिं भ्रातर्नाप्नुवन्ति च सन्ततम्।।२९।।
ये यत्र सन्ति सन्तो वा मूढा वा कर्मभोगतः।।
तेऽपि तं बहुमन्यन्ते मोहिता विष्णुमायया।।३०।।
साम्प्रतं जगतां माता विष्णुमाया सनातनी।।
सर्वाद्या विष्णुमाया च सर्वदा विष्णुमङ्गला ।। ३१ ।।
शैलेन्द्रपत्नी गर्भे सा चालभज्जन्म भारते ।।
दारुणं च तपस्तप्त्वा सम्प्रापच्छङ्करं पतिम् ।। ३२ ।।
ब्रह्मादितृणपर्य्यन्तं सर्वं मिथ्यैव कृत्रिमम् ।।
सर्वे कृष्णोद्भवाः काले विलीनास्तत्र केवलम् ।। ३३ ।।
कल्पे कल्पे जगन्माता माता मे प्रतिजन्मनि ।।
यज्जन्ममायया बद्धो नित्यः सृष्टिविधावहम् ।। ३४ ।।
प्रकृतेरुद्भवास्सत्यं जगत्यां सर्वयोषितः ।।
काश्चिदंशाः कलाः काश्चित्कलांशांशेन काश्चन ।। ३६ ।।
कृत्तिका ज्ञानवत्यश्च योगिन्यः प्रकृतेः कलाः ।।
स्तनैश्च संवर्द्धितोऽहमुपहारेण सन्ततम् ।। ।। ३६ ।।
तासामहं पोष्यपुत्रो मदम्बाः पोषणादिमाः ।।
तस्याश्च प्रकृतेः पुत्रो गतस्त्वत्स्वामिवीर्य्यतः ।। ३७ ।।
न गर्भजोऽहं शैलेन्द्रकन्याया नन्दिकेश्वर ।।
सा च मे धर्मतो माता तथेमाः सर्वसम्मताः ।। ३८ ।।
स्तनदात्री गर्भधात्री भक्ष्यदात्री गुरुप्रिया ।।
अभीष्टदेवपत्नी च पितुः पत्नी च कन्यकाः।।३९।।
सगर्भकन्या भगिनी पुत्रपत्नी प्रियाप्रसूः ।।
मातुर्माता पितुर्माता सोदरस्य प्रिया तथा ।।४०।।
मातुः पितुश्च भगिनी मातुलानी तथैव च ।।
जनानां वेदविहिता मातरः षोडश स्मृताः ।।४१।।
इमाश्च सर्वसिद्धिज्ञाः परमैश्वर्य्यसंयुताः ।।
न क्षुद्रा ब्रह्मणः कन्यास्त्रिषु लोकेषु पूजिताः ।। ४२ ।।
विष्णुना प्रेरितस्त्वं च शम्भोः पुत्रसमो महान् ।।
गच्छ यामि त्वया सार्द्धं द्रक्ष्यामि सुरसंचयम् ।।४३।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे नन्दिकार्त्तिकेयसंवादो नाम पञ्चदशोऽध्यायः ।। १५ ।।