प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १७ ब्रह्मवैवर्तपुराणम्
अध्यायः १८
वेदव्यासः
अध्यायः १९ →

नारद उवाच ।।
नारायण महाभाग वेदवेदांगपारग ।।
पृच्छामि त्वामहं किंचिदतिसन्देहवान्यतः ।। १ ।।
सुतस्य त्रिदशेशस्य शंकरस्य महात्मनः ।।
विघ्ननिघ्नस्य यद्विघ्नमीश्वरस्य कथं प्रभो ।।२।।
परिपूर्णतमः श्रीमान्परमात्मा परात्परः ।।
गोलोकनाथः स्वांशेन पार्वतीतनयः स्वयम्।।३।।
अहो भगवतस्तस्य मस्तकच्छेदनं विभो ।।
ग्रहदृष्ट्या ग्रहेशस्य कथं मे वक्तुमर्हसि ।। ४ ।।
नारायण उवाच ।।
सावधानं शृणु ब्रह्मन्नितिहासं पुरातनम् ।।
विघ्नेशस्य बभूवेदं विघ्नं येन च नारद ।। ५।।
एकदा शंकरः सूर्य्यं जघान परमष्टधा ।।
सुमालिमालिहन्तारं शूलेन बहुवत्सलः ।। ६ ।।
श्रीसूर्य्योऽमोघशूलेनाशनितुल्येन तेजसा ।।
जहौ स चेतनां सद्यो रथाच्च निपपात ह ।। ७ ।।
ददर्श कश्यपः पुत्रं मृतमुत्तानलोचनम् ।।
कृत्वा वक्षसि तं शोकाद्विललाप भृशं मुहुः ।।८।।
हाहाकारं सुराश्चक्रुर्विलेपुर्भयकातराः ।।
अन्धीभूतं जगत्सर्वं बभूव तमसा वृतम् ।। ९ ।।
निष्प्रभं तनयं दृष्ट्वा चाशपत्कश्यपः शिवम् ।।
तपस्वी ब्रह्मणः पौत्रः प्रज्वन्ब्रह्मतेजसा ।। १० ।।
मत्पुत्रस्य यथा वक्षश्छिन्नं शूलेन तेऽद्य वै ।।
त्वत्पुत्रस्य शिरश्छिन्नं भविष्यति न संशयः ।। ११ ।।
शिवश्च गलितक्रोधः क्षणेनैवाशुतोषकः ।।
ब्रह्मज्ञानेन तत्पूर्णं जीवयामास तत्क्षणात् ।। १२ ।।
ब्रह्मविष्णुमहेशानामंशश्च त्रिगुणात्मकः ।।
सूर्य्यश्च चेतनां प्राप्य समुत्तस्थौ पितुः पुरः ।। १३ ।।
ननाम पितरं भक्त्या शंकरं भक्तवत्सलः ।।
विज्ञाय शम्भोः शापं च कश्यपं स चुकोप ह ।। १४ ।।
विषयान्नैव जग्राह कोपेनैवमुवाच ह ।।
विषयांश्च परित्यज्य भजे श्रीकृष्णमीश्वरम् ।।१५।।
सर्वं तुच्छमनित्यं च नश्वरं चेश्वरं विना ।।
विहाय मङ्गलं सत्यं विद्वान्नेच्छेदमंगलम् ।। १६ ।।
देवैश्च प्रेरितो ब्रह्मा समागत्य ससम्भ्रमः ।।
बोधयित्वा रविं तत्र युयोज विषयेष्वजः ।। १७ ।।
तस्मै दत्त्वाऽऽशिषश्शम्भुर्ब्रह्मा च स्वालयं मुदा ।।
जगाम कश्यपश्चैव स्वराशिं रविरेव च ।। १८ ।।
अथ माली सुमाली च व्याधिग्रस्तौ बभूवतुः ।।
श्वित्रौ गलितसर्वांगौ शक्तिहीनौ हतप्रभौ।। १९ ।।
तावुवाच स्वयं ब्रह्मा युवां च भजतां रविम् ।।
सूर्य्यकोपेन मलिनौ युवामेवं हतप्रभौ ।। २० ।।
सूर्य्यस्य कवचं स्तोत्रं सर्वपूजाविधिं विधिः ।।
जगाम कथयित्वा तौ ब्रह्मलोकं सनातनः ।।२१।।
ततस्तौ पुष्करं गत्वा सिषेवाते रविं मुने।।
स्नात्वा त्रिकालं भक्त्या च जपन्तौ मन्त्रमुत्तमम् ।। २२ ।।
ततः सूर्य्याद्वरं प्राप्य निजरूपौ बभूवतुः ।।
इत्येवं कथितं सर्वं किं भयः श्रोतुमिच्छसि ।। २३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे विघ्नेशविघ्नकथनंनामाष्टादशोऽध्यायः ।। १८ ।।