प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १८ ब्रह्मवैवर्तपुराणम्
अध्यायः १९
वेदव्यासः
अध्यायः २० →

नारद उवाच ।।
किं स्तोत्रं कवचं नाथ ब्रह्मणा लोकसाक्षिणा ।।
दानवाभ्यां पुरा दत्तं सूर्यस्य परमात्मनः ।। १ ।।
किं वा पूजाविधानं वा किं मन्त्रं व्याधिनाशनम् ।।
सर्वं चास्य महाभाग तन्मे त्वं वक्तुमर्हसि ।।२।।
सूत उवाच ।।
नारदस्य वचः श्रुत्वा भगवान्करुणानिधिः।।
स्तोत्रं च कवचं मन्त्रमूचे तत्पूजनक्रमम् ।।३।।
नारायण उवाच।।
शृणु नारद वक्ष्यामि सूर्य्यपूजाविधेः क्रमम्।।
स्तोत्रं च कवचं सर्वं पापव्याधिविमोचकम् ।। ४ ।।
सुमालिमालिनौ दैत्यौ व्याधिग्रस्तौ बभूवतुः ।।
विधिं सस्मरतुः स्तोतुं शिवमन्त्रप्रदायकम् ।। ९ ।।
ब्रह्मा गत्वा च वैकुण्ठं पप्रच्छ कमलापतिम् ।।
शिवं तत्रैव संपश्यन्वसन्तं हरिसन्निधौ ।। ६ ।।
ब्रह्मोवाच ।।
सुमालिमालिनौ दैत्यौ व्याधिग्रस्तौ बभूवतुः ।।
क उपायो वद हरे तयोर्व्याधिविनाशने ।। ७ ।।
विष्णुरुवाच ।।
कृत्वा सूर्य्यस्य सेवां च पुष्करे पूर्णवत्सरम् ।।
व्याधिहन्तुर्मदंशस्य तौ च मुक्तौ भविष्यतः ।। ८ ।।
शंकर उवाच ।।
सूर्यस्तोत्रं च कवचं मन्त्रं कल्पतरुं परम् ।।
देहि ताभ्यां जगत्कान्त व्याधिहन्तुर्महात्मनः ।। ९ ।।
आरात्सम्पत्प्रदातारौ सर्वदाता हरिः स्वयम् ।।
व्याधिहन्ता दिनकरो यस्य यो विषयो विधे ।। १ ।।
तयोस्तु मन्त्रं संप्राप्य ययौ दैत्यगृहं विधिः ।।
तदा प्रणम्य तं दृष्ट्वा तस्मै ददतुरासनम् ।। ११ ।।
तावुवाच स्वयं ब्रह्मा रोगग्रस्तौ दयानिधिः ।।
स्तब्धावाहाररहितौ पूयदुर्गन्धसंयुतौ ।। १२ ।।
ब्रह्मोवाच ।।
गृहीत्वा कवचं स्तोत्रं मन्त्रं पूजाविधिक्रमम् ।।
गत्वा हि पुष्करं वत्सौ भजथः प्रणतौ रविम् ।। १३ ।।
तावूचतुः ।।
भजावः केन विधिना केन मन्त्रेण वा विधे ।।
किं स्तोत्रं कवचं किं वा तदावाभ्यां वदाधुना ।। १४ ।।
ब्रह्मोवाच ।।
कृत्वा त्रिकालं स्नानं च मन्त्रेणानेन भास्करम् ।।
संसेव्य भास्करं भक्त्या नीरुजौ च भविष्यथ ।। १५ ।।
ॐ ह्रीं नमो भगवते सूर्य्याय परमात्मने स्वाहा ।।
इत्यनेन च मन्त्रेण सावधानं दिवाकरम् ।।
संपूज्य भक्त्या दत्त्वा वै चोपहारांस्तु षोडश ।।
एवं संवत्सरं यावद्ध्रुवं मुक्तौ भविष्यथः ।। १६ ।।
अपूर्वं कवचं तस्य युवाभ्यां प्रददाम्यहम् ।।
यद्दत्तं गुरुणा पूर्वमिन्द्राय प्रीतिपूर्वकम् ।। १७ ।।
तत्सहस्रभगाङ्गाय शापेन गौतमस्य च ।।
अहल्याहरणेनैव पापमुक्ताय सङ्कटे ।। १८ ।।
बृहस्पतिरुवाच ।।
इन्द्र शृणु प्रवक्ष्यामि कवचं परमाद्भुतम् ।।
यद्धृत्वा मुनयः पूता जीवन्मुक्ताश्च भारते ।। १९ ।।
कवचं बिभ्रतो व्याधिर्न भिया याति सन्निधिम् ।।
यथा दृष्ट्वा वैनतेयं पलायन्ते भुजङ्गमाः ।। २० ।।
शुद्धाय गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ।।
खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ।। २१ ।।
जगद्विलक्षणस्यास्य कवचस्य प्रजापतिः ।।
ऋषिश्छन्दश्च गायत्री देवो दिनकरः स्वयम् ।।
व्याधिप्रणाशे सौन्दर्य्ये विनियोगः प्रकीर्त्तितः ।। २२ ।।
सद्योरोगहरं सारं सर्वपापप्रणाशनम् ।।
ॐ क्लीं ह्रीं श्रीं श्रीसूर्य्याय स्वाहा मे पातु मस्तकम् ।।२३ ।।
अष्टादशाक्षरो मन्त्रः कपालं मे सदाऽवतु।।
ॐ ह्रीं ह्रीं श्रीं श्रीं सूर्य्याय स्वाहा मे पातु नासिकाम् ।। २४ ।।
चक्षुर्मे पातु सूर्यश्च तारकां च विकर्तनः ।।
भास्करो मेऽधरं पातु दन्तान्दिनकरः सदा ।। २५ ।।
प्रचण्डः पातु गण्डं मे मार्तण्डः कर्णमेव च ।।
मिहिरश्च सदा स्कन्धे जंघे पूषा सदाऽवतु ।।२६।।
वक्षः पातु रविः शश्वन्नाभिं सूर्य्यः स्वयं सदा।।
कंकालं मे सदा पातु सर्वदेवनमस्कृतः।।२७।।
करौ पातु सदा ब्रध्नः पातु पादौ प्रभाकरः।।
विभाकरो मे सर्वांगं पातु सन्ततमीश्वरः।।२८।।
इति ते कथितं वत्स कवचं सुमनोहरम्।।
जगद्विलक्षणं नाम त्रिजगत्सु सुदुर्लभम् ।।२९।।
पुरा दत्तं च मनवे पुलस्त्येन तु पुष्करे ।।
मया दत्तं च तुभ्यं तद्यस्मै कस्मै न देहि भोः ।। ३० ।।
व्याधितो मुच्यसे त्वं च कवचस्य प्रसादतः ।।
भवानरोगी श्रीमांश्च भविष्यति न संशयः ।। ३१ ।।
लक्षवर्षहविष्येण यत्फलं लभते नरः ।।
तत्फलं लभते नूनं कवचस्यास्य धारणात् ।। ३२ ।।
इदं कवचमज्ञात्वा यो मूढो भास्करं यजेत् ।।
दशलक्षप्रजप्तोऽपि मन्त्रसिद्धिर्न जायते ।। ३३ ।।
ब्रह्मोवाच ।।
धृत्वेदं कवचं वत्सौ कृत्वा च स्तवनं रवेः ।।
युवां व्याधिविनिर्मुक्तौ निश्चितं तु भविष्यथः ।। ३४ ।।
स्तवनं सामवेदोक्तं सूर्य्यस्य व्याधिमोचनम् ।।
सर्वपापहरं सारं धनारोग्यकरं परम् ।। ३५ ।।
ब्रह्मोवाच ।।
तं ब्रह्म परमं धाम ज्योतीरूपं सनातनम् ।।
त्वामहं स्तोतुमिच्छामि भक्तानुग्रहकारकम् ।। ३६ ।।
त्रैलोक्यलोचनं लोकनाथं पापविमोचनम् ।।
तपसां फलदातारं दुःखदं पापिनां सदा ।। ३७ ।।
कर्मानुरूपफलदं कर्मबीजं दयानिधिम् ।।
कर्मरूपं क्रियारूपमरूपं कर्मबीजकम् ।। ३८ ।।
ब्रह्मविष्णुमहेशानामंशं च त्रिगुणात्मकम् ।।
व्याधिदं व्याधिहन्तारं शोकमोहभयापहम् ।।
सुखदं मोक्षदं सारं भक्तिदं सर्वकामदम्।। ३९ ।।
सर्वेश्वरं सर्वरूपं साक्षिणं सर्वकर्मणाम् ।।
प्रत्यक्षं सर्वलोकानामप्रत्यक्षं मनोहरम् ।। ४० ।।
शश्वद्रसहरं पश्चाद्रसदं सर्वसिद्धिदम् ।।
सिद्धि स्वरूपं सिद्धेशं सिद्धानां परमं गुरुम् ।। ४१ ।।
स्तवराजमिदं प्रोक्तं गुह्याद्गुह्यतरं परम् ।।
त्रिसन्ध्यं यः पठेन्नित्यं व्याधिभ्यस्स प्रमुच्यते ।। ४२ ।।
आन्ध्यं कुष्ठं च दारिद्र्यं रोगः शोको भयं कलिः ।।
तस्य नश्यति विश्वेश श्रीसूर्य्यकृपया ध्रुवम् ।। ४३ ।।
महाकुष्ठी च गलितश्चक्षुर्हीनो महाव्रणी ।।
यक्ष्मग्रस्तो महाशूली नानाव्याधियुतोऽसि वा ।। ४४ ।।
मासं कृत्वा हविष्यान्नं श्रुत्वाऽतो मुच्यते ध्रुवम् ।।
स्नानं च सर्वतीर्थानां लभते नात्र संशयः ।। ।।४५।।
पुष्करं गच्छतं शीघ्रं भास्करं भजतं सुतौ ।।
इत्येवमुक्त्वा स विधिर्जगाम स्वालयं मुदा ।।४६।।
तौ निषेव्य दिनेशं तं नीरुजौ संबभूवतुः।।
इत्येवं कथितं वत्स किं भूयः श्रोतुमिच्छसि।।४७।।
सर्वविघ्नहरं सारं विघ्नेशं विघ्ननाशनम्।।
स्तोत्रेणानेन तं स्तुत्वा मुच्यते नात्र संशयः ।। ४८ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे विघ्नकारणकथनं नामैकोनविंशतितमोऽध्यायः ।। १९ ।।