प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १९ ब्रह्मवैवर्तपुराणम्
अध्यायः २०
वेदव्यासः
अध्यायः २१ →

नारद उवाच ।।
हरेरंशसमुत्पन्नो हरितुल्यो भवान्धिया ।।
तेजसा विक्रमेणैव मत्प्रश्नं श्रोतुमर्हसि ।।१।।
विघ्ननिघ्नस्य यद्विघ्नं श्रुतं तत्परमाद्भुतम् ।।
तद्विघ्नकारणं चैव विश्वकारणवक्त्रतः ।। २ ।।
अधुना श्रोतुमिच्छामि परं सन्देहभञ्जनम् ।।
त्रैलोक्यनाथतनये गजास्यायोजनार्थकम् ।। ३ ।।
स्थितेष्वन्येषु बहुषु जन्तुष्वब्जभुवः पते ।।
सुप्राणिनां सुरूपेषु नानारूपेषु रूपिणाम् ।। ४ ।।
श्रीनारायण उवाच ।।
गजास्ययोजनायाश्च कारणं शृणु नारद ।।
गोप्यं सर्वपुराणेषु वेदेषु च सुदुर्लभम्।।५।।
तारणं सर्वदुःखानां कारणं सर्वसम्पदाम् ।।
हारणं विपदां चैव रहस्यं पापमोचनम् ।। ६ ।।
महालक्ष्म्याश्च चरितं सर्वमङ्गलमङ्गलम् ।।
सुखदं मोक्षदं चैव चतुर्वर्गफलप्रदम्।।७।।
शृणु तात प्रवक्ष्येऽहमितिहासं पुरातनम् ।।
रहस्यं पाद्मकल्पस्य पुरा तातमुखाच्छ्रुतम् ।। ८ ।।
एकदैव महेन्द्रश्च पुष्पभद्रां नदीं ययौ ।।
महासम्पन्मदोन्मत्तः कामी राजश्रियाऽन्वितः ।। ९।।
 तत्तीरेऽतिरहःस्थाने पुष्पोद्याने मनोहरे ।।
अतीव दुर्गमेऽरण्ये सर्वजन्तुविवर्जिते ।। १० ।।
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रवे ।।
सुगन्धिपुष्प संश्लिष्टवायुना सुरभीकृते ।। ११ ।।
ददर्श रम्भां तत्रैव चन्द्रलोकात्समागताम् ।।
सुरतश्रमविश्रान्तिकामुकीं कामकामुकीम् ।। ।। १२ ।।
इच्छन्तीमीप्सितां क्रीडां गच्छन्तीं मदनाश्रमम् ।।
एकाकिनीमुन्मनस्कां मन्मथोद्गतमानसाम् ।। १३ ।।
सुश्रोणीं सुदतीं श्यामां बिम्बाधरसरोरुहाम्।।
बृहन्नितम्बभारार्त्तां मत्तवारणगामिनीम्।।१४।।
सस्मितास्यशरच्चन्द्रां सुकटाक्षं च बिभ्रतीम्।।
बिभ्रतीं कबरीं रम्यां मालतीमाल्यशोभिताम् ।। १५ ।।
वह्निशुद्धांशुकधरां रत्नभूषणभूषिताम् ।।
कस्तूरीबिन्दुना सार्द्धं सिन्दूरं बिभ्रतीं मुदा ।। ।। १६ ।।
नीलोत्पलदलश्यामकज्जलोज्जललोचनाम् ।।
मणिकुण्डलयुग्माढ्यगण्डस्थलविराजिताम् ।। १७ ।।
अत्युन्नतं सुकठिनं पत्रराजिविराजितम् ।।
सुखदं रसिकानां च स्तनयुग्मं च बिभ्रतीम् ।। १८ ।।
सर्वशोभां सुवेषाढ्यां सुभगां सुरतोत्सुकाम् ।।
प्राणाधिकां च देवानां स्वच्छां स्वच्छन्दगामिनीम् ।। १९ ।।
वरामप्सरसां रम्यामतीव स्थिरयौवनाम् ।।
गुणरूपवतीं शान्तां मुनिमानसमोहिनीम् ।।२०।।
दृष्ट्वा तामतिवेषाढ्यां तत्कटाक्षेण पीडितः ।।
इन्द्रोऽतीन्द्रियचापल्यात्प्रवक्तुपचक्रमे ।। २१ ।।
इन्द्र उवाच ।।
क्व गच्छसि वरारोहे क्व गताऽसि मनोहरे ।।
मया दृष्टा हि सुचिरात्कल्याणि सुभगेऽधुना ।। २२ ।।
तवान्वेषणकर्त्ताऽहं श्रुत्वा वाचिकमग्रतः ।।
त्वदासक्तमनाश्चास्मि नान्यां वै गणयामि च ।। २३ ।।
सुवासितजलार्थी यः किमिच्छेत्पङ्किलं जलम् ।।
पङ्कं नेच्छेच्चन्दनार्थी पङ्कजार्थी न चोत्पलम् ।। २४ ।।
सुधार्थी न सुरामिच्छेद्दुग्धार्थी नाविलं जलम् ।।
सुगन्धिपुष्पशायी यो ह्यस्त्रतल्पं न चेच्छति ।।२५ ।।
स्वर्गी च नरकं नेच्छेत्सुभोगी दुष्टभोजनम् ।।
पण्डितैः सह संवासी नेच्छेत्स्त्रीसन्निधिं नरः ।।
विहाय रत्नाभरणं कोऽपीच्छेल्लोहभूषणम् ।। २६ ।।
त्वां नाश्लिष्य महाविज्ञां कां मूढो गन्तुमिच्छति।।
विहाय गङ्गां को विज्ञो नदीमन्यां च वांछति ।। २७ ।।
इन्द्रियैश्चेन्द्रियरतिं वर्द्धयन्तीं पदे पदे ।।
वरं प्रार्थयितारश्च प्राणिनश्च सुखार्थिनः ।।२२८।।।
इत्येवमुक्त्वा भगवानवरुह्य गजेश्वरात् ।।
कामयुक्तश्च पुरतस्तस्थौ तस्याश्च नारद ।। २९ ।।
श्रुत्वा तद्वचनं रम्भा महाशृङ्गारलोलुपा ।।
जहासानम्रवदना पुलकाञ्चितविग्रहा ।। ३० ।।
स्मेरानना कटाक्षेण स्तनोर्वोर्दर्शनेन च ।।
नर्मोक्तिगर्भवाक्येन चाहरत्तस्य चेतनाम् ।। ३१ ।।
मितं सारं सुमधुरं सुस्निग्धं कोमलं प्रियम् ।।
पुरुषायत्तबीजं च प्रवक्तुमुपचक्रमे ।। ३२ ।।
रम्भोवाच ।।
यास्यामि वाञ्छितं यत्र प्रश्नेन तव किं फलम् ।।
नाहं सन्तोषजननी धूर्त्तानां दुष्टमित्रता ।। ३३ ।।
यथा मधुकरो लोभात्सर्वपुष्पासवं लभेत् ।।
स्वादु यत्रातिरिक्तं स तत्र तिष्ठति सन्ततम् ।। ३४ ।।
तथैव कामुकी लोके भ्रमेद्भ्रमरवत्सदा ।।
चाञ्चल्यात्स हि कास्वेव वायुवद्रसमाहरेत् ।। ३५ ।।
सुपुमानङ्गवत्स्त्रीणां यथा शाखाश्च शाखिषु ।।
कामुकी काकवल्लोलः फलं भुक्त्वा प्रयाति च ।। ३६ ।।
स्वकार्य्यमुद्धरेद्यावत्तावद्वा स प्रयोजनम् ।।
स्थितिः कार्य्यानुरोधेन यथा काष्ठे हुताशनः ।। ३७ ।।
यावत्तडागे तोयानि तावद्यादांसि तेषु च ।।
शोषारम्भे च तोयानां यान्ति स्थानान्तरं पुनः ।। ३८ ।।
त्वं देवानामीश्वरोऽसि कामिनीनां च वाञ्छितः ।।
पुमांसं रसिकं शश्वद्वाञ्छन्ति रसिकाः सुखात् ।। ३९ ।।
युवानं रसिकं शान्तं सुवेषं सुन्दरं प्रियम् ।।
गुणिनं धनिनं स्वच्छं कान्तमिच्छति कामिनी ।। ४० ।।
दुश्शीलं रोगिणं वृद्धं रतिशक्तिवियोजितम् ।।
अदातारमविज्ञं च नैव वाञ्छन्ति योषितः ।। ४१ ।।
का मूढा न च वाञ्छन्ति त्वामेवं गुणसागरम् ।।
तवाज्ञाकारिणीं दासीं गृहाणात्र यथासुखम् ।। ४२ ।।
इत्युक्त्वा सस्मिता सा च तं पपौ वक्रचक्षुषा ।।
कामाग्निदग्धा विगलल्लज्जा तस्थौ समीपतः ।। ४३ ।।
ज्ञात्वा भावं स्मरार्त्तायाः स्मरशास्त्रविशारदः ।।
गृहीत्वा तां पुष्पतल्पे विजहार तया सह ।। ४४ ।।
चुचुम्ब रहसि प्रौढां नग्नां च सुभगां वराम् ।।
पक्वबिम्बाधरौष्ठीं च सुदत्या चुंबितस्तया ।। ४५ ।।
नानाप्रकारशृङ्गाराद्विपरीतादिकान्मुने ।।
सुखी बभूव तस्यां वै शृंगारो मूर्तिमानिव ।। ४६ ।।
तौ कामाहितचित्तौ नो बुबुधाते दिवानिशम् ।।
अन्योन्यगतचित्तौ च कामार्तौ ज्ञानवर्जितौ ।। ४७ ।।
स च कृत्वा स्थले क्रीडां तया सह सुरेश्वरः।।
ययौ जलविहारार्थं पुष्पभद्रानदी जलम् ।। ४८ ।।
स चकार जलक्रीडां तया सह मुदा क्षणम् ।।
जलात्स्थले स्थलात्तोये विजहार पुनः पुनः ।।४९।।
एतस्मिन्नन्तरे तेन वर्त्मना मुनिपुंगवः ।।
सशिष्यो याति दुर्वासा वैकुण्ठाच्छङ्करालयम् ।। ५० ।।
तं च दृष्ट्वा मुनीन्द्रं च देवेन्द्रः स्तब्धमानसः ।।
ननामागत्य सहसा ददौ तस्मै स चाशिषः ।। ५१ ।।
पारिजातप्रसूनं यद्दत्तं नारायणेन वै ।।
तच्च दत्तं महेन्द्राय मुनीन्द्रेण महात्मना ।।५२।।
दत्त्वा पुष्पं महाभागस्तमुवाच कृपानिधिः।।
माहात्म्यं तस्य यत्किंचिदपूर्वं मुनिसत्तमः ।।५३।।
दुर्वासा उवाच ।।
सर्वविघ्नहरं पुष्पं नारायणनिवेदितम ।।
मूर्ध्नीदं यस्य देवेन्द्र जयस्तस्यैव सर्वतः ।। ९४ ।।
पुरःपूजा च सर्वेषां देवानामग्रणीर्भवेत्।
तच्छायेव महालक्ष्मीर्न जहाति कदाऽपि तम् ।।५५।।
ज्ञानेन तेजसा बुद्ध्या विक्रमेण बलेन च ।।
सर्वदेवाधिकः श्रीमान्हरितुल्यपराक्रमः ।। ५५ ।।
भक्त्या मूर्ध्नि न गृह्णाति योऽहंकारेण पामरः ।।
नैवेद्यं च हरेरेव स भ्रष्टश्रीः स्वजातिभिः ।।
इत्युक्त्वा शंकरांशश्च ह्यगमच्छंकरालयम् ।।५७।।
तत्स रम्भांतिके तिष्ठंश्चिक्षेप गजमस्तके ।।
तेन भ्रष्टश्रियं दृष्ट्वा सा जगाम सुरालयम्।।५८।।
पुंश्चली योग्यमिच्छन्ती नापरं चञ्चलाऽधमा ।।
देवराजं परित्यज्य गजराजो महाबली ।। ५९ ।।
प्रविवेश महारण्यं तं निक्षिप्य स्वतेजसा ।।
तत्रैव करिणीं प्राप्य मत्तः संबुभुजे बलात् ।। ६० ।।
साऽतो बभूव वशगा योषिज्जातिः सुखार्थिनी ।।
तयोर्बभूवापत्यानां निवहस्तत्र कानने ।। ६१ ।।
हरिस्तन्मस्तकं छित्त्वा योजयामास बालके ।।
इत्येवं कथितं वत्स किं भूयः श्रोतुमिच्छसि ।।
गजास्ययोजनायाश्च कारणं पापनाशनम् ।। ६२ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणपतेर्गजास्ययोजनाहेतुकथनं नाम विंशतितमोऽध्यायः ।।२०।।