प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २२ ब्रह्मवैवर्तपुराणम्
अध्यायः २३
वेदव्यासः
अध्यायः २४ →

नारायण उवाच ।।
इन्द्रश्च गुरुणा सार्द्धं सुरैस्संहृष्टमानसः ।।
जगाम शीघ्रं पद्मायै तीरं क्षीरपयोनिधेः ।।
कवचं च गले बद्ध्वा सद्रत्नगुटिकान्वितम् ।।
मनसा स्तवनं दिव्यं स्मारं स्मरं पुनःपुनः।१।।
ते सर्वे भक्तियुक्ताश्च तुष्टुवुः कमलालयाम् ।।
साश्रुनेत्राश्च दीनाश्च भक्तिनम्रात्मकन्धराः ।। २।।
सा तेषां स्तवनं श्रुत्वा सद्यः साक्षाद्बभूव ह ।।
सहस्रदलपद्मस्था शतचन्द्रसमप्रभा ।। ३ ।।
जगद्व्याप्तं सुप्रभया जगन्मात्रं यया मुने ।।
तानुवाच जगद्धात्री हितं सारं यथोचितम् ।। ४ ।।
श्री महालक्ष्मीरुवाच।।
वत्सा नेच्छामि वो गेहान्गन्तुं नैवं क्षमाऽधुना ।।
भ्रष्टान्दृष्ट्वा ब्रह्मशापाद्बिभेमि ब्रह्मशापतः ।।५।।
प्राणा मे ब्राह्मणाः सर्वे शश्वत्पुत्राधिकं प्रियाः ।।
विप्रदत्तं च यत्किञ्चिदुपजीव्यं सदैव च ।। ६ ।।
विप्रा ब्रुवन्तु मां तुष्टा यास्यामि भवदाज्ञया ।।
न मे पूजां ध्रुवं कर्तुं क्षमास्ते च तपस्विनः ।।७ ।
गुरुभिर्ब्राह्मणैर्देवैर्भिक्षुभिर्वैष्णवैस्तथा ।।
यद्यभाग्यं भवेद्दैवात्ते शप्ताः सन्ति तैस्सदा ।। ८।।
नारायणश्च भगवान्बिभेति ब्रह्मशापतः ।।
सर्वबीजं च भगवान्सर्वेशश्च सनातनः ।। ९ ।।
एतस्मिन्नन्तरे ब्रह्मन्ब्राह्मणा हृष्टमानसाः।।
आजग्मुः सस्मिताः सर्वे ज्वलन्तो ब्रह्मतेजसा।।१०।।
अंगिराश्च प्रचेताश्च क्रतुश्च भृगुरेव च ।।
पुलहश्च पुलस्त्यश्च मरीचिश्चात्रिरेव च ।। ११।।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।।
सनत्कुमारो भगवान्साक्षान्नारायणात्मकः ।। १२ ।।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ।।
दुर्वासाः कश्यपोऽगस्त्यो गौतमः कण्व एव च।। १३ ।।
और्वः कात्यायनश्चैव कणादः पाणिनिस्तथा ।।
मार्कण्डेयो लोमशश्च वसिष्ठो भगवान्स्वयम् ।। १४ ।।
ब्राह्मणा विविधैर्द्रव्यैः पूजयामासुरीश्वरीम् ।।
देवाश्चारण्यनैवेद्यैरुपहारेण भक्तितः ।। १५ ।।
स्तुत्वा मुनीन्द्रास्तां भक्त्या चक्रुराराधनं मुदा ।।
आगच्छ देवभवनं मर्त्यं च जगदम्बिके ।। १६ ।।
तेषां तद्वचनं श्रुत्वा तानुवाच जगत्प्रसूः ।।
परितुष्टा गामुकी च निर्भया ब्राह्मणाज्ञया ।। १७ ।।
श्रीमहालक्ष्मीरुवाच ।।
गृहान्यास्यामि देवानां युष्माकं चाज्ञया द्विजाः ।।
येषां गेहं न गच्छामि शृणुध्वं भारतेषु च ।। १८ ।।
स्थिरा पुण्यवतां गेहे सुनीतिपथवेदिनाम्।।
गृहस्थानां नृपाणां वा पुत्रवत्पालयामि तान् ।। १९ ।।
यं यं रुष्टो गुरुर्देवो माता तातश्च बान्धवाः ।।
अतिथिः पितृलोकश्च यामि तस्य न मन्दिरम् ।। २० ।।
मिथ्यावादी च यः शश्वदनध्यायी च यः सदा ।।
सत्त्वहीनश्च दुश्शीलो न गेहं तस्य याम्यहम्।।२१।।
सत्यहीनः स्थाप्यहारी मिथ्यासाक्ष्यप्रदायकः ।।
विश्वासघ्नः कृतघ्नो यो यामि तस्य न मन्दिरम् ।।२२।।
चिन्ताग्रस्तो भयग्रस्तः शत्रुग्रस्तोऽतिपातकी ।।
ऋणग्रस्तोऽतिकृपणो न गेहं यामि पापिनाम् ।।२३।।
दीक्षाहीनश्च शोकार्त्तो मन्दधीः स्त्रीजितः सदा ।।
न याम्यपि कदा गेहं पुंश्चल्याः पतिपुत्रयोः ।। २४ ।।
यो दुर्वाक्कलहाविष्टः कलिः शश्वद्यदालये ।।
स्त्री प्रधाना गृहे यस्य यामि तस्य न मन्दिरम् ।। २५ ।।
यत्र नास्ति हरेः पूजा तदीयगुणकीर्त्तनम् ।।
नोत्सुकस्तत्प्रशंसायां यामि तस्य न मन्दिरम् ।। २६ ।।
कन्यान्नवेदविक्रेता नरघाती च हिंसकः ।।
नरकागारसदृशं यामि तस्य न मन्दिरम् ।। २७ ।।
मातरं पितरं भार्यां गुरुपत्नीं गुरुं सुतम् ।।
अनाथां भगिनीं कन्यामनन्याश्रयबान्धवान् ।। २८ ।।
कार्पण्याद्यो न पुष्णाति सञ्चयं कुरुते सदा ।।
तद्गेहान्नरकागारान्यामि तान्न मुनीश्वराः ।। २९ ।।
दशनं वसनं यस्य समलं रूक्षमस्तकम् ।।
विकृतौ ग्रासहासौ च यामि तस्य न मन्दिरम्।।३०।
मूत्रं पुरीषमुत्सृज्य यस्तत्पश्यति मन्दधीः ।।
यः शेते स्निग्धपादेन यामि तस्य न मन्दिरम् ।। ३१ ।।
अधौतपादशायी यो नग्नः शेतेऽतिनिद्रितः ।।
सन्ध्याशायी दिवाशायी यामि तस्य न मन्दिरम् ।। ३२ ।।
मूर्ध्नि तैलं पुरो दत्त्वा योऽन्यदङ्गमुपस्पृशेत् ।।
ददाति पश्चाद्गात्रे वा यामि तस्य न मन्दिरम् ।। ३३ ।।
दत्त्वा तैलं मूर्ध्नि गात्रे विण्मूत्रं यः समुत्सृजेत् ।।
प्रणमेदाहरेत्पुष्पं यामि तस्य न मन्दिरम् ।। ३४ ।।
तृणं छिनत्ति नखरैर्नखरैर्विलिखेन्महीम् ।।
गात्रे पादे मलं यस्य यामि तस्य न मन्दिरम् ।। ३५ ।।
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं सुरस्य च ।।
यो हरेज्ज्ञानशीलश्च यामि तस्य न मन्दिरम् ।। ३६ ।।
यत्कर्म दक्षिणाहीनं कुरुते मूढधीः शठः ।।
स पापी पुण्यहीनश्च यामि तस्य न मन्दिरम् ।। ३७ ।।
मन्त्रविद्योपजीवी च ग्रामयाजी चिकित्सकः ।।
सूपकृद्देवलश्चैव यामि तस्य न मन्दिरम् ।। ३८ ।।
विवाहं धर्मकार्यं वा यो निहन्ति च कोपतः ।।
दिवामैथुनकारी यो यामि तस्य न मन्दिरम् ।।३९।।
इत्युक्त्वा सा महालक्ष्मीरन्तर्द्धानं जगाम ह ।।
ददौ दृष्टिं च देवानां गृहे मर्त्ये च नारद ।।४०।।
तां प्रणम्य सुराः सर्वे मुनयश्च मुदाऽन्विताः ।।
प्रजग्मुः स्वालयं शीघ्रं शत्रुत्यक्तं सुहृद्युतम् ।।४१।।
नेदुर्दुन्दुभयः स्वर्गे बभूवुः पुष्पवृष्टयः।।
प्रापुर्देवाः स्वराज्यं च निश्चलां कमलां मुने ।। ४२ ।।
इत्येवं कथितं वत्स लक्ष्मीचरितमुत्तमम् ।।
सुखदं मोक्षदं सारं किं पुनः श्रोतुमिच्छसि ।। ४३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणपतेर्गजास्यत्वकारण लक्ष्मीब्राह्मणविरोधादि लक्ष्मीचरित्रकथनं नाम त्रयोविंशोऽध्यायः ।। २३ ।।