प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २३ ब्रह्मवैवर्तपुराणम्
अध्यायः २४
वेदव्यासः
अध्यायः २५ →

नारद उवाच ।।
नारायण महाभाग हरेरंशसमुद्भव ।।
सर्वं श्रुतं त्वत्प्रसादाद्गणेशचरितं शुभम् ।।१।।
दन्तद्वययुतं वक्त्रं गजराजस्य बालके ।।
विष्णुना योजितं ब्रह्मन्नेकदन्तः कथं शिशुः ।।२।।
कुतो गतोऽस्य दन्तोऽन्यस्तद्भवान्वक्तुमर्हति ।।
सर्वेश्वरस्त्वं सर्वज्ञः कृपावान्भक्तवत्सलः ।। ३ ।।
सूत उवाच ।।
नारदस्य वचः श्रुत्वा स्मेरानन सरोरुहः ।।
एकदन्तस्य चरितं प्रवक्तुमुपचक्रमे ।। ४ ।।
नारायण उवाच ।।
शृणु नारद वक्ष्येऽहमितिहासं पुरातनम् ।।
एकदन्तस्य चरितं सर्वमंगलमंगलम् ।। ५ ।।
एकदा कार्त्तवीर्य्यश्च जगाम मृगयां मुने ।।
मृगान्निहत्य बहुलान्परिश्रान्तो बभूव सः ।। ६ ।।
निशामुखे दिनेऽतीते तत्र तस्थौ वने नृपः ।।
जमदग्न्याश्रमाभ्याशे चोपोष्यानीकसंयुतः ।।७।।
प्रातः सरोवरे राजा स्नातः शुचिरलंकृतः ।।
तदाऽऽत्रेयेण दत्तं च ह्यजपद्भक्तितो मनुम् ।। ८ ।।
मुनिर्ददर्श राजानं शुष्ककण्ठौष्ठतालुकम्।।
प्रीत्याऽऽदरेण मृदुलं पप्रच्छ कुशलं मुनिः ।। ९ ।।
ननाम सम्भमाद्राजा मुनिं सूर्य्यसमप्रभम् ।।
स च तस्मै ददौ प्रीत्या प्रणताय शुभाशिषः ।। १० ।।
वृत्तान्तं कथयामास राजा चानशनादिकम् ।।
संभ्रमेणैव मुनिना त्रस्तो राजा निमन्त्रितः ।। ११ ।।
विज्ञाप्य तं मुनिश्रेष्ठः प्रययौ स्वालयं मुदा ।।
एतद्वृत्तं कामधेनुं कथयामास भीतवत् ।।१२।।
उवाच सा मुनिं भीतं भयं किं ते मम स्थितौ ।।
जगद्भोजयितुं शक्तस्त्वं मया को नृपो मुने ।। १३ ।।
राजभोजनयोग्यार्हं यद्यद्द्रव्यं प्रयाचसे ।।
सर्वं तुभ्यं प्रदास्यामि त्रिषु लोकेषु दुर्लभम् ।। १४ ।।
सौवर्णानि च रौप्याणि पात्राणि विविधानि च ।।
भोजनार्हाण्यसंख्यानि पाकपात्राणि यानि च ।। १५ ।।
पात्राणि स्वादुपूर्णानि प्रददौ मुनये च सा ।।
नानाविधानि स्वादूनि परिपक्वफलानि च ।। १६ ।।
पनसाम्रश्रीफलानि नारिकेलादिकानि च ।।
राशीभूतान्यसंख्यानि स्वादुलड्डुकराशयः ।। १७ ।।
यवगोधूमचूर्णानां भक्ष्याणि विविधानि च ।।
पक्वान्नानां पर्वतांश्च परमान्नस्य कन्दरान् ।। १८ ।।
दुग्धानां च घृतानां च नदीर्दध्नां ददौ मुदा ।।
शर्कराणां तथा राशिं मोदकानां च पर्वतान् ।। १९ ।।
पृथुकानां सुशालीनां पर्वतान्प्रददौ मुदा ।।
ताम्बूलं च ददौ पूर्णं कर्पूरादिसुवासितम् ।। २० ।।
नृपयोग्यं कौतुकाच्च सुन्दरं वस्त्रभूषणम् ।।
मुनिः सम्भृतसम्भारो दत्त्वा द्रव्यं मनोहरम् ।। २१ ।।
भोजयामास राजानं ससैन्यमपि लीलया ।।
यद्यस्तु दुर्लभं वस्तु परिपूर्णं नृपेश्वर ।।
जगाम विस्मयं राजा दृष्ट्वा पात्राण्युवाच ह ।। २२ ।।
राजोवाच ।।
द्रव्याण्येतानि सचिव दुर्लभान्यश्रुतानि च ।।
ममासाध्यानि सहसा क्वागतान्यवलोकय ।। २३ ।।
नृपाज्ञया च सचिवः सर्वं दृष्ट्वा मुनेर्गृहे ।।
राजानं कथयामास वृत्तान्तं महद्भुतम् ।। २४ ।।
सचिव उवाच ।।
दृष्टं सर्वं महाराज निबोध मुनिमन्दिरम् ।।
वह्निकुण्डं यज्ञकाष्ठकुशपुष्पफलान्वितम् ।।२५।।
कृष्णचर्मस्रुवस्रुग्भिः शिष्यसंघैश्च संकुलम् ।।
तैजसाधारसस्यादिसर्वसम्पद्विवर्जितम् ।। २६ ।।
वृक्षचर्मपरीधाना दृष्टाः सर्वे जटाधराः ।।
गृहैकदेशे दृष्टा सा कपिलैका मनोहरा ।। २७ ।।
चार्वंगी रुद्रवर्णाभा रक्तपङ्कजलोचना ।।
ज्वलन्ती तेजसा तत्र पूर्णचन्द्रसमप्रभा ।। २८ ।।
सर्वसम्पद्गुणाधारा साक्षादिव हरिप्रिया ।।
इत्येवं बोधितो राजा दुर्बुद्धिः सचिवाज्ञया ।। २९ ।।
मुनिं ययाचे तां धेनुं निबद्धः कालपाशतः ।।
किं वा पुण्यं च का बुद्धिः कः कालः सर्वतो बली।।३०।।
पुण्यवान्बुद्धिमान्दैवाद्राजेन्द्रो ऽयाचत द्विजम् ।।
पुण्यात्प्रजायते कर्म पुण्यरूपं च भारते ।। ३१ ।।
पापात्प्रजायते कर्म पापरूपं भयावहम् ।।
पुण्यात्कृत्वा स्वर्गभोगं जन्म पुण्यस्थले नृणाम् ।। ३२ ।।
पापाद्भुक्त्वा च नरकं कुत्सितं जन्म जीविनाम् ।।
जीविनां निष्कृतिर्नास्ति स्थिते कर्मणि नारद ।। ३३ ।।
तेन कुर्वन्ति सन्तश्च सन्ततं कर्मणः क्षयम् ।।
सा विद्या तत्तपो ज्ञानं स गुरुः स च बान्धवः ।। ३४ ।।
सा माता स पिता पुत्रस्तत्क्षयं कारयेत्तु यः ।।
जीविनां दारुणो रोगः कर्मभोगः शुभाशुभः ।। ३९ ।।
भक्तवैद्यस्तं निहन्ति कृष्णभक्तिरसायनात् ।।
माया ददाति तां भक्तिं प्रतिजन्मनि सेविता ।। ३६ ।।
परितुष्टा जगद्धात्री भक्तेभ्यो बुद्धिदायिनी ।।
परा परम भक्ताय माया यस्मै ददाति च ।।३७।।
मायां तस्मै मोहयितुं न विवेकं कदाचन ।।
मायाविमोहिते राजा मुनिमानीय यत्नतः ।। ।। ३८ ।।
उवाच विनयाद्भक्त्या कृताञ्जलिपुटो मुदा ।। ३९ ।।
राजोवाच ।।
देहि भिक्षां कल्पतरो कामधेनुं च कामदाम् ।।
मह्यं भक्ताय भक्तेश भक्तानुग्रहकारक ।।४०।।
युष्मद्विधानां दातॄणामदेयं नास्ति भारते ।।
दधीचिर्देवताभ्यश्च ददौ स्वास्थि पुरा श्रुतम् ।। ।। ४१ ।।
भ्रूभंगलीलामात्रेण तपोराशे तपोधन ।।
समूहं कामधेनूनां स्रष्टुं शक्तोऽसि भारते ।। ४२ ।।
मुनिरुवाच ।।
अहो व्यतिक्रमं राजन्ब्रवीषि शठ वञ्चक ।।
दानं दास्यामि विप्रोऽहं क्षत्रियाय कथं नृप ।। ४३ ।।
कृष्णेन दत्ता गोलोके ब्रह्मणे परमात्मना ।।
कामधेनुरियं यज्ञे न देया प्राणतः प्रिया ।। ४४ ।।
ब्रह्मणा भृगवे दत्ता प्रियपुत्राय भूमिप ।।
मह्यं दत्ता च भृगुणा कपिला पैतृकी मम ।।४५।।
गोलोकजा कामधेनुर्दुर्लभा भुवनत्रये।।
लीलामात्रात्कथमहं कपिलां स्रष्टुमीश्वरः ।। ४६ ।।
नाहं रे हालिको मूढस्तुत्या नोत्थापितो बुधः ।।
क्षणेन भस्मसात्कर्तुं क्षमोऽहमतिथिं विना ।। ४७ ।।
गृहं गच्छ गृहं गच्छ मे कोपं नैव वर्द्धय ।।
पुत्र दारादिकं पश्य दैवबाधित पामर ।।४८।।
मुनेस्तद्वचनं श्रुत्वा चुकोप स नराधिपः ।।
नत्वा मुनिं सैन्यमध्यं प्रययौ विधिबाधितः ।। ।। ४९ ।।
गत्वा सैन्यसकाशं स कोपप्रस्फुरिताधरः ।।
किङ्करान्प्रेषयामास धेनुमानयितुं बलात् ।। ५० ।।
कपिलासन्निधिं गत्वा रुरोद मुनिपुंगवः ।।
कथयामास वृत्तान्तं शोकेन हतचेतनः ।। ५१ ।।
रुदन्तं ब्राह्मणं दृष्ट्वा सुरभिस्तमुवाच ह ।।
साक्षाल्लक्ष्मीस्वरूपा सा भक्तानुग्रहकारिका ।।५२।।
सुरभिरुवाच ।।
इन्द्रो वा हालिको वाऽपि वस्तु स्वं दातुमीश्वरः ।।
शास्ता पालयिता दाता स्ववस्तूनां च सन्ततम् ।।५३।।
स्वेच्छया चेन्नृपेन्द्राय मां ददासि तपोधन ।।
तेन सार्द्धं गमिष्यामि स्वेच्छया च तवाज्ञया ।।९४।।
अथवा न ददासि त्वं न गमिष्यामि ते गृहात् ।।
मत्तो दत्तेन सैन्येन दूरीकुरु नृपं द्विषम् ।। ५५ ।।
कथं रोदिषि सर्वज्ञ मायामोहितचेतनः ।।
संयोगश्च वियोगश्च कालसाध्यो न चात्मनः ।। ५६ ।।
त्वं वा को मे तवाहं का सम्बन्धः कालयोजितः ।।
यावदेव हि सम्बन्धो ममत्वं तावदेव हि ।।५७।।
मनो जानाति यद्द्रव्यमात्मीयं चेति केवलम् ।।
दुःखं च तस्य विच्छेदाद्यावत्स्वत्वं च तत्र वै ।।। ।।। ५८ ।।
इत्युक्त्वा कामधेनुश्च सुषाव विविधानि च ।।
शस्त्राण्यस्त्राणि सैन्यानि सूर्यतुल्यप्रभाणि च ।।५९।।
निर्गताः कपिलावक्त्रात्त्रिकोट्यः खड्गधारिणाम् ।।
विनिस्सृता नासिकायाः शूलिनः पञ्च कोटयः ।। ६० ।।
विनिस्सृता लोचनाभ्यां शतकोटिधनुर्द्धरा।।
कपालान्निस्सृता वीरास्त्रिकोट्यो दण्डधारिणाम्।। ६१ ।।
वक्षस्स्थलान्निस्सृताश्च त्रिकोट्यश्शक्तिधारिणाम् ।।
शतकोट्यो गदाहस्ताः पृष्ठदेशाद्विनिर्गताः।।६२।।
विनिस्सृताः पादतलाद्वाद्यभाण्डाः सहस्रशः ।।
जंघादेशान्निस्सृताश्च त्रिकोट्यो राजपुत्रकाः ।। ६३ ।।
विनिर्गता गुह्यदेशात्त्रिकोटिम्लेच्छजातयः।।
दत्त्वा सैन्यानि कपिला मुनये चाभयं ददौ।
युद्धं कुर्वन्तु सैन्यानि त्वं न याहीत्युवाच ह।।६४।।
मुनिः सम्भूतसम्भारैर्हर्षयुक्तो बभूव ह।।
नृपेण प्रेरितो भृत्यो नृपं सर्वमुवाच ह।।६५।।
कपिलासैन्यवृत्तान्तमात्मवर्गपराजयम्।।
तच्छ्रुत्वा नृपशार्दूलस्त्रस्तः कातरमानसः ।।
दूतान्त्संप्रेष्य सैन्यानि चाजहार स्वदेशतः।।६६।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे एकदन्तत्वप्रश्नप्रसङ्गे जदमग्निकार्त्तवीर्ययुद्धारंभवर्णनंनाम चतुर्विंशोऽध्यायः ।। २४ ।।