ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ३१

← अध्यायः ३० ब्रह्मवैवर्तपुराणम्
अध्यायः ३१
वेदव्यासः
अध्यायः ३२ →

नारद उवाच।।
भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः ।।
कृपयाऽदात्परशुरामाय स्तोत्रं च वर्म च ।। १।।
को वाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च ।।
स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हति ।। २ ।।
नारायण उवाच ।।
मन्त्राराध्यो हि भगवान्परिपूर्णतमः स्वयम् ।।
गोलोकनाथः श्रीकृष्णो गोपगोपीश्वरः प्रभुः ।। ३ ।।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।।
स्तवराजं महापुण्यं भूतियोगसमुद्भवम् ।। ४ ।।
मन्त्रं कल्पतरुं नाम सर्वकामफलप्रदम् ।।
ददौ परशुरामाय रत्नपर्वतसन्निधौ ।।५ ।।
स्वयंप्रभानदीतीरे पारिजातवनान्तरे ।।
आश्रमे लोकदेवस्य माधवस्य च सन्निधौ ।। ६ ।।
महादेव उवाच ।। वत्सागच्छ महाभाग भृगुवंशसमुद्भव ।।
पुत्राधिकोऽसि प्रेम्णा मे कवचग्रहणं कुरु ।। ७ ।।
शृणु राम प्रवक्ष्यामि ब्रह्माण्डे परमाद्भुतम् ।।
त्रैलोक्यविजयं नाम श्रीकृष्णस्य जयावहम् ।। ८ ।।
श्रीकृष्णेन पुरा दत्तं गोलोके राधिकाश्रमे ।।
रासमण्डलमध्ये च मह्यं वृन्दावने वने ।। ९ ।।
अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् ।।
पुण्यात्पुण्यतरं चैव परं स्नेहाद्वदामि ते ।। 3.31.१० ।।
यद्धृत्वा पठनाद्देवी मूलप्रकृतिरीश्वरी ।।
शुम्भं निशुम्भं महिषं रक्तबीजं जघान ह ।। ११ ।।
यद्धृत्वाऽहं च जगतां संहर्त्ता सर्वतत्त्ववित्।।
अवध्यं त्रिपुरं पूर्वं दुरन्तमपि लीलया ।। १२ ।।
यद्धृत्वा पठनाद्ब्रह्मा ससृजे सृष्टिमुत्तमाम् ।।
यद्धृत्वा भगवाञ्छेषो विधत्ते विश्वमेव च ।। १३ ।।
यद्धृत्वा कूर्मराजश्च शेषं धत्ते हि लीलया ।।
यद्धृत्वा भगवान्वायुर्विश्वाधारो विभुः स्वयम् ।। १४ ।।
यद्धृत्वा वरुणः सिद्धः कुबेरश्च धनेश्वरः ।।
यद्धृत्वा पठनादिन्द्रो देवानामधिपः स्वयम् ।। ।। १५ ।।
यद्धृत्वा भाति भुवने तेजोराशिः स्वयं रविः ।।
यद्धृत्वा पठनाच्चन्द्रो महाबलपराक्रमः ।। १६ ।।
अगस्त्यः सागरान्सप्त यद्धृत्वा पठनात्पपौ ।।
चकार तेजसा जीर्णं दैत्यं वातापिसंज्ञकम् ।। १७ ।।
यद्धृत्वा पठनाद्देवी सर्वाधारा वसुन्धरा ।।
यद्धृत्वा पठनात्पूता गङ्गा भुवनपावनी ।। १८ ।।
यद्धृत्वा जगतां साक्षी धर्मो धर्मभृतां वरः।।
सर्वविद्याधिदेवी सा यच्च धृत्वा सरस्वती ।।१९।।
यद्धृत्वा जगतां लक्ष्मीरन्नदात्री परात्परा ।।
यद्धृत्वा पठनाद्वेदान्सावित्री सा सुषाव च ।।3.31.२०।।
वेदाश्च धर्म्मवक्तारो यद्धृत्वा पठनाद् भृगो ।।
यद्धृत्वा पठनाच्छुद्धस्तेजस्वी हव्यवाहनः ।।
सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां वरः।।२१।।
दातव्यं कृष्णभक्ताय साधवे च महात्मने ।।
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ।। २२।।
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।।
ऋषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ।।२३।।
त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्त्तितः ।।
परात्परं च कवचं त्रिषु लोकेषु दुर्लभम्।।२४।।
प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ।।
पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ।।२५।।
कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् ।।
हरये नम इत्येवं भ्रूलतां पातु मे सदा ।। २६ ।।
ॐ गोविंदाय स्वाहेति नासिकां पातु सन्ततम् ।।
गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ।। २७ ।।
ॐ नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम ।।
ॐ कृष्णाय नमः शश्वत्पातु मेऽधरयुग्मकम् ।। २८ ।।
ॐ गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु ।।
पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ।। २९ ।।
ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा।।
रासेश्वराय स्वाहेति तालुकं पातु मे सदा।।3.31.३०।।
राधिकेशाय स्वाहेति कण्ठं पातु सदा मम ।।
नमो गोपाङ्गनेशाय वक्षः पातु सदा मम।।३१।।
ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम।।
नमः किशोरवेषाय स्वाहा पृष्ठं सदाऽवतु।।३२।।
उदरं पातु मे नित्यं मुकुन्दाय नमः सदा।।
ॐ ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ।।३३।।
ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम।।
ॐ ह्रीं भगवते स्वाहा नखरं पातु मे सदा।।३४।।
ॐ नमो नारायणायेति नखरन्ध्रं सदाऽवतु।।
ॐ ह्रीं ह्रीं पद्मनाभाय नाभिं पातु सदा मम ।। ३५ ।।
ॐ सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा ।।
ॐ गोपीरमणाय स्वाहा नितम्बं पातु मे सदा ।। ३६ ।।
ॐ गोपीरमणनाथाय पादौ पातु सदा मम ।।
ॐ ह्रीं क्लीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ।। ३७ ।।
ॐ केशवाय स्वाहेति मम केशान्सदाऽवतु ।।
नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ।। ३८।।
ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु।।
ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ।। ३९ ।।
परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु ।।
स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु ।। 3.31.४० ।।
पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु ।।
नैर्ऋत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ।। ४१ ।।
गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः ।।
उत्तरे मां सदा पातु रसिकानां शिरोमणिः ।। ४२ ।।
ऐशान्यां मां सदा पातु वृन्दावनविहारकृत् ।।
वृन्दावनीप्राणनाथः पातु मामूर्ध्वदेशतः ।। ४३ ।।
सदैव माधवः पातु बलिहारी महाबलः ।।
जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ।। ४४ ।।
स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा ।।
सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ॥ ४५ ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ ४६ ॥|
मया श्रुतं कृष्णवक्त्रात्प्रवक्तव्यं न कस्यचित् ॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ॥ ४७ ॥
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥
स च भक्तो वसेद्यत्र लक्ष्मीर्वाणी वसेत्ततः ॥ ४८ ॥
यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः ॥
निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् ॥ ४९ ॥
राजसूयसहस्राणि वाजपेयशतानि च॥
अश्वमेधायुतान्येव नरमेधायुतानि च ॥3.31.५०॥
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥
त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥ ५१ ॥
व्रतोपवासनियमं स्वाध्यायाध्ययनं तपः ॥
स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥ ५२ ।॥
सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि ॥
यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम्।।
स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः।।
यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम्।।५४।।
इदं कवचमज्ञात्वा भजेत्कृष्णं सुमन्दधीः।।
कोटिकल्पं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः।।५५।।
गृहीत्वा कवचं वत्स महीं निःक्षत्रियां कुरु।।
त्रिस्सप्तकृत्वो निश्शंकः सदानन्दो हि लीलया ॥ ५६ ॥।
राज्यं देयं शिरो देयं प्राणा देयाश्च पुत्रक ॥|
एवंभूतं च कवचं न देयं प्राणसंकटे ॥ ५७ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामाय श्रीकृष्णकवचप्रदानं नामैकत्रिंशत्तमोऽध्यायः।।३१।।