प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २९ ब्रह्मवैवर्तपुराणम्
अध्यायः ३०
वेदव्यासः
अध्यायः ३१ →

शंकर उवाच ।।
कस्त्वं वटो कस्य पुत्रः क्व वासः स्तवनं कथम् ।।
किं वा तेऽहं करिष्यामि वाञ्छितं वद साम्प्रतम् ।। १ ।।
पार्वत्युवाच ।।
शोकाकुलं त्वां पश्यामि विमनस्कं सुविस्मितम् ।।
वयसाऽतिशिशुं शान्तं गुणेन गुणिनां वरम्।।२।]
भृगुरुवाच ।।
जमदग्निसुतोऽहं च भृगुवंशसमुद्भवः।।
रेणुकाऽम्बा मे परशुरामोऽहं नामतः प्रभो ।।३।।
क्रीणीहि मां दयासिन्धो विद्यापण्येन किंकरम् ।।
त्वामीशः शरणापन्नं रक्ष मां दीनवत्सल ।। ४ ।।
मृगयामागतं भूपं पिता मे चोपवासिनम्।।
चकारातिथ्यमानीय कपिलादत्तवस्तुना ।। ५ ।।
राजा तं कपिलालोभाद्घातयामास मन्दधीः ।।
कपिला तं मृतं दृष्ट्वा गोलोकं च जगाम सा ।।६।।
माताऽनुगमनं चक्रे ह्यनाथोऽहं च साम्प्रतम् ।।
त्वं मे पिता शिवा माता रक्ष मां पुत्रवत्प्रभो ।। ७ ।।
मया कृता प्रतिज्ञा च शोकेनैवातिदुष्करा ।।
त्रिस्सप्तकृत्वो निर्भूपां करिष्यामि महीमिति ।। ८ ।।
कार्तवीर्य्यं हनिष्यामि समरे तातघातकम् ।।
इत्येतत्परिपूर्णं मे भगवान्कर्तुमर्हति ।। ९ ।।
ब्राह्मणस्य वचः श्रुत्वा दृष्ट्वा दुर्गामुखं हरः ।।
बभूवानम्रवक्त्रश्च सा च शुष्कौष्ठतालुका ।। १० ।।
पार्वत्युवाच ।।
तपस्विन्विप्रपुत्रस्त्वं निर्भूपां कर्तुमिच्छसि ।।
त्रिस्सप्तकृत्वः कोपेन साहसस्ते महान्बटो ।। ११ ।।
हन्तुमिच्छसि निःशस्त्रः सहस्रार्जुनमीश्वरम् ।।
भ्रूभङ्गलीलया यस्य रावणस्य पराजयः ।। १२ ।।
तस्मै प्रदत्तं दत्तेन श्रीहरेः कवचं बटो ।।
शक्तिरव्यर्थरूपा च यया ते हिंसितः पिता ।। १३ ।।
हरेर्म्मन्त्रं संस्तवनं यः पठेच्च दिवानिशम् ।।
को वा शक्नोति तं हन्तुं न पश्यामीह भूतले ।। १४ ।।
अये विप्र गृहं गच्छ किं करिष्यति शंकरः ।।
अन्ये भूपाश्च मद्भृत्याः का भीस्तेषां मयि स्थिते।।१५।।
काल्युवाच।।
अये विप्र बटो जाल्म निर्भूपान्कर्तुमिच्छसि।।
यथा हि वामनश्चन्द्रं करेणाहर्तुमिच्छति।।१६।।
कृतयज्ञान्महापुण्यान्महाबलपराक्रमान् ।।
दिगम्बरसहायेन मद्भृत्यान्हन्तुमिच्छसि ।। १७ ।।
स तयोर्वचनं श्रुत्वा रुरोदोच्चैश्च शोकतः ।।
सहसा पुरतस्तेषां प्राणांस्त्यक्तुं समुद्यतः ।। १८ ।।
विप्रस्य रोदनं श्रुत्वा शंकरः करुणानिधिः ।।
पश्यन्दुर्गां च कालीं च ज्ञात्वाऽऽशयमथो विभुः ।। १९ ।।
तयोरनुमतिं प्राप्य सर्वेशो भक्तवत्सलः ।।
जमदग्निसुतं सद्यः प्रवक्तुमुपचक्रमे ।। २० ।।
शंकर उवाच ।।
अद्यप्रभृति हे वत्स त्वं मे पुत्रसमो महान् ।।
दास्यामि मन्त्रं गुह्यं ते त्रिषु लोकेषु दुर्ल्लभम् ।। २१ ।।
एवंभूतं च कवचं दास्यामि परमाद्भुतम् ।।
लीलया मत्प्रसादेन कार्त्तवीर्यं हनिष्यसि ।। २२ ।।
त्रिस्सप्तकृत्वो निर्भूपां करिष्यसि महीं द्विज ।।
जगत्ते यशसा पूर्णं भविष्यति न संशयः ।। २३ ।।
इत्युक्त्वा शंकरस्तस्मै ददौ मन्त्रं सुदुर्लभम् ।।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।। २४ ।।
स्तवं पूजाविधानं च पुरश्चरणपूर्वकम् ।।
मन्त्रसिद्धेरनुष्ठानं यथावन्नियमक्रमम् ।। २५ ।।
सिद्धिस्थानं कालसंख्यं कथयामास नारद ।।
वेदवेदाङ्गादिकं च पाठयामास तत्क्षणम् ।। २६ ।।
नागपाशं पाशुपतं ब्रह्मास्त्रं च सुदुर्लभम् ।।
नारायणास्त्रमाग्नेयं वायव्यं वारुणं तथा ।। २७ ।।
गान्धर्वं गारुडं चैव जृम्भणास्त्रं तथैव च ।।
गदां शक्तिं च परशुं शूलमव्यर्थमुत्तमम् ।। २८ ।।
नानाप्रकारशस्त्रास्त्रमन्त्रं च विधिपूर्वकम् ।।
शस्त्रास्त्राणां च संहारं तूणी चाक्षयसायकौ ।। २९ ।।
आत्मरक्षणसन्धानं संग्रामविजयक्रमम् ।।
मायायुद्धं च विविधं हुंकारं मन्त्रपूर्वकम् ।। ३० ।।
रक्षणं च स्वसैन्यानां परसैन्यविमर्दनम् ।।
नानाप्रकारमतुलमुपायं रणसंकटे ।।
संहारे मोहिनीं विद्यां ददौ मृत्युहरां हरः ।। ३१ ।।
स्थित्वा चिरं गुरोर्वांसे सर्वविद्यां विबोध्य सः ।।
तीर्थे कृत्वा मन्त्रसिद्धिं तांश्च नत्वा जगाम सः ।।३२।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामस्य शिवदत्तास्त्रशस्त्रादिप्राप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः ।।३०।।