प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३५ ब्रह्मवैवर्तपुराणम्
अध्यायः ३६
वेदव्यासः
अध्यायः ३७ →

नारायण उवाच ।।
मत्स्यराजे निपतिते राजा युद्धविशारदः ।।
राजेन्द्रान्प्रेषयामास युद्धे शस्त्रविशारदान् ।। १ ।।
बृहद्बलं सोमदत्तं विदर्भं मिथिलेश्वरम् ।।
निषधाधिपतिं चैव मगधाधिपतिं तथा ।। २ ।।
आययुः समरे योद्धुं जामदग्न्यं महारथाः ।।
त्रितयाक्षौहिणीभिश्च सेनाभिः सह नारद ।।३।।
रामस्य भ्रातरः सर्वे वीरास्तीक्ष्णास्त्रपाणयः ।।
वारयामासुरस्त्रैश्च तानेव रणमूर्द्धनि ।। ४ ।।
ते वीराः शरजालेन दिव्यास्त्रेण प्रयत्नतः ।।
वारयामासुरेकैकं भ्रातृवर्गान्भृगोस्तथा ।। ।। ५ ।।
आययौ समरे शीघ्रं दृष्ट्वा तांश्च पराजितान् ।।
पिनाकहस्तः स भृगुर्ज्वलदग्निशिखोपमः ।।६।।
चिक्षेप नागपाशं च जामदग्न्यो महाबलः ।।
चिच्छेद तं गारुडेन सोमदत्तो महाबलः ।। ७ ।।
भृगुः शङ्करशूलेन सोमदत्तं जघान ह ।।
बृहद्बलं च गदया विदर्भं मुष्टिभिस्तथा ।। ८ ।।
मैथिलं मुद्गरेणैव शक्त्या वै नैषधं तथा ।।
मागधं चरणोद्घातैरस्त्रजालेन सैनिकान् ।। ९ ।।
निहत्य निखिलान्भूपान्संहाराग्निसमो रणे ।।
दुद्राव कार्त्तवीर्यं च जामदग्न्यो महाबलः ।। 3.36.१० ।।
दृष्ट्वा तं योद्धुमायान्तं राजानश्च महारथाः।।
आययुः समरं कर्त्तुं कार्त्तवीर्य्यं निवार्य्य च ।। ११।।
कान्यकुब्जाश्च शतशः सौराष्ट्राः शतशस्तथा ।।
राष्ट्रीयाः शतशश्चैव वीरेन्द्राः शतशस्तथा ।। १२।।
 सौम्या वाङ्गाश्च शतशो महाराष्ट्रास्तथा दश ।।
तथा गुर्जरजातीयाः कलिङ्गाः शतशस्तथा ।। ।। १३ ।।
कृत्वा तु शरजालं च भृगुश्चिच्छेद तत्क्षणम् ।।
तं छित्त्वाऽभ्युत्थितो रामो नीहारमिव भास्करः ।। १४ ।।
त्रिरात्रं युयुधे रामस्तैः सार्द्धं समराजिरे ।।
द्वादशाक्षौहिणीं सेनां तथा चिच्छेद पर्शुना ।। १५ ।।
रम्भास्तम्भसमूह च यथा खड्गेन लीलया ।।
छित्त्वा सेनां भूपवर्गं जघान शिवशूलतः ।।१६।।
सर्वांस्तान्निहतान्दृष्ट्वा सूर्य्यवंशसमुद्भवः ।।
आजगाम सुचन्द्रश्च लक्ष राजेन्द्रसंयुतः ।। १७ ।।
द्वादशाक्षौहिणीभिश्च सेनाभिः सह संयुगे ।।
कोपेन युयुधे रामं सिंहं सिंहो यथा रणे ।। १८ ।।
भृगुः शङ्करशूलेन नृपलक्षं निहत्य च ।।
द्वादशाक्षौहिणीं सेनामहन्वै पर्शुना बली ।।१९।।
निहत्य सर्वाः सेनाश्च सुचन्द्रं युयुधे बली ।।
नागास्त्रं प्रेरयामास निहृतं तं भृगुः स्वयम् ।। 3.36.२० ।।
नागपाशं च चिच्छेद गारुडेन नृपेश्वरः ।।
जहास च भृगुं राजा समरे च पुनः पुनः ।। २१ ।।
भृगुर्नारायणास्त्रं च चिक्षेप रणमूर्धनि ।।
अस्तं ययौ तं निहन्तुं शतसूर्यसमप्रभम् ।। २२ ।।
दृष्ट्वाऽस्त्रं नृपशार्दूलश्चावरुह्य रथात्क्षणात् ।।
न्यस्तशस्त्रः प्राणमच्च स्तुत्वा नारायणं शिवम् ।। २३ ।।
तमेव प्रणतं त्यक्त्वा ययौ नारायणान्तिकम् ।।
अस्त्रराजो भगवतो रामः संप्राप विस्मयम् ।। २४ ।।
भृगुः शक्तिं च मुसलं तोमरं पट्टिशं तथा ।।
गदां पर्शुं च कोपेन चिक्षिपे तज्जिघांसया ।। २५ ।।
जग्राह काली तान्सर्वान्सुचन्द्रस्यन्दनस्थिता ।।
चिक्षेप शिवशूलं स नृपमाल्यं बभूव तत् ।। २६ ।।
ददर्श पुरतो रामो भद्रकालीं जगत्प्रसूम् ।।
वहन्तीं मुण्डमालां च विकटास्यां भयंकरीम् ।। २७ ।।
विहाय शस्त्रमस्त्रं च पिनाकं च भृगुस्तदा ।।
तुष्टाव तां महामायां भक्तिनम्रात्मकन्धरः ।। २८ ।।
परशुराम उवाच ।।
नमः शङ्करकान्तायै सारायै ते नमो नमः ।।
नमो दुर्गतिनाशिन्यै मायायै ते नमो नमः ।। २९ ।।
नमो नमो जगद्धात्र्यै जगत्कर्त्र्यै नमोनमः ।।
नमोऽस्तु ते जगन्मात्रे कारणायै नमो नमः ।। 3.36.३० ।।
प्रसीद जगतां मातः सृष्टिसंहारकारिणि ।।
त्वत्पादौ शरणं यामि प्रतिज्ञां सार्थिकां कुरु ।। ३१ ।।
त्वयि मे विमुखायां च को मां रक्षितुमीश्वरः ।।
त्वं प्रसन्ना भव शुभे मां भक्तं भक्तवत्सले ।। ३२ ।।
युष्माभिः शिवलोके च मह्यं दत्तो वरः पुरा ।।
तं वरं सफलं कर्तुं त्वमर्हसि वरानने ।। ३३ ।।
रेणुकेयस्तवं श्रुत्वा प्रसन्नाऽभवदम्बिका ।।
मा भैरित्येवमुक्त्वा तु तत्रैवान्तरधीयत ।। ३४ ।।
एतद्भृगुकृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।।
महाभयात्समुत्तीर्णः स भवेदेव लीलया ।। ३५ ।।
स पूजितश्च त्रैलोक्ये तत्रैव विजयी भवेत् ।।
ज्ञानिश्रेष्ठो भवेच्चैव वैरिपक्षविमर्दकः ।। ३६ ।।
एतस्मिन्नन्तरे ब्रह्मा भृगुं धर्मभृतां वरम् ।।
आगत्य कथयामास रहस्यं राममेव च ।। ३७ ।।
ब्रह्मोवाच ।।
शृणु राम महाभाग रहस्यं पूर्वमेव च ।।
सुचन्द्रजयहेतुं च प्रतिज्ञाफलमेव च ।। ३८ ।।
दशाक्षरी महाविद्या दत्ता दुर्वाससा पुरा ।।
सुचन्द्रायैव कवचं भद्रकाल्याः सुदुर्लभम् ।। ३९ ।।
कवचं भद्रकाल्याश्च देवानां च सुदुर्लभम् ।।
कवचं तद्गले यस्य सर्वशत्रुविमर्दकम् ।। 3.36.४० ।।
अतीव पूज्यं शस्तं च त्रैलोक्यजयकारणम्।।
तस्मिन्स्थिते च कवचे कस्त्वं जेतुमलं भुवि ।। ४१ ।।
भृगो गच्छतु भिक्षार्थं करोतु प्रार्थनां नृपम् ।।
सूर्य्यवंशोद्भवो राजा दाता परमधार्मिकः ।। ४२ ।।
प्राणांश्च कवचं मन्त्रं सर्वं दास्यति निश्चितम् ।। ४३ ।।
भृगुः संन्यासिवेषेण गत्वा राजान्तिकं मुने ।।
भिक्षां चकार मन्त्रं च कवचं परमाद्भुतम् ।। ४४ ।।
राजा ददौ च तन्मन्त्रं कवचं परमादरात् ।।
ततः शङ्करशूलेन तं जघान नृपं भृगुः ।। ४५ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे भृगुकार्तवीर्ययुद्धवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ।। ३६