ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ४३

← अध्यायः ४२ ब्रह्मवैवर्तपुराणम्
अध्यायः ४३
वेदव्यासः
अध्यायः ४४ →

नारायण उवाच ।।
गणेशवचनं श्रुत्वा स तदा रागतः सुधीः ।।
पर्शुहस्तस्स वै रामो निर्भयो गन्तुमुद्यतः ।। १ ।।
गणेश्वरस्तदा दृष्ट्वा शीघ्रमुत्थाय यत्नतः ।।
वारयामास स प्रीत्या चकार विनयं पुनः ।। २ ।।
रामस्तं प्रेरयामास हुं कृत्वा तु पुनः पुनः ।।
बभूव च ततस्तत्र वाग्युद्धं हस्तकर्षणैः ।। ३ ।।
पर्शुनिक्षेपणं कर्तुं मनश्चक्रे भृगुस्तदा ।।
हाहा कृत्वा कार्तिकेयो बोधयामास संसदि ।। ४ ।।
अव्यर्थमस्त्रं हे भ्रातर्गुरुपुत्रे कथं क्षिपेः ।।
गुरुवद्गुरुपुत्रं च मा भवान्हन्तुमर्हति ।। ९ ।।
पर्शुं क्षिपन्तं कुपितं रक्तपद्मदलेक्षणम् ।।
गणेशो रोधयामास निवर्त्तस्वेत्युवाच तम् ।। ६ ।।
पुनर्गणेशं रामश्च प्रेरयामास कोपतः ।।
पपात पुरतो वेगान्मानहीनो गजाननः ।। ७ ।।
गजाननः समुत्थाय धर्मं कृत्वा तु सक्षिणम् ।।
पुनस्तं बोधयामास जितक्रोधः शिवात्मजः ।। ८ ।।
निवर्तस्व निवर्त्तस्वेत्युच्चार्य्य च पुनः पुनः ।।
प्रवेशने ते का शक्तिरीश्वराज्ञां विना प्रभो ।। ९ ।।
मम भ्राता त्वमतिथिर्विद्यासम्बन्धतो ध्रुवम् ।।
ईश्वरप्रियशिष्यश्च सोढं वै तेन हेतुना ।। 3.43.१० ।।
न ह्यहं कार्त्तवीर्य्यश्च भूपास्ते क्षुद्रजन्तवः ।।
अतो विप्र न जानासि मां च विश्वेश्वरात्मजम् ।। ११ ।।
क्षणं तिष्ठ निवर्त्तस्व समरे ब्राह्मणातिथे ।।
क्षणान्तरे त्वया सार्द्धं यास्यामीश्वरसन्निधिम् ।। १२ ।।
नारायण उवाच ।।
हेरम्बवचनं श्रुत्वा प्रजहास पुनः पुनः।।
पर्शुं क्षेप्तुं मनश्चक्रे प्रणम्य हरिशङ्करौ ।।१३।।
पर्शुं क्षिपन्तं कोपेन तं च रामं गजाननः ।।
दृष्ट्वा मुमूर्षुं देवेशो धर्मं कृत्वा तु साक्षिणम् ।। १४ ।।
योगेन वर्द्धयामास शुण्डां तां कोटियोजनाम् ।।
योगीन्द्रस्तत्र सन्तिष्ठन्भ्रामयित्वा पुनः पुनः ।। १५ ।।
शतधा वेष्टयित्वा तु भ्रामयित्वा तु तत्र वै ।।
ऊर्द्ध्वमुत्तोल्य वेगेन क्षुद्राहिं गरुडो यथा ।। १६ ।।
सप्तद्वीपांश्च शैलांश्च मेरुं चाखिलसागरान् ।।
क्षणेन दर्शयामास रामं योगपराहतम् ।। १७ ।।
हस्तपादाद्यनाथं तं जडं सर्वांगकम्पितम् ।।
पुनस्तं भ्रामयामास दर्पितं दर्पनाशनः ।। १८ ।।
भूर्लोकं च भुवर्लोकं स्वर्लोकं च सुरेश्वरः ।।
जनोलोकं तपोलोकं ध्रुवलोकं च तत्परम् ।। १९ ।।
गौरीलोकं शम्भुलोकं दर्शयामास नारद ।।
दर्शयित्वा तु विध्यण्डं स पपौ सप्त सागरान् ।। 3.43.२० ।।
पुनरुद्गिरणं चक्रे सनक्रमकरोदकम् ।।
तत्र तं पातयामास गम्भीरे सागरोदके ।। २१ ।।
मुमूर्षुं तं सन्तरन्तं पुनर्जग्राह लीलया ।।
पुनस्तत्र भ्रामयित्वा ब्रह्माण्डादूर्द्ध्वमप्यमुम् ।। २२ ।।
वैकुण्ठं दर्शयामास सलक्ष्मीकं चतुर्भुजम् ।।
क्षणं तत्र भ्रामयित्वा योगीन्द्रो योगमायया ।। २३ ।।
पुनः करं च योगेन वर्द्धयामास लीलया ।।
गोलोकं दर्शयामास विरजां च नदीश्वरीम् ।। २४ ।।
वृन्दावनं शृङ्गशतं शैलेन्द्रं रासमण्डलम् ।।
गोपीगोपादिभिः सार्द्धं श्रीकृष्णं श्यामसुन्दरम् ।। २५ ।।
द्विभुजं मुरलीहस्तं सस्मितं सुमनोहरम् ।।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।। २६ ।।
तेजसा कोटिसूर्य्याभं राधावक्षःस्थलस्थितम् ।।
एवं कृष्णं दर्शयित्वा प्रणमय्य पुनः पुनः ।। २७ ।।
क्षणेन लम्बमानं च भ्रामयित्वा पुनः पुनः ।।
दृष्ट्वा कृष्णं चेष्टदेवं सर्वपापप्रणाशनम् ।।
भ्रूणहत्यादिकं पापं भृगोर्दूरं चकार ह ।। २८ ।।
न भवेद्यातना नष्टा विना भोगेन पापजा ।।
स्वल्पां च बुभुजे रामो गताऽन्या कृष्णदर्शनात् ।। २९ ।।
क्षणेन चेतनां प्राप्य भुवि वेगात्पपात ह ।।
बभूव दूरीभूतं च गणेशस्तम्भनं भृगोः ।। 3.43.३० ।।
सस्मार कवचं स्तोत्रं गुरुदत्तं सुदुर्लभम् ।।
अभीष्टदेवं श्रीकृष्णं गुरुं शम्भुं जगद्गुरुम् ।। ३१ ।।
चिक्षेप पर्शुमव्यर्थं शिवतुल्यं च तेजसा ।।
ग्रीष्ममध्याह्नमार्तण्डप्रभाशतगुणं मुने ।। ३२ ।।
पितुरव्यर्थमस्त्रं च दृष्ट्वा गणपतिः स्वयम् ।।
जग्राह वामदन्तेन नास्त्रं व्यर्थं चकार ह ।। ३३ ।।
निपात्य पर्शुर्वेगेन च्छित्त्वा दन्तं समूलकम् ।।
जगाम रामहस्तं च महादेवबलेन च ।। ३४ ।।
हाहेति शब्दमाकाशे देवाश्चक्रुर्महाभिया ।।
वीरभद्रः कार्त्तिकेयः क्षेत्रपालाश्च पार्षदाः ।। ।। ३५ ।।
पपात भूमौ दन्तश्च सरक्तः शब्दयंस्तदा ।।
पपात गैरिकायुक्तो यथा स्फटिकपर्वतः ।।३६।।
शब्देन महता विप्र चकम्पे पृथिवी भिया ।।
कैलासस्था जनाः सर्वे मूर्च्छामापुः क्षणं भिया ।। ३७ ।।
निद्रा बभञ्ज तत्काले निद्रेशस्य जगत्प्रभोः ।।
आजगाम बहिः शम्भुः पार्वत्या सह सम्भ्रमात् ।।३८।।
पुरो ददर्श हेरम्बं लोहितास्यं क्षतेन तम् ।।
भग्नदन्तं जितक्रोधं सस्मितं लज्जितं मुने ।। ३९ ।।
पप्रच्छ पार्वती शीघ्रं स्कन्दं किमिति पुत्रक ।।
स च तां कथयामास वार्तां पौर्वापरीं भिया ।। 3.43.४० ।।
चुकोप दुर्गा कृपया रुरोद च मुहुर्मुहुः ।।
उवाच शम्भोः पुरतः पुत्रं कृत्वा स्ववक्षसि ।। ४१ ।।
सम्बोध्य शम्भुं शोकेन भिया विनयपूर्वकम् ।।
उवाच प्रणता साध्वी प्रणतार्तिहरं पतिम् ।। ४२ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणेशदन्तभङ्गकारणवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ।। ४३ ।।