प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ४१ ब्रह्मवैवर्तपुराणम्
अध्यायः ४२
वेदव्यासः
अध्यायः ४३ →

परशुराम उवाच ।।
यास्याम्यन्तःपुरं भ्रातः प्रणामं कर्तुमीश्वरम् ।।
प्रणम्य मातरं भक्त्या यास्यामि त्वरितं गृहम्।।१।।
त्रिस्सप्तकृत्वो निर्भूपां कृत्वा पृथ्वीं च लीलया ।।
कार्त्तवीर्य्यः सुचन्द्रश्च हतो यस्य प्रसादतः ।। २ ।।
नानाविद्या यतो लब्धा नानाशस्त्रं सुदुर्लभम् ।।
तं गुरुं जगतां नाथं द्रष्टुमिच्छामि साम्प्रतम्।।३।।
सगुणं निर्गुणं चैव भक्तानुग्रहविग्रहम्।।
सत्यं सत्यस्वरूपं च ब्रह्म ज्योतिः सनातनम् ।।४।।
स्वेच्छामयं दयासिन्धुं दीनबन्धुं मुनीश्वरम्।।
आत्मारामं पूर्णकामं व्यक्ताव्यक्तं परात्परम् ।।५।।
परापराणां स्रष्टारं पुरुहूतं पुरस्कृतम् ।।
पुराणं परमात्मानमीशानं त्वादिमव्ययम्।।६।।
सर्वमङ्गलमाङ्गल्यं सर्वमंगलकारणम् ।।
सर्वमगलदं शान्तं सर्वैश्वर्य्यप्रदं वरम् ।। ७ ।।
आशुतोषं प्रसन्नास्यं शरणागतवत्सलम् ।।
भक्ताभयप्रदं भक्तवत्सलं समदर्शनम् ।।८।।
इत्थं परशुरामोऽस्थादुक्त्वा गणपतेः पुरः ।।
वाचा मधुरया तत्र समुवाच गणेश्वरः ।। ९ ।।
क्षणं तिष्ठ क्षणं तिष्ठ शृणु भ्रातरिदं वचः ।।
रहःस्थलस्थितो नैव द्रष्टव्यः स्त्रीयुतः पुमान् ।। 3.42.१० ।।
स्त्रीसंयुक्तं च पुरुषं यः पश्यति नराधमः ।।
करोति रसभङ्गं वा कालसूत्रं व्रजेद्ध्रुवम् ।।११।।।
तत्र तिष्ठति पापीयान्यावच्चन्द्रदिवाकरम् ।।
विशेषतश्च पितरं गुरुं भूतपतिं द्विज ।। १२ ।।
रहः सुरतसंसक्तं नहि पश्येद्विचक्षणः ।।।
कामतः कोपतो वाऽपि यः पश्येत्सुरतोन्मुखम् ।। १३ ।।
स्त्रीविच्छेदो भवेत्तस्य ध्रुवं सप्तसु जन्मसु ।।
श्रोणीवक्षस्थलं वक्त्रं यः पश्यति परस्त्रियः ।।
कामतोऽपि विमूढश्च सोऽन्धो भवति निश्चितम् ।। १४ ।।
गणेशस्य वचः श्रुत्वा प्रहस्य भृगुनन्दनः ।।
तमुवाच महाकोपान्निष्ठुरं वचनं मुने ।। १५ ।।
परशुराम उवाच ।।
अहो श्रुतं किं वचनमपूर्वं नीतिसंयुतम् ।।
इदमेवमहो नैवं श्रुतमीश्वरवक्त्रतः ।। १६ ।।
श्रुतं श्रुतौ वाक्यमिदं कामिनां च विकारिणाम् ।।
निर्विकारस्य च शिशोर्न दोषः कश्चिदेव हि ।।
यास्याम्यन्तःपुरं भ्रातस्तव किं तिष्ठ बालक ।। १७ ।।
यथादृष्टि करिष्यामि मत्कार्य्यं समयोचितम् ।।
तवैव तातो माता चेत्येवं नैव निरूपितम् ।।१८।।
जगतां पितरौ तौ च पार्वतीपरमेश्वरौ ।।
पार्वती स्त्री पुमाञ्छम्भुरिति कैर्न निरूपितः ।। १९ ।।
सर्वरूपः शङ्करश्च सर्वारूपा च पार्वती ।।
गुणातीतस्य का क्रीडा तद्भंगो वा कुतो विभो ।। 3.42.२० ।।
क्रीडा लज्जा भीतिभंगो ग्राम्यस्यैव न चेशितुः ।।
स्तन्धयं च मां दृष्ट्वा पित्रोर्ल्लज्जा कुतो भवेत् ।। २१ ।।
लज्जायाश्च कुतो लज्जा लज्जेशस्य च सा कुतः ।।
लज्जा लज्जां किमाप्नोति तापं किं वा हुताशनः ।। २२ ।।
शीतं शैत्यमहो भ्रातर्निदाघो दाहमेव च ।।
भीतिर्भीतिमवाप्नोति मृत्योर्मृत्युर्बिभेति किम् ।। २३ ।।
कुतो ज्वरो ज्वरं हन्ति व्याधिं व्याधिश्च जीर्यति ।।
संहर्त्ता नापि संहर्त्तुः कालः कालाद्बिभेति किम्।। ।। २४ ।।
स्रष्टारं सृजते स्रष्टा पाता किं पाति ते मते ।।
क्षुत्क्षुधं समवाप्नोति तृष्णा तृष्णां प्रयाति किम् ।। २५ ।।
निद्रा निद्रां च शोभां श्रीः शान्तिः शांतिं च ते मते ।।
पुष्टिः पुष्टिं किमाप्नोति तुष्टिस्तुष्टिं क्षमा क्षमाम्।।
आत्मनः परमात्माऽस्ति शक्तिः शक्त्या बिभेति किम् ।। २६ ।।
कामक्रोधौ लोभमोहौ स्वात्मनैते न बाधिताः ।।
दया न बद्धा दयया नेच्छा बद्धेच्छया प्रभो ।। २७ ।।
ज्ञानबुद्ध्योः को विकारो जरां नो बाधते जरा ।।
चिन्ता न चिन्तया ग्रस्ता चक्षुश्चक्षुर्न पश्यति ।। २८ ।।
हर्षो मुदं किं प्राप्नोति शोकं शोको न बाधते ।।
का विपत्तिर्विपत्तेश्च सम्पत्तिः सम्पदः कुतः ।। २९ ।।
मेधाया धारणा शक्तिः स्मृतेर्वा स्मरणं कुतः ।।
न दग्धः स्वप्रतापेन विवस्वानिति सम्मतः ।। 3.42.३० ।।
विपरीतमतो भ्रातस्त्वयैवाचरितोऽधुना ।।
न श्रुतोऽयं गुरुमुखान्न दृष्टो न श्रुतौ श्रुतः ।। ३१ ।।
इत्युक्त्वा चापि परशुरामश्शश्वत्प्रहस्य सः ।।
शीघ्रं गन्तुं मनश्चक्रं तद्गुहाभ्यन्तरं मुदा ।। ३२ ।।
तच्च रामवचः श्रुत्वा जितक्रोधो गणेश्वरः ।।
शुद्धसत्त्वस्वरूपश्च प्रहस्य तमुवाच ह ।। ३३ ।।
गणपतिरुवाच ।।
अज्ञानतिमिराच्छन्नो ज्ञानं प्राप्नोति तद्विदः ।।
पितुर्भ्रातुर्मुखाज्ज्ञानं दुर्लभं भाग्यवाँल्लभेत् ।। ३४ ।।
श्रुतं ज्ञानं विशिष्टं च ज्ञानिनामपि दुर्लभम् ।।
किञ्चिन्मे त्वं मन्द बुद्धेः शृणु भ्रातर्निवेदनम् ।। ३५ ।।
यो निर्गुणः स निर्लिप्तः शक्तिभिर्न हि संयुतः ।।
सिसृक्षुराश्रितश्शक्त्या निर्गुणः सगुणो भवेत् ।। ३६ ।।
यावन्ति च शरीराणि भोगार्हाणि महामुने ।।
प्राकृतानि च सर्वाणि विना श्रीकृष्णविग्रहम् ।। ३७ ।।
ध्यायन्ति योगिनस्तं च शुद्धज्योतिस्स्वरूपिणम् ।।
हस्तपादादिरहितं निर्गुणं प्रकृतेः परम् ।। ३८ ।।
वैष्णवास्ते नमस्यन्ति भक्तानुग्रहकारकम् ।।
कुतो बभूव तज्ज्योतिरहो तेजस्विनो विना ।। ३९ ।।
ज्योतिरभ्यन्तरे नित्यं शरीरं श्यामसुन्दरम् ।।
द्विभुजं मुरलीहस्तं सस्मितं पीतवाससम्।।3.42.४०।।
अतीवामूल्यसद्रत्नभूषणैश्च विभूषितम्।।
ज्योतिरभ्यन्तरे मूर्तिं पश्यन्ति कृपया विभोः।।४१।।
तदा दास्ये नियुक्तास्ते भवन्त्येवेश्वरेच्छया ।।
योगस्तपो वा दास्यस्य कलां नार्हन्ति षोडशीम् ।। ४२ ।।
यदा सृष्ट्युन्मुखः कृष्णः ससृजे प्रकृतिं मुदा ।
तद्योनौ ह्यर्पितं वीर्यं वीर्य्याड्डिम्भो बभूव ह ।। ४३ ।।
दिव्येन लक्षवर्षेण गर्भाड्डिम्भो विनिर्गतः ।।
तदा बभूव निश्श्वासस्ततो वायुर्बभूव ह ।। ४४ ।।
निश्श्वासेन समं भ्रातर्मुखबिन्दुर्विनिर्गतः ।।
ततो बभूव सहसा जलराशिर्हरेः पुरः ।। ४५ ।।
तज्जले च स्थितो डिम्भो दिव्यवर्षाणि लक्षकम् ।।
ततो बभूव सहसा विश्वाधारो महाविराट् ।। ४६ ।।
यावन्ति गात्रलोमानि तस्य सन्ति महात्मनः ।।
ब्रह्माण्डानि च तावन्ति विद्यमानानि निश्चितम् ।। ४७ ।।
तत्रैव प्रतिविध्यण्डे ब्रह्मविष्णुमहेश्वराः ।।
देवाश्च मुनयश्चैव विद्यमानाश्चराचराः।।४८।।
महाविराडाश्रयश्च सर्वस्य च जनस्य च।।
निश्श्वासवायुर्भगवान्बभूव श्रीहरेर्मुने।।४९।।
महाविष्णुश्च कलया ततः क्षुद्रविराडभूत् ।।
तन्नाभिकमले ब्रह्मा शंकरस्तल्लाटजः।।3.42.५०।।
विष्णुस्तदंशः पाता यः श्वेतद्वीपनिवासकृत् ।।
एवं ते प्रतिविध्यण्डे ब्रह्मविष्णुमहेश्वराः ।। ५१ ।।
स्वयं च स्वांशकलया नानामूर्त्तिधरो हरिः ।।
तदाऽभवच्च सगुणः सर्वशक्तियुतस्तदा ।। ५२ ।।
कथं लज्जादिरहितः स च स्वच्छामयो महान् ।।
सर्वदा सर्वभोगार्हः सर्वशक्तिसमन्वितः ।। ५३ ।।
लज्जा नास्त्येव लज्जाया मतोऽयं सर्वसम्मतः ।।
या च लज्जावती देवी तस्य लज्जा कुतो गता ।। ५४ ।।
सर्वशक्तिमती दुर्गा प्रकृत्या सा च शैलजा ।।
तस्या लज्जादयः सन्ति सर्वदा सर्वसम्मताः ।। ५५ ।।
पञ्चधा प्रकृतिर्या च श्रीकृष्णस्य बभूव ह ।।
राधा पद्मा च सावित्री दुर्गा देवी सरस्वती ।। ५६ ।।
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः।।
प्राणाधिका प्रिया सा च राधाऽऽस्ते तस्य वक्षसि ।। ५७ ।।
विद्याधिष्ठातृदेवी या सावित्री ब्रह्मणः प्रिया ।।
लक्ष्मीर्नारायणस्यैव सर्वसम्पत्स्वरूपिणी ।। ५८ ।।
सरस्वती द्विधा भूत्वा कृष्णस्य मुख निर्गता ।।
सावित्री ब्रह्मणः कान्ता स्वयं नारायणस्य च ।। ५९ ।।
बुद्ध्यधिष्ठातृदेवी या ज्ञानसूः शक्तिसंयुता ।।
सा दुर्गा शूलिनः कान्ता तस्या लज्जा कुतो गता ।।3.42.६०।।
प्रकृतिः पञ्चधा भ्रातर्गोलोके च बभूव ह।।
इमाः प्रधानाः कलया बभूवुर्नैकधा यतः।।६१।।
विप्रेन्द्र नित्यं वैकुण्ठं ब्रह्माण्डात्परमुच्यते ।।
अविनाशि स्थलं शश्वल्लये प्राकृतिके ध्रुवम् ।। ६२ ।।
तत्र नारायणो देवः कृष्णार्द्धांशश्चतुर्भुजः ।।
वनमाली पीतवासाः शक्त्या वै पद्मया सह ।। ६३ ।।
स्वयं कृष्णश्च गोलोके द्विभुजः श्यामसुन्दरः।।
सस्मितो मुरलीहस्तो राधावक्षःस्थलस्थितः ।। ६४ ।।
शश्वद्गोगोपगोपीभिः संयुक्तो गोपरूपधृक् ।।
परिपूर्णतमः श्रीमान्निर्गुणः प्रकृतेः परः ।। ६५ ।।
स्वेच्छामयः स्वतन्त्रस्तु परमानन्दरूपधृक् ।।
सुराः कलोद्भवा यस्य षोडशांशो महाविराट् ।। ६६ ।।
यतो भवन्ति विश्वानि स्थूलसूक्ष्मादिकानि च ।।
पुनस्तत्र प्रलीयन्त एवमेव मुहुर्मुहुः ।। ६७ ।।
गोलोक ऊर्ध्ववैकुण्ठात्पञ्चाशत्कोटियोजनः ।।
नास्ति लोकस्तदूर्ध्वं च नास्ति कृष्णात्परः प्रभुः ।। ६८ ।।
इदं श्रुतं शम्भुवक्त्रान्मया ते कथितं द्विज ।।
क्षणं तिष्ठाधुना भ्रातरीश्वरः सुरतोन्मुखः ।। ६९ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणेशपरशुरामसंवादो नाम द्विचत्वारिंशत्तमोऽध्यायः ।। ४२ ।।