प्रमुखा विकल्पसूचिः उद्घाट्यताम्
श्रीकृष्णजन्मखण्डः
अध्यायः ००१
वेदव्यासः
अध्यायः ००२ →

।। श्रीगणेशाय नमः ।।

।। श्रीसरस्वत्यै नमः ।।

।। श्रीगोपीजनवल्लभाय नमः ।।

।। अथ ब्रह्मवैवर्तीयश्रीकृष्णजन्मखण्डप्रारंभः ।।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। १ ।।
नारद उवाच ।। ।।
श्रुतं प्रथमतो ब्रह्मन्ब्रह्मखण्डं मनोहरम् ।।
ब्रह्मणो वदनांभोजात्परमाद्भुतमेव च ।।१।।
ततस्तद्वचनात्तूर्णं समागत्य तवांतिकम् ।।
श्रुतं प्रकृतिखण्डं च सुधाखंडात्परं वरम् ।। २ ।।
ततो गणपतेः खंडमखंडभवखंडनम् ।।
न मे तृप्तं मनो लोलं विशिष्टं श्रोतुमिच्छति ।। ३ ।।
श्रीकृष्णजन्मखंडं च जन्मादेः खंडनं नृणाम् ।।
प्रदीपं सर्वतत्त्वानां कर्मघ्नं हरिभक्तिदम् ।। ४ ।।
सद्यो वैराग्यजननं भवरोगनिकृंतनम् ।।
कारणं मुक्तिबीजानां भवाब्धेस्तारणं परम् ।। ५ ।।
कर्मोपभोगरोगाणां खंडने च रसायनम् ।।
श्रीकृष्णचरणांभोजप्राप्तिसोपान कारणम् ।। ६ ।।
जीवनं वैष्णवानां च जगतां पावनं परम् ।।
वद विस्तार्य मां भक्तं शिष्यं च शरणागतम् ।। ७ ।।
केन वा प्रार्थितः कृष्ण आजगाम महीतलम् ।।
सर्वांशैरेक एवेशः परिपूर्णतमः स्वयम् ।।८।।
युगे कुत्र कुतो हेतोः कुत्र वाऽऽविर्बभूव ह ।।
वसुदेवोऽस्य जनकः को वा का वा च देवकी ।। ९ ।।
वद कस्य कुले जन्म मायया सुविडंबनम् ।।
किं चकार समागत्य केन रूपेण वा हरिः ।। ।। 4.1.१० ।।
जगाम गोकुलं कंसभयेन सूतिकागृहात् ।।
कथं कंसात्कीटतुल्याद्भयेशस्य भयं मुने ।। ११ ।।
हरिर्वा गोपवेषेण गोकुले किं चकार ह ।।
कुतो गोपाङ्गनासार्धं विजहार जगत्पतिः ।।१२।।
का वा गोपांगना के वा गोपाला बालरूपिणः ।।
का वा यशोदा को नंदः किं वा पुण्यं चकार ह ।।१३।।
कथं राधा पुण्यवती देवी गोकुलवासिनी ।।
व्रजे वा व्रजकन्या सा बभूव प्रेयसो हरेः।।१४।।
कथं गोप्यो दुराराध्यं संप्रापुरीश्वरं परम् ।।
कथं ताश्च परित्यज्य जगाम मथुरां पुनः ।। १९ ।।
भारावतरणं कृत्वा किं विधाय जगाम सः ।।
कथयस्व महाभाग पुण्यश्रवणकीर्तन ।। १६ ।।
सुदुर्लभां हरिकथां तरणिं भवसागरे ।।
निषेकभोगनिगडक्लेशच्छेदन कर्तनीम् ।। १७ ।।
पापेंधनानां दहने ज्वलदग्निशिखामिव ।।
पुंसां श्रुतवतां कोटिजन्मकिल्बिषनाशिनीम् ।। १८ ।।
मुक्तिं कर्णसुधारम्यां शोकसागरनाशिनीम् ।।
मह्यं भक्ताय शिष्याय ज्ञानं देहि कृपानिधे ।। १९ ।।
तपोजपमहादानात्पृथिव्यां तीर्थदर्शनात् ।।
श्रुतिपाठादनशनाद्व्रताद्देवार्चनादपि ।। 4.1.२० ।।
दीक्षायाः सर्वयज्ञेषु यत्फलं लभते नरः ।।
षोडशीं ज्ञानदानस्य कलां नार्हति तत्फलम् ।। २१ ।।
पित्राऽहं प्रेषितो ज्ञानादानाय तव सन्निधिम् ।।
सुधासमुद्रं संप्राप्य को वाऽन्यत्पातुमिच्छति ।। २२ ।।
श्रीनारायण उवाच ।। ।।
मया ज्ञातोऽसि धन्यस्त्वं पुण्यराशिः सुमूर्तिमान् ।।
करोषि भ्रमणं लोकान्पावितुं कुलपावन ।। २३ ।।
जनानां हृदयं सद्यः सुव्यक्तं वचनेन वै ।।
शिष्ये कलत्रे कन्यायां दौहित्रे बांधवेऽपि च ।। २४ ।।
पुत्रे पौत्रे च वचसि प्रतापे चापदि स्त्रियाम् ।।
वृद्धौ वैरिणि विद्यायां ज्ञायते हृदयं नृणाम् ।। २५ ।।
जीवन्मुक्तोऽसि पूतस्त्वं शुद्धभक्तो गदाभृतः ।।
पुनासि पादरजसा सर्वाधारां वसुन्धराम् ।। २६ ।।
पुनासि लोकान्त्सर्वांश्च स्वीयविग्रहदर्शनात् ।।
सुमंगलां हरिकथां तेन त्वं श्रोतुमिच्छसि ।। २७ ।।
यत्र कृष्णकथाः संति तत्रैव सर्वदेवताः ।।
ऋषयो मुनयश्चैव तीर्थानि निखिलानि च ।। २८ ।।
कथाः श्रुत्वा कथांते ते यांति सन्तो निरापदम् ।।
भवंति तानि तीर्थानि येषु कृष्णकथाः शुभाः ।। २९ ।।
सद्यः कृष्णकथावक्ता स्वस्य पुंसां शतं शतम्।।
समुद्धृत्य श्रुतवतां पुनाति निखिलं कुलम् ।। 4.1.३० ।।
प्रष्टा तु प्रश्नमात्रेण पुनाति कुलमात्मनः ।।
श्रोता श्रवणमात्रेण स्वकुलं स्व स्वबांधवान् ।। ३१ ।।
शतजन्मतपस्तप्तो जन्मेदं भारते लभेत् ।।
करोति सफलं जन्म श्रुत्वा हरिकथामृतम् ।। ३२ ।।
अर्चनं वंदनं मन्त्रजपः सेवनमेव च ।।
स्मरणं कीर्तनं शश्वद्गुणश्रवणमीप्सितम् ।। ३३ ।।
निवेदनं तस्य दास्यं नवधा भक्तिलक्षणम् ।।
करोति जन्म सुफलं कृत्वैतानि च नारद ।। ३४ ।।
न च विघ्नो भवेत्तस्य परमायुर्न नश्यति ।।
न याति तत्पुरः कालो वैनतेयमिवोरगः ।। ३५ ।।
न जहाति समीपं च क्षणं तस्य हरिः स्वयम् ।।
उपतिष्ठति तूर्णं तमणिमादिकसिद्धयः ।। ३६ ।।
सुदर्शनं भ्रमत्येव तस्य पार्श्वे दिवानिशम् ।।
कृष्णाज्ञया च रक्षार्थं को वा किं कर्तुमीश्वरः ।। ३७ ।।
न यांति तत्समीपं च स्वप्नेऽपि यमकिंकराः ।।
ज्वलदग्निं यथा दृष्ट्वा शलभा न व्रजंति तम् ।। ३६ ।।
व्याधयो विपदः शोका विप्राश्च न प्रयांति तम् ।।
न याति तत्समीपं च मृत्युर्मृत्युभयान्मुने ।। ३९ ।।
ऋषयो मुनयः सिद्धाः सन्तुष्टाः सर्वदेवताः ।।
स च सर्वत्र निःशंकः सुखी कृष्णप्रसादतः ।। 4.1.४० ।।
तव कृष्णकथायां च रतिरात्यंतिकी सदा ।।
जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम् ।। ४१ ।।
विप्रेंद्र का प्रशंसेयं जन्म ते ब्रह्ममानसे ।।
यत्र यत्र कुले जन्म तन्मतिस्तादृशी भवेत् ।। ४२ ।।
पिता विधाता जगतां कृष्णपादाब्जसेवया ।।
नित्यं करोति यः शश्वन्नवधा भक्तिलक्षणम् ।। ४३ ।।
रतिः कृष्णकथायां च यस्याश्रुपुलकोद्गमः ।।
मनो निमग्नं तत्रैव स भक्तः कथितो बुधैः ।।४४।।
पुत्रदारादिकं सर्वं जानाति श्रीहरेरिति ।।
आत्मना मनसा वाचा स भक्तः कथितो बुधैः ।। ४५ ।।
निर्जने तीर्थसंपर्के निःसंगा ये मुदाऽन्विताः ।।
ध्यायंते चरणांभोजं श्रीहरेस्ते च वैष्णवाः ।।४६।।
दयाऽस्ति सर्वजीवेषु सर्वं कृष्णम यं जगत् ।।
यो जानाति महाज्ञानी स भक्तो वैष्णवो मतः ।।४७।।
शश्वद्ये नाम गायंति गुणं मंत्रं जपंति च ।।
कुर्वंति श्रवणं गाथा वदंति तेऽतिवैष्णवाः ।। ४६ ।।
लब्धानीष्टानि वस्तूनि प्रदातुं हरये मुदा ।।
तूर्णं यस्य मनो हृष्टं स भक्तो ज्ञानिनां वरः ।। ४९ ।।
यन्मनो हरिपादाब्जे स्वप्ने ज्ञाने दिवानिशम्।।
पूर्वकर्मोपभोगं च बहिर्भुङ्क्ते स वैष्णवः ।। 4.1.५० ।।
गुरुवक्त्राद्विष्णुमंत्रो यस्य कर्णे विशत्यलम् ।।
तं वैष्णवं महापूतं प्रवदंति मनीषिणः ।। ५१ ।।
पूर्वान्त्सप्त परान्त्सप्त सप्त मातामहादिकान् ।।
सोदरानुद्धरेद्भक्तः स्वप्रसूं च प्रसूप्रसूम् ।।५२।।
कलत्रं कन्यकां बंधुं शिष्यं दौहित्रमात्मनः ।।
किंकरान्किंकरीश्चैवमुद्धरेद्वैष्णवः सदा ।। ५३ ।।
सदा वांछति तीर्थानि वैष्णवस्पर्शदर्शने ।।
पापिदत्तानि पापानि तेषां नश्यंति संगतः ।। ५४ ।।
गोदोहनक्षणं यावद्यत्र तिष्ठंति वैष्णवाः ।।
तत्र सर्वाणि तीर्थानि संति तावन्महीतले ।।५५।।
ध्रुवं तत्र मृतः पापी मुक्तो याति हरेः पदम् ।।
तथैव ज्ञानगंगायामंते कृष्णस्मृतौ यथा।।५६।।
तुलसीकानने गोष्ठे श्रीकृष्णमंदिरे परे।।
वृंदारण्ये हरिद्वारे तीर्थेष्वन्येषु वा यथा ।।५७।।
पापानि पापिनां यांति तीर्थस्नानावगाहनात् ।।
तेषां पापानि नश्यंति वैष्णवस्पर्शवायुना ।।५८।।
न हि स्थातुं शक्नुवंति पापान्येव कृतानि च ।।
ज्वलदग्नौ यथा क्षिप्रं शुष्काणि हि तृणानि च ।।५९।।
भक्तं वर्त्मनि गच्छंतं ये ये पश्यंति मानवाः।।
सप्तजन्मार्जिताघानि तेषां नश्यंति निश्चितम् ।।4.1.६०।।
ये निंदंति हृषीकेशं तद्भक्तं पुण्यरूपिणम् ।।
शतजन्मार्जितं पुण्यं तेषां नश्यति निश्चितम्।। ६१ ।।
ते पच्यंते महाघोरे कुंभीपाके भयानके ।।
भक्षिताः कीटसंघेन यावच्चंद्रदिवाकरौ ।। ६२ ।।
तस्य दर्शनमात्रेण पुण्यं नश्यति निश्चितम् ।।
गंगां स्नात्वा रविं नत्वा तदा विद्वान्विशुध्यति ।। ६३ ।।
वैष्णवस्पर्शमात्रेण मुक्तो भवति पातकी ।।
तस्य पापानि हंत्येव स्वांतःस्थो मधुसूदनः।। ।। ६४ ।।
इत्येवं कथितो विप्र विष्णुवैष्णवयोर्गुणः ।।
अधुना श्रीहरेर्जन्म निबोध कथयामि ते ।। ६५ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे विष्णुवैष्णवयोर्गुणप्रशंसाप्रस्ताववर्णनं नाम प्रथमोऽध्यायः ।। १ ।।