प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ००१ श्रीकृष्णजन्मखण्डः
अध्यायः ००२
वेदव्यासः
अध्यायः ००३ →

।। श्रीनारायण उवाच ।। ।।
येन वा प्रार्थितः कृष्ण आजगाम महीतलम्।।
यं यं विधाय भूमौ स जगाम स्वालयं विभुः ।। १।।
भारावतरणोपायं दुष्टानां च वधोद्यमम् ।।
सर्वं ते कथयिष्यामि सुविचार्य विधानतः ।। २ ।।
अधुना गोपवेषं च गोकुलागमनं हरेः ।।
राधा गोपालिका येन निबोध कथयामि ते ।। ३ ।।
शंखचूडवधं पूर्वं संक्षेपात्कथितं श्रुतम् ।।
अधुना तत्सुविस्तार्य निबोध कथयामि ते ।। ।। ४ ।।
श्रीदाम्नः कलहश्चैव बभूव राधया सह ।।
श्रीदामा शंखचूडश्च शापात्तस्या बभूव ह ।। ५ ।।
राधां शशाप श्रीदामा याहि योनिं च मानवीम् ।।
व्रजे व्रजांगना भूत्वा विचरस्व महीतले ।। ६ ।।
भीता श्रीदामशापात्सा श्रीकृष्णं समुवाच ह ।।
गोपीरूपा भविष्यामि श्रीदामा मां शशाप ह ।। ७ ।।
कमुपायं करिष्यामि वद मां भयभंजन ।।
त्वया विना कथमहं धरिष्यामि स्वजीवनम् ।। ८ ।।
क्षणमेकं युगशतं कालनाथ त्वया विना ।।
चक्षुर्निमेषविरहाद्भवेदंधं मनो मम ।। ९।।
शरत्पार्वणचंद्राभं क्षुधापूर्णाननं तव ।।
नाथ चक्षुञ्चकोराभ्यां पिबाम्यहमहर्निशम्।। 4.2.१० ।।
त्वमात्मा मे मनः प्राणा देहमात्रं वहाम्यहम् ।।
दृष्टिशक्तिश्च चक्षुस्त्वं जीवनं परमं धनम् ।।११।।
स्वप्ने ज्ञाने त्वयि मनः स्मरामि त्वत्पदांबुजम् ।।
तव दास्यं विना नाथ न जीवामि क्षणं विभो ।। १२ ।।
कृष्णस्तद्वचनं श्रुत्वा बोधयामास सुंदरीम् ।।
वक्षसि प्रेयसीं कृत्वा चकार निर्भयां च ताम् ।।१३।।
महीतलं गमिष्यामि वाराहे च वरानने ।।
मया सार्धं भूगमनं जन्म तेऽपि निरूपितम् ।।१४।।
व्रजं गत्वा व्रजे देवि विहरिष्यामि कानने ।।
मम प्राणाधिका त्वं च भयं किं ते मयि स्थिते ।।१५।।
तामित्युक्त्वा हरिस्तत्र विरराम जगत्पतिः ।।
अतो हेतोर्जगन्नाथो जगाम नंदगोकुलम्।। १५ ।।
किं वा तस्य भयं कंसाद्भयांतकारकस्य च ।।
माया भयच्छलेनैव जगाम राधिकांतिकम् ।। १७ ।।
विजहार तया सार्धं गोपवेषं विधाय सः ।।
सह गोपांगनाभिश्च प्रतिज्ञापालनाय च ।।१८।।
ब्रह्मणा प्रार्थितः कृष्णः समागत्य महीतलम् ।।
भारावतरणं कृत्वा जगाम स्वालयं विभुः ।। १९ ।।
नारद उवाच ।।
श्रीदाम्नः कलहश्चैव कथं वा राधया सह ।।
संक्षेपात्कथितं पूर्वं संव्यस्य कथयाधुना ।। 4.2.२० ।। ।।
श्रीनारायण उवाच ।।
एकदा राधया सार्धं गोलोके श्रीहरिः स्वयम् ।।
विजहार महारण्ये निर्जने रासमंडले ।। ।। २१ ।।
राधिकासुखसंभोगाद् बुबुधे न स्वकं परम्।।
कृत्वा विहारं श्रीकृष्णस्तामपृष्ट्वा विहाय च।।२२।।
गोपिकां विरजामन्यां शृङ्गारार्थं जगाम ह ।।
वृंदारण्ये च विरजा सुभगा राधिकासमा ।।२३।।
तस्या वयस्याः सुंदर्यो गोपीनां शतकोटयः ।।
कृष्णप्राणाधिका गोपी धन्या मान्या च योषिताम् ।।२४।।
रत्नसिंहासनस्था सा ददर्श हरिमन्तिके।।
ददर्श श्रीहरिस्तां च शरच्चंद्रनिभाननाम् ।।२५।।
मनोहरां सस्मितां च पश्यंतीं वक्रचक्षुषा ।।
सदा षोडशवर्षीयां प्रोद्भिन्ननवयौवनाम् ।।२६।।
रत्नालंकारशोभाढ्यां भूषितां शुक्लवाससा ।।
पुलकांकितसर्वांगीं कामबाणप्रपीडिताम् ।।२७।।
दृष्ट्वा तां श्रीहरिस्तूर्णं विजहार तया सह ।।
पुष्पतल्पे महारण्ये निर्जने रत्नमंडपे ।।२८।।
मूर्च्छामवाप विरजा कृष्णशृंगारकौतुकात् ।।
कृत्वा वक्षसि प्राणेशं कोटिकंदर्पसन्निभम् ।। २९ ।।
तया सक्तं श्रीहरिं च रत्नमंडपसंस्थितम् ।।
दृष्ट्वा च राधिकाल्यश्च चक्रुस्तां च निवेदनम् ।। 4.2.३० ।।
तासां च वचनं श्रुत्वा सुष्वाप च चुकोप ह ।।
भृशं रुरोद सा देवी रक्तपंकजलोचना ।। ३१ ।।
ता उवाच महादेवी मां तं दर्शयितुं क्षमाः ।।
यदि सत्यं ब्रूत यूयं मया सार्धं प्रगच्छत ।। ३२ ।।
करिष्यामि फलं गोप्याः कृष्णस्य च यथोचितम् ।।
को रक्षिताऽद्य तस्याश्च मयि शास्तिं प्रकुर्वति ।। ३३ ।।
शीघ्रमानयताल्यश्च तया सार्द्धं हरिं प्रियम् ।।
अंतर्वक्त्रं सस्मितं च विषकुंभं सुधामुखम् ।। ३४ ।।
मदाश्रयं समागंतुं यूयं दासं न दास्यथ ।।
तमेव मंडपं रम्यं यात संरक्षतेश्वरम् ।। ३५ ।।
राधिकावचनं श्रुत्वा काश्चिद्गोप्यो भयान्विताः ।।
ताः सर्वाः संपुटांजल्यो भक्तिनम्रात्मकंधराः ।।
तामूचुः पुरतः स्थित्वा सर्वा एव प्रियां सतीम् ।। ३६ ।।
।। आल्य ऊचुः ।।
वयं तं दर्शयिष्यामो विरजासहितं विभुम् ।। ३७ ।।
तासां च वचनं श्रुत्वा रथमारुह्य सुंदरी ।।
जगाम सार्धं गोपीभिस्त्रिषष्टिशतकोटिभिः ।। ३८ ।।
रत्नेंद्रसाररचितं कोटिसूर्यसमप्रभम् ।।
मणींद्रसाररचितं कलशानां त्रिकोटिभिः ।। ३९ ।।
राजितं चित्रराजीभिर्वैजयंतीविराजितम् ।।
लक्षचक्रसमायुक्तं मनोयायि मनोहरम् ।। 4.2.४० ।।
मणिसारविकारैश्च कोटिस्तंभैः सुशोभितम् ।।
नानाचित्रविचित्रैश्च सहितैः सुमनोहरैः ।। ४१ ।।
सिंदूराकारमणिभिर्मध्यदेशे विभूषितैः ।।
रत्नकृत्रिमसिंहैश्च रथचक्रोर्ध्वसंस्थितैः ।। ४२ ।।
चतुर्लक्षपरिमितैश्चित्रघंटासमन्वितैः ।।
चित्रपुत्तलिशोभाढ्यैर्विचित्रैश्च विराजितम् ।। ४३ ।।
रतिमंदिरलक्षैश्च रत्नसारविनिर्मितैः ।।
मणिसारकपाटैश्च शोभितैश्चित्रवाजिभिः ।। ४४ ।।
मणींद्रसारकलशैः शेखरोज्ज्वलितैर्युतम् ।।
भोगद्रव्यसमायुक्तं वेषद्रव्यसमन्वितम् ।। ४५ ।।
शोभितं रत्नशय्याभी रत्नपात्रघटान्वितम् ।।
हरिन्मणीनां वेदीनां समूहेन समन्वितम् ।। ४६ ।।
कुंकुमाभमणीनां च सोपानैः कोटिभिर्युतम् ।।
स्यमंतकैः कौस्तुभैश्च रुचकैः प्रवरैस्तथा ।। ४७ ।।
पद्मकृत्रिमकोटीनां शतकैश्च सुशोभितम् ।।
चित्रकाननवापीभि र्विशिष्टाभिर्विराजितम् ।। ४८ ।।
रत्नेंद्रसाररचितकलशोज्ज्वलशेखरम् ।।
शतयोजनमूर्ध्वं च दशयोजनविस्तृतम् ।। ४९ ।।
पारिजातप्रसूनानां मालाकोटिविराजितम् ।।
कुंदाना करवीराणां यूथिकानां तथैव च ।। 4.2.५० ।।
सुचारुचंपकानां च नागेशानां मनोहरैः ।।
मल्लिकानां मालतीनां माधवीनां सुगंधिनाम् ।। ५१ ।।
कदंबानां च मालानां कदंबैश्च विराजितम् ।।
सहस्रदलपद्मानां मालाभिश्च विराजितम् ।। ५२ ।।
चित्रपुष्पोद्यानसरः काननैश्च विभूषितम् ।।
सर्वेषां स्यंदनानां च श्रेष्ठं वायुवहं परम् ।। ५३ ।।
तत्सूक्ष्मवस्त्रसाराणां वरैराच्छादितं परम् ।।
रत्नदर्पणलक्षाणां शतकैश्च समन्वितम् ।। ५४ ।।
श्वेतचामरकोटीभिर्वज्रकोटिभिरन्वितम् ।।
चन्दनागरुकस्तूरीकुंकुमद्रवचर्चितैः ।। ५५ ।।
पारिजातप्रसूनानां कोटितल्पविराजितम् ।।
कोटिघंटासमायुक्तं पताकाकोटिभिर्युतम् ।। ५६ ।।
रत्नशय्याकोटिभिश्च चित्रवज्रपरिच्छदैः ।।
चंदनाक्तैश्चंपकानां कुंकुमैश्च विचित्रितैः ।। ५७ ।।
पुष्पोपधानसंयुक्तैः शृंगारार्हाभिरन्वितम् ।।
अदृश्यैरश्रुतैर्द्रव्यैः सुंदरैश्च विभूषितम् ।। ५८ ।।
एवंभूताद्रथात्तूर्णमवरुह्य हरिप्रिया ।।
जगाम सहसा देवी तं रत्नमंडपं मुने ।। ५९ ।।
द्वारे नियुक्तं ददृशे द्वारपालं मनोहरम् ।।
लक्षगोपैः परिवृतं स्मेराननसरोरुहम् ।। 4.2.६० ।।
गोपं श्रीदामनामानं श्रीकृष्णप्रियकिंकरम् ।।
तमुवाच रुषा देवी रक्तपंकजलोचना ।। ६१ ।।
गच्छ दूरं गच्छ दूरं रतिलंपटकिंकर ।।
कीदृशीं मत्परां कांतां द्रक्ष्यामि त्वत्प्रभोरहम् ।। ६२ ।।
राधिकावचनं श्रुत्वा निःशंकः पुरतः स्थितः ।।
तामेव न ददौ गंतुं वेत्रपाणिर्महाबलः ।। ६३ ।।
तूर्णं च राधिकाल्यश्च श्रीदामानं सकिंकरम् ।।
बलेन प्रेरयामासुः कोपेन स्फुरिताधराः ।। ६४ ।।
श्रुत्वा कोलाहलं शब्दं गोपिकानां हरिः स्वयम् ।।
ज्ञात्वा च कोपितां राधामंतर्धानं चकार ह ।। ६५ ।।
विरजा राधिकाशब्दादंतर्धानं हरेरपि ।।
दृष्ट्वा राधां भयार्ता सा जहौ प्राणांश्च योगतः ।। ६६ ।।
सद्यस्तत्र सरिद्रूपं तच्छरीरं बभूव ह ।।
व्याप्तं च वर्तुलाकारं तया गोलोकमेव च ।। ६७ ।।
कोटियोजनविस्तीर्णं प्रस्थेऽतिनिम्नमेव च ।।
दैर्घ्ये दशगुणं चारु नानारत्नाकरं परम् ।। ६८ ।। ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे विरजानदप्रस्ताववर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।