प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ००३ श्रीकृष्णजन्मखण्डः
अध्यायः ००४
वेदव्यासः
अध्यायः ००५ →

।। नारद उवाच ।। ।।
केन वा प्रार्थितः कृष्णो महीं च केन हेतुना ।।
आजगाम जगन्नाथो वद वेदविदां वर ।। १ ।।
।। नारायण उवाच ।। ।।
पुरा वाराहकल्पे सा भाराक्रांता वसुंधरा ।।
भृशं बभूव शोकार्ता ब्रह्माणं शरणं ययौ ।। २ ।।
सुरैश्चासुरसंतप्तैर्भृशमुद्विग्नमानसैः ।।
सार्द्धं तैस्तां दुर्गमां च जगाम वेधसः सभाम् ।। ३ ।।
ददर्श तस्यां देवेशं ज्वलंतं ब्रह्मतेजसा ।।
ऋषीन्द्रैश्च मुनीन्द्रैश्च सिद्धेंद्रैः सेवितं मुदा ।। ४ ।।
अप्सरोगणनृत्यं च पश्यंतं सस्मितं मुदा ।।
गंधर्वाणां च संगीतं श्रुतवंतं मनोहरम् ।। ५ ।।
जपंतं परमं ब्रह्म कृष्ण इत्यक्षरद्वयम् ।।
भक्त्यानंदाश्रुपूर्णं तं पुलकांकितविग्रहम् ।। ६ ।।
भक्त्या सा त्रिदशैः सार्द्धं प्रणम्य चतुराननम् ।।
सर्वं निवेदनं चक्रे दैत्यभारादिकं मुने ।।
साऽश्रुपूर्णा सपुलका तुष्टाव च रुरोद च ।।७।।
तामुवाच जगद्धाता कथं स्तौषि च रोदिषि ।।
कथमागमनं भद्रे वद भद्रं भविष्यति ।।८।।
सुस्थिरा भव कल्याणि भयं किं ते मयि स्थिते।।
आश्वास्य पृथिवीं ब्रह्मा देवान्पप्रच्छ सादरम् ।। ९ ।।
कथमागमनं देवा युष्माकं मम सन्निधिम् ।।
ब्रह्मणो वचनं श्रुत्वा देवा ऊचुः प्रजापतिम् ।। १० ।।
भाराक्रांता च वसुधा दस्युग्रस्ता वयं प्रभो ।।
त्वमेव जगतां स्रष्टा शीघ्रं नो निष्कृतिं कुरु ।। ११ ।।
गतिस्त्वमस्या भो ब्रह्मन्निर्वृतिं कर्तुमर्हसि ।।
पीडिता येन भारेण पृथिवीयं पितामह ।। १२ ।।
वयं तेनैव दुःखार्तास्तद्भारहरणं कुरु ।।
देवानां वचनं श्रुत्वा तां पप्रच्छ जगद्विधिः।।१३।।
दूरीकृत्य भयं वत्से सुखं तिष्ठ ममांतिकम् ।।
केषां भारमशक्ता त्वं सोढुं पंकजलोचने ।। १४ ।।
अपनेष्यामि तं भद्रे भद्रं ते भविता धुवम् ।।
तस्य सा वचनं श्रुत्वा तमुवाच स्वपीडनम्।।
पीडिता येन येनैवं प्रसन्नवदनेक्षणा ।। १५ ।।
।। क्षितिरुवाच ।। ।।
शृणु तात प्रवक्ष्यामि स्वकीयां मानसीं व्यथाम् ।।
विना बंधुं सविश्वासं नान्यं कथितुमर्हति ।। १६ ।।
स्त्रीजातिरबला शश्वद्रक्षणीया स्वबंधुभिः ।।
जनकस्वामिपुत्रैश्च गर्हिताऽन्यैश्च निश्चितम् ।। १७ ।।
त्वया पृष्टा जगत्तात न लज्जा कथितुं मम ।।
येषां भारैः पीडिताऽहं श्रूयतां कथयामि ते ।। १८ ।।
कृष्णभक्तिविहीना ये ये च तद्भक्तनिंदकाः ।।
तेषां महापातकिनामशक्ता भारवाहने ।। १९ ।।
स्वधर्माचारहीना ये नित्यकृत्यविवर्जिताः ।।
श्रद्धाहीनाश्च वेदेषु तेषां भारेण पीडिता ।। २० ।।
पितृमातृगुरुस्त्रीणां पोषणं पुत्रपोष्ययोः ।।
ये न कुर्वंति तेषां च न शक्ता भारवाहने ।। २१ ।।
ये मिथ्यावादिनस्तात दयासत्य विवर्जिताः ।।
निंदका गुरुदेवानां तेषां भारेण पीडिता ।।२२।।
मित्रद्रोही कृतघ्नश्च मिथ्यासाक्ष्यप्रदायकः ।।
विश्वासघ्नो न्यासहर्ता तेषां भारेण पीडिता ।। २३ ।।
कल्याणसूक्तसामानि हरेर्नामैकमंगलम् ।।
कुर्वंति विक्रयं ये वै तेषां भारेण पीडिता ।। २४ ।।
जीवघाती गुरुद्रोही ग्रामयाजी च लुब्धकः ।।
शवदाही शूद्रभोजी तेषां भारेण पीडिता ।। २५ ।।
पूजायज्ञोपवासादि व्रतानि विविधानि च ।।
ये ये मूढा विहंतारस्तेषां भारेण पीडिता ।।२६।।
सदा द्विषंति ये पापा गोविप्रसुरवैष्णवान् ।।
हरिं हरिकथां भक्तिं तेषां भारेण पीडिता ।। २७ ।।
शंखादीनां च भारेण पीडिताऽहं यथा विधे ।।
ततोऽधिकानां दैत्यानां भारेण परिपीडिता ।।२८।।
इत्येवं कथितं सर्वं मद्व्यथाया निवेदनम् ।।
त्वया यदि सुपाल्याऽहं प्रतीकारं कुरु प्रभो।।२९।।
इत्येवमुक्त्वा वसुधा रुरोद च मुहुर्मुहुः ।।
ब्रह्मा तद्रोदनं दृष्ट्वा तामुवाच कृपानिधिः ।। ३० ।।
भारं तवापनेष्यामि दस्यूनामप्युपायतः ।।
उपायतोऽपि कार्याणि सिद्ध्यंत्येव वसुन्धरे ।।३१।।
कालेन भारहरणं करिष्यति मदीश्वरः ।।
मन्त्रं मंगलकुम्भं च शिवलिंगं च कुंकुमम् ।। ३२ ।।
मधुकाष्ठं चंदनं च कस्तूरीं तीर्थमृत्तिकाम् ।।
खङ्गगंडकखंडं च स्फाटिकं पद्मरागकम् ।।३३।।
इंद्रनीलं सूर्यमणिं रुद्राक्षं कुशमूलकम् ।।
शालग्रामशिलां शंखं तुलसीं प्रतिमां जलम् ।।३४।।
शंखं प्रदीपमालां च शिलामर्च्यां च घंटिकाम्।।
निर्माल्यं चैव नैवेद्यं हरिद्वर्णमणिं तथा।।
ग्रंथियुक्तं यज्ञसूत्रं दर्पणं श्वेतचामरम् ।।३५।।
गोरोचनं च मुक्तां च शुक्तिं माणिक्यमेव च ।।
पुराणसंहितां वह्निं कर्पूरं परशुं तथा ।। ३६ ।।
रजतं कांचनं चैव प्रवालं रत्नमेव च ।।
कुशबीजं तीर्थतोयं गव्यं गोमूत्रगोमयम् ।। ३७ ।।
त्वयि ये स्थापयिष्यंति मूढाश्चैतानि सुन्दरि ।।
पच्यन्ते कालसूत्रेण वर्षाणामयुतं ध्रुवम् ।।३८।।
ब्रह्मा पृथ्वीं समाश्वास्य देवताभिस्तया सह ।।
जगाम जगतां धाता कैलासं शंकरालयम् ।। ३९ ।।
गत्वा तमाश्रमं रम्यं ददर्श शंकरं विधिः ।।
वसंतमक्षयवटमूले स्वःसरितस्तटे।। ४० ।।
व्याघ्रचर्मपरीधानं दक्षकन्यास्थिभूषणम् ।।
त्रिशूलपट्टिशधरं पंचवक्त्रं त्रिलोचनम् ।। ४१ ।।
नानासिद्धैः परिवृतं योगींद्रगणसेवितम्।।
परितोऽप्सरसां नृत्यं पश्यंतं सस्मितं मुदा ।। ४२ ।।
गंधर्वाणां च संगीतं श्रुतवंतं कुतूहलात् ।।
पश्यंतीं पार्वतीं प्रीत्या पश्यंतं वक्रचक्षुषा ।। ४३ ।।
जपंतं पञ्चवक्त्रेण हरेर्नामैकमङ्गलम् ।।
मंदाकिनीपद्मबीजमालया पुलकांकितम् ।। ४४।।
एतस्मिन्नंतरे ब्रह्मा तस्थावग्रे स धूर्जटेः ।।
पृथिव्या सुरसंघैश्च सार्द्धं प्रणतकंधरैः ।। ४५ ।।
उत्तस्थौ शंकरः शीघ्रं भक्त्या दृष्ट्वा जगद्गुरुम् ।।
ननाम मूर्ध्ना संप्रीत्या लब्धवानाशिषं ततः ।। ४६ ।।
प्रणेमुर्देवताः सर्वे शंकरं चंद्रशेखरम् ।।
प्रणनाम धरा भक्त्या चाशिषं युयुजे हरः ।। ४७ ।।
वृत्तांतं कथयामास पार्वतीशं प्रजापतिः ।।
श्रुत्वा नतमुखस्तूर्णं शंकरो भक्तवत्सलः ।। ४८ ।।
भक्तापायं समाकर्ण्य पार्वतीपरमेश्वरौ ।।
बभूवतुस्तौ दुःखार्तौ बोधयामास तौ विधिः ।। ४९ ।।
ततो ब्रह्मा महेशश्च सुरसंघान्वसुंधराम् ।।
गृहं प्रस्थापयामास समाश्वास्य प्रयत्नतः ।।५०।।
ततो देवेश्वरैस्तूर्णमागत्य धर्ममंदिरम् ।।
सह तेन समालोच्य प्रजग्मुर्भवनं हरेः ।। ५१ ।।
वैकुंठं परमं धाम जरामृत्युहरं परम् ।।
वायुना धार्यमाणं च ब्रह्मांडादूर्ध्वमुत्तमम् ।।
कोटियोजनमूर्ध्वं च ब्रह्मलोकात्सनातनम् ५२ ।।
वर्णनीयं न कविभिर्विचित्रं रत्ननिर्मितम् ।।
पद्मरागैरिंद्रनीलै राजमार्गैर्विभूषितम् ।। ५३ ।।
ते मनोयायिनः सर्वे संप्रापुस्तं मनोहरम् ।।
हरेरंतःपुरं गत्वा ददृशुः श्रीहरिं सुराः ।। ५४ ।।
रत्नसिंहासनस्थं च रत्नालंकारभूषितम् ।।
रत्नकेयूरवलयरत्ननूपुरशोभितम् ।। ९५ ।।
रत्नकुण्डलयुग्मेन गंडस्थलविराजितम् ।।
पीतवस्त्रपरीधानं वनमालाविभूषितम् ।। ५६ ।।
शांतं सरस्वतीकांतं लक्ष्मीधृतपदांबुजम् ।।
कोटिकंदर्पलीलाभं स्मितवक्त्रं चतुर्भुजम् ।। ५७ ।।
सुनंदनंदकुमुदैः पार्षदैरुपसेवितम् ।।
चंदनोक्षितसर्वांगं सुरत्नमुकुटोज्ज्वलम् ।।
परमानंदरूपं च भक्तानुग्रहकारकम् ।। ५८ ।।
तं प्रणेमुः सुरेंद्राश्च भक्त्या ब्रह्मादयो मुने ।।
तुष्टुवुः परया भक्त्या भक्तिनम्रात्मकंधराः ।।
परमानंदभारार्ताः पुलकांचितविग्रहाः ।। ९९ ।।
ब्रह्मोवाच ।। ।। नमामि कमलाकांतं शांतं सर्वेष्टमच्युतम् ।।
वयं यस्य कलाभेदाः कलांशकलया सुराः ।।६०।।
मनवश्च मुनींद्राश्च मानुषाश्च चराचराः ।।
कलाकलांशकलया भूतास्त्वत्तो निरंजन ।।६१।।
शंकर उवाच ।।
त्वामक्षयमक्षरं वा व्यक्तमव्यक्तमीश्वरम् ।।
अनादिमादिमानंदरूपिणं सर्वरूपिणम् ।।६२।।
अणिमादिकसिद्धीनां कारणं सर्वकारणम्।।
सिद्धिज्ञं सिद्धिदं सिद्धिरूपं कः स्तोतुमीश्वरः।।६३।।
।। धर्म उवाच ।। ।।
वेदे निरूपितं वस्तु वर्णनीयं विचक्षणैः ।।
वेदे निर्वचनीयं यत्तन्निर्वक्तुं च कः क्षमः ।।
यस्य संभावनीयं यद्गुणरूपं निरंजनम् ।। ६४ ।।
तदतिरिक्तं स्तवनं किमहं स्तौमि निर्गुणम् ।।
ब्रह्मादीनामिदं स्तोत्रं षट्श्लोकोक्तं महामुने ।। ६९ ।।
पठित्वा मुच्यते दुर्गाद्वाञ्छितं च लभेन्नरः ।।
देवानां स्तवनं श्रुत्वा तानुवाच हरिः स्वयम् ।। ६६ ।।
गोलोकं यात यूयं च यामि पश्चाच्छ्रिया सह ।।
नरनारायणौ तौ द्वौ श्वेतद्वीपनिवासिनौ ।। ६७ ।।
एते यास्यंति गोलोके तथा देवी सरस्वती ।।
अनंता मम माया च कार्त्तिकेयो गणाधिपः ।।
सावित्री वेदमाता च पश्चाद्यास्यंति निश्चितम् ।। ६८ ।।
तत्राहं द्विभुजः कृष्णो गोपीभी राधया सह ।।
अत्राहं कमलायुक्तः सुनंदादिभिरावृतः ।। ६९ ।।
नारायणश्च कृष्णोऽहं श्वेतद्वीपनिवासकृत् ।।
ममैवैताः कलाः सर्वे देवा ब्रह्मादयः स्मृताः ।। ७० ।।
कलाकलांशकलया सुरासुरनरादयः ।।
गोलोकं यात यूयं च कार्यसिद्धिर्भविष्यति ।। ७१ ।।
वयं पश्चाद्गमिष्यामः सर्वेषामिष्टसिद्धये ।।
इत्युक्त्वा वै सभामध्ये विरराम हरिः स्वयम् ।। ७२ ।।
प्रणम्य देवताः सर्वा जग्मुर्गोलोकमद्भुतम् ।।
विचित्रं परमं धाम जरामृत्युहरं परम् ।। ७३ ।।
ऊर्ध्वं वैकुंठतो गम्यं पंचाशत्कोटियोजनम् ।।
वायुना धार्यमाणं च निर्मितं स्वेच्छया विभोः ।। ७४ ।।
तमनिर्वचनीयं च देवास्ते गमनोत्सुकाः ।।
ते मनोयायिनः सर्वे संप्रापुर्विरजातटम् ।। ७५ ।।
दृष्ट्वा देवाः सरित्तीरं विस्मयं परमं ययुः ।।
शुद्धस्फटिकसंकाशं सुविस्तीर्णं मनोहरम् ।। ७६ ।।
मुक्तामाणिक्यपरममणिरत्नाकरान्वितम् ।।
कृष्णशुभ्रहरिद्रक्तमणिराजिविराजितम् ।। ७७ ।।
प्रवालांकुरमुद्भूतं कुत्रचित्सुमनोहरम् ।।
परमामूल्यसद्रत्नाकरराजिविभूषितम् ।। ७८ ।।
विधेरदृश्यामाश्चर्य निधिश्रेष्ठाकरान्वितम् ।।
पद्मरागेंद्रनीलानामाकरं कुत्रचिन्मुने ।। ७९ ।।
कुत्रचिच्च मरकताकरश्रेणीसमन्वितम् ।।
स्यमंतकाकरं कुत्र कुत्रचिद्रुचकाकरम् ।। ८० ।।
अमूल्यपीतवर्णाभं मणिश्रेण्याकरान्वितम् ।।
रत्नाकरं कुत्रचिच्च कुत्रचित्कौस्तुभाकरम् ।। ८१ ।।
कुत्र निर्वचनीयानां मणीनामाकरं परम् ।।
कुत्रचित्कुत्रचिद्रम्यविहारस्थलमुत्तमम् ।। ८२ ।।
दृष्ट्वा तु परमाश्चर्यं जग्मुस्तत्पारमीश्वराः ।।
ददृशुः पर्वतश्रेष्ठं शतशृंगं मनोरमम् ।। ८३ ।।
पारिजाततरूणां च वनराजिविराजितम् ।।
कल्पवृक्षैः परिवृतं वेष्टितं कामधेनुभिः ।। ८४ ।।
कोटियोजनमूर्ध्वं च दैर्घ्यं दशगुणोत्तरम् ।।
शैलप्रस्थपरिमितं पंचाशत्कोटियोजनम् ।।८५।।
प्राकाराकारमस्यैव शिखरे रासमंडलम् ।।
दशयोजनविस्तीर्णं वर्तुलाकारमुत्तमम् ।। ८६ ।।
पुष्पोद्यानसहस्रेण पुष्पितेन सुगंधिना ।।
संकुलेन मधुघ्राणां समूहेन समन्वितम् ।। ८७ ।।
सुरत द्रव्यसंयुक्तै राजितं रतिमंदिरैः ।।
रत्नमंडपकोटीनां सहस्रेण समन्वितम् ।। ८८ ।।
रत्नसोपानयुक्तेन सद्रत्नकलशेन च ।।
हरिन्मणीनां स्तंभेन शोभितेन च शोभितम् ।।८९।।
सिंदूरवर्णमणिभिः परितः खचितेन च ।।
इन्द्रनीलैर्मध्यगतैर्मंडितेन मनोहरैः ।। ९० ।।
रत्नप्राकारसंयुक्तमणिभेदैर्विराजितम् ।।
द्वारैः कपाटसंयुक्तैश्चतुर्भिश्च विराजितम् ।। ९१ ।।
रज्जुग्रंथिसमायुक्तरसालपल्लवान्वितैः ।
परितः कदलीस्तंभसमूहैश्च समन्वितम् ।। ९२ ।।
शुक्लधान्यपर्णजालफलदूवांर्कुरान्वितम् ।।
चंदनागरुकस्तूरीकुंकुमद्रवचर्चितम् ।। ९३ ।।
वेष्टितं गोपकन्यानां समूहैः कोटिशो मुने ।।
रत्नालंकारसंयुक्तै रत्नमालाविराजितैः ।। ९४ ।।
रत्नकंकणकेयूर रत्ननूपुरभूषितैः ।।
रत्नकुण्डलयुग्मेन गंडस्थलविराजितैः ।। ९५ ।।
रत्नांगुलीयललितैर्हस्तांगुलिविराजितैः ।।
रत्नपाशकवृन्दैश्च विराजितपदांगुलैः ।। ९६ ।।
भूषितै रत्नभूषाभिः सद्रत्नमुकुटोज्ज्वलैः ।।
गजेंद्रमुक्तालंकारैर्नासिकामध्यराजितैः ।। ९७ ।।
सिंदूरबिंदुना सार्द्धमलकाधःस्थलोज्ज्वलैः ।।
चारुचम्पकवर्णाभैश्चंदनद्रवचर्चितैः ।। ९८ ।।
पीतवस्त्रपरीधानैर्बिंबाधरमनोहरैः ।।
शरत्पार्वणचंद्राणां प्रभां मुष्णन्मुखोज्ज्वलैः ।। ९९ ।।
शरत्प्रफुल्लपद्मानां शोभामोषणलोचनैः ।।
कस्तूरीपात्रिकायुक्तै रेखाक्तकज्जलोज्ज्वलैः ।। १०० ।।
प्रफुल्लमालतीमालाजालैःकबरशोभितैः ।।
मधुलुब्धमधुघ्राणां समूहैश्चापि संकुलैः ।।
चारुणा गमनेनैव गजखंजनगंजनैः ।। १०१ ।।
वक्रभ्रूभंगसंयोगश्लक्ष्णस्मितसमन्वितैः ।।
पक्वदाडिमबीजाभदंतपंक्तिविराजितैः ।। १०२ ।।
खगेंद्रचंचुशोभाढ्यनासिकोन्नतभूषितैः ।।
गजेंद्रगंडयुग्माभस्तनभारनतैरिव ।। १०३ ।।
नितम्बकठिनश्रोणीपीनभारभरानतैः ।।
कंदर्पशरचेष्टाभिर्जर्जरीभूतमानसै ।। १०४ ।।
दर्पणैः पूर्णचंद्रास्यसौंदर्यदर्शनोत्सुकैः ।।
राधिकाचरणांभोजसेवासक्तमनोरथैः ।।१०५।।
सुंदरीणां समूहैश्च रक्षितं राधिकाज्ञया ।।
क्रीडासरोवराणां च लक्षैश्च परिवेष्टितम् ।। १०६ ।।
श्वेतरक्तैर्लोहितैश्च वेष्टितैः पद्मराजितैः ।।
सुकूजद्भिर्मधुघ्राणां समूहैः संकुलैः सदा ।। १०७ ।।
पुष्पोद्यानसहस्रेण पुष्पितेन समन्वितम् ।।
कोटिकुंजकुटीरैश्च पुष्पशय्यासमन्वितैः ।। १०६ ।।
भोगद्रव्यसकर्पूरतांबूलवस्त्रसंयुतैः ।।
रत्नप्रदीपैः परितः श्वेतचामरदर्पणैः ।। ।। १०९ ।।
विचित्रपुष्पमालाभिः शोभितैः शोभितं मुने ।।
तं रासमंडपं दृष्ट्वा जग्मुस्ते पर्वताद्बहिः ।। ११० ।।
ततो विचक्षणं रम्यं ददृशुः सुंदरं वनम् ।।
वनं वृदावनं नाम राधामाधवयोः प्रियम् ।। १११ ।।
क्रीडास्थानं तयोरेव कल्पवृक्षचयान्वितम् ।।
विरजातीरनीराक्तैः कंपितं मंदवायुभिः ।। ११२ ।।
कस्तूरीयुक्तपत्राब्जैः पुष्पौघैः सुरभीकृतम् ।।
नवपल्लवसंसक्तपरपुष्टरुतैर्युतम्।।११३।।
कुत्र हेलिकदंबानां कदंबैः कमनीयकम् ।।
मंदाराणां चंपकानां चन्दनानां तथैव च ।।११४।।
सुगंधिकुसुमानां च गंधेन सुरभीकृतम् ।।
आम्राणां नागरंगाणां पनसानां तथैव च ।। ११५ ।।
तालानां नारिकेलानां वृंदैर्वृंदारकं वनम् ।।
जंबूनां बदरीणां च खर्जूराणां विशेषतः ।। ११६ ।।
गुर्वाकाम्रातकानां च जंबीराणां च नारद ।।
कदलीनां श्रीफलानां दाडिमानां मनोहरैः ।। ११७ ।।
सुपक्वफलसंयुक्तैः समूहैश्च विराजितम् ।।
पिप्पलीनां च शालानामश्वत्थानां तथैव च ।। ११८ ।।
निंबानां शाल्मलीनां च तित्तिडीनां च शोभनैः ।।
अन्येषां तरुभेदानां संकुलैः संकुलं सदा ।। ११९ ।।
परितः कल्पवृक्षाणां वृन्दैर्वृन्दैर्विराजितम् ।।
मल्लिकामालतीकुंदकेतकीमाधवी लताः ।। १२० ।।
एतासां च समूहैश्च यूथिकाभिः समन्वितम् ।।
चारुकुंजकुटीरैस्तैः पंचाशत्कोटिभिर्मुने ।। १२१ ।।
रत्नप्रदीपदीपैश्च धूपेन सुरभीकृतैः ।।
शृंगारद्रव्ययुक्तैश्च वासितैर्गंधवायुभिः ।। १२२ ।।
चंदनाक्तैः पुष्पतल्पैर्मालाजालसमन्वितैः ।।
मधुलुब्धमधुघ्राणां कलशब्दैश्च शब्दितम् ।। १२३ ।।
रत्नालंकारशोभाढयैर्गोपीवृंदैश्च वेष्टितम् ।।
पंचाशत्कोटिगोपीभी रक्षितं राधिकाज्ञया ॥१२४॥
द्वात्रिंशत्काननं तत्र रम्यं रम्यं मनोहरम् ॥
वृंदावनाभ्यंतरितं निर्जनस्थानमुत्तमम् ॥ १२९ ॥
सुपक्वमधुरस्वादुफलैर्वृंदारकं मुने ॥
गोष्ठानां च गवां चैव समूहैश्च समन्वितम् ॥१२६॥
पुष्पोद्यानसहस्रेण पुष्पितेन सुगंधिना ॥
मधुलुब्धमधुघ्राणां |समूहेन समन्वितम् ॥१२७॥
पंचाशत्कोटिगोपीनां विलासैश्च विराजितम् ॥
श्रीकृष्णतुल्यरूपाणां सद्रत्नगुंठितैर्वरैः ॥१२८॥
दृष्ट्वा वृंदावनं रम्यं ययुर्गोलोकमीश्वराः ॥
परितो वर्तुलाकारं कोटियोजनविस्तृतम् ॥ १२९ ।॥
रत्नप्राकारसंयुक्तं चतुर्द्धारान्वितं मुने।।
गोपानां च समूहैश्च द्वारपालैः समन्वितम् ॥ १३० ॥
आश्रमै रत्नखचितैर्नानाभोगसमन्वितैः ॥
गोपीनां कृष्णभृत्यानां पंचाशत्कोटिभिर्युतम् ॥१३१॥
भक्तानां गोपवृन्दानामाश्रमैः शतकोटिभिः ॥
ततोऽधिकसुविस्तीर्णैः सद्रत्नग्रथितैर्युतम् ॥१३२॥
आश्रमैः पार्षदानां च ततोऽधिकविलक्षणैः ॥
अमूल्यरत्नरचितैः संयुक्तं दशकोटिभिः ॥ १३३ ।
पार्षदप्रवराणां च श्रीकृष्णरूपधारिणाम् ॥
आश्रमैः कोटिभिर्युक्तं सद्रत्नेन विनिर्मितैः ॥ १३४॥
राधिकाशुद्धभक्तानां गोपीनामाश्रमैर्वरैः ॥
सद्रत्नरचितैर्द्रव्यैर्द्वात्रिंशत्कोटिभिर्युतम्।।१३५।।
तासां च किकरीणां च भवनैः सुमनोहरैः।।
मणिरत्नादिरचितैः शोभितं दशकोटिभिः।।१३६।।
शतजन्मतपःपूता भक्ता ये भारते भुवि ॥
हरिभक्तिपरा ये च कर्मनिर्वाणकारकाः ॥ १३७ ॥
स्वप्ने ज्ञाने हरेर्ध्याने विविष्टमानसा मुने ॥
राधाकृष्णेति कृष्णेति प्रजपंतो दिवानिशम् ॥ १३८ ॥
तेषां श्रीकृष्णभक्तानां निवासैः सुमनोहरैः ॥
सद्रत्नमणिनिर्माणैर्नानाभोगसमन्वितैः ॥ १३९ ॥
पुष्पशय्यापुष्पमालाश्वेतचामरशोभितैः।।
रत्नदर्पणशोभाढ्यैर्हरिन्मणिसपर्पितैः।।१४०।।
अमूल्यरत्नकलशसमूहान्वितशेखरैः।।
सूक्ष्मवस्त्राभ्यंतरितैः संयुक्तं शतकोटिभिः ॥ १४ १ ॥
देवास्तमद्भुतं दृष्ट्वा कियद्दूरं ययुर्मुदा ॥
तत्राक्षयवटं रम्यं ददृशुर्जगदीश्वराः ॥ |॥१४२॥
पंचयोजनविस्तीर्णमूर्ध्वं तद्द्विगुणं मुने ॥
सहस्रस्कंधसंयुक्तशाखासंस्थासमन्वितम् ॥ १४३॥
रक्तपक्कफलाकीर्णं शोभितं रत्नवेदिभिः ॥
कृष्णस्वरूपांस्तन्मूले ददृशुर्वल्लभाञ्छिशून् ॥ १४४ ॥
पीतवस्त्रपरीधानान्क्रीडासक्तमनोहरान् ॥
चन्दनोक्षितसर्वांगान्रत्नभूषणभूषितान् ।। १४५ ।।
ददृशुस्तत्र देवेशाः पार्षदप्रवरान्हरेः ।।
ततोऽविदूरे ददृशू राजमार्गं मनोहरम् ।। १४६ ।।
सिंदूराकारमणिभिः परितो रचितं मुने ।।
इंद्रनीलैः पद्मरागैर्हीरकै रुचकैस्तथा ।। १४७ ।।
निर्मितैर्वेदिभिर्युक्तं परितो रत्नमंडपम् ।।
चंदनागुरुकस्तूरीकुंकुमद्रवचर्चितम् ।। १४८ ।।
दधिपूर्णलाजफलपुष्पदूर्वांकुरान्वितम् ।।
सूक्ष्मसूत्रग्रंथियुक्तश्रीखंडपल्लवान्वितम् ।। १४९ ।।
रंभास्तंभसमूहैश्च कुङ्कुमाक्तैर्विराजितम् ।।
सद्रत्नमंडलघटैः फलशाखासमन्वितैः ।। १५० ।।
सिंदूरकुंकुमाक्तैश्च गंधचंदनचर्चितैः ।।
भूषितैः पुष्पमालाभिः पादपैः परिभूषितम् ।। १५१ ।।
गोपिकानां समूहैश्च क्रीडासक्तैश्च वेष्टितम ।।
बहुमूल्येन रत्नेन रत्नसोपाननिर्मितान् ।। १५२ ।।
वह्निशौचांशुकै रम्यैः श्वेतचामरदर्पणैः ।।
रत्नतल्पविचित्रैश्च पुष्पमाल्यैर्विराजितान ।। १५३ ।।
षोडशद्वारसंयुक्तान्द्वारपालैश्च रक्षितान् ।।
परितः परिखायुक्तान्रत्नप्राकारवेष्टितान् ।। १५४ ।।
चंदनागुरुकस्तूरीकुंकुमद्रवचर्चितान्।।
गृहान्मनोरमान्दृष्ट्वा ते देवा गमनोत्सुकाः ।। १५५ ।।
जग्मुः शीघ्रं कियद्दूरं ददृशुः सुन्दरं ततः ।।
आश्रमं राधिकायाश्च रासेश्वर्याश्च नारद ।। १५६ ।।
देवाधिदेव्या गोपीनां वरायाश्चारुनिर्मितम् ।।
प्राणाधिकायाः कृष्णस्य रम्यद्रव्यमनोहरम् ।। १५७ ।।
सर्वानिर्वचनीयं च पंडितैर्न निरूपितम् ।।
सुचारुवर्तुलाकारं षड्गव्यूतिप्रमाणकम् ।। १५८ ।।
शतमंदिरसंयुक्तं ज्वलितं रत्नतेजसा ।।
अमूल्यरत्नसाराणां चयौर्विरचितं वरम् ।। १५९ ।।
दुर्लंघ्याभिर्गभीराभिः परिखाभिः सुशोभितम् ।।
कल्पवृक्षैः परिवृतं पुष्पोद्यानशतांतरम् ।। १६० ।।
सुमूल्यरत्नखचितप्राकारैः परिवेष्टितम् ।।
सद्रत्नवेदिकायुक्तैर्युक्तं द्वारैश्च सप्तभिः ।। १६१ ।।
संयुक्तरत्नचित्रैश्च विचित्रैर्वर्तुलं मुने ।।
प्रधानसप्तद्वारेभ्यः क्रमशः क्रमशो मुने ।। १६२ ।।
सर्वतोऽपि ततस्तत्र षोडशद्वारसंयुतम् ।।
देवा द्दष्ट्वा च प्राकारं सहस्रधनुरुच्छ्रितम् ।। १६३ ।।
सद्रत्नक्षुद्रकलशसमूहैः सुमनोहरैः ।।
प्रदीप्तं तेजसा रम्यं परमं विस्मयं ययुः ।। १६४ ।।
ततः प्रदक्षिणीकृत्य कियद्दूरं ययुर्मुदा ।।
पुरतो गच्छतां तेषां पश्चाद्भूतस्तदाश्रमः ।। १६५ ।।
गोपानां गोपिकानां च ददृशुश्चाश्रमान्परान् ।।
अमूल्यरत्नरचिताञ्छतकोटिमितान्मुने ।। १६६ ।।
दर्शंदर्शं च परितो गोपानां सर्वमाश्रमम् ।।
गोपिकानां चापरं वा रम्यं रम्यं नवंनवम् ।। १६७ ।।
गोलोकं निखिलं दृष्ट्वा पुलकांगं ययुः सुराः ।।
तदेव वर्तुलाकारं रम्यं वृंदावनं वनम् ।। ३६८ ।।
ददृशुः शतशृंगं च तद्बहिर्विरजानदीम् ।।
विरजां तां ययुर्देवा ददृशुः शून्यमेव च ।। १६९ ।।
वाय्वाधारं च गोलोकं सद्रत्नमयमद्भुतम् ।।
ईश्वरेच्छाविनिर्माणं राधिकाज्ञानुबंधनात् ।। १७० ।।
युक्तं सहस्रैः सरसां केवलं मंगलालयम् ।।
नृत्यं च ददृशुस्तत्र देवाश्च सुमनोहरम् ।। १७१ ।।
सुतानं चारुसंगीतं राधाकृष्णगुणान्वितम् ।।
श्रुत्वैव गीतपीयूषं मूर्छामापुः सुरा मुने ।। १७२ ।।
क्षणेन चेतनां प्राप्य ते देवाः कृष्णमानसाः ।।
ददृशुः परमाश्चर्यं स्थानेस्थाने मनोहरम् ।। १७३ ।।
ददृशुर्गोपिकाः सर्वा नानावेषविधायिकाः ।।
काश्चिन्मृदंगहस्ताश्च काश्चिद्वीणाकरा वराः ।। १७४ ।।
काश्चिच्चामरहस्ताश्च करतालकराः पराः ।।
काश्चिद्यंत्रवाद्यहस्ता रत्ननूपुरशोभिताः ।। १७५ ।।
सद्रत्नकिंकिणीजालशब्देन शब्दिता वराः ।।
काश्चिन्मस्तककुंभाश्च नृत्यभेदमनोरथाः ।। १७६ ।।
पुंवेषनायिकाः काश्चित्काश्चित्तासां च नायिकाः ।।
कृष्णवेषधराः काश्चिद्राधावेषधराः पराः ।। १७७ ।।
काश्चित्संयोगविरताः काश्चिदालिंगने रताः ।।
क्रीडासक्ताश्च ता दृष्ट्वा सस्मिता जगदीश्वराः ।। १७८ ।।
प्रगच्छंतः कियद्दूरं ददृशुश्चाश्रमान्बहून् ।।
राधासखीनां गेहांश्च प्रधानानां च नारद ।।१७९।।
रूपेणैव गुणेनैव वेषेण यौवनेन च ।।
सौभाग्येनैव वयसा सदृशीनां च तत्र वै ।। १८० ।।
त्रयस्त्रिंशद्वयस्याश्च राधिकायाश्च गोपिकाः ।।
वेषानिर्वचनीयाश्च तासां नामानि च शृणु ।। १८१ ।।
सुशीला च शशिकला यमुना माधवी रती ।।
कदंबमाला कुंती च जाह्नवी च स्वयंप्रभा ।। १८२ ।।
चंद्रमुखी च सावित्री गायत्री सुमुखी सुखा ।।
पद्मालया पारिजाता गौरी च सर्वमंगला ।। १८३ ।।
कालिका कमला दुर्गा भारती च सरस्वती ।।
गंगा ऽम्बिका मधुमती चंपाऽपर्णा च सुंदरी ।। १८४ ।।
कृष्णप्रिया सती चैव नंदिनी नंदनेति च ।।
एताः समानाः सद्रत्नरचिता राधिकाप्रियाः ।। १८५ ।।
एतासां समरूपाणां रत्नधातुविचित्रितान् ।।
नानाप्रकारचित्रेण चित्रितान्सुमनोहरान् ।। १८५ ।
अमूल्यरत्नकलशसमूहैः शिखरोज्ज्वलान् ।।
सद्रत्नरचिताञ्छुभ्रानाश्रमान्ददृशुस्तथा ।। १८७ ।।
ब्रह्मांडाद्बहिरूर्ध्वं च नास्ति लोकस्तदूर्ध्वकः ।।
ऊर्ध्वं शून्यमयं सर्वं तदंता सृष्टिरेव च ।। १८८. ।।
रसातलेभ्यः सप्तभ्यो नास्त्यधः सृष्टिरेव च ।।
तदधश्च जलं ध्वांतमगंतव्यमदृश्यकम् ।।
ब्रह्मांडांतं तद्बहिश्च सर्वं मत्तो निशामय ।। १८९ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे गोलोकवर्णनं नाम चतुर्थोऽध्यायः ।। ४ ।।