ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१३

← अध्यायः ०१२ श्रीकृष्णजन्मखण्डः
अध्यायः ०१३
वेदव्यासः
अध्यायः ०१४ →

।। श्रीनारायण उवाच ।। ।।
अपरं कृष्णमाहात्म्यं शृणु किंचिन्महामुने ।।
विघ्ननिघ्नं पापहरं महापुण्यकरं परम् ।। १ ।।
एकदा नन्दपत्नी च कृत्वा कृष्णं स्ववक्षसि ।।
स्वर्णसिंहासनस्था च क्षुधितं तं स्तनं ददौ ।। २ ।।
एतस्मिन्नन्तरे तत्र विप्रेंद्रैकः समागतः ।।
वृतः शिष्यसमूहैश्च प्रज्वलन्ब्रह्मतेजसा ।। ३ ।।
प्रजपन्परमं ब्रह्म शुद्धस्फटिकमालया ।।
दण्डी छत्री शुक्लवासा दन्तपंक्तिविराजितः ।। ४ ।।
ज्योतिर्ग्रंथो मूर्तिमांश्च वेदवेदांगपारगः ।।
परिबिभ्रज्जटाजालं तप्तकांचनसन्निभम् ।। ५ ।।
शरत्पार्वणचंद्रास्यो गौरांगः पद्मलोचनः ।।
योगीन्द्रो धूर्जटेः शिष्यः शुद्धभक्तो गदाभृतः ।। ६ ।।
व्याख्यामुद्राकरः श्रीमाञ्छिष्यानध्यापयन्मुदा ।।
वेदव्याख्यां कतिविधां प्रकुर्वन्निव लीलया ।। ७ ।।
एकीभूय चतुर्वेदास्तेजसा मूर्तिमानिव।।
साक्षात्सरस्वतीकण्ठः सिद्धांतैकविशारदः ।। ८ ।।
ध्यानैकनिष्ठः श्रीकृष्णपादांभोजे दिवानिशम् ।।
जीवन्मुक्तो हि सिद्धेशः सर्वज्ञः सर्वदर्शनः ।। ९ ।।
तं दृष्ट्वा सा समुत्तस्थौ यशोदा प्रणनाम च ।।
पाद्यं गां मधुपर्कं च स्वर्णसिंहासनं ददौ ।। 4.13.१० ।।
बालकं वंदयामास मुनीन्द्रं सस्मितं मुदा ।।
मुनिश्च मनसा चक्रे प्रणामशतकं हरिम् ।। ११ ।।
आशिषं प्रददौ प्रीत्या वेदमंत्रोपयोगिकम् ।।
प्रणनाम च शिष्यांश्च ते तां युयुजुराशिषम् ।।१२।।
शिष्यान्पाद्यादिकं भक्त्या प्रददौ च पृथक्पृथक् ।।
साशिष्यांघ्री च प्रक्षाल्य समुवास सुखासने।।१३।।
समुद्यता सा प्रष्टुं च पुटाञ्जलियुता सती ।।
स्वक्रोडे बालकं कृत्वा भक्तिनम्रात्मकंधरा ।। १४ ।।
स्वात्मारामं मंगलं च प्रष्टुं यद्यपि न क्षमा ।।
तथाऽपि भवतो नाम शिवं पृच्छामि सांप्रतम् ।। १५ ।।
अबला बुद्धिहीनाया दोषं क्षंतुं सदाऽर्हसि ।।
मूढस्य सततं दोषं क्षमां कुर्वंति साधवः ।।१६।।
अंगिरा वाऽथ वाऽत्रिर्वा मरीचिर्गौतमोऽथ वा ।।
क्रतुः किं वा प्रचेता वा पुलस्त्यः पुलहोऽथवा ।।१७।।
दुर्वासाः कर्दमस्त्वं वा वशिष्ठो गर्ग एव वा ।।
जैगीषव्यो देवलो वा कपिलो वा स्वयं विभुः ।। १८ ।।
सनत्कुमारः सनकः सनन्दो वा सनातनः ।।
वोढुः पंचशिखो वा त्वमासुरिः सौभरिः किमु ।।१९।।
विश्वामित्रोऽथ वाल्माको वामदेवोऽथ कश्यपः।।
संवर्तः किमुतथ्यो वा किं कचो वा बृहस्पतिः ।। 4.13.२० ।।
भृगुः शुक्रश्च च्यवनो नरनारायणोऽथवा ।।
सक्थिनः पराशरो व्यासः शुकदेवोऽथ जैमिनिः ।। २१ ।।
मार्कण्डेयो लोमशश्च कण्वः कात्यायनस्तथा ।।
आस्तीको वा जरत्कारुर्ऋष्यशृंगो विभांडकः ।। २२ ।।
पौलस्त्यस्त्वमगस्त्यो वा शरद्वान्गिरिरेव च ।।
शमीकोऽरिष्टनेमिश्च माण्डव्यः पैल एव च ।। २३ ।।
पाणिनिर्वा कणादो वा शाकल्यः शाकटायनः ।।
अष्टावक्रो भागुरिर्वा सुमन्तुर्वत्स एव वा ।। २४ ।।
जाबालो याज्ञवल्क्यश्च वैशंपायन एव च ।।
यतिर्हंसी पिप्पलादो मैत्रेयः करुषस्तथा ।। २५ ।।
उपमन्युर्गौरमुखोऽरुणिरौर्वोऽथ कक्षिवान् ।।
भरद्वाजो वेदशिरा शंकुकर्णोऽथ शौनकः ।। २६ ।।
एतेषां पुण्यश्लोकानां को भवान्वद मे प्रभो ।।
प्रत्युत्तरार्हा नाहं चेत्तथाऽपि वक्तुमर्हसि ।। २७ ।।
किंकरः किंकरी वाऽपि समर्था प्रभुमीश्वरम् ।।
यो यस्य सेवानियतः स कं पृच्छति तं विना ।। २८ ।।
धन्याऽहं कृतकृत्याहं सफलं जीवितं मम ।।
त्वत्पादाब्जरजःस्पर्शाज्जन्मकोट्यंहसा क्षयः ।। २९ ।।
त्वत्पादोदकसंस्पर्शात्सद्यः पूता वसुंधरा ।।
तवागमनमात्रेण तीर्थीभूतो ममाश्रमः 4.13.३० ।।
येये श्रुताः श्रुतौ ब्रह्मञ्च्छ्रुतिसारा महाजनाः ।।
तेषामेको मया दृष्टः पूर्वपुण्यफलोदयात् ।। ३१ ।।
शिष्या वेदा मूर्तिमंतो ग्रीष्म मध्याह्नभास्कराः ।।
गोकुलं मत्कुलं सद्यः पुनंति पादरेणुना ।। ३२ ।।
आशिषं कर्तुमर्हंति प्रसन्नमनसा शिशुम् ।।
पूर्णस्वस्त्ययनं सद्यो विप्राशीर्वचनं ध्रुवम् ।। ३३ ।।
इत्येवमुक्त्वा नंदस्त्री भक्त्या तस्थौ मुनेः पुरः ।।
नरं प्रस्थापयामास नंदमानयितुं सती ।। ३४ ।।
यशोदावचनं श्रुत्वा जहास मुनिपुंगवः ।।
जहसुः शिष्यसंघाश्च भासयंतो दिशो दश ।। ३५ ।।
हितं तथ्यं नीतियुक्तं महत्पुण्यकरं परम् ।।
तामुवाच मुदा युक्तः शुद्धबुद्धिर्महामुनिः ।। ३६ ।।
श्रीगर्ग उवाच ।। ।।
सुधामयं ते वचनं लौकिकं च कुलोचितम् ।।
यस्य यत्र कुले जन्म स एव तादृशो भवेत् ।। ३७ ।।
सर्वेषां गोपपद्मानां गिरिभानुश्च भास्करः ।।
पत्नी पद्मासमा तस्य नाम्ना पद्मावती सती ।।३८।।
तस्याः कन्या यशोदा त्वं यशोवर्द्धनकारिणी ।।
बल्लवानां च प्रवरो लब्धो नंदश्च वल्लभः ।।३९।।
नंदो यस्त्वं च या भद्रे बालो यो येन वा गतः।।
जानामि निर्जने सर्वं वक्ष्यामि नंदसन्निधिम् ।।4.13.४०।।
गर्गोऽहं यदुवंशानां चिरकालं पुरोहितः ।।
प्रस्थापितोऽहं वसुना नान्यसाध्ये च कर्मणि ।। ४१ ।।
एतस्मिन्नन्तरे नंदः श्रुतमात्रं जगाम ह ।।
ननाम दंडवद्भूमौ मूर्ध्ना तं मुनिपुंगवम् ।। ४२ ।।
शिष्यान्ननाम मूर्ध्ना च ते तं युयुजुराशिषम्।।
समुत्थायासनात्तूर्ण यशोदानंद एव च ।।४३।।
गृहीत्वाऽभ्यंतरं रम्यं जगाम विदुषां वरः ।।
गर्गो नंदो यशोदा च सपुत्रा सा मुदाऽन्विता ।।
वाक्यं गर्गस्तदोवाच निगूढं निर्जने मुने ।। ४४ ।।
श्रीगर्ग उवाच ।।
अयि नंद प्रवक्ष्यामि वचनं ते सुखावहम् ।।
प्रस्थापितोऽहं वसुना येन तच्छ्रूयतामिति ।।४५।।
वसुना सूतिकागारे शिशुः प्रत्यर्पणं कृतः ।।
पुत्रोऽयं वसुदेवस्य ज्येष्ठश्च तस्य च ध्रुवम् ।। ४६ ।।
कन्या ते तेन या नीता मथुरां कंसभीरुणा ।।
अस्यान्नप्राशनायाहं नामानुकरणाय च ।।
गूढेन प्रेषितस्तेन तस्योद्योगं कुरु द्विज।।४७।।
पूर्णब्रह्मस्वरूपोऽयं शिशुस्ते मायया महीम् ।।
आगत्य भारहरणं कर्ता धात्रा च सेवितः ।।
गोलोकनाथो भगवाञ्छ्रीकृष्णो राधिकापतिः ।। ४८ ।।
नारायणो यो वैकुंठे कमलाकांत एव च ।।
श्वेतद्वीपनिवासी यः पिता विष्णुश्च सोऽप्यजः ।। ४९ ।।
कपिलोऽन्ये तदंशाश्च नरनारायणावृषी ।।
सर्वेषां तेजसां राशिर्मूर्तिमानागतः किमु ।। 4.13.५० ।।
तं वसुं दर्शयित्वा च शिशुरूपो बभूव ह ।।
सांप्रतं सूतिकागारादाजगाम तवालयम् ।। ५१ ।।
अयोनिसंभवश्चायमाविर्भूतो महीतले ।।
वायुपूर्णं मातृगर्भे कृत्वा च मायया हरिः ।। ५२ ।।
आविर्भूय वसुं मूर्तिं दर्शयित्वा जगाम ह ।।
युगेयुगे वर्णभेदो नामभेदोऽस्य बल्लव ।।५३ ।।
शुक्लः पीतस्तथा रक्त इदानीं कृष्णतां गतः ।।
शुक्लवर्णः सत्ययुगे सुतीव्रतेजसा वृतः ।। ५४ ।।
त्रेतायां रक्तवर्णोऽयं पीतोऽयं द्वापरे विभुः ।।
कृष्णवर्णः कलौ श्रीमांस्तेजसां राशिरेव च ।।५५।।
परिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः ।।
ब्रह्मणो वाचकः कोऽयमृकारोऽनंतवाचकः ।। ५६ ।।
शिवस्य वाचकः षश्च नकारो धर्मवाचकः ।।
अकारो विष्णुवचनः श्वेतद्वीपनिवासिनः ।। ५७ ।।
नरनारायणार्थस्य विसर्गो वाचकः स्मृतः ।।
सर्वेषां तेजसां राशिः सर्वमूर्तिस्वरूपकः ।। ५८ ।।
सर्वाधारः सर्वबीजस्तेन कृष्ण इति स्मृतः ।।
कर्मनिर्मूलवचनः कृषिर्नो दास्यवाचकः ।। ५९ ।।
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः ।।
कृषिर्निश्चेष्टवचनो नकारो भक्तिवाचकः ।। 4.13.६० ।।
अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृतः ।।
कृषिर्निर्वाणवचनो नकारो मोक्षवाचकः ।। ।। ६१ ।।
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः ।।
नाम्नां भगवतो नंद कोटीनां स्मरणेन यत् ।। ६२ ।।
तत्फलं लभते नूनं कृष्णेति स्मरणे नरः ।।
यद्विधं स्मरणात्पुण्यं वचनाच्छ्रवणात्तथा ।। ६३ ।।
कोटिजन्मांहसो नाशो भवेद्यत्स्मरणादिकात् ।।
विष्णोर्नाम्नां च सर्वेषां सारात्सारं परात्परम् ।। ६४ ।।
कृष्णेति सुंदरं नाम मंगलं भक्तिदायकम् ।।
ककारोच्चारणाद्भक्तः कैवल्यं मृत्युजन्महम् ।। ६९।।
ऋकाराद्दास्यमतुलं षकाराद्भक्तिमीप्सिताम् ।।
नकारात्सहवासं च तत्समं कालमेव च ।। ६६ ।।
तत्सारूप्यं विसर्गाच्च लभते नात्र संशयः ।।
ककारोच्चारणादेव वेपंते यमकिंकराः ।।६७।।
ऋकारोक्तेर्न तिष्ठंति षकारात्पातकानि च ।।
नकारोच्चारणाद्रोगा अकारान्मृत्युरेव च ।। ६८ ।।
ध्रुवं सर्वे पलायंते नामोच्चारणभीरवः ।।
स्मृत्युक्तिश्रवणोद्योगात्कृष्णनाम्नो व्रजेश्वर ।। ६९ ।।
रथं गृहीत्वा धावंति गोलोकात्कृष्णकिंकराः ।।
पृथिव्या रजसः संख्यां कर्तुं शक्ता विपश्चितः ।। 4.13.७० ।।
नाम्नः प्रभावसंख्यानं संतो वक्तुं न च क्षमाः ।।
पुरा शंकरवक्त्रेण नाम्नोऽस्य महिमा श्रुतः ।।७१ ।।
गुणान्नामप्रभावं च किंचिज्जानाति मद्गुरुः ।।
ब्रह्माऽनंतश्च धर्मश्च सुरर्षिमनुमानवाः ।। ७२ ।।
वेदाः संतो न जानंति महिम्नः षोडशीं कलाम् ।।
इत्येवं कथितो नंद महिमा च सुतस्य च ।।७३।।
यथामति यथाज्ञानं गुरुवक्त्राद्यथा श्रुतम् ।।
कृष्णः पीतांबरः कंसध्वंसी च विष्टरश्रवाः ।। ७४ ।।
देवकीनंदनः श्रीशो यशोदानंदनो हरिः ।।
सनातनोऽच्युतोऽनंतः सर्वेशः सर्वरूपधृक् ।। ७५ ।।
सर्वाधारः सर्वगतिः सर्वकारणकारणम् ।।
राधाबंधू राधिकात्मा राधिकाजीवनं स्वयम् ।। ७६ ।।
राधाप्राणो राधिकेशो राधिकारमणः स्वयम् ।।
राधिकासहचारी च राधामानसपूरणः ।। ७७ ।।।
राधाधनो राधिकांगो राधिकासक्तमानसः ।।
राधिकाचित्तचोरश्च राधाप्राणाधिकः प्रभुः ।। ७८ ।।
परिपूर्णतमं ब्रह्म गोविंदो गरुडध्वजः ।।
नामान्येतानि कृष्णस्य श्रुतानि मन्मुखाद्धृदि ।। ७९ ।।
जन्ममृत्युहराण्येव रक्ष नंद शुभेक्षण ।।
कृतं निरूपणं नाम्नां कनिष्ठस्य यथा श्रुतम् ।। 4.13.८० ।।
ज्येष्ठस्य हलिनो नाम्नः संकेतं शृणु मन्मुखात् ।।
गर्भसंकर्षणादेव नाम्ना संकर्षणः स्मृतः ।। ८१ ।।
नास्त्यंतोऽस्यैव वेदेषु तेनानंत इति स्मृतः ।।
बलदेवो बलोद्रेकाद्धली च हलधारणात्।।८२ ।।
शितिवासा नीलवासान्मुसली मुसलायुधात् ।।
रेवत्या सह संभोगाद्रेवतीरमणः स्वयम् ।।८३।।
रोहिणीगर्भवासात्तु रौहिणेयो महामतिः ।।
इत्येवं ज्येष्ठपुत्रस्य श्रुतं नाम निवेदितम् ।।८४।।
यास्याम्यहं गृहं नंद सुखं तिष्ठ स्वमंदिरे ।।
ब्राह्मणस्य वचः श्रुत्वा नंदः स्तब्धो बभूव ह ।। ८५ ।।
निश्चेष्टा नंदपत्नी च जहास बालकः स्वयम् ।।
प्रणम्योवाच नंदस्तं वाक्यं विनयपूर्वकम् ।। ८६ ।।
पुटांजलियुतो भूत्वा भक्तिनम्रात्मकंधरः ।।
नंद उवाच ।।
गतश्चेत्त्वं तदा कर्म करिष्यत्येव को महान् ।।८७।।
स्वयं शुभेक्षणं कृत्वा कुरु नाम्नाऽन्नप्राशनम् ।।
यन्नामौघश्च कथितो राधाप्राणादिको दश ।। ।। ८८ ।।
तस्यापि का वा राधेति कन्यका कस्य च ध्रुवम्।।
नंदस्य वचनं श्रुत्वा जहास मुनिपुंगवः।।
निगूढं परमं तत्त्वं रहस्यं कथयामि ते ।। ८९ ।।
।। श्रीगर्ग उवाच ।। ।।
शृणु नंद प्रवक्ष्यामि इतिहासं पुरातनम् ।। 4.13.९० ।।
पुरा गोलोकवृत्तांतं श्रुतं शंकरवक्त्रतः।।
श्रीदाम्नो राधया सार्द्धं बभूव कलहो महान् ।। ९१ ।।
श्रीदामशापाद्दैवेन गोपी राधा च गोकुले ।।
वृषभानुसुता सा च माता तस्याः कलावती ।। ९२ ।।
कृष्णस्यार्द्धांगसंभूता नाथस्य सदृशी सती ।।
गोलोकवासिनी सेयमत्र कृष्णाज्ञयाऽधुना ।। ९३ ।।
अयोनिसंभवा देवी मूलप्रकृतिरीश्वरी ।।
मातुर्गर्भं वायुपूर्णं कृत्वा च मायया सती ।। ९४ ।।
वायुनिःसरणे काले धृत्वा च शिशुविग्रहम् ।।
आविर्बभूव मायेयं पृथ्व्यां कृष्णोपदेशतः ।। ९५ ।।
वर्धते सा व्रजे राधा शुक्ले चंद्रकला यथा ।।
श्रीकृष्णतेजसोऽर्द्धेन सा च मृर्तिमती सती ।। ९६ ।।
एका मूर्तिर्द्विधाभूता भेदो वेदे निरूपितः ।।
इयं स्त्री सा पुमान् किंवा सा वा कांता पुमानयम् ।।९७।।
द्वे रूपे तेजसा तुल्ये रूपेण च गुणेन च ।।
पराक्रमेण बुद्ध्या वा ज्ञानेन संपदाऽपि च ।। ९८ ।।
पुरतो गमनेनैव किंतु सावयसाधिका ।।
ध्यायते तामयं शश्वदिमं सा स्मरति प्रियम् ।। ९९ ।।
रचिता साऽस्य प्राणैश्च तत्प्राणैर्मूर्तिमानयम् ।।
अस्य राधानुसारेण गोकुलागमनं परम् ।। 4.13.१०० ।।
स्वीकारं सार्थकं कर्तुं गोकुले यत्कृतं पुरा ।।
कंसभीतिच्छलेनैव गोकुलागमनं हरेः।।१०१।।
प्रतिज्ञापालनार्थाय भयेशस्य भयं कुतः ।।
राधाशब्दस्य व्युत्पत्तिः सामवेदे निरूपिता।। १०२ ।।
नारायणस्तामुवाच ब्रह्माणं नाभिपंकजे ।।
ब्रह्मा तां कथयामास ब्रह्मलोके च शंकरम् ।। १०३ ।।
पुरा कैलासशिखरे मामुवाच महेश्वरः ।।
देवानां दुर्लभां नंद निशामय वदामि ते ।। १०४ ।।
सुरासुरमुनींद्राणां वांछितां मुक्तिदां पराम् ।।
रेफो हि कोटिजन्माघं कर्मभोगं शुभाशुभम् ।।१०५।।
आकारो गर्भवासं च मृत्युं च रोगमुत्सृजेत् ।।
धकार आयुषो हानिमाकारो भवबंधनम् ।। १०६ ।।
श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः ।।
रेफो हि निश्चलां भक्तिं दास्यं कृष्णपदांबुजे ।। १०७ ।।
सर्वेप्सितं सदानंदं सर्वसिद्धौघमीश्वरम् ।।
धकारः सहवासं च तत्तुल्यकालमेव च ।। १०८ ।।
ददाति सार्ष्टिसारूप्यं तत्त्वज्ञानं हरेः समम्।।
आकारस्तेजसां राशिं दानशक्तिं हरौ यथा ।।१०९।।
योगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् ।।
श्रुत्युक्तिस्मरणाद्योगान्मोहजालं च किल्बिषम् ।। 4.13.११० ।।
रोगशोकमृत्युयमा वेपंते नात्र संशयः ।।
राधामाधवयोः किंचिद्व्याख्यानं च यतः श्रुतम् ।। १११ ।।
तदुक्तं च यथाज्ञानं साकल्यं वक्तुमक्षमः।।
आराद् वृंदावने नंद विवाहो भविताऽनयोः ।। ११२ ।।
पुरोहितो जगद्धाता कृत्वाऽग्निं साक्षिणं मुदा ।।
कुबेरपुत्रमोक्षं च गव्यस्याहृत्य भक्षणम् ।। ।। ११३ ।।
हिंसनं धेनुकस्यैव कानने तालभोजनम् ।।
बककेशिप्रलंबानां हिंसनं चाथ लीलया ।। ११४ ।।
मोक्षणं द्विजपत्नीनां मिष्टान्नपानभोजनम् ।।
भंजनं शक्रयागस्य शक्राद्गोकुलरक्षणम् ।। ११५।।
गोपीनां वस्त्रहरणं व्रतसंपादनं तथा ।।
ताभ्यः पुनर्वस्त्रदानं वरदानं यथेप्सितम् ।। ११६ ।।
चेतसां हरणं तासामयं वश्याः करिष्यति ।।
रासोत्सवं महारम्यं सर्वेषां हर्षवर्द्धनम् ।। ११७ ।।
पूर्णचन्द्रोदये नक्तं वसंते रासमंडले ।।
गोपीनां नवसंभोगात्कृत्वा पूर्णं मनोरथम् ।। ११८ ।।
ताभिः सह जलक्रीडां करिष्यति कुतूहलात् ।।
विच्छेदोऽस्य वर्षशतं श्रीदामशापहेतुकम् ।। ११९ ।।
गोपालैर्गोपिकाभिश्च भविता राधया सह ।।
मथुरागमनं तत्र गोपीनां शोकवर्द्धनम् ।।4.13.१२०।।
पुनः प्रबोधनं तासां दानमाध्यात्मिकस्य च ।।
स्यंदनाक्रूरयो रक्षां सद्यस्ताभ्यां करिष्यति ।।१२१।।
रथमारोहणं कृत्वा मथुरागमनं पुनः ।।
पितृभ्रातृव्रजैः सार्द्धं विलंघ्य यमुनां व्रजे ।। १२२ ।।
अक्रूराय ज्ञानदानं दर्शयित्वा स्वकं जले ।।
कौतुकेन च सायाह्ने नगरात्सर्वदर्शनम् ।। १२३ ।।
मालाकारतंतुवायकुब्जानां बंधमोक्षणम् ।।
धनुर्भंगं शंकरस्य यागस्थान प्रदर्शनम् ।। १२४ ।।
हिंसनं गजमल्लानां दर्शनं नृपतेः पुरः।।
कंसस्य हिंसनं सद्यः पित्रोर्निगडमोक्षणम् ।। १२५ ।।
प्रबोधनं च युष्माकमुग्रसेनाभिषेचनम् ।।
तस्यतस्य वधूनां च ज्ञानाच्छोकापनोदनम् ।। १२६ ।।
भ्रातुः स्वस्योपनयनं विद्यादानं गुरोर्मुखात् ।।
गुरुपुत्रप्रदानं च पुनरागमनं गृहे ।। १२७ ।।
छलनं नृपसैन्यानां यवनस्य दुरात्मनः ।।
निर्माणं द्वारकायाश्च मुचुकुंदस्य मोक्षणम् ।। ।। १२८ ।।
द्वारकागमनं चैव यादवैः सह कौतुकात् ।।
स्त्रीसंघानां विहरणं ताभिः सार्द्धं च क्रीडनम् ।। १२९ ।।
सौभाग्यवर्धनं तासां पुत्रपौत्रादिकस्य च ।।
मणिसंबंधिनो मिथ्याकलंकस्य च मोक्षणम् ।। 4.13.१३० ।।
साहाय्यं पांडवानां च भारावतरणादिकम् ।।
निष्पन्नं राजसूयस्य धर्मपुत्रस्य लीलया ।।१३१।।
पारिजातस्य हरणं शक्राहंकारमर्दनम् ।।
व्रतपूर्णं च सत्याया बाणस्य भुजकृन्तनम् ।। १३२ ।।
मर्दनं शिवसैन्यानां हरस्य जृंभणं परम्।।
हरणं बाणपुत्र्याश्चैवानिरुद्धस्य मोक्षणम् ।। १३३ ।।
वाराणस्याश्च दहनं विप्रदारिद्र्यभंजनम् ।।
विप्रपुत्रप्रदानं च दुष्टानां दमनादिकम् ।। १३४ ।।
तीर्थयात्राप्रसंगेन युष्माभिः सह दर्शनम् ।।
कृत्वा च राधया सार्धं व्रजमागमिता पुनः ।। १३५ ।।
प्रस्थापयित्वा द्वारां च परं नारायणांशकम् ।।
सर्वं निष्पादनं कृत्वा गोलोकं राधया सह ।। १३६।।
गमिष्यत्येव गोलोकं नाथोऽयं जगतां पतिः।।
नारायणश्च वैकुंठं गमिता स्म त्वया सह ।। १३७ ।।
धर्मगेहमृषी द्वौ च विष्णुः क्षीरोदमेव च ।।
इत्येवं कथितं नंद भविष्यं वेदनिर्णयम् ।। १३८ ।।
श्रूयतां सांप्रतं कर्म यदर्थं गमनं मम ।।
माघशुक्लचतुर्दश्यां कुरु कर्म शुभे क्षणे ।। १३९ ।।
गुरुवारे च रेवत्यां विशुद्धे चंद्रतारके ।।
चंद्रस्थे मीनलग्ने च लग्नेशपूर्णदर्शने ।। 4.13.१४० ।।
वणिजे करणोत्कृष्टे शुभयोगे मनोहरे ।।
सुदुर्लभे दिने तत्र सर्वोत्कृष्टोपयोगिके ।। १४१ ।।
आलोच्य पंडितैः सार्द्धं कुरु कर्म मुदाऽन्वितः ।।
इत्युक्त्वा बहिरागत्य स उवाच मुनीश्वरः ।। १४२ ।।
हृष्टो नंदो यशोदा च कर्मोद्योगं चकार ह ।।
एतस्मिन्नंतरे द्रष्टुं गर्गं गोपाश्च गोपिकाः ।। १४३ ।।
बालका बालिकाश्चैव आजग्मुर्नंदमंदिरम् ।।
ददृशुस्ते मुनिश्रेष्ठं ग्रीष्ममध्याह्नभास्करम् ।। १४४ ।।
शिष्यसंघैः परिवृतं ज्वलंतं ब्रह्मतेजसा ।।
गूढयोगं प्रवोचंतं सिद्धाय पृच्छते मुदा ।। ।। १४५ ।।
पश्यंतं सस्मितं नंदभवनानां परिच्छदम् ।।
स्वर्णसिंहासनस्थं च योगमुद्राधरं वरम् ।। १४६ ।।
भूतं भव्यं भविष्यं च पश्यंतं ज्ञानचक्षुषा ।।
हृदीश्वरं प्रपश्यन्तं सिद्धं मंत्रप्रभावतः ।। १४७ ।।
बहिर्यशोदाक्रोडस्थं तादृशं सस्मितं शिशुम् ।।
महेशदत्तध्यानेन यद्रूपं च निरूपितम् ।। १४८ ।।
तं दृष्ट्वा परमप्रीत्या पूर्णभूतमनोरथम् ।।
साश्रुनेत्रं पुलकितं निमग्नं भक्तिसागरे ।। १४९ ।।
हृदि पूजां प्रणामं च कुर्वंतं योगचर्यया ।।
मूर्ध्ना प्रणेमुस्ते तं च स च तानाशिषं ददौ ।। 4.13.१५० ।।
आसनस्थो मुनिस्तस्थौ ते जग्मुः स्वालयं मुदा ।।
नंदः स्वानंदयुक्तश्च बंधून्मंगलपत्रिकाः ।। १५१ ।।
प्रस्थापयामास शीघ्रमाराद्दूरस्थितान्मुदा ।।
दधिकुल्यां दुग्धकुल्यां घृतकुल्यां प्रपूरिताम् ।। १५२ ।।
गुडकुल्यां तैलकुल्यां मधुकुल्यां च विस्तृताम् ।।
नवनीतकुल्यां पूर्णां च तक्रकुल्यां यदृच्छया ।। १५३ ।।
शर्करोदककुल्यां च परिपूर्णां च लीलया ।।
तंडुलानां च शालीनामुच्चैश्च शतपर्वतान् ।। १९४ ।।
पृथुकानां शैलशतं लवणानां च सप्त च ।।
सप्तशैलाच्छर्कराणां लड्डुकानां च सप्त च ।। १५५ ।।
परिपक्वफलानां च तत्र षोडशपर्वतान् ।।
यवगोधूमचूर्णानां पक्वलड्डुकपिंडकान् ।। १५६ ।।
मोदकानां च शैलं च स्वस्तिकानां च पर्वतान् ।।
कपर्दकानामत्युच्चैः शैलान्सप्त च नारद ।। १९७ ।।
कर्पूरादिकयुक्तानां तांबूलानां च मंदिरम् ।।
विस्तृतं द्वारहीनं च वासितोदकसंयुतम् ।। १५८ ।।
चंदनागुरुकस्तूरीकंकुमेन समन्वितम् ।।
नानाविधानि रत्नानि स्वर्णानि विविधानि च ।। १५९ ।।
मुक्ताफलानि रम्याणि प्रवालानि मुदाऽन्वितः ।।
नानाविधानि चारूणि वासांसि भूषणानि च ।। 4.13.१६० ।।
पुत्रान्नप्राशने नन्दः कारयामास कौतुकात् ।।
संस्कारयुक्तं रुचिरं चन्दनद्रवचर्चितम् ।। १६१ ।।
प्राङ्गणं कदलीस्तम्भै रसालनवपल्लवैः ।।
ग्रथितैः सूक्ष्मवस्त्रेण वेष्टयामास कौतुकात् ।। १६२ ।।
युक्तं मङ्गलकुम्भैश्च फलपल्लवसंयुतैः ।।
चन्दनाऽगुरुकस्तूरीपुष्पमालाविराजितैः ।। १६३ ।।
माल्यानां वरवस्त्राणां राशिभिश्च विराजितम् ।।
गवां च मधुपर्काणामासनानां च नारद ।। १६४ ।।
फलानां जलकुम्भानां समूहैश्च समन्वितम् ।।
नानाप्रकारैर्वाद्यैश्च दुर्लभैः सुमनोहरैः ।। १६५ ।।
ढक्कानां दुन्दुभीनां च पटहानां तथैव च ।।
मृदङ्गमुरजादीनामानकानां समूहकैः ।। १६६ ।।
वंशीसन्नहनीकांस्यशरयन्त्रैश्च शब्दितम् ।।
विद्याधरीणां नृत्येन भृङ्गिमाभ्रमणेन च ।। १६७ ।।
गंधर्वनायकानां च संगीतैर्मूर्च्छनायुतैः ।।
स्वर्णसिंहासनानां च रथानां निःस्वनैर्युतम् ।। १६८ ।।
एतस्मिन्नन्तरे नन्दमुवाच वाचको मुदा ।।
आजग्मुर्बल्लवेन्द्राश्च बान्धवा बल्लवास्तथा ।। १६९ ।।
अश्वस्थाश्च गजस्थाश्च रथस्थाश्चेति सत्वरम् ।।
आजग्मू राजपुत्राश्च रत्नालङ्कारभूषिताः ।। 4.13.१७० ।।
आगतो गिरिभानुश्च सस्त्रीकश्च सकिङ्करः ।।
रथानां च चतुर्लक्षं गजानां च तथैव च ।। १७१ ।।
तुरङ्गमाणां कोटिश्च शिबिकानां तथैव च ।।
ऋषीन्द्राणां मुनीन्द्राणां विप्राणां च विपश्चिताम् ।। १७२ ।।
बन्दिनां भिक्षुकाणां च समूहैश्च समीपतः ।।
गोपानां गोपिकानां च संख्या कर्तुं च कः क्षमः ।। १७३ ।।
पश्यागत्य बहिर्भूयेत्युवाच प्राङ्गणे स्थितः ।।
श्रुत्वैवं तानुपव्रज्य समानीय व्रजेश्वरः ।। १७४ ।।
प्राङ्गणे वासयामास पूजयामास सत्वरम् ।।
ऋष्यादिकसमूहं च प्रणम्य शिरसा भुवि ।।
पाद्यादिकं च तेभ्यश्च प्रददौ सुसमाहितः ।। १७५ ।।
वस्तुभिर्बन्धुभिः पूर्णं बभूव नन्दगोकुलम् ।।
न कोऽपि कस्य शब्दं च श्रोतुं शक्तश्च तत्र वै ।।१७६।।
त्रिमुहूर्तं कुबेरश्च श्रीकृष्णप्रीतये मुदा ।।
चकार स्वर्णवृष्ट्या च परिपूर्णं च गोकुलम् ।। १७७ ।।
कौतुकापह्नवं चक्रुर्बन्धुवर्गाश्च क्रीडया ।।
आनम्रकन्धराः सर्वे दृष्ट्वा नन्दस्य सम्पदम्।।१७८।।
नन्दः कृताह्निकः पूतो धृत्वा धौते च वाससी।।
चन्दनागुरुकस्तूरी कुङ्कुमेनैव भूषितः।।१७९।।
उवास पादौ प्रक्षाल्य स्वर्णपीठे मनोहरे ।।
गर्गस्य च मुनीन्द्राणां गृहीत्वाऽऽज्ञां व्रजेश्वरः ।।4.13.१८०।।
संस्मृत्य विष्णुमाचांतः स्वस्तिवाचनपूर्वकम् ।।
कृत्वा कर्म च वेदोक्तं भोजयामास बालकम् ।। १६१ ।।
गर्गवाक्यानुसारेण बालकस्य मुदाऽन्वितः ।।
कृष्णेति मङ्गलं नाम ररक्ष च शुभे क्षणे ।। १८२ ।।
सघृतं भोजयित्वा च कृत्वा नाम जगत्पतेः ।।
वाद्यानि वादयामास कारयामास मङ्गलम् ।। १८३ ।।
नानाविधानि स्वर्णानि धनानि विविधानि च ।।
भक्ष्यद्रव्याणि वासांसि ब्राह्मणेभ्यो ददौ मुदा ।। १८४ ।।
बन्दिभ्यो भिक्षुकेभ्यश्च सुवर्णं विपुलं ददौ ।।
भाराक्रान्ताश्च ते सर्वे न शक्ता गन्तुमेव च ।। १८५ ।।
ब्राह्मणान्बन्धुवर्गांश्च भिक्षुकांश्च विशेषतः ।।
मिष्टान्नं भोजयामास परिपूर्णं मनोहरम् ।। १८६ ।।
दीयतां दीयतां चैव खाद्यतां खाद्यतामिति ।।
बभूव शब्दोऽत्युच्चैश्च सततं नन्दगोकुले ।। १८७ ।।
रत्नानि परिपूर्णानि वासांसि भूषणानि च ।।
प्रवालानि सुवर्णानि मणिसाराणि यानि च ।। १८८ ।।
चारूणि स्वर्णपात्राणि कृतानि विश्वकर्मणा ।।
गत्वा गर्गाय विनयं चकार व्रजपुंगवः ।। १८९ ।।
शिष्येभ्यः स्वर्णभाराणि प्रददौ विनयान्वितः ।।
द्विजेभ्योऽप्यवशिष्टेभ्यः परिपूर्णानि नारद।।4.13.१९० ।। ।।
।। श्रीनारायण उवाच ।।
गृहीत्वा श्रीहरिं गर्गो जगाम निभृतं मुदा ।।
तुष्टाव परया भक्त्या प्रणम्य च तमीश्वरम् ।। १९१ ।।
साश्रुनेत्रः सपुलको भक्तिनम्रात्मकन्धरः ।।
पुटाञ्जलियुतो भूत्वोवाच कृष्णपदांबुजे ।। १९२ ।।
गर्ग उवाच ।।
हे कृष्ण जगतां नाथ भक्तानां भयभञ्जन ।।
प्रसन्नो भव मामीश देहि दास्यं पदाम्बुजे ।।१९३।।
त्वत्पित्रा मे धनं दत्तं तेन मे किं प्रयोजनम् ।।
देहि मे निश्चलां भक्तिं भक्तानामभयप्रद ।। १९४ ।।
अणिमादिकसिद्धिषु योगेषु मुक्तिषु प्रभो ।।
ज्ञानतत्त्वेऽमरत्वे वा किञ्चिन्नास्ति स्पृहा मम ।। १९५ ।।
इन्द्रत्वे वा मनुत्वे वा स्वर्गलोकफले चिरम् ।।
नास्ति मे मनसो वाञ्छा त्वत्पादसेवनं विना ।। १९६ ।।
सालोक्यं सार्ष्टिसारूप्ये सामीप्यैकत्वमीप्सितम् ।।
नाहं गृह्णामि ते ब्रह्मंस्त्वत्पादसेवनं विना ।।१९७।।
गोलोके वापि पाताले वासे नास्ति मनोरथः ।।
किन्तु ते चरणाम्भोजे सन्ततं स्मृतिरस्तु मे ।।१९८।।
त्वन्मन्त्रं शङ्करात्प्राप्य कतिजन्मफलोदयात् ।।
सर्वज्ञोऽहं सर्वदर्शी सर्वत्र गतिरस्तु मे ।। १९९ ।।
कृपां कुरु कृपासिन्धो दीनबन्धो पदाम्बुजे ।।
रक्ष मामभयं दत्त्वा मृत्युर्मे किं करिष्यति ।। ।। 4.13.२०० ।।
सर्वेषामीश्वरः सर्वस्त्वत्पादाम्भोजसेवया ।।
मृत्युञ्जयोऽन्तकालश्च बभूव योगिनां गुरुः ।।२०१।।
ब्रह्मा विधाता जगतां त्वत्पादाम्भोजसेवया ।।
यस्यैकदिवसे ब्रह्मन्पतन्तीन्द्राश्चतुर्दश ।।२०२।।
त्वत्पादसेवया धर्मः साक्षी च सर्वकर्मणाम्।।
पाता च फलदाता च जित्वा कालं सुदुर्जयम् ।।२०३।।
सहस्रवदनः शेषो यत्पादाम्बुजसेवया ।।
धत्ते सिद्धार्थवद्विश्वं शिवः कण्ठे विषं यथा ।। ।। २०४ ।।
सर्वसंपद्विधात्री या देवीनां च परात्परा।।
करोति सततं लक्ष्मीः केशैस्त्वत्पादमार्जनम् ।।२०५।।
प्रकृतिर्बीजरूपा सा सर्वेषां शक्तिरूपिणी ।।
स्मारंस्मारं त्वत्पदाब्जं बभूव तत्परावरा ।। २०६ ।।
पार्वती सर्वरूपा सा सर्वेषां बुद्धिरूपिणी।।
त्वत्पादसेवया कान्तं ललाभ शिवमीश्वरम् ।। २०७ ।।
विद्याधिष्ठात्री देवी या ज्ञानमाता सरस्वती ।।
पूज्या बभूव सर्वेषां संपूज्य त्वत्पदाम्बुजम्।।२०८।।
सावित्री वेदजननी पुनाति भुवनत्रयम् ।।
ब्रह्मणो ब्राह्मणानां च गतिस्त्वत्पादसेवया ।। २०९ ।।
क्षमा जगद्विभर्तुं च रत्नगर्भा वसुन्धरा ।।
प्रसूतिः सर्वसस्यानां त्वत्पादपद्मसेवया ।।4.13.२१०।।
राधा ममांशसंभूता तव तुल्या च तेजसा ।।
स्थित्वा वक्षसि ते पादं सेवतेऽन्यस्य का कथा ।। २११ ।।
यथा शर्वादयो देवा देव्यः पद्मादयो यथा ।।
सनाथं कुरु मामीश ईश्वरस्य समा कृपा ।।२१२।।
न यास्यामि गृहं नाथ न गृह्णामि धनं तव ।।
कृत्वा मां रक्ष पादाब्जसेवायां सेवकं रतम् ।। २१३ ।।
इति स्तुत्वा साश्रुनेत्रः पपात चरणे हरेः ।।
रुरोद च भृशं भक्त्या पुलकाञ्चितविग्रहः ।। २१४ ।।
गर्गस्य वचनं श्रुत्वा जहास भक्तवत्सलः ।।
उवाच तं स्वयं कृष्णो मयि ते भक्तिरस्त्विति ।। २१५ ।।
इदं गर्गकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।।
दृढां भक्तिं हरेर्दास्यं स्मृतिं च लभते ध्रुवम् ।। ।। २१६ ।।
जन्ममृत्युजरारोगशोकमोहादिसंकटात् ।।
तीर्णो भवति श्रीकृष्णदाससेवनतत्परः ।। २१७ ।।
कृष्णस्य सहकालं च कृष्णसार्द्धं च मोदते ।।
कदाचिन्न भवेत्तस्य विच्छेदो हरिणा सह ।। २१८ ।।
श्रीनारायण उवाच ।। ।।
हरिं मुनिः स्तवं कृत्वा ददौ नन्दाय तं मुदा ।।
उवाच तं गृहं यामि कुर्वाज्ञामिति बल्लव ।।२१९ ।।
अहो विचित्रं संसारो मोहजालेन वेष्टितः ।।
संमीलनं च विरहो नराणां सिन्धुफेनवत् ।। 4.13.२२०।।
गर्गस्य वचनं श्रुत्वा रुरोद नन्द एव च ।।
सद्विच्छेदो हि साधूनां मरणादतिरिच्यते।।२२१।।
सर्वशिष्यैः परिवृतं मुनीन्द्रं गन्तुमुद्यतम् ।।
सर्वे नन्दादयो गोपा रुदन्तौ गोपिकास्तदा ।। २२२ ।।
प्रणेमुः परमप्रीत्या चक्रुस्तं विनयं मुने ।।
दत्त्वाऽऽशिषं मुनिश्रेष्ठो जगाम मथुरां मुदा ।। २२३ ।।
ऋषयो मुनयश्चैव बन्धुवर्गाश्च बल्लवाः ।।
सर्वे जग्मुर्धनैः पूर्णाः स्वालयं हृष्टमानसाः ।। २२४ ।।
प्रजग्मुर्बन्दिनः सर्वे परिपूर्णमनोरथाः ।।
मिष्टद्रव्यांशुकोत्कृष्टतुरगस्वर्णभूषणैः ।। २२५ ।।
आकण्ठपूर्णा भुक्त्या च भिक्षुका गन्तुमक्षमा।।
स्वर्णवस्त्रभरोद्रेकपरिश्रान्ता मुदाऽन्विताः।।२२६।।
सुमन्दगामिनः केचित्केचिद्भूमौ च शेरते।।
केचिद्वर्त्मनि तिष्ठन्तश्चोत्तिष्ठन्तश्च केचन ।। २२७ ।।
केचिदूषुः प्रमुदिता हसन्तस्तत्र केचन ।।
कपर्दकानां वस्तूनां शेषांश्चोर्वरितान्बहून्। २२८।।
केचित्तानाददुः स्थित्वा दर्शयन्तश्च केचन ।।
केचिन्नृत्यं प्रकुर्वन्तो गायन्तस्तत्र केचन।।२२९।।
केचिद्बहुविधा गाथाः कथयन्तः पुरातनाः ।।
मरुत्तश्वेतसगरमांधातॄणां च भूभृताम् ।। 4.13.२३० ।।
उत्तानपादनहुषनलादीनां च याः कथाः ।।
श्रीरामस्याश्वमेधस्य रन्तिदेवस्य कर्मणाम् ।।२३१।।
येषांयेषां नृपाणां च श्रुता वृद्धमुखात्कथाः।।
कथयन्तश्च ताः केचिच्छ्रुतवन्तश्च केचन।।२३२ ।।
स्थायंस्थायं गताः केचित्स्वापंस्वापं च केचन ।।
एवं सर्वे प्रमुदिताः प्रजग्मुः स्वालयं मुदा ।। २३३ ।।
हृष्टो नन्दो यशोदा च बालं कृत्वा च वक्षसि ।।
तस्थौ स्वमन्दिरे रम्ये कुबेरभवनोपमे।। २३४।।
एवं प्रवर्द्धितौ बालौ शुक्लचन्द्रकलोपमौ ।।
गवां पुच्छं च भित्तिं च धृत्वा चोत्तस्थतुर्मुदा।।२३५।।
शब्दार्द्धं वा तदर्द्धं वा क्षमौ वक्तुं दिनेदिने।।
पित्रोर्हर्षं च वर्द्धन्तौ गच्छन्तौ प्राङ्गणे मुने।।२३६।।
बालो द्विपादं पादं वा गन्तुं शक्तो बभूव ह।।
गन्तुं शक्तो हि जानुभ्यां प्राङ्गणे वा गृहे हरिः ।।२३७।।
वर्षाधिको हि वयसा कृष्णात्संकर्षणः स्वयम् ।।
ततो मुदं वर्द्धयन्तौ वर्द्धितौ च दिनेदिने।।२३८।।
व्रजन्तौ गोकुले बालौ प्रहृष्टगमने क्षमौ ।।
उक्तवन्तौ स्फुटं वाक्यं माया बालकविग्रहौ ।। २३९ ।।
गर्गो जगाम मथुरां वसुदेवाश्रमं मुने ।।
स तं ननाम पप्रच्छ पुत्रयोः कुशलं तयोः ।। 4.13.२४० ।।
मुनिस्तं कथयामास कुशलं सुमहोत्सवम् ।।
आनन्दाश्रुनिमग्नश्च श्रुतमात्राद्बभूव ह ।। २४१ ।।
देवकी परमप्रीत्या पप्रच्छ च पुनःपुनः ।।
आनन्दाश्रुनिमग्ना सा रुरोद च मुहुर्मुहुः ।। २४२ ।।
गर्गस्तावाशिषं दत्त्वा जगाम स्वालयं मुदा ।।
स्वगृहे तस्थतुस्तौ च कुबेरभवनोपमे ।। २४३ ।।
श्रीनारायण उवाच ।।
यत्र कल्पे कथा चेयं तत्र त्वमुपबर्हणः ।।
पञ्चाशत्कामिनीनां च पतिर्गन्धर्वपुङ्गवः ।। २४४ ।।
तासां प्राणाधिकस्त्वं च शृङ्गारनिपुणो युवा ।।
ततोऽभूद्ब्रह्मणः शापाद्दासीपुत्रो द्विजस्य च ।। २४५ ।।
ततोऽधुना ब्रह्मपुत्रो वैष्णवोच्छिष्टभोजनात् ।।
सर्वदर्शी च सर्वज्ञः स्मारको हरिसेवया ।। २४६ ।।
कथितं कृष्णचरितं नामान्नप्राशनादिकम् ।।
जन्ममृत्युजरातिघ्नमपरं कथायामि ते ।।२४७।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे कृष्णान्नप्राशन वर्णननामकरणप्रस्तावो नाम त्रयोदशोऽध्यायः ।। १३ ।।