ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१४

← अध्यायः ०१३ श्रीकृष्णजन्मखण्डः
अध्यायः ०१४
वेदव्यासः
अध्यायः ०१५ →

।। श्रीनारायण उवाच ।।
एकदा नन्दपत्नी च स्नानार्थं यमुनां ययौ ।।
गव्यपूर्णं गृहं दृष्ट्वा जहास मधुसूदनः ।। १ ।।
दधिदुग्धाज्यतक्रं च नवनीतं मनोरमम् ।।
गृहस्थितं च यत्किंचिच्चखाद मधुसूदनः ।। २ ।।
मधु हैयङ्गवीनं यत्स्वस्तिकं शकटस्थितम् ।।
भुक्त्वा पीत्वांऽशुकैर्वक्त्रसंस्कारं कर्तुमुद्यतम् ।। ३ ।।
ददर्श बालकं गोपी स्नात्वाऽऽगत्य स्वमन्दिरम् ।।
गव्यशून्यं भग्नभाण्डं मध्वादिरिक्तभाजनम् ।। ४ ।।
दृष्ट्वा पप्रच्छ बालांश्च अहो कर्मेदमद्भुतम्।।
यूयं वदत सत्यं च कृतं केन सुदारुणम् ।। ५ ।।
यशोदावचनं श्रुत्वा सर्वमूचुश्च बालकाः ।।
चखाद सत्यं बालस्ते नास्मभ्यं दत्तमेव च ।। ६ ।।
बालानां वचनं श्रुत्वा चुकोप नन्दगेहिनी ।।
वेत्रं गृहीत्वा दुद्राव रक्तपङ्कजलोचना ।। ७ ।।
पलायमानं गोविन्दं ग्रहीतुं न शशाक ह ।।
ध्यानासाध्यं शिवादीनां दुरापमपि योगिनाम् ।। ८ ।।
यशोदा भ्रमणं कृत्वा विश्रान्ता घर्मसंयुता ।।
तस्थौ कोपपरी तात्मा शुष्ककण्ठौष्ठतालुका ।। ९ ।।
विश्रान्तां मातरं दृष्ट्वा कृपालुः पुरुषोत्तमः ।।
संतस्थौ पुरतो मातुः सस्मितो जगदीश्वरः ।। ।।4.14.१०।।
करे धृत्वा च तं देवी समानीय स्वमालयम्।।
बद्ध्वा वस्त्रेण वृक्षे च तताड मधुसूदनम् ।।११।।
बद्ध्वा कृष्णं यशोदा सा जगाम स्वालयं प्रति ।।
हरिस्तस्थौ वृक्षमूले जगतां पतिरीश्वरः ।। १२ ।।
श्रीकृष्णस्पर्शमात्रेण सहसा तत्र नारद ।।
पपात वृक्षः शैलाभः शब्दं कृत्वा भयानकम् ।।१३।।
सुवेषः पुरुषो दिव्यो वृक्षादाविर्बभूव ह ।।
दिव्यस्यन्दनमारुह्य जगाम स्वालयं पुरः ।। १४।।
प्रणम्य जगतीनाथं शातकौम्भपरिच्छदम् ।।
किशोरः सस्मितो गौरो रत्नालङ्कारभूषितः ।। १५ ।।
सा वृक्षपतनं दृष्ट्वा भिया त्रस्ता व्रजेश्वरी ।।
क्रोडे चकार बालं तं रुदन्तं श्यामसुन्दरम् ।।१६।।
आजग्मुर्गोकुलस्थाश्च गोपा गोप्यश्च तद्गृहम् ।।
यशोदां भर्त्सयामासुः शान्तिं चक्रुः शिशोर्मुदा ।। १७ ।।
अत्यन्तस्थविरे काले तनयोऽयं बभूव ह ।।
धनं धान्यं च रत्नं वा तत्सर्वं पुत्रहेतुकम् ।। १८ ।।
सुमतिर्नास्ति ते सत्यं ज्ञातं नन्दव्रजेश्वरि ।।
न भक्षितं यत्पुत्रेण तत्सर्वं निष्फलं भुवि।।१९।।
पुत्रं बद्ध्वा गव्यहेतोर्वृक्षमूले च निष्ठुरे।।
गृहकर्मणि व्यग्रायां दैवाद्वृक्षः पपात ह ।। 4.14.२० ।।
वृक्षस्य पतनाद्गोपी भाग्याद्बालोऽपि जीवितः ।।
प्रनष्टे बालके मूढे वस्तूनां किं प्रयोजनम् ।। २१।।
आशिषं युयुजुर्विप्रा बन्दिनश्च शुभावहाम् ।।
द्विजेन कारयामासुर्नामसंकीर्तनं हरेः ।। २२ ।।
एवं कृत्वा जनाः सर्वे प्रययुर्निजमन्दिरम् ।।
उवाच पत्नीं नन्दश्च रक्तपङ्कजलोचनः ।।२३।।
नन्द उवाच ।।
यास्यामि तीर्थमद्यैव कण्ठे कृत्वा तु बालकम् ।।
अथवा त्वं गृहाद्गच्छ त्वया मे किं प्रयोजनम् ।। २४ ।।
शतकूपाधिका वापी शतवापीसमं सरः ।।
सरःशताधिको यज्ञः पुत्रो यज्ञशताधिकः ।। २५ ।।
तपोदानोद्भवं पुण्यं जन्मान्तरसुखप्रदम् ।।
सुखप्रदोऽपि सत्पुत्र इहैव च परत्र च ।।२६।।
पुत्रादपि परो बन्धुर्न भूतो न भविष्यति ।।
एवमुक्त्वा स्वभार्यां च तस्थौ नन्दः स्वमन्दिरे।।
यशोदा रोहिणी चैव नियुक्ता गृहकर्मणि।।२७।।
नारद उवाच ।।
सुवेषः पुरुषः को वा वृक्षरूपी च गोकुले ।।
भगवन्हेतुना केन वृक्षत्वं समवाप ह ।। २८ ।।
।। नारायण उवाच ।।
कुबेरतनयः श्रीमान्नाम्ना यो नलकूबरः ।।
जगाम नन्दनवनं क्रीडार्थं सह रम्भया ।। २९ ।।
निर्जने सरसस्तीरे पुष्पोद्याने मनोहरे ।।
वटवृक्षसमीपे च सौरभे पुष्पवायुना ।।4.14.३०।।
विधाय पुष्पशयने रत्नदीपैश्च दीपितम् ।।
चन्दनागुरुकस्तूरीकुङ्कुमद्रवसंयुतम् ।।३१।।
परितः पुष्पमाल्यैश्च क्षौमवस्त्रैश्च वेष्टितम्।।
तत्र रम्भां समानीय विजहार यथेच्छया ।।३२।।
शृङ्गाराष्टप्रकारं च विपरीतादिकं सुखम् ।।
चुम्बनं षट्प्रकारं च यथास्थाने निरूपितम्।।३३।।
अङ्ग प्रत्यङ्गसंयोगत्रिविधाश्लेषणं मुदा।।
नखदन्तकरक्रीडां चकार रसिकेश्वरः ।। ३४ ।।
जलात्स्थले स्थलात्तोये कामशास्त्रविशारदः ।।
रतिभोगप्रकुर्वन्तं ददर्श देवलो मुनिः।।३५।।
नग्नां रम्भां मुक्तकेशीं पीनश्रोणिपयोधराम्।।
नखदन्तक्षताङ्गीं च पुलकाञ्चितविग्रहाम्।।३६।।
पश्यन्तीं प्राणनाथं च पश्यन्तं सस्मितं मुदा।।
वक्रभ्रूभङ्गसंयुक्तां कामुकीं च ददर्श ताम् ।। ३७।।
रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम्।।
विचित्ररत्नमाल्यैश्च पुष्पमाल्यैश्च भूषिताम्।।३८।।
किङ्किणीजालसंयुक्तां सिन्दूर बिन्दुसंयुताम् ।।
तया युक्तं पुलकितं नोत्तिष्ठन्तं स्मरान्वितम् ।।३९।।
वृक्षत्वं याहि पापिष्ठेत्युवाच मुनिपुंगवः।।
शशाप रम्भां कामार्तां मानुषी त्वं भवेति च ।।4.14.४०।।
जन्मेजयस्य सुभगा भविता कामिनीति च।।
त्वमेव गोकुलं गच्छ वृक्षरूपी भवेति च।।४१।।
श्रीकृष्ण स्पर्शमात्रेण पुनरायास्यसि गृहम् ।।
रम्भे त्वमिन्द्रसंयोगात्पुनरायास्यसि ध्रुवम् ।।४२।।
इत्येवमुक्त्वा स मुनिर्जगाम निजमन्दिरम्।
कुबेरतनयः श्रीमान्स जगाम निजालयम् ।।४३।।
इत्येवं कथितं विप्र रम्भाख्यानं वदामि ते ।।
सुचन्द्रस्य गृहे रम्भा ललाभ जन्म भारते ।। ४४ ।।
कन्या लक्ष्मीस्वरूपा च बभूव सुन्दरी वरा ।।
तां च सालंकृतां कृत्वा सुचन्द्रो नृपतीश्वरः ।।४५।।
नानाकौतुकसंयुक्तां ददौ जन्मेजयाय च।।
जन्मेजयस्य सुभगा बभूव महिषी वरा ।। ४६ ।।
स्थानेस्थाने निर्जने च राजा रेमे तया सह ।।
एकदा नृपतिश्रेष्ठश्चाश्वमेधेन दीक्षितः।।४७।।
अश्वसंगोपनं कृत्वा तस्थौ शक्रश्च मन्दिरे।।
यज्ञाश्वं रुचिरं मत्वा कौतुकेन च सुन्दरी ।।४८।।
द्रष्टुं जगाम सा साध्वी चाश्वमेकाकिनी मुदा ।।
शक्रोऽश्वनिकटे भूत्वा धर्षयामास तां सतीम् ।। ४९ ।।
तया निवार्यमाणश्च रेमे तत्र तया सह ।।
मूर्च्छामवाप शक्रश्च बुबुधे न दिवानिशम् ।। 4.14.५० ।।
सा च संभोगमात्रेण देहं तत्याज योगतः ।।
नृपस्य लज्जया भीत्या शक्रः स्वर्गे जगाम ह ।।५१।।
राजा श्रुत्वा मृतां दृष्ट्वा विललाप भृशं मुहुः।।
यज्ञं समाप्य विप्रेभ्यो ददौ पूर्णां च दक्षिणाम्।। ।।५२।।
रम्भा च मानवं देहं त्यक्त्वा स्वर्गं जगाम ह ।।
इत्येवं कथितं सर्वं वृक्षार्जुनविभञ्जनम् ।।५३।।
नलकूबरमोक्षश्च रम्भायाश्च महामुने ।।
पुण्यदं कृष्णचरितं जन्ममृत्युजरापहम् ।।
इत्येवं कथितं सर्वमपरं कथयामि ते ।। ९४ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे वृक्षार्जुनभञ्जनं नाम चतुर्दशोऽध्यायः ।।१४।।