ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१६

← अध्यायः ०१५ श्रीकृष्णजन्मखण्डः
अध्यायः ०१६
वेदव्यासः
अध्यायः ०१७ →

श्रीनारायण उवाच ।।
माधवो बालकैः सार्द्धमेकदा हलिना सह ।।
भुक्त्वा पीत्वा च क्रीडार्थं जगाम श्रीवनं मुने ।।१।।
तत्र नानाविधां क्रीडां चकार मधुसूदनः ।।
कृत्वा तां शिशुभिः सार्द्धं चालयामास गोधनम् ।। २ ।।
ययौ मधुवनं तस्माच्छ्रीकृष्णो गोधनैः सह ।।
तत्र स्वादु जलं पीत्वा वने च स महाबलः ।। ।। ३ ।।
तत्रैकदैत्यो बलवाञ्छ्वेतवर्णो भयंकरः ।।
विकृताकारवदनो बकाकारश्च शैलवत् ।। ४ ।।
दृष्ट्वा च गोकुलं गोष्ठे शिशुभिर्बलकेशवौ ।।
यथा ह्यगस्त्यो वातापिं सर्वं जग्रास लीलया ।। ५ ।।
बकग्रस्तं हरिं दृष्ट्वा सर्वे देवा भयान्विताः ।।
चक्रुर्हाहेति संत्रस्ता धावन्तः शस्त्रपाणयः ।। ६ ।।
शक्रश्चिक्षेप वज्रं च मुनेरस्थिविनिर्मितम् ।।
न ममार बकस्तस्मात्पक्षमेकं ददाह च ।। ७ ।।
नीहारास्त्रं शशधरः शीतार्तस्तेन दानवः ।।
यमदण्डं सूयर्पुत्रस्तेन कुण्ठो बभूव ह ।। ८ ।।
वायव्यास्त्रं च वायुश्च तेन स्थानान्तरं ययौ ।।
वरुणश्च शिलावृष्टिं चकार तेन पीडितः ।। ९ ।।
हुताशनश्च वाह्नेन पक्षांश्चैव ददाह सः ।।
कुबेरस्यार्धचन्द्रेण छिन्नपादो बभूव ह ।। 4.16.१० ।।
ईशानस्य च शूलेन बभूव मूर्च्छितोऽसुरः ।।
ऋषयो मुनयश्चैव कृष्णं चकुर्भियाऽऽशिषम् ।। ११ ।।
एतस्मिन्नन्तरे कृष्णः प्रज्वलन्ब्रह्मतेजसा ।।
ददाह दैत्यसर्वाङ्गं बाह्याभ्यन्तरमीश्वरः ।। १२ ।।
तत्सर्वं वमनं कृत्वा प्राणांस्तत्याज दानवः ।।
बकं निहत्य बलवाञ्छिशुभिर्गोधनैः सह ।। १३ ।।
ययौ केलिकदम्बानां काननं सुमनोहरम् ।।
एतस्मिन्नन्तरे तत्र वृषरूपधरोऽसुरः ।। १४ ।।
नाम्ना प्रलम्बो बलवान्महाधूर्तश्च शैलवत् ।।
शृङ्गाभ्यां च हरिं धृत्वा भ्रामयामास तत्र वै ।। १५ ।।
दुद्रुवुर्बालकाः सर्वे रुरुदुश्च भयातुराः ।।
बलो जहास बलवाञ्ज्ञात्वा भ्रातरमीश्वरम् ।। १६ ।।
बालकान्बोधयामास भयं किमित्युवाच ह ।।
तद्विषाणं गृहीत्वा च स्वयं श्रीमधुसूदनः ।।१७।।
भ्रामयित्वा च गगने पातयामास भूतले ।।
प्राणांस्तत्याज दैत्येन्द्रो निपत्य च महीतलम् ।। १८ ।।
जहसुर्बालकाः सर्वे ननृतुश्च जगुर्मुदा ।।
हत्वा प्रलम्बं श्रीकृष्णो बलेन सह सत्वरम् ।। १९ ।।
गोधनं चारयामास ययौ भाण्डीरमीश्वरः ।।
गच्छन्तं माधवं दृष्ट्वा केशी दैत्येश्वरो बली ।। 4.16.२० ।।
वेष्टयामास तं शीघ्रं खुरेण विलिखन्महीम् ।।
मूर्ध्नि कृत्वा हरिं तुष्टो गगनं शतयोजनम् ।। २१ ।।
उत्पात्य भ्रामयामास पपात च महीतले ।।
जग्राह स हरिं पापी चर्वयामास कोपतः ।। २२ ।।
स भग्नदन्तो दैत्यश्च वज्राङ्गचर्वणादहो ।।
श्रीकृष्णतेजसा दग्धः प्राणांस्तत्याज भूतले ।।२३।।
स्वर्गे दुन्दुभयो नेदुः पुष्पवृष्टिर्बभूव ह ।।
एतस्मिन्नन्तरे तत्र पार्षदा दिव्यरूपिणः ।। २४ ।।
तत्राजग्मुः स्यन्दनस्था द्विभुजाः पीतवाससः ।।
किरीटिनः कुण्डलिनो वनमालाविभूषिताः ।। ।। २५ ।।
विनोदमुरलीहस्ताः क्वणन्मञ्जीररञ्जिताः ।।
चन्दनोक्षितसर्वाङ्गा गोपवेषधरा वराः ।। २६ ।।
ईषद्धास्यप्रसन्नास्या भक्तानुग्रह कातराः ।।
प्रदीप्तं रथमास्थाय रत्नसारविनिर्मितम् ।। २७ ।।
भाण्डीरवनमाजग्मुर्यत्र सन्निहितो हरिः ।।
दिव्यवस्त्रपरीधाना रत्नालंकारभूषिताः ।। २८ ।।
प्रणमय्य हरिं स्तुत्वा जग्मुर्गोलोकमुत्तमम् ।।
मुक्त्वा देहं परित्यज्य वैष्णवाः पुरुषास्त्रयः ।।
संप्राप्य दानवीं योनिं बभूबुः कृष्णपार्षदाः ।। २९ ।।
नारद उवाच ।।
के ते च दिव्यपुरुषा वैष्णवा दैत्यरूपिणः ।।
कथयस्व महाभाग कृतं किं परमाद्भुतम् ।। 4.16.३० ।।
नारायण उवाच ।।
शृणु बह्मन्प्रवक्ष्येऽहमितिहासं पुरातनम् ।। ३१ ।।
श्रुतं महेशवदनात्सूर्यपर्वणि पुष्करे।।
हरेर्गुणप्रसङ्गेन कथयामास शंकरः । ३२।।
संपृष्टो मुनिसंघैश्च मया धर्मेण ब्रह्मणा ।।
ब्रह्मपुत्र महाभाग कथां भुवनपावनीम् ।।३३।।
कथयामास विस्तार्य सावधानं निशामय ।।
गन्धर्वेशो गन्धवाहः पर्वते गन्धमादने ।। ३४ ।।
महांस्तपस्विप्रवरो हरिसेवनतत्परः ।।
पुत्रा बभूवुश्चत्वारो गन्धर्वप्रवरा मुने ।। ३५ ।।
सस्मरुः कृष्णपादाब्जं स्वप्ने ज्ञाने दिवानिशम्।।
ते च दुर्वाससः शिष्याः श्रीकृष्णार्चनतत्पराः ।। ३६ ।।
नित्यं दत्त्वा च कमलं संपूज्य तं पपुर्जलम् ।।
वसुदेवः सुहोत्रश्च सुदर्शनसुपार्श्वकौ ।। ३७ ।।
चत्वारो वैष्णवश्रेष्ठास्तेपुस्ते पुष्करे तपः ।।
चिरकालं तपस्तप्त्वा बभूवुः सिद्धमन्त्रिणः ।। ३८ ।।
ज्येष्ठो दुर्वाससो योगं संप्राप्य योगिनां वरः।।
सिद्धश्चाकृतदारश्च प्रज्वलन्ब्रह्मतेजसा ।। ३९ ।।
सद्यो देहं परित्यज्य बभूव कृष्णपार्षदः ।।
एकदा भ्रातरस्ते च जग्मुश्चित्रसरोवरम्।। ।। 4.16.४० ।।
पद्मानि कृष्णपूजार्थमाहर्तुमुदये रवेः ।।
पद्मानां चयनं कृत्वा गच्छतो वैष्णवान्मुने ।। ४१ ।।
दृष्ट्वा निबध्य संजग्मुः सर्वे शंकरकिंकराः ।।
बलिष्ठा दुर्बलान्धृत्वा जग्मुः शंकरसन्निधिम् ।। ४२ ।।
ते सर्वे शंकरं दृष्ट्वा प्रणेमुः शिरसा भुवि ।।
तानुवाच शिवः शीघ्रं प्रयुज्याशिषमुत्तमाम् ।।
ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ।। ४३ ।।
शिव उवाच ।।
के यूयं पद्महर्तारः पार्वत्याश्च सरोवरे ।। ४४ ।।
लक्षयक्षै रक्षणीयं पार्वतीव्रतहेतवे ।।
नित्यं सहस्रकमलं ददाति हरये सती ।। ४५ ।।
व्रते त्रैमासिके भक्त्या पतिसौभाग्यवर्द्धने ।।
शिवस्य वचनं श्रुत्वा तमूचुर्वैष्णवा भिया ।।
पुटाञ्जलियुताः सर्वे भक्तिनम्रात्मकन्धराः ।। ४६ ।।
गन्धर्वा ऊचुः ।। ।।
वयं गन्धर्वप्रवरा गन्धवाहसुता विभो ।। ४७ ।।
हरये कमलं दत्त्वा पिबामो जलमीश्वर ।।
वयं न विद्मो हे नाथ पार्वत्या रक्षितं सरः ।। ४८ ।।
गृहाण कमलं सर्वं युष्माकं च फलं कुरु ।।
न दास्यामोऽद्य कमलं पास्यामोऽद्य जलं हर ।। ४९ ।।
किं वा कथं न पास्यामस्तुभ्यं दत्तानि तानि च ।।
नित्यं ध्यात्वा यत्पदाब्जं पद्मेन पूजयामहे ।। 4.16.५० ।।
साक्षात्तस्मै प्रदत्त्वा च पद्मं पूता वयं प्रभो ।।
एकं ब्रह्म ह्यद्वितीयं क्व देहः क्व च रूपवान् ।। ५१ ।।
भक्तानुग्रहतो देहो रूपभेदश्च मायया ।।
किं तु गृहाण पद्मानि त्वमेव मत्प्रभुः प्रभो ।। ५२ ।।
यतो नो मानसं पूर्णं तद्रूपं दर्शयाच्युत ।।
द्विभुजं कमनीयं च किशोरं श्यामसुन्दरम्।। ।। ५३ ।।
विनोदमुरलीहस्तं पीतांबरधरं परम् ।।
एकवक्त्रं द्विनयनं चन्दनागुरुचर्चितम् ।। ५४ ।।
ईषद्धास्यप्रसन्नास्यं रत्नालंकारभूषितम् ।।
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम्।। ५५ ।।
मयूरपिच्छचूडं च मालतीमाल्यभूषितम् ।।
पारिजातप्रसूनानां मालाराजिविभूषितम् ।। ५६ ।।
कोटिकन्दर्पलावण्यलीलाधाममनोहरम् ।।
गोपीसंघैर्दृश्यमानं सस्मितैर्वक्रलोचनैः ।। ५७ ।।
नवयौवनसंपन्नं राधावक्षस्थलस्थितम् ।।
ब्रह्मादिभिः स्तूयमानं वन्द्यं ध्येयमभीप्सितम् ।। ५८ ।।
स्वात्मारामं पूर्णकामं भक्तानुग्रहकातरम् ।।
इत्युक्त्वा पुरतः शम्भोस्तस्थुर्गन्धर्वपुङ्गवाः ।। ५९।।
श्रीकृष्णरूपश्रवणात्पुलकाङ्कितविग्रहः ।।
गन्धर्वाणां वचः श्रुत्वा शिवस्तानित्युवाच ह ।। 4.16.६० ।।
श्रीकृष्णरूपश्रवणात्साश्रुपूर्णविलोचनः ।।
मयैव यूयं विज्ञाता वैष्णवप्रवरा महीम् ।।६१।।
पूतां कर्तुं च भ्रमथ चरणाम्भोजरेणुना ।।
अहं वाञ्छां करोम्येव श्रीकृष्णभक्तदर्शने ।। ६२ ।।
समागमो हि साधूनां त्रिषु लोकेषु दुर्लभः ।।
पार्वत्याश्च सुराणां च सदा यूयं मम प्रियाः ।। ६३ ।।
आत्मनश्चात्मभक्तेभ्यो वैष्णवाश्च प्रियाश्च नः ।।
किन्तु मोघं च न भवेन्मया यत्स्वीकृतं पुरा ।। ६४ ।।
तच्छ्रूयतां महाभागाः पार्वतीव्रतकर्मणि।।
सरसश्चैव पद्मानि यैर्हृतानि व्रतान्तरे।। ६५ ।।
ते तूर्णमासुरीं योनिं गमिष्यन्ति न संशयः ।।
न हि श्रीकृष्णभक्तानामशुभं विद्यते क्वचित् ।। ६६ ।।
संप्राप्य मानवीं योनिं गोलोकं यास्यथ ध्रुवम् ।।
यूयं श्रीकृष्णरूपं च प्रत्यक्षं द्रष्टुमुत्सुकाः ।। ६७ ।।
ध्रुवं द्रक्ष्यथ भो वत्सा वृन्दारण्ये च भारते ।।
दृष्ट्वा कृष्णं ततो मृत्युं संप्राप्य वैष्णवोत्तमाः ।। ६८ ।।
दिव्यं स्यंदनमारुह्य गमिष्यथ हरेर्गृहम्।।
अधुना वाञ्छनीयं च रूपं द्रष्टुमिहोत्सुकाः ।। ६९ ।।
तत्सर्वं पश्यतेत्युक्त्वा दर्शयामास तच्छिवः ।।
रूपं दृष्ट्वा साश्रुनेत्राः प्रणम्य सर्वरूपिणम् ।। 4.16.७० ।।
आजग्मुर्दानवीं योनिमिति ते दानवेश्वराः ।।
वसुदेवः पुरा मुक्तः सुहोत्रश्च बकासुरः ।। ७१ ।।
सुदर्शनः प्रलम्बोऽयं स्वयं केशी सुपार्श्वकः ।।
हरस्य वरदानेन दृष्ट्वा रूपमनुत्तमम् ।। ७२ ।।
मृत्युं संप्राप्य श्रीकृष्णाज्जग्मुस्ते कृष्णमन्दिरम् ।।
इत्येवं कथितं विप्र हरेश्चरितमद्भुतम् ।।
बककेशिप्रलम्बानां मोक्षणं मोक्षकारकम् ।। ७३ ।।
नारद उवाच ।।
श्रुतं सर्वं महाभाग त्वत्प्रसादाद्यदद्भुतम् ।। ७४ ।।
अधुना श्रोतुमिच्छामि पार्वत्या किं कृतं व्रतम् ।।
को वाऽऽराध्यो व्रतस्यास्य किं फलं नियमश्च कः ।।७२।।
कानि द्रव्याणि भगवन्व्रतोपयोगिकनि च ।।
कतिकालं व्रतं किं वा प्रतिष्ठायां निरूपणम् ।। ७६ ।।
सुविचार्य वद विभो श्रोतुं कौतूहलं मम ।।
श्रीनारायण उवाच ।।
व्रतं त्रैमासिकं नाम पतिसौभाग्यवर्धनम् ।। ७७ ।।
आराध्यो भगवान्कृष्णो राधिकासहितो मुने ।।
विषुवे च समारंभः समाप्तिर्दक्षिणायने ।। ७८ ।।
संयम्य पूर्वदिवसे कृत्वाऽवश्यं हविष्यकम्।।
स्नात्वा वैशाखसंक्रान्त्यां संकल्प्य जाह्नवीतटे।।७९।।
घटे मणौ शालग्रामे जले वा पूजयेद्व्रती।।
ध्यायेद्भक्त्या च राधेशं संपूज्य पञ्च देवताः ।। 4.16.८० ।।
ध्यानं च सामवेदोक्तं निबोध कथयामि ते ।।
नवीननीरदश्यामं पीतकौशेय वाससम् ।।८१।।
शरत्पार्वणचन्द्रास्यमीषद्धास्यसमन्वितम् ।।
शरत्प्रफुल्लपद्माक्षं मञ्जुलाञ्छनरंजितम् ।।८२।।
मानसं गोपिकानां च मोहयन्तं मुहुर्मुहुः ।।
राधया दृश्यमानं च राधावक्षःस्थलस्थितम्।।८३।।
ब्रह्मानन्तेशधर्माद्यैः स्तूयमानमहं भजे ।।
ध्यात्वा कृष्णं च ध्यानेन तमावाह्य व्रती मुदा।।८४।।
ध्यायेत्तदा राधिकां च ध्यानं मध्यंदिनेरितम् ।।
राधां रासेश्वरीं रम्यां रासोल्लासरसोत्सुकाम् ।। ।।८५।।
रासमण्डलमध्यस्थां रासाधिष्ठातृदेवताम् ।।
रासेश्वरोरःस्थलस्थां रसिकां रसिकप्रियाम्।।८६ ।।
रसिकप्रवरां रम्यां रमां च रमणोत्सुकाम् ।।
शरद्राजीवराजीनां प्रभामोचनलोचनाम् ।। ८७ ।।
वक्रभ्रूभङ्गसंयुक्तां मञ्जीरेणैव रञ्जिताम् ।।
शरत्पार्वणचन्द्रास्यामीषद्धास्यमनोहराम् ।। ८८ ।।
चारुचम्पकवर्णाभां चन्दनेन विभूषिताम् ।।
कस्तूरीबिन्दुना सार्धं सिंदूरबिंदुना युताम् ।।८९।।
चारुपत्रावलीयुक्तां वह्निशुद्धांशुकोज्ज्वलाम् ।।
सद्रत्नकुण्डलाभ्यां च सुकपोलस्थलोज्ज्वलाम् ।। 4.16.९० ।।
रत्नेन्द्रसारहारेण वक्षःस्थलविराजिताम् ।।
रत्नकङ्कणकेयूरकिङ्किणीरत्नरञ्जिताम् ।।९१।।
सद्रत्नसाररचितक्वणन्मञ्जीररञ्जिताम् ।।
ब्रह्मादिभिश्च सेव्येन श्रीकृष्णेनैव सेविताम् ।। ९२ ।।
सर्वेशेन स्तूयमानां सर्वबीजां भजाम्यहम् ।।
इति ध्यात्वा च कृष्णेन सहितां तां च पूजयेत् ।। ९३ ।।
भक्त्या दत्त्वा प्रतिदिनमुपचारांश्च षोडश ।।
प्रत्येकं च पृथक्कृत्वा सर्वं दद्याद्व्रती मुदा ।। ९४ ।।
सहस्रकमलं दिव्यं शतमष्टोत्तरं मुने ।।
होमं कुर्याद्व्रती नित्यमष्टोत्तरशताहुतीः ।। ९५ ।।
दद्याद्भक्त्या च कृष्णाय स्वाहेत्युच्चार्य यत्नतः ।।
रसालस्य कदल्याश्च ह्यामं वा पक्वमेव च ।। ९६ ।।
नित्यमष्टोत्तरशतं दद्याद्भक्त्याऽक्षतैः फलम् ।।
नित्यं च भोजयेद्भक्त्या ब्राह्मणानां शतं मुने ।। ९७ ।।
होमं कुर्याद्व्रती नित्यमष्टोत्तरशताहुतीः ।।
दद्याद्भक्त्या च कृष्णाय राधिकासहिताय च ।। ९८ ।।
तिलेन हवनं कुर्यादाज्यमिश्रेण नारद ।।
वाद्यं च वादयेन्नित्यं कारयेद्धरिकीर्तनम् ।। ९९ ।।
एवं मासत्रयं कृत्वा प्रतिष्ठां तदनन्तरम् ।।
प्रतिष्ठादिवसे तत्र विधानं शृणु नारद।। ।। 4.16.१०० ।।
कमलानां च नवतिसहस्राण्यक्षतानि च ।।
ब्राह्मणानां सहस्राणि नव विप्रेन्द्र यत्नतः ।। १०१ ।।
भोजयेत्परमान्नानि स्वादूनि मिष्टकानि च ।।
फलं विंशाधिकं सप्तशतं नवसहस्रकम् ।। १०२ ।।
दद्यान्नानाविधं द्रव्यं नैवेद्यं सुमनोहरम् ।।
संस्कृताग्निं च संस्थाप्य होमं कुर्याद्विचक्षणः ।। १०३ ।।
नवतिं च सहस्राणि हुत्वाऽऽज्येन तिलेन च ।।
सवस्त्रं च सभोज्यं च यज्ञसूत्रफलान्वितम् ।। १०४ ।।
गन्धपुष्पार्चितान्भक्त्या दद्यान्नवतिलड्डुकान् ।।
दद्यान्नवतिकुम्भांश्च शीततोयप्रपूरितान् ।। १०९ ।।
एवंविधं व्रतं कृत्वा दद्याद्विप्राय दक्षिणाम् ।।
दक्षिणायाः परिमितं वेदेषु यन्निरूपितम् ।। १०६।।
वृषेन्द्राणां सहस्रं च स्वर्णशृङ्गसमन्वितम् ।।
इत्येवं कथितं विप्र कृतं त्रैमासिकव्रतम् ।। १०७ ।।
विशिष्टसंततिकरं पतिसौभाग्यवर्द्धनम् ।।
व्रतस्यास्य प्रभावेण सौभाग्यं शतजन्मनि ।। १०८ ।।
सत्पुत्रजननी सा च भवेज्जन्मशतं ध्रुवम् ।।
कदाऽपि न भवेत्तस्या भेदश्च पतिपुत्रयोः ।। १०९ ।।
दासतुल्यो भवेत्पुत्रो भर्ता च स्ववचस्करः ।।
अनुक्षणं भवेद्राधाकृष्णभक्तियुता सती ।। 4.16.११० ।।
भवेद्व्रतप्रभावेण प्राप्तज्ञानहरिस्स्मृतिः ।।
व्रतं च सामवेदोक्तं कृतं पूर्वमथावयोः ।। १११ ।।
सर्वेषां च व्रतानां च श्रेष्ठं शृणु वदामि ते ।।
स्वायंभुवस्य च मनोः शतरूपाभिधा सती ।। ११२ ।।
तया कृतं प्रथमतः कृत्वाऽगस्त्यं पुरोहितम् ।।
तदा कृतं देवहूत्या चाकूत्या च कृतं तदा ।। ११३ ।।
पुरोहितं पुलस्त्यं च कृत्वा श्रुत्युक्त्या मुने ।।
चकार रोहिणी तत्तु क्रतुं कृत्वा पुरोहितम् ।। ११४ ।।
रतिश्चकार तद्भक्त्या गौतमस्तत्पुरोहितः ।।
अकारि तद्व्रतं भक्त्या तारया गुरुकान्तया ।। ११५ ।।
महासंभृतसंभारा वसिष्ठस्तत्पुरोहितः ।।
तद्दृष्ट्वा गुरुपत्न्याश्च शक्रशच्या कृतं व्रतम् ।। ११६ ।।
महासम्भृतसम्भारस्तत्पुरोधा बृहस्पतिः ।।
व्रतं चकार स्वाहा च सर्वतोऽपि विलक्षणम् ।।११७।।
अतिसंभृतसंभारो मरीचिस्तत्पुरोहितः ।।
तद्दृष्ट्वा पार्वती ब्रह्मन्नुवाच शंकरं मुदा ।।
पुटाञ्जलियुता देवी भक्तिनम्रात्मकन्धरा ।।११८।।
पार्वत्युवाच ।।
आज्ञां कुरु जगन्नाथ करोमि व्रतमुत्तमम् ।। ११९ ।।
आवयोरिष्टदेवस्य व्रतानां च परं व्रतम् ।।
हरेराराधनं नाथ सर्वमंगलकारणम् ।। 4.16.१२० ।।
इष्टं दत्तं श्रुतेः पाठं तीर्थं पृथ्व्याः प्रदक्षिणम् ।।
हरेराराधनस्यापि कलां नार्हति षोडशीम् ।। १२१ ।।
बहिरभ्यंतरे यस्य हरिस्मृतिरनुक्षणम् ।।
जीवन्मुक्तस्य तस्यैव मुक्तिर्भवति दर्शनात् ।। ।। १२२ ।।
तस्य पादाब्जरजसा सद्यः पूता वसुन्धरा ।।
तस्य दर्शनमात्रेण पुनाति भुवनत्रयम् ।। १२३ ।।
ब्रह्मा विष्णुश्च धर्मश्च शेषस्त्वं च गणेश्वरः ।।
ध्यायंध्यायं यत्पदाब्जं तेजसा तत्समो महान् ।। १२४ ।।
यश्च यं सन्ततं ध्यायेत्स तमाप्नोति निश्चितम् ।।
गुणेन तेजसा बुद्ध्या ज्ञानेन तत्समो भवेत् ।। १२५ ।।
कृष्णस्य स्मरणाद्ध्यानात्तपसा तस्य सेवया ।।
मया प्राप्तो हि भगवान्स्वामी वा पुत्र एव च ।।१२६।।
प्रलब्धं लीलया सर्वं पूर्णं मन्मानसं तदा ।।
स्वामी मे त्वादृशः पुत्रौ कार्त्तिकेयगणेश्वरौ ।।१२७।।
पिता हिमाद्रिः कृष्णांशो मम किं दुर्लभं प्रभो ।।
पार्वतीवचनं श्रुत्वा सुप्रीतः शंकरः स्वयम् ।।
प्रहस्योवाच मधुरं पुलकांकितविग्रहः।।१२८।। ।।
श्रीमहादेव उवाच ।। ।।
महालक्ष्मीस्वरूपासि किमसाध्यं तवेश्वरि ।। १२९ ।।
सर्वसम्पत्स्वरूपा त्वमनन्तशक्ति रूपिणी ।।
त्वं च यस्य गृहे देवि स चैश्वर्यस्य भाजनम् ।।4.16.१३०।।
न लक्ष्मीर्यद्गृहे तस्य जीवनान्मरणं वरम् ।।
अहं ब्रह्मा च विष्णुश्च त्वयि भक्त्या शुभप्रदे ।। १३१ ।।
संहारे सृष्टिकाले च त्वत्प्रसादाद्वयं क्षमाः ।।
को वा हिमालयः कोऽहं कौ कार्त्तिकगणेश्वरौ ।। ।।१३२।।
त्वद्विहीना अशक्ताश्च त्वया च वयमीश्वराः ।।
युक्ताः पतिव्रतायाश्च याः पुराज्ञाः श्रुतौ श्रुताः ।।१३३।।
गृहीत्वाऽऽज्ञामीश्वरस्य व्रतं कुरु पतिव्रते ।।
व्रतमेतत्कृतं याभिस्ताभ्यः कुरु विलक्षणम् ।। १३४ ।।
सनत्कुमारो भगवान्व्रते तेऽस्तु पुरोहितः ।।
कमलानां ब्राह्मणानां द्रव्याणां दायकोऽप्यहम्।। १३५ ।।
कुबेरं द्रव्यकोशे च रक्षकं कुरु सुन्दरि ।।
व्रते च दानाध्यक्षोऽहं धनदात्री च श्रीः स्वयम् ।। १३६ ।।
पाठको वह्निदेवश्च वरुणो जलदायकः ।।
वस्तूनां वाहका यक्षास्तदध्यक्षः षडाननः ।। १३७ ।।
स्थानसंस्कार कर्ता च व्रतेऽत्र पवनः स्वयम् ।।
परिवेष्टा स्वयं शक्रश्चन्द्रोऽधिष्ठापको व्रते ।। १३८ ।।
सूर्यश्च दाननिर्वक्ता योग्यायोग्यं यथोचितम् ।।
व्रतोपयुक्तं यद्द्रव्यं दत्त्वा नियमितं प्रिये ।। १३९ ।।
ततोऽधिकं फलं पुष्पं हरये देहि सुन्दरि ।।
व्रते नियमितान्विप्रान्भोजयित्वा ततोऽधिकाम्।। 4.16.१४० ।।
असंख्यान्ब्राह्मणान्देवि भक्त्या कुरु निमन्त्रणम् ।।
समाप्तिदिवसे स्वर्णं रत्नं मुक्तां प्रवालकम्।।१४१।।
व्रतोक्तां दक्षिणां दत्त्वा सर्वं देहि द्विजातये ।।
इत्युक्त्वा शंकरस्तां च कारयामास तद्व्रतम् ।। १४२ ।।
व्रतं चकार सा दुर्गा सर्वाभ्यश्च विलक्षणम् ।।
इत्येवं कथितं विप्र पार्वत्या यद्व्रतं कृतम् ।। १४३ ।।
रत्नं वोढुमशक्ताश्च ब्राह्मणाः पार्वतीव्रते ।।
इतिहासः श्रुतः सर्वः प्रकृतं शृणु नारद ।। १४४ ।।
श्रीकृष्णबालचरितं नूत्नं नूत्नं पदे पदे ।।
हत्वा तान्दानवेन्द्रांश्च शिशुभिः सह गोकुले ।।१४५।।
जगाम स्वगृहं कृष्णः कुबेरभवनोपमम् ।।
सर्वेभ्यो वनवार्ता च प्रोक्ता च शिशुभिर्मुदा ।। १४६ ।।
श्रुत्वैवं विस्मिताः सर्वे नन्दो भयमवाप ह ।।
आनीय वृद्धान्गोपांश्च गोपिकाः स्थविरास्तथा ।। १४७ ।।
युक्तिं चकार तैः सार्द्धमालोच्य समयोचिताम् ।।
कृत्वा युक्तिं च गोपेशस्तत्स्थानं त्यक्तुमुद्यतः।।१४८।।
गन्तुं वृन्दावनं सर्वानुवाच तत्क्षणं मुने।।
नन्दाज्ञां च समाकर्ण्य ते सर्वे गन्तुमुद्यताः।।१४९।।
गोपाश्च गोपिकाश्चैव बालका बालिकास्तथा ।।
कृष्णेन हलिना सार्धं प्रययुर्बालका मुदा ।। 4.16.१५० ।।
संगीतं च प्रगायन्तो नानावेष समन्विताः ।।
वेणुप्रवादकाः केचित्केचिच्छृङ्गप्रवादकाः ।। १५१ ।।
करतालकराः केचिद्वीणाहस्ताश्च केचन।।
शरयन्त्रकराः केचिच्छृङ्गहस्ताश्च केचन ।। १५२ ।।
नवपल्लवकर्णाश्च केचिद्गोपालबालकाः ।।
केचिन्मुकुलकर्णाश्च पुष्पकर्णाश्च केचन ।। १५३ ।।
नवमाल्यकराः केचित्केचिदाजानुमालिनः ।।
केचित्पल्लवचूडाश्च पुष्पचूडाश्च केचन ।। १५४ ।।
गोपालबालकाः सर्वे विप्रेन्द्र नवकोटयः ।।
जग्मुर्गोप्यो वयस्याश्च कोटिशः कोटिशो मुदा ।। १५५ ।।
वृद्धाश्च कोटिशस्तत्र बृहच्छ्रोण्यश्चलत्कुचाः ।।
राधिकासहचारिण्यो बाला गोपालिका मुने ।। १९६ ।।
ताः सुशीलादयो भव्या नानालंकारभूषिताः ।।
दिव्यवस्त्रपरीधानाः सस्मितास्ता ययुर्मुदा ।।१५७।।
काश्चिदारुह्य शिबिकां रथमारुह्य काश्चन ।।
राधा स्यन्दनमारुह्य शातकौम्भपरिच्छदम् ।। १५८ ।।
ताभिर्युक्ता ययौ देवी रत्नालंकार भूषिता ।।
यशोदा रोहिणी चैव रत्नालंकारभूषिता ।। १५९ ।।
ययौ स्यन्दनमारुह्य शातकौम्भपरिच्छदम् ।।
नन्दः सुनन्दः श्रीदामा गिरिभानुर्विभाकरः ।। 4.16.१६० ।।
वीरभानुश्चन्द्रभानुर्गजस्थाः प्रययुर्मुदा ।।
श्रीकृष्णबलदेवौ तौ रत्नालंकारभूषितौ ।। १६१ ।।
स्वर्ण स्यन्दनमास्थाय जग्मतुः परया मुदा ।।
कोटिशः कोटिशो गोपा वृद्धाश्च यौवनान्विताः ।। १६२ ।।
अश्वस्थाश्च गजस्थाश्च रथस्थाश्चैव केचन ।।
गोपा ययुर्मुदा युक्ताश्चोद्धता नन्दकिंकराः ।।१६३।।
वृषस्था गर्दभस्थाश्च संगीततानतत्पराः ।।
अपरा राधिकादास्यस्त्रिसप्तशतकोटयः ।। १६४ ।।
मुदान्विताः सस्मिताश्च स्वर्णालंकारभूषिताः ।।
काश्चित्सिन्दूरहस्ताश्च काश्चित्कज्जलवाहिकाः ।। ।।१६५।।
काश्चित्कन्दुकहस्ताश्च काश्चित्पुत्तलिकाकराः ।।
भोगद्रव्यकराः काश्चित्क्रीडाद्रव्यकरा वराः ।। १६६ ।।
वेषद्रव्यकराः काश्चित्काश्चिन्मालाकरा वराः ।।
काश्चिद्वाद्यकहस्ताश्च प्रययुर्गोपिका मुदा ।।१६७।।
वह्निशुद्धांशुकानां च वाहिकाश्चैव काश्चन ।।
चन्दनागुरुकस्तूरीकुङ्कुमद्रववाहिकाः।।१६८।।
काश्चित्संगीतनिरताः काश्चिच्चित्रकथारताः।।
कोटिशः कोटिशो रम्याः प्रययुः शिबिकान्विताः।। ।।१६९।।
कोटिशः कोटिशश्चाश्वाः कोटिशः कोटिशो रथाः ।।
कोटिशः कोटिशश्चैव शकटा द्रव्यपूरिताः ।।4.16.१७०।।
कोटिशः कोटिशश्चैव वृषेन्द्रा द्रव्यवाहकाः ।।
कोटिशः कोटिशश्चैव दशलक्षाणि हस्तिनाम् ।।१७१।।
हस्तिपांकुशयुक्तानि ययुर्वृन्दावनं वनम् ।।
सर्वे वृन्दावनं गत्वा दृष्ट्वा शून्यगृहं मुने ।।१७२।।
वृक्षमूले यथास्थानं तस्थुः सर्वे यथोचितम् ।।
उवाच गोपाञ्छ्रीकृष्णो गृहांश्चेष्टतमान्व्रजाः ।।१७३।।
अद्य संतिष्ठतेत्येवं श्रुत्वा श्रीकृष्णभाषितम् ।।
कुत्र सन्ति गृहाः कृष्णेत्येवमूचुस्तु गोपकाः ।।
इति तेषां वचः श्रुत्वा श्रीकृष्णो वाक्यमब्रवीत् ।। १७४ ।।
श्रीकृष्ण उवाच ।।
अत्र स्थाने गृहाः सन्ति प्रसन्ना देवनिर्मिताः ।। १७५ ।।
देवप्रीतिं विना शक्ता नहि द्रष्टुं च केचन ।।
अद्य तिष्ठत गोपालाः संपूज्य वनदेवताः ।। १७६ ।।
प्रातर्यूयं गृहान्रम्यान्द्रक्ष्यथाद्य ध्रुवं मुदा ।।
धूपदीपादिनैवेद्यैर्बलिभिः पुष्पचन्दनैः ।।१७७।।
देवीं च वटमूलस्थां पूजां कुरुत चण्डिकाम् ।।
कृष्णस्य वचनं श्रुत्वा गोपाः संपूज्य देवताम् ।।
भुक्त्वा भोगान्दिने रात्रौ तत्रैव सुषुपुर्मुदा ।।१७८।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे बकप्रलम्बकेशिवधपूर्वकवृन्दावनगमनं नाम षोडशोऽध्यायः ।। १६ ।।