प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०१६ श्रीकृष्णजन्मखण्डः
अध्यायः ०१७
वेदव्यासः
अध्यायः ०१८ →

।। श्रीनारायण उवाच ।।
सुप्तेषु व्रजनन्देषु नक्तं वृन्दावने वने ।।
सुनिद्रिते च निद्रेशे मातृवक्षःस्थलस्थिते ।। १ ।।
निद्रितासु च गोपीषु रम्यतल्पस्थितासु च ।।
यूनां च सुखसंयोगानुषक्तमानसासु च ।। २ ।।
कासुचिच्छिशुयुक्तासु सखीयुक्तासु कासुचित् ।।
कासुचिच्छकटस्थासु स्यंदनस्थासु कासुचित् ।। ३ ।।
पूर्णेन्दुकौमुदीयुक्ते स्वर्गादपि मनोहरे ।।
नानाप्रकारकुसुमवायुना सुरभीकृते ।। ४ ।।
सर्वप्राणिनि निश्चेष्टे मुहूर्ते पञ्चमे गते ।।
तत्राजगाम भगवाञ्छिल्पिनां च गुरोर्गुरुः ।। ५ ।।
बिभ्रद्दिव्यांशुकं सूक्ष्मं रत्नमाल्यं मनोहरम् ।।
रत्नालङ्कारमतुलं श्रीमन्मकरकुण्डलम् ।। ६ ।।
ज्ञानेन वयसा वृद्धो दर्शनीयः किशोरवत् ।।
अतीव सुन्दरः श्रीमान्कामदेवसमप्रभः ।। ७ ।।
विशिष्टशिल्पनिपुणैः सार्द्धं शिल्पित्रिकोटिभिः ।।
मणिरत्नैर्हेमरत्नैर्लोहास्त्रयुतहस्तकैः ।। ८ ।।
आजग्मुर्यक्षनिकराः कुबेरवनकिंकराः ।।
स्फाटिकारत्नवेषाश्च दीर्घस्कन्धाश्च केचन ।। ९ ।।
पद्मरागकरा केचिदिन्द्रनीलकरा वराः ।।
केचित्स्यमन्तककराश्चन्द्रकान्तकरास्तथा ।। 4.17.१० ।।
सूर्यकान्तकराश्चान्ये प्रभाकरकरा वराः ।।
केचित्परशुहस्ताश्च लोहसारकरा वराः ।। ११ ।।
केचिच्च गन्धसाराणां मणीन्द्राणां च वाहकाः ।।
केचिच्चामरहस्ताश्च केचिद्दर्पणवाहकाः ।। १२ ।।
स्वर्णपात्रघटादीनां वाहकाश्चैव केचन ।।
विश्वकर्मा च सामग्रीं दृष्ट्वा तु सुमनोहराम् ।। १३ ।।
नगरं कर्तुमारेभे ध्यात्वा कृष्णं शुभेक्षणम् ।।
पञ्चयोजनविस्तीर्णं भारते श्रेष्ठमुत्तमम् ।। ।। १४ ।।
पुण्यक्षेत्रं तीर्थसारमतिप्रियतमं हरेः ।।
तत्रस्थानां मुमुक्षूणां परं निर्वाणकारणम् ।। १५ ।।
गोलोकस्य च सोपानं सर्वेषां वाञ्छितप्रदम् ।।
चतुष्कोटिचतुःशालं तत्रैवातिमनोहरम् ।। १६ ।।
कपाटस्तम्भसोपानसहितैः प्रस्तरैर्वरैः ।।
चित्रपुत्तलिकापुष्पकलशोज्ज्वलशेखरम् ।। १७ ।।
शैलजाश्मविनिर्माणवेदिप्रांगणसंयुतम् ।।
शिलाप्राकारसंयुक्तं प्रचकाराथ लीलया ।। ३८ ।।
यथोचितबृहत्क्षुद्रद्वारद्वयसमन्वितम् ।।
स्फाटिकाकारमणिभिर्मुदा युक्तो विनिर्ममे ।। १९ ।।
सोपानैर्गन्धसाराणां स्तम्भैः शंकुविनिर्मितैः ।।
कपाटैलोहसाराणां राजतैः कलशोज्ज्वलैः ।। 4.17.२० ।।
वज्रसारविनिर्माणप्राकारैः परिशोभितम् ।।
कृत्वाऽऽश्रमं बल्लवानां यथास्थानं यथोचितम् ।।
वृषभान्वालयं रम्यं कर्तुमारब्धवान्पुनः ।। २१ ।।
प्राकारपरिखायुक्तं चतुर्द्वारान्वितं परम् ।।
चारुविंशच्चतुःशालं महामणिविनिर्मितम् ।। २२ ।।
रत्नसारविकारैश्च तूलिकानिकरैर्वरैः ।।
सुवर्णाकारमणिभिरारोहैरतिसुन्दरैः ।। २३ ।।
लोहसारकपाटैश्च शोभितं चित्रकृत्रिमैः ।।
मन्दिरेमन्दिरे रम्ये सुवर्णकलशोज्ज्वलम् ।। २४ ।।
तदाश्रमैकदेशे च निर्जनेऽतिमनोहरे ।।
चारुचम्पकवृक्षाणामुद्यानाभ्यन्तरे मुने ।। २९ ।।
संभोगार्थं कलावत्याः स्वामिना सह कौतुकात् ।।
विशिष्टेन मणीन्द्रेण चकाराट्टालिकालयम् ।। २६ ।।
युक्तं नवभिरारोहैरिन्द्रनीलविनिर्मितैः ।।
स्थूणाकपाटनिकरैर्गंधसारविकारजैः ।।
अत्युच्छ्रितं मनोरम्यं सर्वतोऽपि विलक्षणम् ।। २७ ।।
नारद उवाच ।।
कलावती का भगवन्कस्य पत्नी मनोहरा ।।
यत्नतो यद्गृहं रम्यं निर्ममे सुरकारुणा ।। २८ ।।
नारायण उवाच ।।
पितॄणां मानसी कन्या कमलांशा कलावती ।।
सुन्दरी वृषभानस्य पतिव्रतपरायणा ।।
यस्याश्च तनया राधा कृष्णप्राणाधिका प्रिया ।। २९ ।।
श्रीकृष्णार्द्धांशसंभूता तेन तुल्या च तेजसा ।।
यस्याश्च चरणाम्भोजरजःपूता वसुन्धरा ।।
यस्यां च सुदृढां भक्तिं सन्तो वाञ्छंति सन्ततम् ।। 4.17.३० ।।
नारद उवाच ।।
पितॄणां मानसीं कन्यां व्रजे तिष्ठन्कथं मुने ।।
मानवः केन पुण्येन कथमाप सुदुर्लभाम् ।। ३१ ।।
वृषभानुर्व्रजपतिः पुराऽऽसीत्को महानहो ।।
कस्य वा केन तपसा राधा कन्या बभूव ह ।। ३२ ।।
सूत उवाच ।।
नारदस्य वचः श्रुत्वा महर्षिर्ज्ञानिनां वरः ।।
प्रहस्योवाच प्रीत्या तमितिहासं पुरातनम् ।। ३३ ।।
नारायण उवाच ।।
बभूवुः कन्यकास्तिस्रः पितॄणां मानसात्पुरा ।। ३४ ।।
कलावतीरत्नमालामेनकाश्चातिदुर्लभाः ।।
रत्नमाला च जनकं वरयामास कामुकी ।।३५।।
शैलाधिपं हरेरंशं मेनका सा हिमालयम् ।।
दुहिता रत्नमालाया अयोनिसंभवा सती ।।३६।।
श्रीरामपत्नी श्रीः साक्षात्सीता सत्यपरायणा ।।
कन्यका मेनकायाश्च पार्वती सा पुरा सती ।।३७ ।।
अयोनिसंभवा सा च हरेर्माया सनातनी ।।
सा लेभे तपसा देवं हरं नारायणात्मकम् ।। ३८ ।
कलावती सुचन्द्रं च मनुवंशसमुद्भवम् ।।
स च राजा हरेरंशस्तां संप्राप्य कलावतीम् ।।३९।।
मन्ये गुणवतां श्रेष्ठमात्मानमतिसुन्दरम् ।।
अहो रूपमहो वेषमहो अस्या नवं वयः ।। 4.17.४० ।।
सुकोमलाङ्गं ललितं शरच्चन्द्राधिकाननम् ।।
गमनं दुर्लभमहो गजखञ्जनगञ्जनम् ।।४१।।
कटाक्षैर्मोहितुं शक्ता मुनीन्द्राणां च मानसम् ।।
श्रोणीयुग्मं सुललितं रम्भास्तंभविनिर्मितम् ।। ४२।।
स्तनद्वयं सुकठिनमतिपीनोन्नतं मुने ।।
नितम्बयुगलं चारु रथचक्रविनिर्मितम्।। ४३ ।।
हस्तौ पादौ च रक्तौ च पक्वबिम्बफलाधरम्।।
पक्वदाडिमबीजाभं दन्तपङ्क्तिमनोहरम् ।। ४४ ।।
शरन्मध्याह्नपद्मानां प्रभामोचनलोचनम् ।।
भूषणैर्भूषितं रूपं कृतं सद्रत्नभूषणम् ।। ।। ४५ ।।
इतीव मत्वा दृष्ट्वा च कामबाणप्रपीडितः ।।
दिव्यं स्यन्दनमारुह्य कामुक्या सह कामुकः ।। ४६ ।।
क्रीडां चकार रहसि स्थानेस्थाने मनोहरे ।।
रम्यायां मलयद्रोण्यां चन्दनागुरुवायुना ।।४७ ।।
चारुचम्पकपुष्पाणां तल्पे रतिसुखावहे।।
मालतीमल्लिकानां च पुष्पोद्यानेऽतिपुष्पिते।। ४८ ।।
पुष्पभद्रानदीतीरे निर्जने केतकीवने ।।
पश्चिमाब्धितटान्तस्थकानने जन्तुवर्जिते।।४९ ।।
नन्दने मन्दरद्रोण्यां कावेरीतीरजे वने ।।
शैलेशैले सुरम्ये च नद्यांनद्यां नदेनदे ।। 4.17.५० ।।
द्वीपेद्वीपे तु रहसि स रेमे वामया सह ।।
नवसंगमसंयोगाद्बुबुधे न दिवानिशम् ।। ५१ ।।
एवं वर्षसहस्रं तद्गतमेव मुहूर्तवत् ।।
कृत्वा विहारं सुचिरं स विरक्तो बभूव ह ।।५२।।
जगाम तपसे विन्ध्यशैलं तीर्थं तया सह ।।
भारतेऽतिप्रशस्यं च पुलहाश्रममुत्तमम् ।।५३।।
तपस्तेपे नृपस्तत्र दिव्यवर्षसहस्रकम् ।।
मोक्षाकाङ्क्षी निःस्पृहश्च निराहारः कृशोदरः।।५४।।
मूर्छामाप मुनिश्रेष्ठ ध्यात्वा कृष्णपदाम्बुजम्।।
तद्गात्रव्याप्तवल्मीकं साध्वी दूरं चकार सा ।। ५५ ।।
निश्चेष्टितं पतिं दृष्ट्वा त्यक्तं प्राणैश्च पञ्चभिः ।।
मांसशोणितरक्तं तमस्थिसंसक्तविग्रहम् ।।५६ ।।
उच्चै रुरोद शोकार्ता निर्जने तु कलावती ।।
हे नाथनाथेत्युच्चार्य कृत्वा वक्षसि मूर्छितम् ।। ५७ ।।
विललाप महादीना पतिव्रतपरायणा ।।
दृष्ट्वा नृपं निराहारं कृशं धमनिसंयुतम् ।।५८।।
श्रुत्वा च रोदनं तस्याः कृपया च कृपानिधिः।।
आविर्बभूव जगतां विधाता कमलोद्भवः ।।५९।।
क्रोडे कृत्वा च तं तूर्णं रुरोद भगवान्विभुः ।।
ब्रह्मा कमण्डलुजलेनासिच्य नृपविग्रहम् ।। 4.17.६० ।।
जीवं संचारयामास ब्रह्मज्ञानेन ब्रह्मवित् ।।
नृपेन्द्रश्चेतनां प्राप्य पुरो दृष्ट्वा प्रजापतिम् ।। ६१ ।।
प्रणनाम च तं दृष्ट्वा तं च कामसमप्रभम् ।।
तमुवाचेति संतुष्टो वरं वृणु यथेप्सितम् ।। ६२ ।।
स विधेर्वचनं श्रुत्वा वव्रे निर्वाणमीप्सितम् ।।
दयानिधे त्वं दयया वरं दातुं समुद्यतः ।। ६३ ।।
प्रसन्नवदनः श्रीमान्स्मेराननसरोरुहः ।।
कृत्वानुमानं मनसि शुष्ककण्ठोष्ठतालुका ।।६४।।
तमुवाच सती त्रस्ता वरं दातुं समुद्यतम् ।। ।।
कलावत्युवाच ।।
यदि मुक्तिं नृपेन्द्राय ददासि कमलोद्भव ।।६५।।
अतोऽबलाया हे ब्रह्मन्का गतिर्भविता वद ।।
विना कान्तं च कान्तानां का शोभा चतुरानन ।। ६६ ।।
व्रतं पतिव्रतायाश्च पतिरेव श्रुतौ श्रुतम् ।।
गुरुश्चाभीष्टदेवश्च तपोधर्ममयः पतिः ।। ६७।।
सर्वेषां च प्रियतरो न बन्धुः स्वामिनः परः ।।
सर्वधर्मात्परा ब्रह्मन्पतिसेवा सुदुर्लभा ।। ६८ ।।
स्वामिसेवाविहीनायाः सर्वं तन्निष्फलं भवेत् ।।
व्रतं दानं तपः पूजा जपहोमादिकं च यत्।।६९।।
स्नानं च सर्वतीर्थेषु पृथिव्याश्च प्रदक्षिणम्।।
दीक्षा च सर्वयज्ञेषु महादानानि यानि च ।। 4.17.७० ।।
पठनं सर्ववेदानां सर्वाणि च तपांसि च ।।
वेदज्ञानां ब्राह्मणानां भोजनं देवसेवनम् ।।७१।।
एतानि स्वामिसेवायाः कलां नार्हन्ति षोडशीम् ।।
स्वामिसेवाविहीना या वदंति स्वामिने कटुम् ।।७२।।
पतंति कालसूत्रे च यावच्चंद्रदिवाकरौ ।।
सर्पप्रमाणाः कृमयो दंशंति च दिवानिशम् ।।७३ ।।
संततं विपरीतं च कुर्वंति शब्दमुल्बणम् ।।
मूत्रश्लेष्मपुरीषाणां कुर्वंति भक्षणं मुदा ।।७४।।
मुखे तासां ददत्येवमुल्कां च यमकिंकराः ।।
भुक्त्वा भोगं च नरके कृमियोनिं प्रयांति ताः ।। ७५ ।।
भक्षंति जन्मशतकं रक्तमांसपुरीषकम् ।।
श्रुत्वाहं विदुषां वक्त्राद्वेदवाक्येषु निश्चितम् ।। ७६ ।।
जानामि किंचिदबला त्वं वेदजनको विभुः ।।
गुरोर्गुरुश्च विदुषां योगिनां ज्ञानिनां तथा ।।७७।।
सर्वज्ञमेवंभूतं त्वां बोधयामि किमच्युत ।।
प्राणाधिकोऽयं कांतोऽयं यदि मुक्तो बभूव ह ।। । ७८ ।।
मम को रक्षिता ब्रह्मन्धर्मस्य यौवनस्य च ।।
कौमारे रक्षिता तातो दत्त्वा पात्राय सत्कृती ।।७९।।
सर्वदा रक्षिता कांतस्तदभावे च तत्सुतः ।।
त्रिष्ववस्थासु नारीणां त्रातारश्च त्रयः स्मृताः ।। 4.17.८० ।।
याः स्वतंत्राश्च ता नष्टाः सर्वधर्मबहिष्कृताः ।।
असत्कुलप्रसूतास्ताः कुलटा दुष्टमानसाः ।। ८१ ।।
शतजन्मकृतं पुण्यं तासां नश्यति पद्मज ।।
पुत्रस्नेहो यथा बाल्ये तथा यूनि च वार्द्धके । ।। ८२ ।।
पतिव्रतानां कान्ते च सर्वकाले समा स्पृहा ।।
सुते स्तनंधये स्नेहो मातॄणां चातिशोभिते ।। ८३ ।।
पतिस्नेहस्य साध्वीनां कलां नार्हति षोडशीम् ।।
स्तनान्धे स्तनदानान्तमिष्टान्ने भोजनावधि ।। ८४।।
कान्ते चित्तं सतीनां च स्वप्ने ज्ञाने च सन्ततम् ।।
दुःखान्तो बन्धुविच्छेदः पुत्राणां च ततोऽधिकः।।८५।।
सुदारुणः स्वामिनश्च दुःखं नातः परं स्त्रियाः।।
अविदग्धा यथा दग्धा ज्वलदग्नौ विषादने ।। ८६ ।।
तथा विदग्धा दग्धा स्याद्विदग्धविरहानले ।।
नान्ने तृष्णा जले तृष्णा साध्वीनां स्वामिनं विना ।। ८७ ।।
विरहाग्नौ मनो दग्धं वह्नौ शुष्कतृणं यथा।।
न हि कान्तात्परो बन्धुर्न हि कान्तात्परः प्रियः।।८८।।
न हि कान्तात्परो देवो न हि कान्तात्परो गुरुः ।।
न हि कान्तात्परो धर्मो न हि कान्तात्परं धनम्।। ८९ ।।
न हि कान्तात्परः प्राणा न हि कान्तात्परः स्त्रियाः ।।
निमग्नं कृष्णपादाब्जे वैष्णवानां यथा मनः ।। 4.17.९० ।।
यथैकपुत्रे मातुश्च यथा स्त्रीषु च कामिनाम् ।।
धनेषु कृपणानां च चिरकालार्जितेषु च ।। ९१ ।।
यथा भयेषु भीतानां शास्त्रेषु विदुषां यथा ।।
स्तनादाने शिशूनां च शिल्पेषु शिल्पिनां यथा ।। ९२ ।।
यथा जारे पुंश्चलीनां साध्वीनां च तथा प्रिये ।।
तं विना जीवितुं ब्रह्मन्क्षणमेकं न च क्षमम् ।। ९३ ।।
मरणं जीवनं तासां जीवनं मरणाधिकम् ।।
सद्भर्तृरहितानां च शोकेन हतचेतसाम् ।।
अन्यशोकनिमग्नानां कालेन पानभोजनात् ।। ९४ ।।
विपरीतः कान्तशोको वर्द्धते भक्षणादहो ।।
कर्मच्छाया सतीनां च सङ्गिनीनां सती वरा (? )।।९५।।
इतरे भोगदेहान्ते साध्वी जन्मनि जन्मनि ।।
करोषि चेज्जगद्धातरिमं मुक्तं मया विना ।। ९६ ।।
त्वां शप्त्वाऽहं त्वयि विभो पश्य दास्यामि स्त्रीवधम् ।।
श्रुत्वा कलावतीवाक्यमुवाच विस्मितो विधिः ।।
हितं पीयूषसदृशं भयसंविग्नमानसः ।। ९७ ।।
ब्रह्मोवाच ।। ।।
वत्से मुक्तिं न दास्यामि स्वामिनं च त्वया विना ।। ।। ९८ ।।
मुक्तं कर्तुं त्वया सार्द्धं साम्प्रतं नाहमीश्वरः ।।
मातर्मुक्तिर्विना भोगाद्दुर्लभा सर्वसंमता ।। ९९ ।।
निर्वाणतां समाप्नोति भोगी भोगविकृन्तने ।।
कविवर्षं स्वर्गभोगं कुरुष्व स्वामिना सह ।। 4.17.१०० ।।
ततस्तु युवयोर्जन्म भविता भारते सति ।।
यदा भविष्यति सती कन्या ते राधिका स्वयम् ।। १०१ ।।
जीवन्मुक्तौ तया सार्द्धं गोलोकं च गमिष्यथः ।।
कतिकालं नृपश्रेष्ठ भुङ्क्ष्व भोगं स्त्रिया सह ।। १०२ ।।
साध्वी वै सत्त्वयुक्ता च मा मां शप्तुं त्वमर्हसि ।।
जीवन्मुक्ताः समाः सन्तः कृष्णपादाब्जमानसाः ।। १०३ ।।
वाञ्छन्ति हरिदास्यं च दुर्लभं न च निर्वृतिम् ।।
इत्युक्त्वा तौ वरौ दत्त्वा सन्तस्थौ पुरतस्तयोः ।।१०४।।
ययतुस्तौ तं प्रणम्य जगाम स्वालयं विधिः ।।
आजग्मतुस्तौ कालेन भुक्त्वा भोगं च भारतम् ।। १०५ ।।
परं पुण्यप्रदं दिव्यं ब्रह्मादीनां च वाञ्छितम् ।।
सुचन्द्रो वृषभानुश्च ललाभ जन्म गोकुले।। १०६ ।।
पद्मावत्याश्च जठरे सुरभानस्य रेतसा ।।
जातिस्मरो हरेरंशः शुक्लपक्षे यथा शशी ।। १०७ ।।
ववृधेऽनुदिनं तत्र व्रजगेहे व्रजाधिपः ।।
सर्वज्ञश्च महायोगी हरिपादाब्जमानसः ।। १०८ ।।
नन्ददबन्धुर्वदान्यश्च रूपवान्गुणवान्सुधीः ।।
कलावती कान्यकुब्जे बभूवायोनिसंभवा ।। १०९ ।।
जातिस्मरा महासाध्वी सुन्दरी कमलाकला ।।
कान्यकुब्जे नृपश्रेष्ठो भनन्दन उरुक्रमः ।।4.17.११०।।
स तां संप्राप्य यागान्ते यज्ञकुण्डसमुत्थिताम् ।।
नग्नां हसन्तीं रूपाढ्यां स्तनान्धामिव बालिकाम् ।। १११ ।।
तेजसा प्रज्वलन्तीं च प्रतप्तकनकप्रभाम् ।।
कृत्वा वक्षसि राजेन्द्रः स्वकान्तायै ददौ मुदा ।। ११२ ।।
मालावती स्तनं दत्त्वा तां पुपोष प्रहर्षिता ।।
तदन्नप्राशनदिने सतां मध्ये शुभे क्षणे ।। ११३ ।।
नामरक्षणकाले च वाग्बभूवाशरीरिणी ।।
कलावतीति कन्याया नाम रक्ष नृपेति च ।। ११४ ।।
इत्येवं वचनं श्रुत्वा तच्चकार महीपतिः ।।
विप्रेभ्यो भिक्षुकेभ्यश्च बन्दिभ्यश्च धनं ददौ ।। ११५ ।।
सर्वेभ्यो भोजयामास चकार सुमहोत्सवम् ।।
कालेन सा रूपवती यौवनस्था बभूव ह ।। ११६।।
अतीव सुन्दर श्यामा मुनिमानसमोहिनी ।।
चारुचम्पकवर्णाभा शरच्चन्द्रनिभानना ।। ११७ ।।
ईषद्धास्यप्रसन्नास्या प्रफुल्लपद्मलोचना ।।
नितम्ब श्रोणिभारार्ता स्तनभारनता सती ।। ११८ ।।
गच्छन्ती राजमार्गेण गजेन्द्रमन्दगामिनी ।।
ददर्श नन्दः पथि तां गच्छन्तीं च मुदा न्वितः ।।११९।।
जितेन्द्रियश्च ज्ञानी च मूर्च्छामाप तथाऽपि च।।
त्रस्तो लोकान्पथि गतांस्तूर्णं पप्रच्छ सादरम्।।4.17.१२०।।
गच्छन्ती कस्य कन्येयमिति होवाच तं जनः ।।
भनन्दनस्य नृपतेः कन्या नाम्ना कलावती ।। १२१ ।।
कमलाकलया धन्या संभूता नृपमन्दिरे ।।
कौतुकेन च गच्छन्ती क्रीडार्थं सखिमन्दिरम् ।। १२२ ।।
व्रज व्रज व्रजश्रेष्ठेत्युक्त्वा लोको जगाम ह ।।
प्रहृष्टमानसो नन्दो जगाम राजमन्दिरम् ।। १२३ ।।
अवरुह्य रथात्तूर्णं विवेश नृपतेः सभाम् ।।
उत्थाय राजा संभाष्य स्वर्णसिंहासनं ददौ ।। १२४ ।।
इष्टालापं बहुतरं चकार च परस्परम् ।।
विनयावनतो नन्दः सम्बन्धोक्तिं चकार ह ।। १२५ ।।
नन्द उवाच ।।
शृणु राजेन्द्र वक्ष्यामि विशेषवचनं शुभम् ।।
संबन्धं कुरु कन्याया विशिष्टेन च साम्प्रतम् ।। १२६ ।।
सुरभानुसुतः श्रीमान्वृषभानुर्व्रजाधिपः ।।
नारायणांशो गुणवान्सुन्दरश्च सुपण्डितः ।। १२७ ।।
स्थिरयौवनयुक्तश्च योगी जातिस्मरो युवा ।।
कन्या तेऽयोनिसंभूता यज्ञकुण्डसमुद्भवा ।। १२८ ।।
त्रैलोक्यमोहिनी शान्ता कमलांशा कलावती ।।
स च योग्यस्त्वद्दुहितुस्तद्योग्या ते च कन्यका ।। १२९ ।।
विदग्धाया विदग्धेन संबन्धो गुणवान्नृप ।।
इत्येवमुक्त्वा नन्दस्तु विरराम च संसदि ।।
उवाच तं नृपश्रेष्ठो विनयावनतो मुने ।। ।। 4.17.१३० ।।
भनन्दन उवाच ।।
संबन्धो हि विधिवशो न मे साध्यो व्रजाधिप ।। १३१ ।।
प्रजापतिर्योगकर्ता जन्मदाताऽहमेव च ।।
का कस्य पत्नी कन्या वा वरः को वा ससाधनः ।। १३२ ।।
कर्मानुरूपफलदः सर्वेषां कारणं विधिः ।।
भवितव्यं कृतं कर्म तदमोघं श्रुतौ श्रुतम् ।। १३३ ।।
अन्यथा निष्फलं सर्वमनीशस्योद्यमो यथा ।।
वृषभानुप्रिया धात्रा लिखिता चेत्सुता मम ।। ।। १३४ ।।
पुरा भूतैव को वाऽहं केनान्येन निवार्यते ।।
इत्येवमुक्त्वा राजेन्द्रो विनयानतकंधरः ।। १३५ ।।
मिष्टान्नं भोजयामास सादरेण च नारद ।।
नृपानुज्ञामुपादाय व्रजराजो व्रजं गतः ।। १३६ ।।
गत्वा स कथयामास सुरभानस्य संसदि ।।
सुरभानश्च यत्नेन नन्दनेन च सादरम् ।। १३७ ।।
संबन्धं योजयामास गर्गद्वारा च सत्वरम् ।।
विवाहकाले राजेन्द्रो विपुलं यौतकं ददौ ।। ।। १३८ ।।
गजरत्नमश्वरत्नं रत्नानि मणिभूषणम् ।।
वृषभानुर्मुदा युक्तः प्राप्य तां च कलावतीम् ।। १३९ ।।
रेमे सुनिर्जने रम्ये बुबुधे न दिवानिशम् ।।
चक्षुर्निमेषविरहाद्व्याकुलां स्वामिना विना ।। 4.17.१४० ।।
व्याकुलो वृषभानुश्च क्षणेन च तया विना ।।
जातिस्मरा च सा कन्या मायामानुषरूपिणी ।। १४१ ।।
जातिस्मरो हरेरंशो वृषभानो मुदाऽन्वितः ।।
ववृधे च तयोः प्रेम नित्यंनित्यं नवंनवम् ।। १४२ ।।
सदा सकामा सा प्रौढा स च कामसमो युवा ।।
तयोः कन्या च कालेन राधिका सा बभूव ह ।।
दैवात्सुदाम शापेन श्रीकृष्णस्याज्ञया पुरा ।। १४३ ।।
अयोनिसंभवा सा च कृष्णप्राणाधिका सती ।।
यस्या दर्शनमात्रेण तौ विमुक्तौ बभूवतुः।। ।। १४४ ।।
इतिहासश्च कथितः प्रकृतं शृणु साम्प्रतम् ।।
पापेन्धनानां दाहे च ज्वलदग्निशिखोपमः ।।।४४।।।
वृषभानाश्रमं गत्वा शिल्पिनां प्रवरो मुदा ।।
स्थानान्तरं विश्वकर्मा जगाम स्वगणैः सह ।। १४६ ।।
क्रोशमात्रं स्थलं चारु मनसाऽऽलोच्य तत्त्ववित् ।।
आश्रमं कर्तुमारेभे नन्दस्य सुमहात्मनः ।। १४७ ।।
कृत्वाऽनुमानं बुद्ध्या च सर्वतोऽपि विलक्षणम् ।।
परिखाभिर्गभीराभिश्चतुर्भिः संयुतं वरम् ।। १४८ ।।
दुर्लङ्घ्याभिर्वैरिभिश्च खनिताभिश्च प्रस्तरैः ।।
पुष्योद्यानैः पुष्पिताभिः पारावारेषु पुष्पितैः ।। १४९।।
चारु चम्पकवृक्षैश्च पुष्पितैः सुमनोहरैः ।।
परितो वासिताभिश्च सुगन्धिवायुना मुने ।। 4.17.१५० ।।
आम्रैर्गुडालैः पनसैः खर्जूरैर्नारिकेलकैः ।।
दाडिमैः श्रीफलैर्भृङ्गैर्जम्बीरैर्नागरङ्गकैः ।।१५१।।
तुङ्गैराम्रातकैर्जम्बुसमूहैश्च फलान्वितैः ।।
कदलीनां केतकीनां कदम्बानां कदम्बकैः ।। ।। १५२ ।।
सर्वतः शोभिताभिश्च फलैस्तैः पुष्पितैरहो ।।
क्रीडार्हाभिर्निगूढाभिर्वाञ्छिताभिश्च सर्वदा ।। १५३ ।।
परिखानां रहः स्थाने चकार मार्गमुत्तमम् ।।
दुर्गमं परवर्गाणां स्वानां च सुगमं सदा ।। १५४ ।।
संकेतेन मणिस्तम्भैश्छादितैः स्वल्पपाथसा ।।
स्तम्भसीमाकृतमहो न संकीर्णं न विस्तृतम् ।। १५९ ।।
परिखोपरिभागे च प्राकारं सुमनोहरम् ।।
धनुःशतप्रमाणं च चकारातिसमुच्छ्रितम् ।। १५६ ।।
प्रस्तरस्य प्रमाणं च पञ्चविंशतिहस्तकम् ।।
सिन्दूराकारमणिभिर्निर्मितं चातिसुन्दरम् ।। १५७ ।।
बाह्ये द्वाभ्यां च संयुक्तमन्तरे सप्तभिस्तथा ।।
द्वार्भिश्च सन्निरुद्धाभिर्मणिसारकपाटकैः ।।१५८।।
हरिन्मणीनां कलशैश्चित्रयुक्तैर्विराजितम् ।।
मणिसारविकारैश्च कपाटैश्च सुशोभितम् ।। १५९ ।।
स्वर्णसारविनिर्माणकलशोज्ज्वलशेखरम् ।।
नन्दालयं विनिर्माय बभ्राम नगरं पुनः ।। 4.17.१६० ।।
राजमार्गाश्च विविधान्स च चारूंश्चकार ह ।।
रक्तभानुविकारैश्च वेदीभिश्च सुपत्तनैः ।। १६१ ।।
पारावारे च परितो निबन्धांश्च मनोहरान् ।।
वाणिज्यार्हैश्च वणिजां परितो मणिमण्डपैः ।। १६२ ।।
सर्वतो दक्षिणे वामे ज्वलद्भिश्च विराजितान् ।।
ततो वृन्दावनं गत्वा निर्ममे रासमण्डलम्।।१६३।।
सुन्दरं मण्डलाकारं मणिप्राकारसंयुतम् ।।
परितो योजनायामं मणिवेदिभिरन्वितम् ।। १६४ ।।
मणिसारविकारैश्च मण्डपैर्नवकोटिभिः ।।
शृङ्गारार्हैश्च चित्राढ्यै रतितल्पसमन्वितैः ।। १६५ ।।
नानाजातिप्रसूनानां वायुना सुरभीकृतैः ।।
रत्नप्रदीपसंयुक्तैः सुवर्णकलशोज्ज्वलैः ।। १६६ ।।
पुष्पोद्यानैः पुष्पितैश्च सरोभिश्च सुशोभितम् ।।
रासस्थलं विनिर्माय जगामान्यत्स्थलं पुरः ।। १६७ ।।
दृष्ट्वा वृन्दावनं रम्यं परितुष्टो बभूव ह ।।
वृन्दावनाभ्यन्तरे च स्थानेस्थाने सुनिर्जने ।। १६८ ।।
कृत्वा परिमितं बुद्ध्या मनसालोच्य यत्नतः ।।
विलक्षणानि रम्याणि तत्र त्रिंशद्वनानि च ।। १६९ ।।
राधामाधवयोरेव क्रीडार्थं च विनिर्ममे ।।
ततो मधुवनाभ्याशे निर्जनेऽतिमनोहरे ।। 4.17.१७०।।
वटमूलसमीपे च सरसः पश्चिमे तटे ।।
चम्पकोद्यानपूर्वायां केतकीवनमध्यतः ।।१७१।।
पुनस्तयोश्च क्रीडार्थं चकार रत्नमण्डपम् ।।
चतुर्भिर्वेदिकाभिश्च परीतमतिसुन्दरम् ।।१७२।।
सद्रत्नसाररचितै राजितं तूलिकाशतैः ।।
अमूल्यरत्नरचितैर्नानाचित्रेण चित्रितैः।।१७३।।
कपाटैर्नवभिर्युक्तं नवद्वारैर्मनोहरैः ।।
रत्नेंद्रचित्त्रकलशैः कृत्रिमैश्च त्रिकोटिभिः ।। १७४ ।।
परितः परितो भित्त्यामूर्ध्वं च परिशोभितम् ।।
महामणीन्द्रविकृतैरारोहैर्नवभिर्वृतम् ।।१७५।।
सद्रत्नसाररचितकलशोज्ज्वलशेखरम्।।
पताकातोरणैर्युक्तं शोभितं श्वेतचामरैः ।।१७६।।
सर्वतः पुरतो दीप्तममूल्यरत्न दर्पणैः ।।
धनुःप्रमाणशतकमूर्ध्वमग्निशिखोपमम् ।।१७७।।
शतहस्तप्रमाणं च प्रस्तारं वर्तुलाकृतिम् ।।
शोभितं रत्नकल्पैश्च तदभ्यन्तरमुत्तमम् ।।१७८।।
वह्निशुद्धांशुकैर्वस्त्रैर्मालाजालविचित्रितैः।।
पारिजातप्रसूनानां माल्योपधानसंयुतैः।।१७९।।
चन्दनागुरुकस्तूरीकुङ्कुमैः सुरभीकृतम् ।।
नवशृङ्गारयोग्यैश्च कामवर्द्धनकारिभिः ।। 4.17.१८० ।।
मालतीचम्पकानां च पुष्पराजिभिरन्वितम् ।।
सकर्पूरैश्च ताम्बूलैः सद्रत्नपात्रसंस्थितैः ।। १८१ ।।
वज्रसारेण खचितैर्मुक्ताजालविलम्बिभिः ।।
रत्नसारघटाकीर्णं रत्नपीठैः सुसंयुतम् ।। १८२ ।।
रत्नसिंहासनैर्युक्तं रत्नचित्रेण चित्रितैः ।।
क्षरितैश्चन्द्रकान्तैश्च सुसिक्तं जलबिन्दुभिः।।१८३।।
शीतवासिततोयेन संयुक्तं भोगवस्तुभिः ।।
कृत्वा रतिगृहं रम्यं नगरं च पुनर्ययौ ।। १८४ ।।
यानि येषां मन्दिराणि तन्नामानि लिलेख सः ।।
मुदा युक्तो विश्वकर्मा शिष्यैर्यक्षगणैः सह ।। १८५ ।।
निद्रेशं निद्रितं नत्वा प्रययौ स्वालयं मुने ।।
सर्वत्रैवं सुकृतिनां समस्तं भगवत्कृपा ।। १८६ ।।
नेहाश्चर्यं च नगरं बभूवेशेच्छया भुवि ।।
इत्येवं कथितं सर्वं हरेश्चरितमङ्गलम् ।।
सुखदं पातकहरं किं भूयः श्रोतुमिच्छसि ।। १८७ ।।
।। नारद उवाच ।।
कथं वृन्दावनं नाम काननस्यास्य भारते ।।
व्युत्पत्तिरस्य संज्ञा वा तत्त्वं वद सुतत्त्ववित् ।। १८८ ।।
सूत उवाच ।।
नारदस्य वचः श्रुत्वा ऋषिर्नारायणो मुदा ।।
प्रहस्योवाच निखिलं तत्त्वमेव पुरातनम् ।। १८९ ।।
।। नारायण उवाच ।। ।।
पुरा केदारनृपतिः सप्तद्वीपपतिः स्वयम् ।। 4.17.१९० ।।
आसीत्सत्ययुगे ब्रह्मन्सत्यधर्मरतः सदा ।।
स रेमे सह नारीभिः पुत्रपौत्रगणैः सह ।। १९१ ।।
पुत्रानिव प्रजाः सर्वाः पालयामास धार्मिकः ।।
कृत्वा क्रतुशतं राजा लेभे नेन्द्रत्वमीप्सितम् ।। १९२ ।।
कृत्वा नानाविधं पुण्यं फलकाङ्क्षी न च स्वयम् ।।
नित्यं नैमित्तिकं सर्वं श्रीकृष्णप्रीतिपूर्वकम् ।। १९३ ।।
केदारतुल्यो राजेन्द्रो न भूतो भविता पुनः ।।
पुत्रेषु राज्यं संन्यस्य प्रियां त्रैलोक्यमोहिनीम् ।। १९४ ।।
जैगीषव्योपदेशेन जगाम तपसे वनम् ।।
हरेरैकान्तिको भक्तो ध्यायते संततं हरिम् ।।१९५।।
शश्वत्सुदर्शनं चक्रमस्ति यत्सन्निधौ मुने ।।
चिरं तप्त्वा मुनिश्रेष्ठो गोलोकं च जगाम सः ।।१९६ ।।
केदारं नाम तीर्थं च तन्नाम्ना च बभूव ह ।।
तत्राद्यापि मृतः प्राणी सद्यो मुक्तो भवेद्ध्रुवम् ।। १९७ ।।
कमलांशा तस्य कन्या नाम्ना वृन्दा तपस्विनी ।।
न वव्रे सा वरं कंचिद्योगशास्त्रविशारदा ।। १९८ ।।
दत्तो दुर्वाससा तस्यै हरेर्मन्त्रः सुदुर्लभः ।।
सा विरक्ता गृहं त्यक्त्वा जगाम तपसे वनम् ।। १९९ ।।
षष्टिवर्षसहस्राणि तपस्तेपे सुनिर्जने ।।
आविर्बभूव श्रीकृष्णस्तत्पुरो भक्तवत्सलः ।। 4.17.२०० ।।
प्रसन्नवदनः श्रीमान्वरं वृण्वित्युवाच सः ।।
दृष्ट्वा सा राधिका कान्तं शान्ते सुन्दरविग्रहम् ।। २०१ ।।
मूर्च्छां संप्राप सा सद्यः कामबाणप्रपीडिता ।।
सा च शीघ्रं वरं वव्रे पतिस्त्वं मे भवेति च ।। २०२ ।।
ओमित्युक्त्वा च रहसि चिरं रेमे तया सह ।।
सा जगाम च गोलोकं कृष्णेन सह कौतुकात् ।। २०३ ।।
राधा समा सा सौभाग्याद्गोपीश्रेष्ठा बभूव ह ।।
वृन्दा यत्र तपस्तेपे तत्तु वृन्दावनं स्मृतम् ।। २०४ ।।
वृन्दयाऽत्र कृता क्रीडा तेन वा मुनिपुंगव ।।
अथाऽन्यं चेतिहासं च शृणुष्व वत्स पुण्यदम् ।। २०५ ।।
येन वृन्दावनं नाम निबोध कथयामि ते ।।
कुशध्वजस्य कन्ये द्वे धर्मशास्त्रविशारदे ।। २०६ ।।
तुलसीवेदवत्यौ च विरक्ते भवकर्मणि ।।
तपस्तप्त्वा वेदवती प्राप नारायणं परम् ।। २०७ ।।
सीता जनककन्या सा सर्वत्र परिकीर्तिता ।।
तुलसी च तपस्तप्त्वा वाञ्छां कृत्वा हरिं प्रति ।। २०६ ।।
दैवाद्दुर्वाससः शापात्प्राप्य शङ्खासुरं प्रति ।।
पश्चात्संप्राप्य कमलाकान्तं कान्तं मनोहरम् ।। २०९ ।।
सा चैव हरिशापेन वृक्षरूपा सुरेश्वरी ।।
तस्याः शापेन च हरिः शालग्रामो बभूव ह ।। 4.17.२१० ।।
तथा तस्थौ च सततं शिलावक्षसि सुंदरी ।।
विस्तीर्णं कथितं सर्वं तुलसीचरितं च ते ।।
तथाऽपि च प्रसंगेन किंचिदुक्तं मुने पुनः ।। २११ ।।
तस्याश्च तपसः स्थानं तदिदं च तपोधन ।।
तेन वृन्दावनं नाम प्रवदन्ति मनीषिणः ।। २१२ ।।
अथ वा ते प्रवक्ष्यामि परं हेत्वन्तरं शृणु ।।
येन वृन्दावनं नाम पुण्यक्षेत्रस्य भारते ।। २१३ ।।
राधाषोडशनाम्नां च वृन्दानाम श्रुतौ श्रुतम् ।।
तस्याः क्रीडावनं रम्यं तेन वृन्दावनं स्मृतम् ।। २१४ ।।
गोलोके प्रीतये तस्याः कृष्णेन निर्मितं पुरा ।।
क्रीडार्थं भुवि तन्नाम्ना वनं वृन्दावनं स्मृतम् ।। २१५ ।।
नारद उवाच ।।
कानि षोडश नामानि राधिकाया जगद्गुरो ।।
तानि मे वद शिष्याय श्रोतुं कौतूहलं मम ।। २१६ ।।
श्रुतं नाम्नां सहस्रं च सामवेदे निरूपितम् ।।
तथाऽपि श्रोतुमिच्छामि त्वत्तो नामानि षोडश ।। २१७ ।।
अभ्यंतराणि तेषां वा तदन्यान्येव मे विभो ।।
अहो पुण्यस्वरूपाणि भक्तानां वाञ्छितानि च ।। २१८ ।।
नामानि तेषां व्युत्पत्तिं सर्वेषां दुर्लभानि च ।।
पावनानि जगन्मातुर्जगतामपि कारणम् ।। २१९ ।।
श्रीनारायण उवाच ।।
राधा रासेश्वरी रासवासिनी रसिकेश्वरी ।।
कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ।। 4.17.२२० ।।
कृष्णवामांगसंभूता परमानन्दरूपिणी ।।
कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी ।। २२१ ।।
चन्द्रावती चन्द्रकान्ता शतचन्द्रनिभानना ।।
नामान्येतानि साराणि तेषामभ्यन्तराणि च ।। २२२ ।।
राधेत्येवं च संसिद्धा राकारो दानवाचकः ।।
स्वयं निर्वाणदात्री या सा राधा परिकीर्तिता ।। २२३ ।।
रासेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता ।।
रासे च वासो यस्याश्च तेन सा रासवासिनी ।। २२४ ।।
सर्वासां रसिकानां च देवीनामीश्वरी परा ।।
प्रवदन्ति पुरा सन्तस्तेन तां रसिकेश्वरीम् ।। २२५ ।।
प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः ।।
कृष्णप्राणाधिका सा च कृष्णेन परिकीर्तिता ।।२२६।।
कृष्णस्यातिप्रिया कान्ता कृष्णो वाऽस्याः प्रियः सदा ।।
सर्वैर्देवगणैरुक्ता तेन कृष्णप्रिया स्मृता ।। २२७ ।।
कृष्णरूपं सन्निधातुं या शक्ता चावलीलया ।।
सर्वांशैः कृष्णसदृशी तेन कृष्णस्वरूपिणी ।। २२८ ।।
वामाङ्गार्धेन कृष्णस्य या संभूता परा सती ।।
कृष्णवामाङ्गसंभूता तेन कृष्णेन कीर्तिता ।। २२९ ।।
परमानन्दराशिश्च स्वयं मूर्तिमती सती ।।
श्रुतिभिः कीर्तिता तेन परमानन्दरूपिणी ।। 4.17.२३० ।।
कृषिर्मोक्षार्थवचनो न एवोत्कृष्टवाचकः ।।
आकारो दातृवचनस्तेन कृष्णा प्रकीर्तिता ।।२३१।।
अस्ति वृन्दावनं यस्यास्तेन वृन्दावनी स्मृता ।।
वृन्दावनस्याधिदेवी तेन वाऽथ प्रकीर्तिता ।।२३२।।
संघः सखीनां वृन्दः स्यादकारोऽप्यस्तिवाचकः ।।
सखिवृन्दोऽस्ति यस्याश्च सा वृन्दा परिकीर्तिता ।।२३३।।
वृन्दावने विनोदश्च सोऽस्या ह्यस्ति च तत्र वै ।।
वेदा वदन्ति तां तेन वृन्दावनविनोदिनीम्।।२३४।।
नखचन्द्रावलीवक्रचन्द्रोऽस्ति यत्र संततम्।।
तेन चन्द्रावली सा च कृष्णेन परिकीर्तिता ।।२३५।।
चन्द्रतुल्या कान्तिरस्ति सदा यस्या दिवानिशम् ।।
सा चन्द्रकान्ता हर्षेण हरिणा परिकीर्तिता ।। २३६ ।।
शरच्चन्द्रप्रभा यस्याश्चाननेऽस्ति दिवानिशम् ।।
मुनिना कीर्तिता तेन शरच्चन्द्रप्रभानना ।। २३७ ।।
इदं षोडशनामोक्तमर्थव्याख्यानसंयुतम् ।।
नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ।।२३८।।
ब्रह्मणा च पुरा दत्तं धर्माय जनकाय मे ।।
धर्मेण कृपया दत्तं मह्यमादित्यपर्वणि ।। २३९ ।।
पुष्करे च महातीर्थे पुण्याहे देवसंसदि ।।
राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा ।। 4.17.२४० ।।
इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं मया मुने ।।
निन्दकायावैष्णवाय न दातव्यं महामुने ।। २४१ ।।
यावज्जीवमिदं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।।
राधामाधवयोः पादपद्मे भक्तिर्भवेदिह ।। २४२ ।।
अन्ते लभेत्तयोर्दास्यं शश्वत्सहचरो भवेत् ।।
अणिमादिकसिद्धिं च संप्राप्य नित्यविग्रहम् ।। २४३ ।।
व्रतदानोपवासैश्च सर्वैर्नियमपूर्वकैः ।।
चतुर्णां चैव वेदानां पाठैः सर्वार्थसंयुतैः ।। २४४ ।।
सर्वेषां यज्ञतीर्थानां करणैर्विधिबोधितैः ।।
प्रदक्षिणेन भूमेश्च कृत्स्नाया एव सप्तधा ।। २४५ ।।
शरणागतरक्षायामज्ञानां ज्ञानदानतः ।।
देवानां वैष्णवानां च दर्शनेनापि यत्फलम् ।। २४६ ।।
तदेव स्तोत्रपाठस्य कलां नार्हति षोडशीम् ।।
स्तोत्रस्यास्य प्रभावेण जीवन्मुक्तो भवेन्नरः ।। २४७ ।।
नारद उवाच ।।
संप्राप्तं परमाश्चर्यं स्तोत्रं सर्वसुदुर्लभम् ।।
कवचं चापि देव्याश्च संसारविजयं प्रभो ।। ।। २४८ ।।
कृतं स्तोत्रं सुयत्नेन प्राप्तं तदपि दुर्लभम् ।।
श्रुत्वा कृष्णकथां चित्रां त्वत्पादाब्जप्रसादतः ।। २४९ ।।
अधुना श्रोतुमिच्छामि यद्रहस्यं च तद्वद ।।
प्रातश्च नगरं दृष्ट्वा किमूचुर्बल्लवा मुने ।। 4.17.२५० ।।
श्रीनारायण उवाच ।।
गतायां तत्र यामिन्यां गते च विश्वकर्मणि ।।
अरुणोदयवेलायां जनाः सर्वे जजागरुः ।। २५१ ।।
उत्थाय दृष्ट्वा नगरं सर्वेभ्योऽपि विलक्षणम् ।।
किमाश्चर्यं किमाश्चर्यमित्यूचुर्व्रजवासिनः ।। २५२ ।।
काश्चिद्गोपान्केचिदूचुः कुत एतदभूदिदम् ।।
न जाने केन रूपेण को भूमौ प्रभवेदिति ।। २५३ ।।
बुबुधे मनसा नन्दो गर्गवाक्यमनुस्मरन् ।।
श्रीहरेरिच्छया सर्वं जगदेतच्चराचरम् ।। २५४ ।।
ब्रह्मादितृणपर्यन्तं यस्य भ्रूभङ्गलीलया ।।
आविर्भूतं तिरोभूतं तस्यासाध्यं च किं कुतः ।। २५५ ।।
विवरेष्वेव यल्लोम्नां ब्रह्माण्डान्यखिलानि च ।।
ईशस्य तन्महाविष्णोः किमसाध्यं हरेरहो ।। २५६ ।।
ब्रह्मानन्तेशधर्माश्च ध्यायन्ते यत्पदाम्बुजम् ।।
किमसाध्यं तदीशस्य मायामानुषरूपिणः ।। २५७ ।।
भ्रामंभ्रामं तन्नगरं दर्शंदर्शं गृहंगृहम् ।।
पाठंपाठं च नामानि सर्वेभ्यो निलयं ददौ ।। २५८ ।।
कृत्वा शुभक्षणं नन्दो वृषभानश्च कौतुकी ।।
चकार सगणैः सार्द्धं मुदाऽऽश्रमनिवेशनम् ।। २५९ ।।
सर्वे वृन्दावनस्थाश्च प्रसन्नवदनेक्षणाः ।।
मुदा प्रवेशनं चक्रुः स्वस्वमाश्रममुत्तमम् ।। 4.17.२६० ।।
सर्वे मुमुदिरे गोपाः स्वेस्वे स्थाने मनोहरे ।।
बालका बालिकाश्चैव चिक्रीडुश्च प्रहर्षिताः ।। २६१ ।।
श्रीकृष्णो बलदेवश्च शिशुभिः सह कौतुकात् ।।
क्रीडां चकार तत्रैव स्थानेस्थाने मनोहरे ।। २६२ ।।
इत्येवं कथितं सर्वं निर्माणं नगरस्य च ।।
अबलानां वने रासमण्डलस्य च नारद ।। २६३ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे नारायणनारदसंवादे श्रीवृन्दावननगरवर्णनं नाम सप्तदशोऽध्यायः ।। १७ ।।