प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०२० श्रीकृष्णजन्मखण्डः
अध्यायः ०२१
वेदव्यासः
अध्यायः ०२२ →

श्रीनारायण उवाच ।।
एकदाऽऽनन्दयुक्तश्च नन्दो गोपव्रजे मुने ।।
दुन्दुभिं वादयामास शक्रयागकृतोद्यमः ।। १ ।।
दधि क्षीरं घृतं तक्रं नवनीतं गुडं मधु ।।
एतान्यादाय शक्रस्य पूजां कुर्वन्त्विति ब्रुवन् ।।२।।
येये सन्त्यत्र नगरे गोपा गोप्यश्च बालकाः ।।
बालिकाश्च द्विजा भूयो वैश्याः शूद्राश्च भक्तितः ।। ३ ।।
इत्येवं श्रावयामास स्वयमेव मुदाऽन्वितः ।।
यष्टिमारोपयामास रम्यस्थाने सुविस्तृते ।। ४ ।।
ददौ तत्र क्षौमवस्त्रं मालाजालं मनोहरम् ।।
चन्दनागुरुकस्तूरीकुङ्कुमद्रवमेव च ।। ५ ।।
स्नातः कृताह्निको भक्त्या धृत्वा धौते च वाससी।।
उवास स्वर्णपीठे च प्रक्षालितपदाम्बुजः ।।६।।
नानाप्रकारपात्रैश्च ब्राह्मणैश्च पुरोहितैः ।।
गोपालैर्गोपिकाभिश्च बालाभिः सह बालकैः ।। ७ ।।
एतस्मिन्नन्तरे तत्राजग्मुर्नगरवासिनः ।।
महासंभृतसंभारा नानोपायनसंयुताः ।। ८ ।।
आजग्मुर्मुनयः सर्वे ज्वलन्तं ब्रह्मतेजसा ।।
शान्ताः शिष्यगणैः सार्धं वेदवेदाङ्गपारगाः ।। ९ ।।
गर्गश्च गालवश्चैव शाकल्यः शाकटायनः ।।
गौतमः करुषः कण्वो वात्स्यः कात्यायनस्तथा ।। 4.21.१० ।।
सौभरिर्वामदेवश्च याज्ञवल्क्यश्च पाणिनिः ।।
ऋष्यशृङ्गो गौरमुखो भरद्वाजश्च वामनः ।।११।।
कृष्णद्वैपायनः शृङ्गी सुमन्तुर्जैमिनिः कचः ।।
पराशरश्च मैत्रेयो वैशम्पायन एव च ।। १२ ।।
ब्राह्मणाश्च कतिविधा भिक्षुका बन्दिनस्तथा ।।
भूपा वैश्याश्च शूद्राश्च समाजग्मुर्महोत्सवे ।। १३ ।।
दृष्ट्वा मुनीन्द्रान्नन्दश्च ब्राह्मणान्भूमिपांस्तथा ।।
स्वर्णपीठात्समुत्तस्थौ व्रजाश्चोत्तस्थुरेव च।। १४ ।।
प्रणम्य वासयामास मुनीन्द्रान्विप्रभूमिपान् ।।
तेषामनुमतिं प्राप्य तत्रोवास पुनर्मुदा ।। १५ ।।
पाकं च यष्टिनिकटे कर्तुमाज्ञां चकार ह ।।
पाकप्राज्ञं ब्राह्मणानां शतमानीय सादरम् ।। १६ ।।
तत्र रत्नप्रदीपाश्च जज्वलुः परितस्तथा ।।
अन्धीभूतं च धूपेन स्थानं तत्सुरभीकृतम् ।। १७ ।।
नानाविधानि पुष्पाणि माल्यानि विविधानि च ।।
नैवेद्यं च बहुविधमपूर्वं सुमनोहरम् ।। १८ ।।
तिललड्डुकपूर्णं च मण्डकानां सहस्रकम् ।।
स्वस्तिकैः परिपूर्णं च यष्टिस्थानं च नारद ।। १९ ।।
कलशानां सहस्रं च पूर्णं शर्करया मुने ।।
यवगोधूमचूर्णानां लड्डुकैर्मधुरैर्वरैः ।।4.21.२०।।
घृतपक्वैर्विप्रकृतैः पूर्णानि कलशानि च ।।
वृक्षपक्वानि रम्याणि चारुरम्भाफलानि च ।।२१।।
फलानि परिपक्वानि कालदेशोद्भवानि च।।
क्षीराणां कुम्भलक्षाणि दध्नां तावन्ति नारद ।। २२ ।।
मधूनां कुम्भशतकं सर्पिष्कुम्भ सहस्रकम् ।।
कलशानां त्रिलक्षाणि तक्रपूर्णानि निश्चितम् ।। २३ ।।
घटानां पञ्चलक्षाणि गुडपूर्णानि निश्चितम् ।।
तिलतैलेन पूर्णं च कलशानां सहस्रकम् ।। २४ ।।
वृषेन्द्राश्च बहुविधा भोगार्हद्रव्यवाहकाः ।।
नानाविधानि पात्राणि सौवर्णराजतानि च ।। २९ ।।
स्वर्णपीठानि च ब्रह्मन्नाजग्मुर्यष्टिसन्निधिम् ।।
वस्त्राणि वरणार्हाणि चारूणि भूषणानि च ।। २५ ।।
नानाविधानि वाद्यानि चारूणि मधुराणि च ।।
वादकाः स्वरयन्त्राणि वादयामासुरुत्सवे ।। २७ ।।
छागलानां सहस्राणि महिषाणां शतानि च ।।
मेषकाणां च लक्षाणि ह्यानयामास तत्र वै ।।२८।।
शतान्येव गण्डकानामाजग्मुर्यष्टिसंनिधिम् ।।
प्रेक्षितानि च सर्वाणि रक्षितानि च रक्षकैः।।२९।।
बालकानां बालिकानां वृक्षाणां वृक्षयोषिताम् ।।
यूनां च युवतीनां च संख्यां कर्तुं च कः क्षमः ।।4.21.३०।।
गायकानां च संगीतं नर्तकानां च नर्तनम् ।।
श्रुत्वा दृष्ट्वा जनाः सर्वे मुमुहुः सुमहोत्सवे ।। ३१ ।।
रंभोर्वशी मेनका च घृताची मोहिनी रतिः ।।
प्रभावती भानुमती विप्रचित्तिस्तिलोत्तमा ।। ३२ ।।
चन्द्रप्रभा सुप्रभा च रत्नमाला मदालसा ।।
रेणुका रमणी ब्रह्मन्नेता आजग्मुरुत्सवे ।। ३३ ।।
तासां नृत्येन गीतेन स्तनास्यश्रोणिदर्शनात् ।।
रूपेण वक्रदृष्ट्या च मूर्च्छां प्रापुश्च मानवाः ।। ३४ ।।
एतस्मिन्नन्तरे शीघ्रमाजगाम हरिः स्वयम् ।।
गोपालबालकैः सार्धं बलेन बलशालिना।।३५।।
दृष्ट्वा तं च जनाः सर्वे संभ्रान्ता हर्षविह्वलाः ।।
उत्तस्थुराराद्भीताश्च पुलकाङ्कितविग्रहाः ।। ३६।।
क्रीडास्थानात्समायान्तं शान्तं सुन्दरविग्रहम्।।
विनोदमुरलीवेणुशृङ्गशब्दसमन्वितम् ।। ३७ ।।
सद्रत्नसारभूषाभिर्भूषितं कौस्तुभेन च ।।
चन्दनागुरुपङ्केन चर्चितं श्यामविग्रहम् ।। ३८ ।।
शरन्मध्याह्नपद्मास्यं पश्यन्तं रत्नदर्पणे ।।
चारुचन्दनचन्द्रेण कस्तूरीबिन्दुना सह ।। ३९ ।।
शशाङ्केन यथाऽऽकाशं भालमध्यविराजितम् ।।
मालतीमालया श्यामकण्ठवक्षःस्थलोज्ज्वलम् ।।4.21.४०।।
बकपङ्क्त्या यथाऽऽकाशं शारदीयं सुनिर्मलम्।।
चारुणा पीतवस्त्रेण शोभितं श्यामविग्रहम् ।।४१।।
विभान्तं विद्युता शश्वन्नवनिं नीरदं यथा ।।
कुन्दप्रसूनैर्गुञ्जाभिर्बद्धवक्रिमचूडकम् ।। ४२ ।।
यथेन्द्रधनुषा भाति विभातं भगणैर्नभः ।।
रत्नकुण्डलदीप्त्या च स्मितवक्त्रसुशोभितम् ।। ४३ ।।
शरत्प्रफुल्लपद्मं च द्युमणेः किरणैर्यथा ।।
विप्रक्षत्त्रियवैश्याश्च मुनयो बल्लवा मुने ।। ४४ ।।
प्रणम्य वासयामासू रत्नसिंहासने शुभे ।।
उवास रत्नपीठे स तेषां मध्ये जगत्पतिः।। ४५ ।।
यथा बभौ शरच्चन्द्रो ज्योतिषामन्तरे च खे ।।
श्रुत्वा तमूचुस्ते सर्वे जगतामीश्वरं परम् ।। ४६ ।।
स्वेच्छामयं गुणातीतं ज्योतीरूपं सनातनम् ।।
दृष्ट्वा महोत्सवं शीघ्रमुवाच पितरं हरिः ।।
सर्वेषां दुर्लभां नीतिं नीतिशास्त्रविशारदः ।। ४७ ।।
श्रीकृष्ण उवाच ।।
भोभो बल्लवराजेंद्र किं करोषीह सुव्रत ।। ४८ ।।
आराध्यः कश्च का पूजा किं फलं पूजने भवेत् ।।
फलेन साधनं किं वा कः सख्यः साधनेन च ।। ४९ ।।
देवे रुष्टे भवेत्किं वा पूजायाः प्रतिबन्धके ।।
तुष्टो देवः किं ददाति फलमत्र परत्रकम् ।। 4.21.५० ।।
काचिद्ददात्यत्र फलं परत्रेह न काचन ।।
काचिच्च नोभयत्रापि चोभयत्रापि काचन ।। ५१ ।।
अवेदविहिता पूजा सर्वहानिकरण्डिका ।।
पूजेयमधुना वा ते किमु वा पुरुषक्रमात् ।। ५२ ।।
दृष्टो देवस्त्वया कस्मिन्पूजेयं चानुसारिणी ।।
साक्षात्खादति देवस्ते साक्षात्किं वा न खादति ।। ५३ ।।
साक्षाद्भुङ्क्ते च यो देवः सुप्रशस्तं तदर्चनम् ।।
साक्षात्खादति नैवेद्यं विप्ररूपी जनार्दनः ।। ५४ ।।
ब्राह्मणे परितुष्टे च संतुष्टाः सर्वदेवताः ।।
किं तस्य देवपूजायां यो नियुक्तो द्विजार्चने ।। ५५ ।।
पूजिता ब्राह्मणा येन पूजिताः सर्वदेवताः ।।
देवाय दत्त्वा नैवेद्यं द्विजाय न प्रयच्छति ।। ५६ ।।
भस्मीभूतं च नैवेद्यं पूजनं निष्फलं भवेत्।।
विप्राय देवनैवेद्यदानाद्ध्रुवमनन्तकम् ।।५७।।
तुष्टो देवो वरं दत्त्वा प्रयाति च स्वमन्दिरम् ।।
दत्त्वा देवाय नैवेद्यं मूढो भुङ्क्ते स्वयं यदि।।५८।।
दत्तापहारी देवस्वं भुक्त्वा च नरकं व्रजेत् ।।
देवदत्तं न भोक्तव्यं नैवेद्यं च विना हरेः ।।९९।।
प्रशस्तं सर्वदेवेषु विष्णुनैवेद्यभोजनम्।।
अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदितम् ।। 4.21.६० ।।
सर्वेषां च क्रममिदं ब्राह्मणानां विशेषतः ।।
न दत्त्वा वस्तु देवाय दत्तं विप्राय चेत्सुधीः ।। ६१ ।।
भुक्त्वा विप्रमुखे देवास्तुष्टाः स्वर्गं प्रयान्ति च ।।
तस्मात्सर्वप्रयत्नेन विप्राणामर्चनं कुरु ।।६२।।
प्रशस्तफलदातॄणामिह लोके परत्र च।।
जपस्तपश्च पूजा वा यज्ञदानं महोत्सवम् ।। ६३ ।।
सर्वेषां कर्मणां सारं विप्रतुष्टिश्च दक्षिणा ।।
दक्षिणानां शरीरेषु तिष्ठन्ति सर्वदेवताः ।। ।।६४।।
पादेषु सर्वतीर्थानि पुण्यानि पादधूलिषु ।।
पादोदके च विप्राणां तीर्थतोयानि सन्ति च ।। ६५ ।।
तत्स्पर्शात्सर्वतीर्थेषु स्नानजन्यफलं लभेत् ।।
नश्यंति भक्षणाद्रोगा भक्तिभावेन बल्लव ।।६६।।
सप्तजन्मकृतात्पापान्मुच्यन्ते नात्र संशयः ।।
पापं पञ्चविधं कृत्वा यो विप्रं प्रणमेद्व्रजे ।।६७।।
स स्नातः सर्वतीर्थेषु सर्वपापात्प्रमुच्यते ।।
ब्राह्मणस्पर्शमात्रेण मुक्तो भवति पातकी ।। ६८ ।।
दर्शनान्मुच्यते पापादिति वेदे निरूपितम् ।।
अप्राज्ञो वाऽथ प्राज्ञो वा ब्राह्मणो विष्णुविग्रहः ।। ६९ ।।
प्रियाः प्राणाधिका विष्णोर्ये विप्रा हरिसेविनः ।।
द्विजानां हरिभक्तानां प्रभावो दुर्लभः श्रुतौ ।।4.21.७०।।
येषां पादाब्जरजसा सद्यः पूता वसुन्धरा।।
तेषां च पादचिह्नं यत्तीर्थं तत्परिकीर्तितम् ।। ७१ ।।
तेषां च स्पर्शमात्रेण तीर्थपापं प्रणश्यति ।।
आलिङ्गनात्सदालापात्तेषामुच्छिष्टभोजनात् ।। ।। ७२ ।।
दर्शनात्स्पर्शनाच्चैव सर्वपापात्प्रमुच्यते ।।
भ्रमणे सर्वतीर्थानां यत्पुण्यं स्नानतो भवेत् ।।७३।।
हरिदासस्य विप्रस्य तत्पुण्यं दर्शनाल्लभेत् ।।
ये विप्रा हरये दत्त्वा नित्यमन्नं च भुञ्जते ।।७४।।
उच्छिष्टभोजनात्तेषां हरेर्दास्यं लभेन्नरः ।।
न दत्त्वा हरये भक्त्या भुञ्जते चेद्भ्रमादपि ।। ७५ ।।
पुरीषसदृशं वस्तु जलं मूत्रसमं भवेत् ।।
शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः ।। ७६ ।। (तु. ब्रह्मवैवर्त २.१०.४९)
आमान्नं हरये दत्त्वा कृत्वा पाकं च खादति ।।
विप्रक्षत्रियवैश्यानां शालग्रामशिलार्चने ।।७७।।
अधिकारो न शूद्राणां हरेरप्यर्चने तथा ।।
द्रव्याण्येतानि गोपेन्द्र विप्रेभ्यश्चेन्न दास्यति ।।७८।।
भस्मीभूतानि सर्वाणि भविष्यन्ति न संशयः ।।
अन्नं च सर्वजीवेभ्यः पुण्यार्थं दातुमर्हति ।। ७९ ।।
दत्त्वा विशिष्टजीवेभ्यो विशिष्टं फलमाप्नुयात् ।।
अतो दत्त्वा मानुषेभ्यो लभतेऽष्टगुणं फलम् ।। 4.21.८० ।।
शूद्राणां द्विगुणं पुण्यं वैश्येभ्योऽन्नं प्रदाय च।।
दत्त्वाऽन्नं क्षत्रियेभ्योऽपि वैश्यानां द्विगुणं भवेत्।।
क्षत्त्रियाणां शतगुणं विप्रेभ्योऽन्नं प्रदाय च ।। ८१ ।।
विप्राणां च शतगुणं शास्त्रज्ञे ब्राह्मणे फलम् ।।
शास्त्रज्ञानां शतगुणं भक्ते विप्रे लभेद्ध्रुवम् ।। ८२ ।।
स चान्नं हरये दत्त्वा भुङ्क्ते भक्त्या च सादरम् ।।
विष्णवे विप्रभक्ताय दत्त्वा दातुश्च यत्फलम् ।। ८३ ।।
तत्फलं लभते नूनं भक्तब्राह्मणभोजने ।।
भक्ते तुष्टे हरिस्तुष्टो हरौ तुष्टे च देवताः ।। ८४ ।।
भवन्ति सिद्धाः शाखाश्च यथा मूलनिषेचनात् ।।
द्रव्याण्येतानि देवाय यद्येकस्मै प्रयच्छति ।। ८५ ।।
सर्वे देवाश्च रुष्टाश्चेद्देवैः कः किं करिष्यति ।।
अथवाऽर्द्धं च वस्तूनां देहि गोवर्धनाय च ।। ८६ ।।
गा वर्धयति नित्यं यस्तेन गोवर्धनः स्मृतः ।।
गोवर्धनसमस्तात पुण्यवान्न महीतले ।। ८७ ।।
नित्यं ददाति गोभ्यो यो नवीनानि तृणानि च ।।
तीर्थस्थानेषु यत्पुण्यं यत्पुण्यं विप्रभोजने ।। ८८ ।।
सर्वव्रतोपवासेषु सर्वेष्वेव तपःसु च ।।
यत्पुण्यं च महादाने यत्पुण्यं हरिसेवने ।। ८९ ।।
भुवः पर्यटने यत्तु सर्ववाक्येषु यद्भवेत् ।।
यत्पुण्यं सर्वयज्ञेषु दीक्षायां च लभेन्नरः ।। 4.21.९० ।।
तत्पुण्यं लभते प्राज्ञो गोभ्यो दत्त्वा तृणानि च ।।
भुक्तवन्तीं तृणं यश्च गां वारयति कामतः ।। ९१ ।।
ब्रह्महत्या भवेत्तस्य प्रायश्चित्ताद्विशुध्यति।।
सर्वे देवा गवा मङ्गे तीर्थानि तत्पदेषु च ।। ९२ ।।
तद्गुह्येषु स्वयं लक्ष्मीस्तिष्ठत्येव सदा पितः ।।
गोष्पदाक्तमृदा यो हि तिलकं कुरुते नरः।।९३।।
तीर्थस्नातो भवेत्सद्यो जयस्तस्य पदेपदे ।।
गावस्तिष्ठंति यत्रैव तत्तीर्थं परिकीर्तितम् ।। ९४ ।।
प्राणांस्त्यक्ता नरस्तत्र सद्यो मुक्तो भवेद्ध्रुवम् ।।
ब्राह्मणानां गवामङ्गं यो हन्ति मानवाधमः ।। ९५ ।।
ब्रह्महत्यासमं पापं भवेत्तस्य न संशयः ।।
नारायणांशान्विप्रांश्च गाश्च ये घ्नन्ति मानवाः ।। ९६ ।।
कालसूत्रं च ते यान्ति यावच्चन्द्रदिवाकरौ ।।
इत्येवमुक्त्वा श्रीकृष्णो विरराम च नारद ।।९७।।
आनन्दयुक्तो नन्दश्च तमुवाच स्मिताननः ।।
नन्द उवाच ।।
पौर्वापरीयं पूजेति महेन्द्रस्य महात्मनः ।। ९८ ।।
सुवृष्टिसाधनी साध्यं सर्वसस्यमनोहरम् ।।
सस्यानि प्राणिनां प्राणाः सस्याज्जीवन्ति जीविनः।।९९।।
पूजयन्ति व्रजस्थाश्च महेन्द्रं पुरुषक्रमात्।।
महोत्सवं वत्सरान्ते निर्विघ्नाय शिवाय च ।। 4.21.१०० ।।
इत्येवं वचनं श्रुत्वा बलेन सह माधवः ।।
उच्चैर्जहास स पुनरुवाच पितरं मुदा ।। 4.21.१ ।।
श्रीकृष्ण उवाच ।।
अहो श्रुतं विचित्रं ते वचनं परमाद्भुतम् ।।
उपहास्यं लोकशास्त्रं वेदेष्वेव विगर्हितम् ।। २।।
निरूपणं नास्ति कुत्र शक्राद्वृष्टिः प्रजायते ।।
अपूर्वं नीतिवचनं श्रुतमद्य मुखात्तव ।। ३ ।।
श्रुणु नीतिं श्रुतिमतां हे तात नानयं वदेः ।।
वचनं सामवेदोक्तं सन्तो जानन्ति सर्वत।।४।।
प्रश्नं कुरुष्व मन्त्रांश्च विविधानपि संसदि।।
ब्रुवन्तु परमार्थं च किमिन्द्राद्वृष्टिरेव च।।५।।
सूर्याद्धि जायते तोयं तोयात्सस्यानि शाखिनः ।।
तेभ्योऽन्नानि फलान्येव तेभ्यो जीवन्ति जीविनः ।।६।।
सूर्यग्रस्तं च नीरं च काले तस्मात्समुद्भवः।।
सूर्यो मेघादयः सर्वे विधात्रा ते निरूपिताः ।। ७ ।।
यत्राब्दे यो जलधरो गजश्च सागरो मतः ।।
सस्याधिपो नृपो मन्त्री विधात्रा ते निरूपिताः ।।८।।
जलादिकानां सस्यानां तृणानां च निरूपितम् ।।
अब्देऽब्देऽस्त्येव तत्सर्वं कल्पे कल्पे युगेयुगे ।। ९ ।।
हस्ती समुद्रादादाय करेण जलमीप्सितम् ।।
दद्याद्घनाय तद्दद्याद्वातेन प्रेरितो घनः ।। 4.21.११० ।।
स्थानेस्थाने पृथिव्यां च कालेकाले यथोचितम्।।
ईशेच्छयाऽऽविर्भूतं च न भवेत्प्रतिबन्धकम् ।। ११ ।।
भूतं भव्यं भविष्यच्च महत्क्षुद्रं च मध्यमम् ।।
धात्रा निरूपितं कर्म केन तात निवार्यते ।। १२।।
जगच्चराचरं सर्वं कृतं तेनेश्वराज्ञया ।।
आदौ विनिर्मितं भक्ष्यं पश्चाज्जीव इति स्मृतः ।। १३ ।।
अभ्यासात्स स्वभावो हि स्वभावात्कर्म एव च ।।
जायते कर्मणां भोगो जीविनां सुखदुःखयोः ।। १४ ।।
यातनाजन्ममरणरोगशोकभयानि च ।।
समुत्पत्तिर्विपद्विद्या कविता वा यशोऽयशः ।। १५ ।।
पुण्यं च स्वर्गवासश्च पापं नरकसंस्थितिः ।।
भुक्तिर्मुक्तिर्हरेर्दास्यं कर्मणा घटते नृणाम् ।। १६ ।।
सर्वेषां जनको हीशश्चाभ्यासः शीलकर्मणाम् ।।
धातुश्च फलदाता च सर्वं तस्येच्छया भवेत् ।।१७।।
विनिर्मितो विराड्येन तत्त्वानि प्रकृतिर्जगत् ।।
कूर्मश्च शेषधरणी चाब्रह्मस्तम्ब एव च ।।१८।।
यस्याज्ञया मरुत्कूर्मं धक्ते शेषं बिभर्ति सः ।।
शेषो वसुन्धरां मूर्ध्ना सा च सर्वं चराचरम् ।। १९ ।।
यस्याज्ञया सदा वाति जगत्प्राणो जगत्त्रये ।।
तपति भ्रमणं कृत्वा भूगोलं सुप्रभाकरः ।। 4.21.१२० ।।
दहत्यग्निः संचरते मृत्युश्च सर्वजन्तुषु ।।
उत्पत्तिः शाखिनां काले पुष्पाणि च फलानि च ।। २१ ।।
स्वेस्वे स्थाने समुद्राश्च तूर्णं मज्जन्त्यधोऽधुना ।।
तमीशं भज भक्त्या च शक्रः किं कर्तुमीश्वरः ।। २२ ।।
ब्रह्माण्डं च कतिविधमाविर्भूतं तिरोहितम् ।।
विधयश्च कतिविधा यस्य भ्रूभङ्गलीलया ।। २३।।
मृत्योर्मृत्युः कालकालो विधातुर्विधिरेव स. ।।
भज तं शरणं तात स ते रक्षां करिष्यति ।।२४।।
अहोऽष्टाविंशदिन्द्राणां पतने यदहर्निशम् ।।
विधातुरेव जगतामष्टोत्तरशताधिकः ।। २५ ।।
निमेषाद्यस्य पतनं निर्गुणस्यात्मनः प्रभोः ।।
एवंभूते तिष्ठतीशे शक्रपूजा विडम्बनम् ।।२६।।
इत्येवमुक्त्वा श्रीकृष्णो विरराम च नारद।।
प्रशशंसुश्च मुनयो भगवन्तं सभासदः ।। २७ ।।
नन्दः सपुलको हृष्टः सभायां साश्रुलोचनः ।।
आनन्दयुक्ता मनुजा यदि पुत्रैः परा जिताः ।। २८ ।।
श्रीकृष्णाज्ञां समाज्ञाय चकार स्वस्तिवाचनम् ।।
क्रमेण वरणं तत्र सर्वेषां च चकार ह ।। २९ ।।
पर्वतस्यमुनींद्राणां चकार पूजनं तदा ।।
बुधानां ब्राह्मणानां च गवां वह्नेश्च सादरम् ।। 4.21.१३० ।।
तत्र पूजासमाप्तौ च क्रतौ च सुमहोत्सवे ।।
नानाप्रकारवाद्यानां बभूव शब्द उल्बणः ।। ३१ ।।
जयशब्दः शङ्खशब्दो हरिशब्दो बभूव ह ।।
वेदमङ्गलकाण्डं च .पपाठ मुनिपुङ्गवः ।।३२।।
बन्दिनां प्रवरो डिण्डी कंसस्य सचिवः प्रियः ।।
उच्चैः पपाठ पुरतो मङ्गलं मङ्गलाष्टकम् ।।३३।।
कृष्णः शैलान्तिकं गत्चा भिन्नां मूर्तिं विधाय च ।।
वस्तु खादामि शैलोऽस्मि वरं वृण्वित्युवाच ह।।३४।।
उवाच नन्दं श्रीकृष्णः पश्य शौलं पितः पुरः।।
वरं प्रार्थय भद्रं ते भविता चेत्युवाच ह ।।३५।।
हरेर्दास्यं हरेर्भक्तिं वरं वव्रे स बल्लवः ।।
द्रव्यं भुक्त्वा वरं दत्त्वा सोऽन्तर्धानं चकार ह।। ।। ३६ ।।
मुनीन्द्रान्ब्राह्मणांश्चैव भोजयित्वा च गोपपाः ।।
बन्दिभ्यो ब्राह्मणेभ्यश्च मुनिभ्यश्च धनं ददौ ।।३७।।
मुनिभ्यो ब्राह्मणेभ्योऽपि दत्त्वा नन्दो मुदाऽन्वितः ।।
रामकृष्णौ पुरस्कृत्य सगणः स्वालयं ययौ ।।३८।।
रौप्यं वस्त्रं सुवर्णं च वरमश्वं मणिं तथा ।।
भक्ष्यं द्रव्यं बहुविधं बंदिने डिंडिने ददौ ।। ३९ ।।
स्तुत्वा नत्वा रामकृष्णौ मुनयो ब्राह्मणा ययुः ।।
ययुरप्सरसः सर्वा गन्धर्वाः किंनरास्तथा ।। 4.21.१४० ।।
राजानो बल्लवाः सर्वे चाहूता ये महोत्सवे ।।
सर्वे प्रणम्य श्रीकृष्णं ययुः सादरपूर्वकम् ।। ४१ ।।
एतस्मिन्नन्तरे शक्रः कोपप्रस्फुरिताधरः ।।
मखभंगे बहुविधां निंदां श्रुत्वा सुरेश्वरः ।। ४२ ।।
मरुद्भिर्वारिदैः सार्धं रथमारुह्य सत्वरम्।।
जगाम नंदनगरं वृन्दारण्यं मनोहरम् ।। ४३ ।।
सर्वे देवा ययुः पश्चाद्युद्धशास्त्रविशारदाः ।।
शस्त्रास्त्रपाणयः कोपाद्रथमारुह्य नारद ।।४४।।
वायुशब्दैर्मेघशब्दैः सैन्यशब्दैर्भयानकैः ।।
चकम्पे नगरं सर्वं नन्दो भयमवाप ह ।।९।
भार्यां संबोध्य स्वगणमुवाच शोककातरः ।।
रहः स्थलं समानीय नीतिशास्त्रविशारदः ।। ४६ ।।
नन्द उवाच ।।
हे यशोदे समागच्छ वचनं शृणु रोहिणि ।।
रामकृष्णौ समादाय व्रज दूरं व्रजात्प्रिये ।।
बालका बालिका नार्यो यान्तु दूरं भयाकुलाः ।। ४७ ।।
बलवन्तश्च गोपालास्तिष्ठंतु मत्समीपतः ।।
पश्चाच्च निर्गमिष्यामो वयं च प्राणसंकटात् ।।४८ ।।
इत्युक्त्वा बल्लवश्रेष्ठः सस्मार श्रीहरिं भिया ।।
पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकन्धरः ।।
काण्वशाखोक्तस्तोत्रेण तुष्टाव ह शचीपतिम् ।। ४९ ।।
नन्द उवाच ।।
इन्द्रः सुरपतिः शक्रो दितिजः पवनाग्रजः ।। 4.21.१५० ।।
सहस्राक्षो भगाङ्गश्च कश्यपाङ्गज एव च ।।
बिडौजाश्च सुनासीरो मरुत्वान्पाकशासनः ।।५१।।
जयन्तजनकः श्रीमाञ्छचीशो दैत्यसूदनः ।।
वज्रहस्तः कामसखो गौतमीव्रतनाशनः ।। ५२ ।।
वृत्रहा वासवश्चैव दधीचिदेहभिक्षुकः ।।
विष्णुश्च वामनभ्राता पुरुहूतः पुरन्दरः ।। ५३ ।।
दिवस्पतिः शतमखः सुत्रामा गोत्रभिद्विभुः ।।
लेखर्षभो बलारातिर्जम्भभेदी सुराश्रयः ।।५४।।
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।।
आखण्डलो हरिहयो नमुचिप्राणनाशनः ।। ५५ ।।
वृद्धश्रवा वृषश्चैव दैत्यदर्पनिषूदनः ।।
षट्चत्वारिंशन्नामानि पापघ्नानि विनिश्चितम् ।। ५६ ।।
स्तोत्रमेतत्कौथुमोक्तं नित्यं यदि पठेन्नरः ।।
महाविपत्तौ शक्रस्तं वज्रहस्तश्च रक्षति ।। ५७ ।।
अतिवृष्टिशिलावृष्टिवज्रपाताच्च दारुणात् ।।
कदाचिन्न भयं तस्य रक्षिता वासवः स्वयम् ।। ५८ ।।
यत्र गेहे स्तोत्रमिदं यश्च जानाति पुण्यवान् ।।
न तत्र वज्रपतनं शिलावृष्टिश्च नारद ।। ५९ ।।
श्रीनारायण उवाच ।।
स्तोत्रं नंदमुखाच्छ्रुत्वा चुकोप मधुसूदनः ।।4.21.६०।।
उवाच पितरं नीतिं प्रज्वलन्ब्रह्मतेजसा ।।
कं स्तौषि भीरो को वेन्द्रस्त्यज भीतिं ममान्तिके ।। ६१ ।।
क्षणार्द्धे भस्मसात्कर्तुं क्षमोऽहमवलीलया।।
गाश्च वत्सांश्च बालांश्च योषितो हि भयातुराः ।।६२।।
गोवर्धनस्य कुहरे संस्थाप्य तिष्ठ निर्भयम् ।।
बालस्य वचनं श्रुत्वा तच्चकार मुदाऽन्वितः ।। ६३ ।।
हरिर्दधार शैलं तं वामहस्तेन दण्डवत् ।।
एतस्मिन्नन्तरे तत्र दीप्तोऽपि रत्नतेजसा ।। ६४ ।।
अन्धीभूतश्च सहसा बभूव रजसाऽऽवृतः ।।
सवातो मेघनिकरश्चच्छाद गगनं मुने ।। ६५ ।।
वृन्दावने बभूवातिवृष्टिरेव निरन्तरम्।।
शिलावृष्टिर्वज्रवृष्टिरुल्कापातः सुदारुणः ।। ६६ ।।
समस्तं पर्वतस्पर्शात्पतितं दूरतस्ततः ।।
विफलस्तत्समारम्भो यथाऽनीशोद्यमो मुने ।। ६७ ।।
दृष्ट्वा मोघं च तत्सर्वं सद्यः शक्रश्चुकोप ह ।।
जग्राहामोघकुलिशं दधीच्यस्थिविनिर्मितम् ।। ।। ६८ ।।
दृष्ट्वा तं वज्रहस्तं च जहास मधुसूदनः ।।
सहस्तं स्तम्भयामास वज्रमेवातिदारुणम् ।। ६९ ।।
सहामरगणं मोघं चकारस्तंभनं विभुः।।
सर्वे तस्थुर्निश्चलास्ते भित्तौ पुत्तलिका यथा ।। 4.21.१७० ।।
हरिणा जृम्भितः शक्रः सद्यस्तंद्रामवाप ह ।।
ददर्श सर्वं तन्द्रायां तत्र कृष्णमयं जगत् ।। ७१ ।।
द्विभुजं मुरलीहस्तं रत्नालंकारभूषितम् ।।
पीतवस्त्रपरीधानं रत्नसिंहासनस्थितम् ।।७२।। ।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम् ।।
चन्दनोक्षितसर्वांगमेतत्सर्वं चराचरम् ।। ७३ ।।
दृष्ट्वाऽद्भुततमं तत्र सद्यो मूर्च्छामवाप ह ।।
जजाप मन्त्रं तत्रैव प्रदत्तं गुरुणा पुरा ।। ७४ ।।
सहस्रदलपद्मस्थं ददर्श ज्योतिरुल्बणम् ।।
तत्रान्तरे दिव्यरूपमतीव सुमनोहरम् ।। ।।७५।।
नवीनजलदोत्कर्षं श्यामसुन्दरविग्रहम् ।।
सद्रत्नसारनिर्माणज्वलन्मकरकुण्डलम् ।। ७६।।
ज्वलन्मणीन्द्रमकरकिरीटोज्ज्वल शेखरम् ।।
ज्वलता कौस्तुभेंद्रेण कण्ठवक्षःस्थलोज्ज्वलम् ।।७७।।
मणिकेयूरवलयमणिमञ्जीररंजितम् ।।
अन्तर्बहिः समं दृष्ट्वा तुष्टाव परमेश्वरम् ।। ७८ ।।
इन्द्र उवाच ।।
अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम् ।।
गुणातीतं निराकारं स्वेच्छामयमनंतकम् ।। ।। ७९ ।।
भक्तध्यानाय सेवायै नानारूपधरं वरम् ।।
शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ।। १८० ।।
शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम्।।
त्रेतायां कुंकुमाकारं ज्वलंतं ब्रह्मतेजसा ।। ८१ ।।
द्वापरे पीतवर्णं च शोभितं पीतवाससा ।।
कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ।। ८२ ।।
नवधाराधरोत्कृष्टश्यामसुन्दरविग्रहम् ।।
नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् ।।८३।।
गोपिकाचेतनहरं राधाप्राणाधिकं परम् ।।
विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन च ।।८४ ।।
रूपेणाप्रतिमेनैव रत्नभूषणभूषितम् ।।
कन्दर्पकोटिसौन्दर्यं बिभ्रतं शान्तमीश्वरम्।।८९।।
क्रीडन्तं राधया सार्धं वृन्दारण्ये च कुत्रचित् ।।
कुत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम् ।।८६।।
जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित् ।।
राधिकाकबरीभारं कुर्वन्तं कुत्रचिद्वने ।। ८७ ।।
कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकम्।।
सदा चर्वितताम्बूलं गृह्णन्तं कुत्रचिन्मुदा ।।८८।।
पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा।।
दत्तवन्तं च राधायै कृत्वा मालां च कुत्रचित् ।। ८९ ।।
कुत्रचिद्राधया सार्धं गच्छन्तं रासमंडलम् ।।
राधादत्तां गले मालां धृतवन्तं च कुत्रचित् ।। 4.21.१९० ।।
सार्धं गोपालिकाभिश्च विहरन्तं च कुत्रचित् ।।
राधां गृहीत्वा गच्छन्तं विहाय तां च कुत्रचित् ।। ९१ ।।
विप्रपत्नीदत्तमन्नं भुक्तवन्तं च कुत्रचित्।।
भुक्तवन्तं तालफलं बालकैः सह कुत्रचित् ।।९२।।
वस्त्रं गोपालिकानां च हरन्तं कुत्रचिन्मुदा ।।
गवां गणं व्याहरन्तं कुत्रचिद्बालकैः सह ।। ९३ ।।
कालीयमूर्ध्नि पादाब्जं दत्तवन्तं च कुत्रचित् ।।
विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा ।। ९४ ।।
गायन्तं रम्यसङ्गीतं कुत्रचिद्बालकैः सह।।
स्तुत्वा शक्रः स्तवेन्द्रेण प्रणनाम हरिं भिया ।।९५।।
पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च।।
कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते ।।९६।।
एकादशाक्षरो मन्त्रः कवचं सर्वलक्षणम् ।।
दत्तमेतत्कुमाराय पुष्करे ब्रह्मणा पुरा ।।९७।।
कुमारोऽङ्गिरसे दत्तं गुरवेऽङ्गिरसा मुने ।।
इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ।। ९८ ।।
स हि प्राप्य दृढां भक्तिमन्ते दास्यं लभेद्ध्रुवम्।।
जन्ममृत्युजराव्याधिशोकेभ्यो मुच्यते नरः ।।
न हि पश्यति स्वप्नेऽपि यमदूतं यमालयम्।।९९।।
नारायण उवाच ।।
इन्द्रस्य वचनं श्रुत्वा प्रसन्नः श्रीनिकेतनः।।4.21.२००।।
प्रीत्या तस्मै वरं दत्त्वा स्थापयामास पर्वतम् ।।
प्रणम्य च हरिं शक्रः प्रययौ स्वगणैः सह ।।१।।
गह्वरस्था जनाः सर्वे प्रजग्मुर्गह्वराद्गृहम् ।।
ते सर्वे मेनिरे कृष्णं परिपूर्णतमं विभुम् ।। २ ।।
पुरस्कृत्य व्रजस्थांश्च प्रययौ स्वालयं हरिः ।।
तुष्टाव नंदः पुत्रं तं पूर्णब्रह्म सनातनम् ।।
पुलकाञ्चितसर्वाङ्गो भक्तिपूर्णाश्रुलोचनः ।। ३ ।।
नन्द उवाच ।।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।।४।।
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ।।
नमो ब्रह्मण्यदेवाय ब्रह्मणे परमात्मने ।। ५ ।।
अनन्तकोटिब्रह्माण्डधामधाम्ने नमोऽस्तु ते ।।
नमो मत्स्यादिरूपाणां जीवरूपायसाक्षिणे ।।६।।
निर्लिप्ताय निर्गुणाय निराकाराय ते नमः।।
अतिसूक्ष्मस्वरूपाय स्थूलात्स्थूलतमाय च ।।७।।
सर्वेश्वराय सर्वाय तेजोरूप नमोऽस्तु ते।।
अतिप्रत्यक्षरूपाय ध्यानासाध्याय योगिनाम् ।।८।।
ब्रह्मविष्णुमहेशानां वन्द्याय नित्यरूपिणे ।।
धाम्ने चतुर्ण्णां वर्णानां युगेष्वेव चतुर्षु च ।।९।।
शुक्लरक्तपीतश्यामाभिधानगुणशालिने ।।
योगिने योगरूपाय गुरवे योगिनामपि ।।4.21.२१०।।
सिद्धेश्वराय सिद्धाय सिद्धानां गुरवे नमः ।।
यं स्तोतुमक्षमो ब्रह्मा विष्णुर्यं स्तोतुमक्षमः ।।११।।
यं स्तोतुमक्षमो रुद्रः शेषो यं स्तोतुमक्षमः ।।
यं स्तोतुमक्षमो धर्मो यं स्तोतुमक्षमो रविः ।।१२।।
यं स्तोतुमक्षमो लम्बोदरश्चापि षडाननः ।।
यं स्तोतुमक्षमाः सर्वे मुनयः सनकादयः ।।१३।।
कपिलो न क्षमः स्तोतुं सिद्धेन्द्राणां गुरोर्गुरुः।।
न शक्तौ स्तवनं कर्तुं नरनारायणावृषी ।।१४।।
अन्ये जडधियः के वा स्तोतुं शक्ताः परात्परम्।।
वेदा न शक्ता नो वाणी न च लक्ष्मीः सरस्वती ।।१५।।
न राधा स्तवने शक्ता किं स्तुवन्ति विपश्चितः ।।
क्षमस्व निखिलं ब्रह्मन्नपराधं क्षणेक्षणे ।। १६ ।।
रक्ष मां करुणा सिन्धो दीनबन्धो भवार्णवे ।।
पुरा तीर्थे तपस्तप्त्वा पुत्रः प्राप्तः सनातनः ।। १७ ।।
स्वकीयचरणाम्भोजे भक्तिं दास्यं च देहि मे ।।
ब्रह्मत्वममरत्वं वा सालोक्यादिकमेव वा ।।१८।।
त्वत्पदाम्भोजदास्यस्य कलां नार्हन्ति षोडशीम् ।।
इन्द्रत्वं वा सुरत्वं वा संप्राप्तिं सिद्धिस्वर्गयोः ।।१९।।
राजत्वं चिरजीवित्वं सुधियो गणयन्ति किम् ।।
एतद्यत्कथितं सर्वं ब्रह्मत्वादिकमीश्वर ।। 4.21.२२० ।।
भक्तसङ्गक्षणार्द्धस्य नोपमा ते किमर्हति ।।
त्वद्भक्तो यस्त्वत्सदृशः कस्त्वां तर्कितुमीश्वरः ।।२१।।
क्षणार्द्धालापमात्रेण पारं कर्तुं स चेश्वरः ।।
भक्तसङ्गाद्भवत्येव भक्तिं कर्तुमनेकधा ।। २२ ।।
त्वद्भक्तजलदालापजलसेकेन वर्द्धते ।।
अभक्तालापतापात्तु शुष्कतां याति तत्क्षणम् ।। ।। २३ ।।
त्वद्गुणस्मृतिसेकाच्च वर्द्धते तत्क्षणे स्फुटम् ।।
त्वद्भक्त्यङ्कुरमुद्भूतं स्फीतं मानसजं परम् ।। २४ ।।
न नश्यं वर्द्धनीयं च नित्यंनित्यं क्षणेक्षणे ।।
ततः संप्राप्य ब्रह्मत्वं भक्तस्य जीवनाय च ।। २५ ।।
ददात्येव फलं तस्मै हरिदास्यमनुत्तमम् ।।
संप्राप्य दुर्लभं दास्यं यदि दासो बभूव ह ।। २६ ।।
सुनिश्चयेन तेनैव जितं सर्वं भयादिकम् ।।
इत्येवमुक्त्वा भक्त्या च नन्दस्तस्थौ हरेः पुरः ।। २७ ।।
प्रसन्नवदनः कृष्णो ददौ तस्मै तदीप्सितम् ।।
एवं नन्दकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ।।२८।।
सुदृढां भक्तिमाप्नोति सद्यो दास्यं लभेद्धरेः ।।
तपस्तप्त्वा यदा द्रोणस्तीर्थे च धरया सह ।।२९।।
स्तोत्रं तस्मै पुरा दत्तं ब्रह्मणा तत्सुदुर्लभम् ।।
हरेः षडक्षरो मन्त्रः कवचं सर्वरक्षणम् ।।4.21.२३०।।
इह सौभरिणा दत्तं तस्मै तुष्टेन पुष्करे ।।
तदेव कवचं स्तोत्रं स च मन्त्रः सुदुर्लभः।। ।। ३१ ।।
ब्रह्मणोंऽशेन मुनिना नन्दाय च तपस्यते ।।
मन्त्रः स्तोत्रं च कवचमिष्टदेवो गुरुस्तथा ।। ३२ ।।
या यस्य विद्या प्राचीना न तां त्यजति निश्चितम् ।।
इत्येवं कथितं स्तोत्रं श्रीकृष्णाख्यानमद्भुतम् ।।
सुखदं मोक्षदं सारं भवबन्धविमोचनम् ।। २३३ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे इन्द्रयागभञ्जनो नामैकविंशतितमोऽध्यायः ।।२१।।