ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०२०

← अध्यायः ०१९ श्रीकृष्णजन्मखण्डः
अध्यायः ०२०
वेदव्यासः
अध्यायः ०२१ →

4.20
श्रीनारायण उवाच ।।
एकदा बालकैः सार्द्धं बलेन सह माधवः।।
भुक्त्वा पीत्वाऽनुलिप्तश्च वृन्दारण्यं जगाम ह ।।१।।
क्रीडां चकार भगवान्कौतुकेन च तैः सह ।।
क्रीडानि मग्नचित्तानां दूरं तद्गोकुलं ययौ ।। २ ।।
तस्य प्रभावं विज्ञातुं विधाता जगतां पतिः ।।
चकार निह्नुतिं गाश्च वत्सांश्च बालकानपि ।। ३ ।।
विज्ञाय तदभिप्रायं सर्वज्ञः सर्वकारकः ।।
पुनश्चकार तत्सर्वं योगीन्द्रो योगमायया ।। ४ ।।
जगाम श्रीहरिर्गेहं कालयित्वा च गोकुलम् ।।
बलेन बालकैः सार्धं क्रीडाकौतुकमानसः ।। ५ ।।
एवं चकार भगवान्वर्षमेकं च प्रत्यहम् ।।
यमुनागमनं गोभिर्बलेन सह बालकैः ।। ६ ।।
ब्रह्मा प्रभावं विज्ञाय लज्जानम्रात्मकन्धरः ।।
आजगाम हरेःस्थानं भाण्डीरवटमूलके ।। ७ ।।
ददर्श कृष्णं तत्रैव गोपालगणवेष्टितम् ।।
यथा पार्वणचन्द्रं च विभान्तं स्वगणैः सह ।।८।।
रत्नसिंहासनस्थं च हसन्तं सस्मितं मुदा।।
पीतवस्त्रपरीधानं ज्वलन्तं ब्रह्मतेजसा ।।९।।
रत्नकेयूरवलयरत्नमञ्जीररञ्जितम्।।
रत्नकुण्डलयुग्माभ्यां स्वकपोलस्थलोज्ज्वलम् ।। 4.20.१० ।।
कोटिकन्दर्पलावण्यं लीलाधाममनोहरम् ।।
चन्दनागुरुकस्तूरीकुङ्कुमार्चितविग्रहम् ।। ११ ।।
पारिजातप्रसूनानां मालाजालैर्विभूषितम् ।।
नवीननीरदश्यामं प्रोद्भिन्ननवयौवनम् ।।१२।।
मालतीमाल्यसंयुक्तं मयूरपिच्छचूडकम् ।।
स्वाङ्गसौन्दर्यदीप्त्या च कृतभूषणभूषितम् ।। १३ ।।
शरत्पार्वणचन्द्रस्य प्रभामुष्टास्यसुन्दरम् ।।
पक्वबिम्बाधरौष्ठं च खगेन्द्रचञ्चुनासिकम् ।। १४ ।।
शरन्मध्याह्नपद्मानां प्रभामोचनलोचनम्।।
मुक्तापङ्क्तिविनिन्द्यैकदन्तपङ्क्तिमनोहरम् ।।१५।।
कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम्।।
शान्तं च राधिकाकान्तं परिपूर्णतमं परम्।।१६।।
एवंभूतं प्रभुं दृष्ट्वा प्रणनामातिविस्मितः।।
दर्शंदर्शमीश्वरं तं प्रणनाम पुनःपुनः।।१७।।
यद्दृष्टं हृदयाम्भोजे तद्रूपं बहिरेव च ।।
या मूर्तिः पुरतो दृष्टा सा पश्चात्परितस्ततः ।।१८।।
तत्र वृन्दावने सर्वं दृष्ट्वा कृष्णसमं मुने ।।
ध्यायंध्यायं च तद्रूपं तत्र तस्थौ जगद्गुरुः ।।१९।।
गावो वत्साश्च बालाश्च लतागुल्माश्च वीरुधः ।।
सर्वं वृन्दावनं ब्रह्मा श्यामरूपं ददर्श ह ।।4.20.२०।।
दृष्ट्वैवं परमाश्चर्यं पुनर्ध्यानं चकार ह ।।
ददर्श त्रिजगद्ब्रह्मा नान्यत्कृष्णं विना मुने।।२१।।
क्व च वृक्षः क्व वा शैलः क्व मही क्व च सागराः ।।
क्व देवाः क्व च गन्धर्वा मुनीन्द्राः क्व च मानवाः ।।२२।।
क्व चात्मा क्व जगद्बीजं क्व स्वर्गः क्वायमेव च।।
सर्वं च स्वदृशा ब्रह्मा ददर्श मायया हरेः ।।२३।।
क्व कृष्णो जगतां नाथः क्व वा मायाविभूतयः ।।
सर्वं कृष्णमयं दृष्ट्वा किंचिन्निर्वक्तुमक्षमः ।। २४ ।।
किं स्तौमि किं करोमीति मनसैवं प्रगृह्य च ।।
तत्र स्थित्वा जगद्धाता जपं कर्तुं समुद्यतः ।। २५ ।।
सुखं योगासनं कृत्वा बभूव संपुटाञ्जलिः ।।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रोऽतिदीनवत् ।। २६ ।।
इडां सुषुम्नां मध्यां च पिङ्गलां नलिनीं धुराम् ।।
नाडीषट्कं च योगेन निबद्ध्य च प्रयत्नतः ।। २७ ।।
मूलाधारं स्वाधिष्ठानं मणिपूरं मनोहरम् ।।
विशुद्धं परमाज्ञाख्यं षट्चक्रं च निबद्ध्य च ।। २८ ।।
लङ्घनं कारयित्वा च तत्षट्चक्रं क्रमाद्विधिः।।
ब्रह्मरन्ध्रं समानीय वायुबन्धं चकार ह।।२९।।
निबध्य वायुं मध्यां तामानीय हृदयाम्बुजम्।।
तं वायुं भ्रामयित्वा च योजयामास मध्यया ।। 4.20.३० ।।
एवं कृत्वा तु निष्पन्दो यो दत्तो हरिणा पुरा ।।
जजाप परमं मन्त्रं तस्यैव च दशाक्षरम् ।।३१।।
मुहूर्तं च जपं कृत्वा ध्यायंध्यायं पदाम्बुजम् ।।
ददर्श हृदयाम्भोजे सर्वतेजोमयं मुने ।।३२।।
तत्तेजसोऽन्तरे रूपमतीव सुमनोहरम् ।।
द्विभुजं मुरलीहस्तं भूषितं पीतवाससा ।। ३३ ।।
श्रुतिमूलस्थलन्यस्तज्वलन्मकरकुण्डलम् ।।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम् ।। ३४ ।।
यद्दृष्टं ब्रह्मरन्ध्रे च हृदि तद्बहिरेव च ।।
दृष्ट्वा च परमाश्चर्यं तुष्टाव परमेश्वरम् ।।३५।।
यत्स्तोत्रं च पुरा दत्तं हरिणैकार्णवे मुने ।।
तमीशं तेन विधिना भक्तिनम्रात्मकन्धरः ।। ३६ ।।
ब्रह्मोवाच ।।
सर्वस्वरूपं सर्वेशं सर्वकारणकारणम् ।।
सर्वानिर्वचनीयं तं नमामि शिवरूपिणम् ।। ३७ ।।
नवीनजलदाकारं श्यामसुन्दरविग्रहम् ।।
स्थितं जन्तुषु सर्वेषु निर्लिप्तं साक्षिरूपिणम् ।। ३८ ।।
स्वात्मारामं पूर्णकामं जगद्व्यापिजगत्परम् ।।
सर्वस्वरूपं सर्वेषां बीजरूपं सनातनम् ।। ३९ ।।
सर्वाधारं सर्ववरं सर्वशक्तिसमन्वितम् ।।
सर्वाराध्यं सर्वगुरुं सर्वमङ्गलकारणम् ।। 4.20.४० ।।
सर्वमंत्रस्वरूपं च सर्वसंपत्करं वरम् ।।
शक्तियुक्तमयुक्तं च स्तौमि स्वेच्छामयं विभुम् ।। ४१ ।।
शक्तीशं शक्तिबीजं च शक्तिरूपधरं वरम् ।।
संसारसागरे घोरे शक्तिनौकासमन्वितम् ।। ४२ ।।
कृपालुं कर्णधारं च नमामि भक्तवत्सलम् ।।
आत्मस्वरूपमेकांतं लिप्तं निर्लिप्तमेव च ।।४३।।
सगुणं निर्गुणं ब्रह्म स्तौमि स्वेच्छास्वरूपिणम्।।
सर्वेन्द्रियादिदेवं तमिन्द्रियालयमेव च ।।४४।।
सर्वेन्द्रियस्वरूपं च विराड्रूपं नमाम्यहम् ।।
वेदं च वेदजनकं सर्ववेदाङ्गरूपिणम्।।४५।।
सर्वमन्तस्वरूपं च नमामि परमेश्वरम् ।।
सारात्सारतरं द्रव्यमपूर्वमनिरूपिणम् ।। ४६ ।।
स्वतन्त्रमस्वतन्त्रं च यशोदानन्दनं भजे ।।
सन्तं सर्वशरीरेषु तमदृष्टमनूहकम् ।।४७।।
ध्यानासाध्यं विद्यमानं योगीन्द्राणां गुरुं भजे ।।
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ।।४८।।
गोपीभिः सेव्यमानं च तं धरेशं नमाम्यहम् ।।
सतां सदैव सन्तं तमसन्तमसतामपि।।४९।।
योगीशं योगसाध्यं च नमामि शिवसेवितम्।।
मन्त्रबीजं मन्त्रराजं मन्त्रदं फलदं फलम् ।। ।।4.20.५०।।
मन्त्रसिद्धिस्वरूपं तं नमामि च परात्परम् ।।
सुखं दुःखं च सुखदं दुःखदं पुण्यमेव च ।।५१।।
पुण्यप्रदं च शुभदं शुभबीजं नमाम्यहम् ।।
इत्येवं स्तवनं कृत्वा दत्त्वा गाश्च स बालकान् ।। ९२ ।।
निपत्य दण्डवद्भूमौ रुरोद प्रणनाम च ।।
ददर्श चक्षुरुन्मील्य विधाता जगतां मुने ।। ५३ ।।
ब्रह्मणा च कृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ।।
इह लोके सुखं भुक्त्वा यात्यन्ते श्रीहरेः पदम् ।। ५४ ।।
लभते दास्यमतुलं स्थानमीश्वरसन्निधौ ।।
लब्ध्वा च कृष्णसान्निध्यं पार्षदप्रवरो भवेत् ।। ५५ ।।
श्रीनारायण उवाच ।।
गते जगत्कारणे च ब्रह्मलोकं च ब्रह्मणि ।।
श्रीकृष्णो बालकैः सार्धं जगाम स्वालयं विभुः ।। ५६ ।।
गावो वत्साश्च बालाश्च जग्मुर्वर्षान्तरे गृहम् ।।
श्रीकृष्णमायया सर्वे मेनिरे ते दिनान्तरम् ।। ५७ ।।
गोपा गोपालिका किंचित्तत्कर्तुं न क्षमास्तदा ।।
योगिनः कृत्रिमं सर्वं किं नूत्नं वा पुरातनम् ।। ५८ ।।
इत्येवं कथितं सर्वं श्रीकृष्णचरितं शुभम् ।।
सुखदं मोक्षदं पुण्यं सर्वकालसुखावहम् ।। ५९ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे गोवत्सबालकहरणप्रस्तावो नाम विंशोऽध्यायः ।। २० ।।