ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०२३

← अध्यायः ०२२ श्रीकृष्णजन्मखण्डः
अध्यायः ०२३
वेदव्यासः
अध्यायः ०२४ →


नारद उवाच ।।
केन पापेन बलिजो गर्दभत्वमवाप ह ।।
दुर्वासाः केन दोषेण शशाप दानवेश्वरम् ।। १ ।।
केन पुण्येन वा नाथ बलिनः श्रीहरेः पदम् ।।
सहसैकत्वमुक्तिं च संप्राप दानवाधिपः ।। २ ।।
मुने सर्वं सुविस्तार्य वद संदेहभञ्जन ।।
अहो कविमुखे काव्यं नूत्नंनूत्नं पदेपदे ।। ३ ।।
श्रीनारायण उवाच ।।
शृणु वत्स प्रवक्ष्येऽहमितिहासं पुरातनम् ।।
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ।। ४ ।।
पाद्मकल्पे च वृत्तान्तं विचित्रं सुमनोहरम् ।।
नारायणकथोपेतं कर्णपीयूषमुत्तमम् ।। ५ ।।
यत्र कल्पे कथा चेयं तत्र त्वमुपबर्हणः ।।
आकल्पजीवी सश्रीकः सुन्दरः स्थिरयौवनः ।। ६ ।।
पंचाशत्कामिनीनां च पतिः शृङ्गारतत्परः ।।
वरेण ब्रह्मणस्त्वं च सुकण्ठो गायनेश्वरः ।। ७ ।।
अनुक्षणं पपुस्तास्ते सुन्दरं मुखपङ्कजम् ।।
निमेषरहिताः सर्वाः कामबाणप्रपीडिताः ।। ८ ।।
तासां प्राणैश्च घटितो विधिना त्वमिव श्रुतम् ।।
दिवानिशं सहचरा न जीवन्ति त्वया विना ।।
।। ९ ।। पुष्पोद्याने च रहसि स्थानेस्थाने मनोरमे ।।
गह्वरेषु च शैलानां कन्दरेषु नदीषु च ।। 4.23.१० ।।
काननेषु च रम्येषु श्मशाने जन्तुवर्जिते ।।
यथामनोरथं ताश्च क्रीडां चक्रुस्त्वया सह ।। ११ ।।
तदा दैवाद्विधेः शापाद्भूत्वा दासीसुतो भवान् ।।
अधुना ब्रह्मणः पुत्रो वैष्णवोच्छिष्टभोजनात् ।। १२ ।।
असंख्यकल्पजीवी च वैष्णवप्रवरो महान् ।।
ज्ञानदृष्ट्या सर्वदर्शी प्रिय शिष्यश्च धूर्जटेः ।। १३ ।।
तस्य कल्पस्य वृत्तान्तं मुने मत्तो निशामय ।।
विस्तार्य दैत्यवृत्तांतं कथयामि सुधोपमम् ।।१४।।
एकदैव बलेः पुत्रो नाम्ना साहसिको बली ।।
स्वतेजसा सुराञ्जित्वा प्रतस्थे गन्धमादनम् ।। १९ ।।
चन्देनोक्षितसर्वाङ्गो रत्नभूषणभूषितः ।।
रत्नसिंहासनस्थश्च बहुसैन्यसमन्वितः ।। १६ ।।
एतस्मिन्नन्तरे तेन पथा याति तिलोत्तमा ।।
रूपेणाप्सरसां श्रेष्ठा नानावेषविधायिनी ।। १७ ।।
चारुचम्पकवर्णाभा रत्नाभरणभूषिता ।।
नवयौवनसम्पन्ना कामबाणप्रपीडिता ।। १८ ।।
ईषद्धास्य प्रसन्नास्या दिव्यवस्त्रं सुबिभ्रती ।।
वक्रभूभङ्गयुक्ता सा गजेन्द्रमन्दगामिनी ।। १९ ।।
स्तनमूरुं मुखेन्दुं च दृष्ट्वा साहसिको युवा ।।
वायुना मुक्तवस्त्रायास्तस्या मूर्च्छामवाप ह ।। 4.23.२० ।।
सा ददर्श बलेः पुत्रमतीव सुमनोहरम् ।।
प्रफुल्लमालतीमालां बिभ्रतं नवयौवनम् ।। २१ ।।
शरत्पार्वणचन्द्रास्यं सुस्मितं सुमनोहरम् ।।
दृष्ट्वा तं विस्मिता कामात्कटाक्षं च चकार सा ।। २२ ।।
क्रीडायै चन्द्रलोकं च गच्छन्ती चन्द्रकामुकी ।।
तस्थौ केन च्छलेनैव मत्ता शृङ्गारलालसा ।। २३ ।।
दर्शंदर्शं च तस्यास्य प्रहस्य वक्रचक्षुषा ।।
मुखस्याच्छादनं चक्रे वाससा सा पुनःपुनः ।। २४ ।।
पुलकांकितसर्वाङ्गं धर्मकर्मसमन्वितम् ।।
बभूव काममत्ताया योनौ कण्डूयनं जलम् ।। २५ ।।
विसस्मार शशधरं बलिपुत्रमनोरथा ।।
अहो को वेद भुवने दुर्ज्ञेयं पुंश्चलीमनः ।। २६ ।।
पुंश्चल्यां यो हि विश्वस्तो विधिना स विडम्बितः ।।
बहिष्कृतश्च यशसा धर्मेण स्वकुलेन च।।२७।।
वाञ्छितं नूतनं प्राप्य विनश्यति पुरातनम् ।।
तदा स्वकर्मसाध्या सा को वा तस्याः प्रियोऽप्रियः ।।२८।।
दैवे कर्मणि पैत्र्ये च पुत्रे बन्धौ न भर्तरि ।।
दारुणं पुंश्चलीचित्तं सदा शृङ्गारकर्मणि ।। २९ ।।
प्राणाधिकं रतिज्ञं साऽमृतदृष्ट्या च पुंश्चली ।।
रत्नप्रदं रत्नविज्ञं विषदृष्ट्या हि पश्यति ।। 4.23.३० ।।
सर्वेषां स्थलमस्त्येव पुंश्चलीनां न कुत्रचित् ।।
दारुणा पुंश्चली जातिर्नरघातिभ्य एव च ।।३१।।
निष्कृतिः सर्वभोगान्ते सर्वेषामस्ति निश्चितम्।।
न पुंश्चलीनां विप्रेन्द्र यावच्चन्द्रदिवाकरौ ।। ३२ ।।
अन्यासां कामिनीनां च कीटं हन्तुं च या दया ।।
सा नास्ति पुंश्चलीनां तु कान्तं हन्ति पुरातनम् ।। ३३ ।।
कान्तं दृष्ट्वा हिनस्त्येव सोपायेनावलीलया ।।
रतिज्ञं नूतनं प्राप्य विषतुल्यं पुरातनम् ।। ३४ ।।
पृथिव्यां यानि पापानि पुंश्चलीष्वेव भारते ।।
तिष्ठन्ति ताभ्यो न पराः पापिष्ठाः सन्ति केचन ।। ३९ ।।
पुंश्चलीपरिपक्वान्नं सर्वपातकनिश्चितम् ।।
दैवे कर्मणि पैत्र्ये च न देयं च तथा जलम् ।। ३६ ।।
अन्नं विष्ठा जलं मूत्रं पुंश्चलीनां च निश्चितम् ।।
दत्त्वा पितृभ्यो देवेभ्यो भुक्त्वा च नरकं व्रजेत् ।।३७।।
शतवर्षं कालसूत्रे पचत्येव सुदारुणे ।।
घोरान्धकारे कृमयस्तं दशन्ति दिवानिशम्।।।। ३८ ।।
पुंश्चल्यन्नं च यो भुङ्क्ते दैवाद्यदि नराधमः ।।
सप्तजन्मकृतं पुण्यं तस्य नश्यति निश्चितम् ।। ३९ ।।
आयुः श्रीयशसां हानिरिह लोके परत्र च ।।
तस्माद्यत्नाद्रक्षणीयं पाकपात्रं कलत्रकम् ।। 4.23.४० ।।
पुंश्चलीदर्शने पुण्यं यात्रासिद्धिर्भवेद्ध्रुवम् ।।
स्पर्शने च महापापं तीर्थस्नानाद्विशुध्यति ।। ४१ ।।
स्नानं दानं व्रतं चैव जपश्च देवपूजनम् ।।
निष्फलं पुंश्चलिनां च भारते जीवनं वृथा ।।।। ४२ ।।
कथितं कुलटाख्यानं दुर्ज्ञेयं च यथागमम् ।।
संवादं च तयोस्तत्र प्रकृतं शृणु नारद ।। ४३ ।।
स पुनश्चेतनां प्राप्य तां दृष्ट्वैव बलेः सुतः ।।
कामातुरः प्रमत्तश्च जगाम कुलटान्तिकम् ।। ४४ ।।
उवाच कुटिलापाङ्गी पीनश्रोणिपयोधराम् ।।
व्रीडया वाससा वक्त्रमाच्छन्नं कुर्वती मुदा ।। ४९ ।।
साहसिक उवाच ।।
कासि त्वं कस्य कन्यासि कस्य कान्तासि कामिनि ।।
स्वयं क्व यासि कं सुभ्रूः पुण्यवन्तं मनोहरम् ।। ४६ ।।
कल्पान्ते तपसा पूतं भोक्तुं त्वामेव सुन्दरि ।।
यं तं यासि याहि सा त्वं भृत्यं मां कर्तुमर्हसि ।।४७।।
क्रीणीहि रतिपुण्येन मां भृत्यं रतिलोलुपम् ।।
शृङ्गारलोलुपा त्वं च शृङ्गारं देहि कामुकि ।। ४८ ।।
त्वया सह ममाश्लेषो विधिना च विनिर्मितः ।।
निरूपितं यत्तेनैव वार्यते केन तत्प्रिये ।। ४९ ।।
वाक्यं पीयूषसदृशं सस्मितं वद सुन्दरि ।।
शीघ्रं भुजलतापाशैर्बन्धनं कुरु निर्जने ।।4.23.५० ।।
आसनं देहि कल्याणि स्वोरुं कनकसन्निभम्।।
स्तनमण्डलकुम्भं च पात्रयोग्यं प्रदर्शय।।५१।।
तीक्ष्णास्त्रेण कटाक्षेण जर्जरं कुरु भामिनि ।।
कामसर्पक्षतं पादस्पर्शनेनारुजं कुरु ।। ५२।।
अधरोष्ठामृतं स्वादु देहि मे क्षुधिताय च ।।
पक्वदाडिमबीजाभं दन्तं दर्शय सुन्दरम।५३।
गम्भीरनाभिं त्रिवलीं द्रष्टुमिच्छामि सुन्दरि ।।
नीवीप्रमोक्षणं कर्तुमिच्छा मे वर्तते सदा ।।५४।।
श्रोणीं पश्यामि ललितां मुनिमानसमोहिनीम् ।।
शरन्मध्याह्नपद्मानां प्रभामोचनलोचनाम् ।। ५५ ।।
शरत्पार्वणचन्द्रास्यं प्रसन्नं च प्रदर्शय ।।
सा च तद्वचनं श्रुत्वा तमुवाच स्मरातुरा ।। ५६ ।।
दृष्ट्वाऽऽर्त कामबाणेन मानसंक्षयकामिनी ।।
तिलोत्तमोवाच।।
पतिस्त्वत्सदृशो नाथ कामिनीनां मनीषितः ।। ५७ ।।
बलिपुत्रोऽसि धर्मिष्ठो रूपवान्गुणवान्युवा ।।
शृङ्गारनिपुणः कान्तः कामशास्त्रविशारदः।५८।।
सदा मनोज्ञः स्त्रीणां त्वं सुवेषश्च स्वभावतः।।
सुवेषं सुन्दरं शान्तं कान्तं दान्तमरोगिणम्।।५९।।
शृङ्गारज्ञं गुणज्ञं त्वां युवानं रसिकं शुचिम् ।।
स्त्रीमनोज्ञं दयालुं च बलिष्ठं सन्तमीश्वरम्।।
दातारमनुरक्तं च कान्तमिच्छति कामिनी।।4.23.६०।।
एते सर्वे गुणाः कान्त सन्ति कान्ते त्वयि ध्रुवम्।।
त्वां न वाञ्छन्ति याः कान्तास्ता अविज्ञाश्च वञ्चिताः ।।६१।।
संतोषं ते करिष्यामि समागम्य विधोर्गृहात्।।
वेषं कृत्वा तु चन्द्रार्थं यात्राऽद्य तस्य कामिनी ।।
अन्याश्लेषणमात्रेण भविता धर्मलङ्घना ।। ६२ ।।
याश्च धर्मान्न रक्षन्ति तासां च जीवनं वृथा ।।
चन्द्राश्लेषं न जानन्ति यास्ता मूढाः प्रकीर्तिताः ।।
ता एव मातृगर्भस्था न प्राज्ञाः पौरुषै रसैः ।। ६३ ।।
स्ववैद्यौमदनश्चन्द्रो मरुत्वान्नलकूबरः ।।
एभिर्नालिङ्गिता यास्ता वञ्चिता रतिकर्मभिः ।। ६४ ।।
दिवानिशं मानसं मे तेषां क्रीडां च चिन्तयेत् ।।
विशेषतः कामदेवो निपुणो रतिकर्मणि ।। ६५ ।।
चन्द्रशृङ्गारमाश्लेषमालापममृताधिकम् ।।
अद्य तस्य रतिदिनं तेन तच्चिन्तयेन्मनः ।। ६६ ।।
तिलोत्तमावचः श्रुत्वा जहास बलिनन्दनः ।।
सकामश्च सपुलकस्तामुवाच रहःस्थले ।। ६७ ।।
साहसिक उवाच ।।
ब्रह्मणा निर्मिता त्वं च कौतुकेन तिलोत्तमे ।।
अतो वरा चाप्सरसां विदग्धरसिकेश्वरी ।। ६८ ।।
सुन्दोपसुन्दयोर्नाशः निमित्तेन प्रयत्नतः ।।
सर्वरूपगुणाधारा विधिना च कृता पुरा ।। ६९ ।।
सर्वं जानासि सर्वज्ञे विज्ञा सुरतकर्मणि ।।
हर्षेण श्रोतुमिच्छामि वद वो मानसं वचः ।।4.23.७०।।
अतिप्रियश्च को वा च कः स्वभावो वरानने ।।
अवश्यं गोपनीयं च श्रोतुमिच्छामि सुन्दरि ।।
।।७१ ।। गन्धर्वाणां सुराणां च राज्ञां पुण्यवतामपि।।
सर्वेषां प्राणतुल्या त्वमेषु ते कः परः प्रियः ।।७२ ।।
असुरस्य वचः श्रुत्वा प्रहस्य सा तिलोत्तमा।।
मुखमाच्छादनं चक्रे विलोक्य वक्रचक्षुषा ।। ७३ ।।
सत्यं सारमन्तरस्थमव्यक्तमतिगोपनम् ।।
उवाच मानसं वाक्यमज्ञातं विदुषामपि ।। ७४ ।।
।। तिलोत्तमोवाच ।। ।।
कथनीयं साहसिक पुंश्चलीनां मनोवचः ।।
स्त्रीजातीनां च सर्वासामुपहासकरं परम् ।। ७५ ।।
सर्वेषामपि दुर्ज्ञेयं चरितं योषितामपि ।।
विशेषतोऽपि दुर्ज्ञेयं पुंश्चलीनां मनोवचः ।। ७६ ।।
वेदवेदाङ्गशास्त्रान्तं सर्वं जानाति पंडितः ।।
कान्त नांतं विजानाति दिशामाकाशयोषिताम्।। ७७ ।।
विषादप्यप्रियो वृद्धो रत्नादपि च योषिताम् ।।
युवा सर्वस्वहर्ता चेत्प्राणेभ्योऽपि परः प्रियः ।।७८।।
युवानं सुन्दरं दृष्ट्वा ह्यार्ता भवति पुंश्चली ।।
विशेषतः सुवेषं च दृष्ट्वैव हतचेतना ।। ७९ ।।
निमेषरहिता तस्य लोचनाभ्यां पिबेन्मुखम् ।।
योनौ जलं क्षरेत्तस्याः सद्यः कुण्डूयनं भवेत् ।। 4.23.८० ।।
मनोऽतिलोलमस्थैर्यं सर्वाङ्गानि चकम्पिरे ।।
जडीभूतं शरीरं च प्रदग्धं मदनानलात् ।। ८१ ।।
संप्राप्य तं चेद्रहसि साऽऽलापं कुरुते स्फुटम् ।।
सकटाक्षं स्मेरवक्त्रं दर्शयित्वा पुनः पुनः ।। ८२ ।।
तथा यदि वशं कर्तुं न शशाक जितेन्द्रियम् ।।
स्वमङ्गं दर्शयित्वा तमन्तर्वाक्यं स्फुटं वदेत् ।। ८३ ।।
दुःसाध्ये नायके दुःखं भवेदाजन्मजन्मनि ।।
तत्तुल्यं तत्परं प्राप्य तं विस्मरति पुंश्चली ।। ८४ ।।
पुंश्चलीनामप्रियः कः कः प्रियो वा महीतले ।।
योऽतिशृङ्गारनिपुणः स च प्राणाधिकः प्रियः ।। ८५ ।।
पूर्वजारं पतिं पुत्रं भ्रातरं पितरं प्रसूम् ।।
विशिष्टं नूतनं प्राप्य सर्वं त्यजति लीलया ।। ८६ ।।
न दानेन न मानेन सत्येन स्तवनेन वा ।।
नोपकारेण प्रीत्या वा सा साध्या सुरतिं विना ।।८७।।
शयने भोजने चापि स्वप्ने ज्ञाने दिवानिशम् ।।
नित्यं सत्पुरुषाश्लेषं स्मरन्ति कुलटा स्त्रियः ।।।। ८८ ।।
शृङ्गारनिपुणानां च ध्यानसाध्या चिरं परम्।।
दारुणा पुंश्चली जातिः प्रार्थयेच्च नवंनवम् ।।८९।।
सर्वासां कुलटानां च चरित्रं कथितं मया ।।
अकथ्यं गोपनीयं च मम हृद्वचनं शृणु।।4.23.९०।।
मम सन्ति प्रियतरा गन्धर्वेषु सुरेषु च।।
युवानो रतिशूराश्च कामशास्त्रविशारदाः ।।९१।।
विशेषतः शशधरे स्नेहो मे विद्यते परः ।।
ततोऽतिरिक्तः सर्वस्मादपि कामः प्रियो मम ।।९२।।
प्रियो मे कामसदृशो न भूतो न भविष्यति ।।
स्मरस्य स्मरणात्तूर्णं सुस्निग्धं मानसं मम ।। ९३ ।।
इत्येवं कथितं सर्वमात्मनो योषितामपि ।।
आज्ञां कुरु महाराज यास्यामि चन्द्रसन्निधिम् ।।९४ ।।
चन्द्रस्थानात्तव स्थानं समागत्य सुनिश्चितम्।।
संतोषं तव दैत्येन्द्र करिष्यामि न संशयः ।। ९९ ।।
श्रुत्वैवं बलिपुत्रश्च जहासोच्चैः पुनः पुनः ।।
सा वक्रचक्षुषाऽऽलोक्य तं जहास स्मरातुरा।। ९६ ।।
छलेन दर्शयामास कठिनं स्तनयोर्युगम् ।।
चारुचम्पकवर्णाभं वर्तुलं पीनमुच्छ्रितम् ।। ९७ ।।
श्रोणीं सुकठिनां रम्यां रम्भास्तम्भविनिन्दिनीम् ।।
सकटाक्षं स्मेरमुख कपोलं पुलकाञ्चितम् ।। ९८ ।।
रहःस्थानं समासाद्य कामेन हतचेतना ।।
पुलकाञ्चितसर्वाङ्गी लोचनाभ्यां पपौ मुखम् ।। ९९ ।।
तस्य रूपं च वेषं च दर्शंदर्शं पुनःपुनः ।।
मुखस्याच्छादनं भावात्कुर्वर्ती सूक्ष्मवाससा ।। 4.23.१०० ।।
अतिकामातुरां दृष्ट्वा सुप्राज्ञो बलिनन्दनः ।।
पप्रच्छ कामिनां कामी भावं विज्ञातुमुत्सुकः ।। १०१ ।।
साहसिक उवाच ।।
किं करिष्यसि मां सत्यं वद पङ्कजलोचने।।
कार्यान्तरं करिष्यामि सुचिरं स्थातुमक्षमः ।।१०२।।
कामिनीषु बलात्कारो न धर्मो धर्मिणां प्रिये।।
विशेषतोऽतिविदुषां नास्माकं स्वकुलोचितः ।। १०३ ।।
शृङ्गारं देहि वा गच्छ रतिं कर्तुं सुरान्तिके ।।
कः क्षमो वा वशीकर्तुं पुंश्चलीं बहुगामिनीम् ।। १०४ ।।
दानवस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुका ।।
आत्मानमधमंमन्या भिद्यमाना स्मरास्त्रतः ।। १०५ ।।
तिलोत्तमोवाच ।। ।।
कथमेवं ब्रूहि त्वं मे कान्तः प्राणाधिकः प्रियः ।।
कथं वा कोपयुक्तोऽसि कुरु कार्यं मनीषितम् ।। १०६ ।।
त्वामेवं विमुखं कृत्वा यामि चन्द्रान्तिकं यदि ।।
तवाभिशापात्तत्रैव सद्यो विघ्नो भविष्यति ।। १०७ ।।
विहारं कुरु भद्रं ते करिष्यति हरिः स्वयम् ।।
पदेपदे शुभं तस्य यः स्त्रीमानं च रक्षति ।।१ ०८।।
अवमन्य स्त्रियं मूढो यो याति पुरुषाधमः ।।
पदेपदे तदशुभं करोति पार्वती सती ।। १०९ ।।
तिलोत्तमावचः श्रुत्वा जहास बलिनन्दनः ।।
कामशास्त्रेषु निष्णातस्तद्भावं बुबुधे सुधीः ।। 4.23.११० ।।
भावं विज्ञाय भावज्ञः कामशास्त्रविशारदः ।।
करे धृत्वा समाश्लिष्य चुचुम्ब मुखपङ्कजम् ।। १११ ।।
जगाम च तया सार्धं गन्धमादनगह्ररम् ।।
ददर्श तत्र गत्वा च स्थानं जन्तुविवर्जितम् ।। ११२ ।।
संस्थाप्य रत्नदीपांश्च धूपं च सुमनोहरम् ।।
शय्यां रतिकरीं कृत्वा सुष्वाप च तया सह ।। ११३ ।।
नानाप्रकारशृङ्गारं चकार काममोहितः ।।
तिलोत्तमा तं बुबुधे सुरादपि विचक्षणम् ।। ११४ ।।
विपरीतरतौ तुष्टा बभूव रसिकेश्वरी ।।
दिवानिशं न बुबुधे नवसंगममूर्च्छिता ।। ११५ ।।
तिलोत्तमा कामभावाद्बलिपुत्रमुवाच ह।।
कृत्वा वक्षसि प्राणेशं स्तनयोरन्तरे मुदा ।। ११६ ।।
तिलोत्तमोवाच ।।
कदा द्रक्ष्याम्यहं कान्त मुखचन्द्रं मनोहरम् ।।
एवंभूतं शुभदिनं कदा मे भविता पुनः ।। ११७ ।।
अयि किं रूपमाश्चर्यं गुणो वा तव दानव ।।
ध्रुवं शृङ्गारनिपुणस्त्वत्परो नास्ति कश्चन ।।११८।।
मां विस्मरसि कालेन पुरुषः षट्पदो यथा ।।
स्त्रीणां सत्पुरुषाश्लेष आजीवं मनसि स्थितः ।। ११९ ।।
सत्संगमः शुभदिने पुण्यात्पुण्यवतां भवेत् ।।
सद्विच्छेदो दुःखहेतुर्मरणादतिरिच्यते ।।4.23.१२०।।
पीयूषभोजनात्स्वर्गवासादपि च दुर्लभः ।।
सत्संगमः सुखमयोऽप्यसत्सङ्गो विषाधिकः ।। १२१ ।।
क्षणं तिष्ठ महाराज पुनरालिंगनं कुरु ।।
त्वया सार्धं मम प्राणा यास्यन्ति चेतसा सह ।।१२२।।
इत्येवमुक्त्वा कुलटा कृत्वा वक्षसि सादरम् ।।
पुमंगसंगोत्पुलका मूर्च्छामाप सुखेन च ।। १२३ ।।
कुलटालिंगनालापात्सोऽतिकामी बभूव ह ।।
यथा दीप्तः कृष्णवर्त्मा वर्धते हविषाऽधिकम् ।। १२४ ।।
पुनश्चकार शृंगारमसुरोऽष्टविधं मुने ।।
चुंबनं च नवविधं यथास्थाने यथोचितम् ।। १२५ ।।
नखदन्तकरैः क्रीडां चकार विविधां पुनः ।।
किंकिणीनां कंकणानां बभूव शब्द उल्बणः ।।
मुनेर्दुर्वाससस्तेन ध्यानभङ्गो बभूव ह ।। १२६ ।।
अदृष्टस्य तयोस्तत्र वल्मीकाच्छादितस्य च ।।
योगासनं कुर्वतश्च गन्धमादनगह्वरे ।। १२७ ।।
ध्यायतश्चरणांभोजं कृष्णस्य परमात्मनः ।।
न पपात तयोर्दृष्टिः समीपस्थे महामुनौ ।।
कामात्मनोर्न हि ज्ञानं कामेन हतचेतसोः ।। १२८ ।।
सहसा चेतनां प्राप्य प्रज्वलन्ब्रह्मतेजसा ।।
ददर्श पुरतस्तौ तु मुनिरुन्मील्य लोचने ।। १२९ ।।
दिवानिशं न जानन्तौ संयुक्तौ काममोहितौ ।।
दृष्ट्वा चुकोप तेजस्वी रुद्रांशो भगवान्विभुः ।। 4.23.१३० ।।
उवाच तौ विहारान्ते रक्तपङ्कजलोचनः ।।
ध्यानप्राप्तपदाम्भोजविच्छेदोद्विग्नमानसः ।। १३१ ।।
दुर्वासा उवाच ।।
उत्तिष्ठ गर्दभाकार निर्लज्ज पुरुषाधम ।।
भक्तप्रधानस्य बलेः पुत्रः पशुसमप्रभः ।। १३२ ।।
देवो वा मानवो वाऽपि दैत्यगन्धर्वराक्षसाः ।।
लज्जां कुर्वन्ति सततं स्वजातौ च पशून्विना ।। १३३ ।।
ज्ञानलज्जाविहीना च खरजातिर्विशेषतः ।।
तस्मात्त्वं दानवश्रेष्ठ खरयोनिं व्रजाधुना ।। १३४ ।।
तिलोत्तमे त्वमुत्तिष्ठ लज्जाहीना च पुंश्चली ।।
एतादृशी स्पृहा दैत्ये व्रज योनिं च दानवीम् ।। १३५ ।।
इत्येवमुक्त्वा स मुनिस्तस्थौ तत्र रुषा
ज्वलन् ।। तौ च तुष्टुवतुर्भीतावुत्थाय व्रीडितौ मुनिम ।। १३६ ।।
साहसिक उवाच ।।
त्वं ब्रह्मा त्वं च विष्णुश्च त्वं च साक्षान्महेश्वरः ।।
हुताशनस्त्वं सूर्यश्च सृष्टिस्थित्यन्तकारकः ।।१३७।।
क्षमापराधं भगवन्कृपां कुरु कृपानिधे ।।
मूढापराधं सततं यः क्षमेत्स सदीश्वरः ।। १३८ ।।
इत्येवमुक्त्वा दैत्येन्द्रो रुरोदोच्चैः पुरो मुनेः ।।
कृत्वा तृणानि दशने पपात चरणाम्बुजे ।। १३९ ।।
तिलोत्तमोवाच ।।
हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ।।
विधिसृष्टौ च सर्वेषां मूढा स्त्रीजातिरेव च ।। 4.23.१४० ।।
ततोऽतिमत्ता कुलटा सदा कामातुरा परा ।।
लज्जाभीतिश्चेतना च न सन्ति कामुके विभो ।। १४१ ।।
इत्युक्त्वा रोदनं कृत्वा जगाम शरणं मुनेः ।।
विना विपत्तौ केषांचिज्ज्ञानं भवति भूतले ।।
तयोर्दृष्ट्वा च वैकल्यं बभूव करुणा मुनेः ।। १४२ ।।
दुर्वासा उवाच ।।
अतिशापः प्रसादो वा भवेद्दैवेन दानव ।।
सत्कीर्तिरपकीर्तिर्वा प्राक्तनप्रभवा ध्रुवम् ।। १४३ ।।
विष्णुभक्तबलेः पुत्रः सद्वंशप्रभवो
जनः ।। जनकाद्विष्णुभक्तोऽसि जानामि त्वां सुनिश्चितम् ।। १४४ ।।
जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम् ।।
यथा श्रीकृष्णपादाङ्कः कालीयवंशमस्तके ।। १४५ ।।
संप्राप्य गार्दभीं योनिं वत्स निर्वाणतां व्रज ।।
पूर्वं कृष्णार्चनफलं न हि लुप्तं सतां चिरात् ।। १४६ ।।
वृन्दारण्यं तालवनं व्रज शीघ्रं व्रजान्तिकम् ।।
प्राणांस्त्यक्त्वा हरेश्चक्रान्मुक्तिं प्राप्स्यसि निश्चितम् ।। १४७ ।।
तिलोत्तमे भारते त्वं बाणपुत्री भविष्यसि ।।
श्रीकृष्णपौत्रश्लेषेण पुनः पूता भविष्यसि ।। १४८ ।।
इत्येवमुक्त्वा स मुनिर्विरराम महामुने ।।
तौ जग्मतुर्यथास्थानं प्रणम्य मुनिपुंगवम् ।। १४९ ।।
इत्युक्तं सर्ववृत्तान्तं दैत्यस्य खरजन्मनः ।।
तिलोत्तमा बाणपुत्री ह्युषाऽनिरुद्धकामिनी ।। 4.23.१५० ।।

इति श्रीबह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे तिलोत्तमाबलिपुत्रयोर्ब्रह्मशापप्रस्तावो नाम त्रयोविंशोऽध्यायः ।। २३ ।।