ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०२४

← अध्यायः ०२३ श्रीकृष्णजन्मखण्डः
अध्यायः ०२४
वेदव्यासः
अध्यायः ०२५ →

नारायण उवाच ।।
निगूढं शृणु वृत्तान्तं मुनेर्दुर्वाससो मुने ।।
अहोऽस्य दारसंयोगः कथं तदूर्ध्वरेतसः ।। १ ।।
दृष्ट्वा तयोश्च शृङ्गारं मुनिः कामी बभूव ह ।।
जितेन्द्रियोऽसत्संसर्गाद्दोषः सांसर्गिको भवेत् ।। २ ।।
सहसा तस्य हृदये बभूव सुरते स्पृहा ।।
तपस्तप्त्वा तत्र दध्यौ कामिनीं मदनातुरः ।। ३ ।।
एतस्मिन्नन्तरे तेन पथा याति मुनीश्वरः ।।
प्रार्थयन्त्या पतिं सन्तमौर्वश्च सुतया सह ।। ४ ।।
ऊरूद्भवो ब्रह्मणश्च पुरा कल्पे तपस्यतः ।।
ऊर्ध्वरेताश्च योगीन्द्र ओर्वस्तेन इति स्मृतः ।। ५ ।।
तस्य जानूद्भवा कन्या कन्दली नाम विश्रुता ।।
दुर्वाससं प्रार्थयन्ती नान्यं मनसि रोचते ।। ६ ।।
ससुतो हि मुनिश्रेष्ठो मुनेर्दुर्वाससः पुरः ।।
तस्थौ महाप्रसन्नश्च ज्वलदग्निशिखोपमः ।। ।। ७ ।।
मुनीन्द्रोऽपि मुनीन्द्रं तं पुरो दृष्ट्वा ससंभ्रमः ।।
प्रजवेन समुत्तस्थौ ननाम च मुदाऽन्वितः ।।८।।
और्वो दुर्वाससं तत्र समाश्लिष्य मुदाऽन्वितः ।।
उवाच मुनये सर्वं कन्यकाया मनोरथम् ।। ९ ।।
और्व उवाच ।।
विख्याता कन्दली नाम मम कन्या मनोहरा ।।
प्रौढा त्वामेव ध्यायन्ती श्रुत्वा वाचिकवक्त्रतः ।। 4.24.१० ।।
अयोनिसम्भवा कन्या त्रैलोक्यं मोहितुं क्षमा ।।
सर्वरूपगुणाधारा दोषेणैकेन संयुता ।। ११ ।।
अतीव कलहाविष्टा कोपेन कटुभाषिणी ।।
नानागुणयुतं द्रव्यं न त्यजेदेकदोषतः ।। १२ ।।
और्वस्य वचनं श्रुत्वा हर्षशोकान्वितो मुनिः ।।
ददर्श कन्यां पुरतो गुणरूपसमन्विताम् ।। १३ ।।
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ।।
ईषद्धास्यप्रसन्नास्यां पीनश्रोणिपयोधराम् ।। १४ ।।
नवयौवनसंयुक्तां पश्यन्तीं वक्रचक्षुषा ।।
रत्नालंकारशोभाढ्यां वह्निशुद्धांशुकान्विताम् ।। १५ ।।
मुनिर्मुमोह तां दृष्ट्वा कामबाणप्रपीडितः ।।
उवाच तं मुनिश्रेष्ठं हृदयेन विदूयता ।। १६ ।।
दुर्वासा उवाच ।।
नारीरूपं त्रिभुवने मुक्तिमार्गनिरोधकम् ।।
व्यवधानं तपस्यायाः सततं मोहकारणम् ।। १७ ।।
कारागारे च संसारे दुर्वहं निगडं परम् ।।
अच्छेद्यं ज्ञानखड्गैश्च महद्भिः शंकरादिभिः ।। १८ ।।
सङ्गिच्छायातिरिक्तं च कर्मभोगात्परात्परम् ।।
इन्द्रियादिन्द्रियाधाराद्विद्यायाश्च मतेरपि ।। १९।।
आदेहं सङ्गिनी छाया भोगान्तं भोग एव च ।।
देहेन्द्रियाणि जीवान्तं विद्या चैवावशीलिनम् ।। 4.24.२० ।।
मतिश्चैवावशीलान्ता सुखी जन्मनिजन्मनि ।।
यावज्जीवी च सुस्त्रीको न तावज्जन्मखण्डनम् ।।२१ ।।
यावच्च जीविनो जन्म तावद्भोगः सुखावहः ।।
परं मुनीन्द्र सर्वस्माद्धरिपादाब्जसेवनम्।। २२ ।।
ध्यायतः कृष्णपादाब्जं मम विघ्नो बभूव ह ।।
न जाने कर्मदोषेण केन वा पूर्वजन्मनः ।। २३ ।।
पुंश्चल्या सह शृङ्गारं दृष्ट्वा दैत्यस्य मन्मनः ।।
बभूव कामसंयुक्तं दत्तं धात्रा च तत्फलम् ।।२४।।
किं त्वहं तव कन्यायाः कटूक्तिशतकं मुने ।।
ध्रुवं क्षमां करिष्यामि दास्यामि च ततः फलम् ।।२५।।
सर्वतोऽपि परा निन्दा स्त्रीकटूक्तिसहिष्णुता ।।
अतीव निन्दितः सत्सु स्त्रीजितो भुवनत्रये ।। २५ ।।
तवाज्ञां मस्तके कृत्वा ग्रहीष्यामि सुतां तव ।।
उपेतां कामिनीं त्यक्त्वा कालसूत्रं व्रजेन्नरः ।।२७।।
रहस्युपस्थितां कामात्पुंश्चलीं चेज्जितेन्द्रियः ।।
परित्यजेद्धर्मभयादधर्मान्नरकं व्रजेत् ।। २८ ।।
इत्येवमुक्त्वा दुर्वासा विरराम मुनेः पुरः ।।
मुनिर्वेदोक्तविधिना ददौ तस्मै सुतां मुने ।। २९ ।।
स्वस्तीत्युवाच दुर्वासा मुनिश्च यौतुकं ददौ ।।
कन्यासमर्पणं कृत्वा मोहाच्चैव रुरोद ह ।। 4.24.३० ।।
मूर्च्छामवाप स मुनिः स्वकन्याविरहातुरः ।।
अपत्यभेदशोकौघः स्वात्मारामं न मुञ्चति ।। ३१ ।।
क्षणेन चेतनां प्राप्य बोधयामास कन्यकाम् ।।
मूर्च्छितां तातविच्छेदाद्रुदन्तीं शोकसंयुताम् ।। ३२ ।।
और्व उवाच ।।
शृणु वत्से प्रवक्ष्यामि नीतिसारं सुदुर्लभम् ।।
हितं सत्यं च वेदोक्तं परिणामसुखावहम् ।।३३।।
स्वकान्तश्च परो बन्धुरिह लोके परत्र च ।।
न हि कान्तात्परः प्रेयान् कुलस्त्रीणां परो गुरुः ।।३४।।
देवपूजा व्रतं दानं तपश्चानशनं जपः ।।
स्नानं च सर्वतीर्थेषु दीक्षा सर्वमखेषु च ।।३५।।
प्रादक्षिण्यं पृथिव्याश्च ब्राह्मणातिथिसेवनम् ।।
सर्वाणि पतिसेवायाः कलां नार्हन्ति षोडशीम् ।।३६।।
किमेतैः पतिभक्ताया अभक्तायाश्च भारते।।
यदा दुःखी सुखारम्भे साकाङ्क्षः प्रथमो भवेत् ।।
पतिसेवा परो धर्मः सर्वशास्त्रेषु पठ्यते।।३७।।
स्वप्रज्ञानेन सततं कान्तं नारायणाधिकम् ।।
दृष्ट्वा तच्चरणत्म्भोजसेवां नित्यं करिष्यति।। ।। ३८ ।।
परिहासेन कोपेन भ्रमेणावज्ञया मुने ।।
कटूक्तिं स्वामिनः साक्षात्परोक्षान्न करिष्यति ।। ३९ ।।
स्त्रिया वाग्योनिदुष्टायाः कामतो भारते भुवि ।।
प्रायश्चित्तं श्रुतौ नास्ति नरकं ब्रह्मणः शतम् ।।4.24.४०।।
सर्वधर्मपरीता या कटूक्तिं कुरुते पतिम् ।।
शतजन्मकृतं पुण्यं तस्या नश्यति निश्चितम् ।। ४१ ।।
दत्त्वा कन्यां बोधयित्वा जगाम मुनिपुंगवः ।।
स्वात्मारामः स्वाश्रमे च तस्थौ स्त्रीसहितो मुदा ।। ४२ ।।
सम्भोगेच्छावृते चित्ते कामी संप्राप कामिनीम् ।।
अहो सुकृतिनां कामो वाञ्छामात्रेण सिध्यति ।। ४३ ।।
शय्यां रतिकरीं कृत्वा मुनिश्रेष्ठो महामुने।।
शुभे क्षणे गृहीत्वा तां सुष्वाप निर्जने प्रियाम्।।४४।।
नारीरसानभिज्ञः स्यादाजन्म मुनिपुंगवः।।
तथाऽपि सुरतौ विज्ञः कामशास्त्रविशारदः ।।४५।।
नानाप्रकारं शृङ्गारं चकार विधिपूर्वकम्।।
नवसंगममात्रेण मूर्च्छां संप्राप कन्दली ।। ४६ ।।
मूर्च्छां प्राप मुनिश्रेष्ठो बुबुधे न दिवानिशम् ।।
एवं प्रतिदिनं तत्र चकार सुरतिं मुने ।।४७ ।।
विदग्धाया विदग्धेन बभूव संगमः समः ।।
संबभूव गृहासक्तस्तपस्त्यक्त्वा मुनीश्वरः ।। ४८ ।।
करोति कलहे नित्यं कन्दली स्वामिना सह ।।
मुनीन्द्रो बोधयामास नीतिवाक्येन कामिनीम् ।।
सा तन्न बुबुधे किंचित्करोति कलहे स्पृहाम् ।। ४९ ।।
तातप्रदत्तज्ञानेन सा न शान्ता बभूव ह ।।
न हीयते प्रबोधेन स्वभावो दुरतिक्रमः ।।4.24.५०।।
नित्यं कटूक्तिं कान्तं सा करोति हेतुना विना ।।
जगत्प्रकम्पितं येन तया कोपात्स कम्पितः।।५१।।
तया कृतां कटूक्तिं च क्षमासंस्थां चकार ह ।।
बोधयामास तां नित्यं सद्यो मोहाद्दयानिधिः ।। ५२ ।।
कटूक्तिशतकं पूर्णं तत्कालेन बभूव ह ।।
क्षमां चकार कृपया कटूक्तिं च शताधिकाम् ।। ५३ ।।
पत्नीकटूक्त्या नियतं प्रदग्धं मानसं मुनेः ।।
तस्याः कटूक्तिकारिण्याः कर्म पूर्णं बभूव ह ।। ५४ ।।
स्वात्मारामो दयालुश्च कोपं त्यक्तुं न स क्षमः ।।
शशाप कामिनीं मोहाद्भस्मराशिर्भवेति च ।। ५५ ।।
मुनेरिङ्गितमात्रेण भस्मसात्सा बभूव ह ।।
एवमत्युच्छ्रितानां च न कल्याणं जगत्त्रये ।। ५६।।
शरीरे भस्मसाद्भूते प्रतिबिंबः स चात्मनः ।।
जीवस्तत्रान्तरिक्षस्थो ह्युवाच विनयात्प्रभुम् ।। ५७ ।।
जीव उवाच ।।
हे नाथ सर्वदर्शी त्वं सततं ज्ञानचक्षुषा ।।
सर्वं जानासि सर्वज्ञः किमहं बोधयामि ते।। ५८ ।।
सदुक्तिर्वा कटूक्तिर्वा कोपः संताप एव च।।
लोभो मोहश्च कामश्च क्षुत्पिपासादिकं च यत् ।।५९।।
स्थौल्यं कार्श्यं च नाशश्च दृश्यादृश्यं समुद्भवम् ।।
सर्वं शरीरधर्मं च न जीवस्य न चात्मनः ।।4.24.६०।।
सत्त्वं रजस्तम इति शरीरं त्रिगुणात्मकम् ।।
तच्च नानाप्रकारं च निबोध कथयामि ते ।।६१।।
किञ्चित्सत्त्वातिरिक्तं च किञ्चिदेव रजोधिकम् ।।
तमोतिरिक्तं किञ्चिच्च न समं कुत्रचिन्मुने ।।६२।।
सत्त्वोदयाच्च मुक्तीच्छा कर्मेच्छा च रजोगुणात्।।
तमोगुणाज्जीवहिंसा कोपोऽहंकार एव च ।। ६३ ।।
कोपात्कटूक्तिर्नियतं कटूक्त्या शत्रुता भवेत् ।।
तया चाप्रियता सद्यः शत्रुः कः कस्य भूतले ।। ६४ ।।
को वा प्रियोऽप्रियः कः किं किं मित्रं को रिपुर्भवेत् ।।
इंद्रियाणि च बीजानि सर्वत्र शत्रुमित्रयोः ।।६५।।
प्राणाधिकः प्रियः स्त्रीणां भर्तुः प्राणाधिका प्रिया ।।
बभूव शत्रुता सद्यो दुरुक्त्या च क्षणाद्द्वयोः ।। ६६ ।।
यद्गतं तद्गतं सर्वं कामदोषेण वै प्रभो ।।
क्षमापराधं निखिलं किं कर्तव्यं वदाधुना ।। ६७ ।।
किं करोमि क्व यामीति भविता कुत्र जन्म मे ।।
तव नान्यस्य जायाऽहं भविष्यामि जगत्त्रये ।। ६८ ।।
इत्येवमुक्त्वा जीवश्च मौनीभूतो बभूव ह ।।
मूर्च्छामवाप स मुनिः शोकेन हृतचेतनः ।। ६९ ।।
स्वात्मारामो महाज्ञानी जहार चेतनामहो ।।
स्त्रीविच्छेदो विदग्धानां सर्वशोकात्परात्परः ।। 4.24.७० ।।
क्षणेन चेतनां प्राप्य प्राणांस्त्यक्तुं समुद्यतः ।।
तत्र योगासनं कृत्वा चकार वायुधारणम् ।।७१।।
एतस्मिन्नन्तरे तत्र जगाम ब्राह्मणोऽर्भकः।।
दण्डी छत्री रक्तवासा बिभ्रत्ति लकमुत्त्मम् ।। ७२ ।।
सस्मितः श्यामवर्णश्च प्रज्वलन्ब्रह्मतेजसा ।।
वयसाऽतिशिशुः शान्तो ज्ञानी वेदविदां वरः ।। ७३ ।।
दृष्ट्वा तं संभ्रमेणैव दुर्वासाः प्रणनाम ह ।।
वासयामास तत्रैव पूजयामास भक्तितः ।। ७४ ।।
उवाच ब्राह्मणवटुर्दत्त्वा तस्मै सदाशिषम् ।।
तद्दर्शनादाशिषा च सर्वं दुःखं गतं मुनेः ।। ७५ ।।
शिशुरूपं क्षणं स्थित्वा तमुवाच विचक्षणः ।।
पीयूषतुल्यं नीत्योघं नीतिशास्त्रं विशारदः ।। ७६ ।।
शिशुरुवाच ।।
सर्वं जानासि सर्वज्ञ गुरोर्मन्त्रप्रसादतः ।।
किं तत्त्वं त्वामहं विप्र पृच्छामि शोककातरम् ।। ७७ ।।
ब्राह्मणानां तपो धर्मस्तपःसाध्यं जगत्त्रयम् ।।
स्वधर्मं वै परित्यज्य किमिदानीं करोषि भोः ।। ७८ ।।
का कस्य पत्नी कः कान्तः कस्या वा भुवनत्रये ।।
मूर्खाणां वञ्चनां कर्तुं करोति मायया हरिः ।। ७९ ।।
मिथ्या पत्नी तवेयं च क्षणात्तेन गताधुना ।।
न हि सत्यमदृश्यं च मिथ्या यत्राचिरस्थितिः ।। 4.24.८० ।।
एकानंशा च भगिनी वसुदेवसुता हरेः।।
पार्वत्यंशसमुद्भूता सुशीला चिरजीविनी ।।८१ ।।
कल्पे कल्पे सुन्दरी सा तव पत्नी भविष्यति ।।
मनो देहि तपस्यायां मुदा कतिपयं दिनम्।।८२।।
कन्दली कदलीजातिर्भविष्यति महीतले ।।
शुभदा फलदा कान्ता सकृत्सूता सुदुर्लभा ।। ८३ ।।
कल्पान्तरे शान्तरूपा तव पत्नी भविष्य ति।।
अत्युच्छ्रिस्य दमनमुचितं च श्रुतौ श्रुतम्।। ८४।।
इत्येवमुक्त्वा शीघ्रं च विप्ररूपी जनार्दनः ।।
दत्त्वा ज्ञानं च विप्राय सोऽन्तर्धानं चकार ह ।। ८५ ।।
मुनिः सर्वभ्रमं त्यक्त्वा तपस्यायां मनो दधे ।।
कन्दली कदलीजातिर्बभूव धरणीतले ।। ८६ ।।
दैत्यस्तालवनं गत्वा बभूव गर्दभाकृतिः ।।
तिलोत्तमा बाणपुत्री बभूव समये मुने ।। ८७।।
दैत्येन्द्रो विष्णुचक्रेण प्राणांस्त्यक्त्वा सुवाञ्छितम् ।।
संप्राप्य चरणाम्भोजं मुनेरपि सुदुर्लभम् ।। ८८ ।।
काले तिलोत्तमा भूत्वा जगाम स्वालयं पुनः ।।
कृष्णपौत्रालिंगनेन परिपूर्णमनोरथा ।। ८९ ।।
इत्येवं कथितं श्रुत्वा श्रीकृष्णाख्यानमुत्तमम् ।।
पदेपदे सुन्दरं च किं भूयः श्रोतुमिच्छसि ।। 4.24.९० ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे तालफलभक्षणप्रसङ्गे बलिपुत्रमोक्षोनाम चतुर्विशोऽध्यायः ।। २४ ।।