प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०२७ श्रीकृष्णजन्मखण्डः
अध्यायः ०२८
वेदव्यासः
अध्यायः ०२९ →

नारद उवाच ।।
त्रिषु मासेष्वतीतेषु तासां च हरिणा सह ।।
वद केन प्रकारेण बभूव तनुसंगमः ।।१।।
वृन्दावनं किंप्रकारं किंविधं रासमण्डलम् ।।
हरिरेकस्ताश्च बह्व्यः केन क्रीडा बभूव ह ।। २ ।।
कुतूहलं भवति मे इदं श्रोतुं नवं नवम् ।।
कथयस्व महाभाग पुण्यश्रवणकीर्तन ।। ३ ।।
कथा पुराणसाराणां रासयात्रा हरेरहो ।।
हरिलीलाः पृथिव्यां तु सर्वाः प्रतिमनोहराः ।। ४ ।।
सूत उवाच ।।
नारदस्य वचः श्रुत्वा ऋषिर्नारायणः स्वयम् ।।
प्रहस्य सुप्रसन्नास्यः प्रवक्तुमुपचक्रमे ।। ५ ।।
श्रीनारायण उवाच ।।
एकदा श्रीहरिर्नक्तं वनं वृन्दावनं ययौ ।।
शुभे शुक्लत्रयोदश्यां पूर्णे चन्द्रोदये मुने ।। ६ ।।
यूथिकामालतीकुन्दमाधवीपुष्पवायुना ।।
वासितं कलनादेन मधुभ्राणां मनोहरम् ।। ७ ।।
नवपल्लवसंयुक्तं पुंस्कोकिलरुतश्रुतम् ।।
नवलक्षरासवाससंयुक्तं सुमनोहरम् ।। ८ ।।
चन्दनागुरुकस्तूरीकुंकुमेन सुवासितम् ।।
कर्पूरान्वितताम्बूलभोगद्रव्यसमन्वितम् ।।९ ।।
प्रसूनैश्चम्पकानां च कस्तूरीचन्दनान्वितैः।।
रतियोग्यैर्विरचितैर्नानातल्पैः सुशोभितम् ।। 4.28.१० ।।
दीप्तं रत्नप्रदीपैश्च धूपेन सुरभीकृतम् ।।
नानापुष्पैश्च रचितं मालाजालैर्विराजितम् ।। ११ ।।
परितो वर्तुलाकारं तत्रैव रासमण्डलम् ।।
चन्दनागुरुकस्तूरीकुंकुमेन सुसंस्कृतम् ।। १२।।
पुष्पोद्यानैः पुष्पितैश्च युक्तक्रीडासरोवरैः।।
हंसकारण्डवाकीर्णैर्जलकुक्कुटकूजितैः ।। १३ ।।
क्रीडनीयैः सुन्दरैश्च सुरतश्रमहारिभिः ।।
शुद्धस्फटिकसंकाशतोयपूर्णैः सुनिर्मलैः ।। १४।।
दधिपूर्णशुक्लधान्यजलैर्निर्मञ्छनीकृतम् ।।
रम्भास्तम्भसमूहेन सुन्दरेण सुशोभितम् ।। १५ ।।
आम्रपल्लवयुक्तेन सूत्रबन्धेन चारुणा ।।
भूषितं मंगलघटैः सिन्दूरचन्दनान्वितैः।।१६।।
मालतीमाल्यसंयुक्तैर्नारिकेलफलान्वितैः।।
स रासमण्डलं दृष्ट्वा जहास मधुसूदनः।।१७।।
चकार तत्र कुतुकाद्विनोदमुरलीरवम् ।।
गोपीनां कामुकीनां च कामवर्धनकारणम् ।। १८ ।।
तच्छ्रुत्वा राधिका सद्यो मुमोह मदनातुरा ।।
बभूव स्थाणुवद्देहा ध्यानैकतानमानसा ।। १९ ।।
क्षणेन चेतनां प्राप्य पुनः शुश्राव सा ध्वनिम् ।।
उवास सा समुत्तस्थौ समुद्विग्ना पुनः पुनः ।। 4.28.२० ।।
त्यक्त्वा चावश्यकं कर्म निःससार द्रुतं गृहात् ।।
ययौ तदनुसारेण प्रसमीक्ष्य चतुर्दिशम् ।। २१ ।।
ध्यायन्ती चरणाम्भोजं श्रीकृष्णस्य महात्मनः ।।
तेजसा च द्योतयन्ती सद्रत्नसारभूषतैः ।। २२ ।।
बहिर्बभूवुस्तास्त्रस्ता वरेण हृतचेतनाः ।।
कुलधर्मं परित्यज्य निशंकाः काममोहिताः ।। २३ ।।
त्रयस्त्रिंशद्वयस्याश्च ताः सुशीलादयः स्मृताः ।।
राधिकायाः प्रियतमा गोपीनां प्रवरा ययुः ।।२४।।
तासां पश्चाद्ययुर्गोप्यस्तासां संख्या निबोध मे।।
समा वेषेण वयसा रूपेण च गुणेन च ।।२५।।
ययुः सुशीलासंगेन सहस्राणि च षोडश ।।
ययुश्चन्द्रमुखी पश्चात्सहस्राणि च षोडश ।। २६ ।।
एकादशसहस्राणि माधव्याल्यश्च निर्ययुः ।।
जग्मुः कदम्बमालाल्यः स सहस्राणि त्रयोदश ।।२७।।
ययुः कुन्तीवयस्याश्च सहस्राणि दश स्मृताः ।।
चतुर्दश सहस्राणि ययुस्ता यमुनानुगाः ।।२८।।
जाह्नवीसहचारिण्यः सहस्राणि ययुर्नव ।।
ययुर्नवसहस्राणि पद्ममुख्याल्य एव च ।।२९।।
सावित्र्याल्यः पंचदश सहस्राणि ययुर्व्रजात् ।।
पारिजातावयस्याश्च सहस्राणि ययुर्दश ।।4.28.३०।।
स्वयंप्रभानुगाः सप्त सहस्राणि ययुर्व्रजात् ।।
ययुः सुधामुखीगोप्यः सहस्राणि चतुर्दश ।।३१।।
शुभानुगा ययुर्गोप्यः सहस्राणि चतुर्दश ।।
पद्मानुगा ययुर्गोप्यः सहस्राणि चतुर्दश ।।३२।।
गौरी पद्मा ययुर्गोप्यः सहस्राणि चतुर्दश ।।
ययुः सर्वमङ्गलाल्यः सहस्राणि च षोडश ।।३३।।
कालिकाल्यो ययुर्गोप्यः सहस्राणि च षोडश ।।
निर्ययुः कमलाल्यश्च सहस्राणि त्रयोदश ।। ३४ ।।
दुर्गानुगा ययुर्गोप्यः सहस्राणि च षोडश ।।
ययुः सरस्वतीपश्चात्सहस्राणि त्रयोदश ।। ३५ ।।
प्रजग्मुर्भारतीपश्चात्सहस्राणि दश व्रजात् ।।
अपर्णासहचारिण्यः सहस्राणि चतुर्दश ।। ३६ ।।
रतिपश्चाद्वयस्याश्च सहस्राणि ययुर्दश ।।
गङ्गावयस्याः प्रययुः सहस्राणि चतुर्दश ।। ३७ ।।
प्रजग्मुरम्बिकापश्चात्सहस्राणि च षोडश ।।
सतीपश्चाद्ययुर्गोप्यः सहस्राणि त्रयोदश ।।३८।।
नन्दिनीसहचारिण्यः सहस्राणि ययुर्दश ।।
प्रययुः सुन्दरीपश्चात्सहस्राणि त्रयोदश। ।।३९।।
ययुः कृष्णप्रियापश्चात्सहस्राणि च षोडश ।।
ययुर्मधुमतीपश्चात्सहस्राणि च षोडश।।4.28.४०।।
ययुश्चम्पानुगा गोप्यः सहस्राणि त्रयोदश ।।
चन्दनाल्यो ययुः पश्चात्सहस्राणि च षोडश ।। ४१।।
सर्वा बभूवुरेकत्र तत्र तस्थुः पलं मुदा ।।
तत्राययुर्गोपिकाश्च मालाहस्ताश्च काश्चन ।। ४२ ।।
चारुचन्दनहस्ताश्च काश्चित्तत्राययुर्व्रजात् ।।
श्वेतचामरहस्ताश्च काश्चित्तत्राययुर्मुदा ।। ४३ ।।
तत्राययुर्गोपकन्याः काश्चित्कस्तूरिकाकराः ।।
तत्राययुर्गोपकन्याः काश्चित्कुंकुमवाहिकाः ।। ४४ ।।
काश्चित्तत्राययुगोप्यस्ताम्बूलपात्रवाहिकाः ।।
यावत्काञ्चनवस्त्राणां वाहिका गोपकन्यकाः ।।
काश्चित्तत्राययुः शीघ्रं यत्र चन्द्रावली मुदा।।४९।।
सर्वाश्चैकत्र संभूय सस्मिताश्च मुदान्विताः ।।
विधाय राधिकावेषं स्थानाच्च प्रययुर्मुदा।।४६।।
चक्रुः पुनः पुनस्ताश्च हरिशब्दजपं पथि ।।
प्रापुर्वृन्दावनं रम्यं ददृशू रासमण्डलम्।।४७।।
स्वर्गेभ्यः सुन्दरं दृश्यं राकापतिकरान्वितम् ।।
सुनिर्जनं कुसुमितं वासितं पुष्पवायुना।।४८।।
नारीणां कामजननं मुनिमोहनकारणम् ।।
शुश्रुवुस्तत्र ताः सर्वाः पुंस्कोकिलकलध्वनिम् ।। ४९ ।।
अतिसूक्ष्मकलं चातिभ्रमराणां मनोहरम् ।।
प्रसूनमधुमत्तानां भ्रमरीसङ्गसङ्गिनाम् ।।4.28.५० ।।
शुभे क्षणे प्रविवेश राधिका रासमण्डलम् ।।
सर्वाभिरालिभिः सार्धं ध्यात्वा कृष्णपदाम्बुजम् ।। ५१ ।।
राधामारात्तु संवीक्ष्य कृष्णस्तत्र मुदाऽन्वितः ।।
जगामानुव्रजन्प्रीत्या सस्मितो मदनातुरः ।। ५२ ।।
मध्यस्थां सखिसङ्घानां रत्नालङ्कारभूषिताम् ।।
दिव्यवस्त्रपरीधानां सस्मितां वक्रलोचनाम्।। ५३ ।।
गजेन्द्रगामिनीं रम्यां मुनिमानसमोहिनीम्।।
नवीनवेषवयसा रूपेणातिमनोहराम् ।।५४।।
तलश्रोणिनितम्बानां भारशेषान्वितां पराम् ।।
चारुचम्पकवर्णाभां शरच्चन्द्रनिभाननाम् ।।
बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ।। ५५ ।।
राधा ददर्श श्रीकृष्णं किशोरं श्यामसुन्दरम् ।।
नवयौवनसंपन्नं रत्नाभरणभूषितम् ।। ।। ५६ ।।
कन्दर्पकोटिलावण्यलीलाधाम मनोहरम् ।।
प्राणाधिकां तां पश्यन्तीं पश्यन्तीं वक्रचक्षुषा ।। ९७ ।।
परमाद्भुतरूपं च सर्वत्रानुपमं परम् ।।
विचित्रवेषं चूडां च बिभ्रतं सस्मितं मुदा ।। ५८ ।।
वक्रलोचनकोणेन दर्शंदर्शं पुनःपुनः ।।
मुखमाच्छादयाञ्चक्रे व्रीडया सस्मिता सती ।। ५९ ।।
मूर्च्छामवाप सा सद्यः कामबाणप्रपीडिता ।।
पुलकाञ्चितसर्वाङ्गी बभूव हतचेतना ।। 4.28.६० ।।
कटाक्षकामबाणैश्च विद्धः क्रीडारसोन्मुखः ।।
मूर्च्छां प्राप्य न पपात तस्थौ स्थाणुसमो हरिः ।।६१।।
पपात मुरली तस्य क्रीडाकमलमुज्ज्वलम् ।।
द्वितीयं पीतवस्त्रं च शिखिपिच्छं शरीरतः ।।६२।।
क्षणेन चेतनां प्राप्य ययौ राधान्तिकं मुदा ।।
कृत्वा वक्षसि तां प्रीत्या समाश्लिष्य चुचुम्ब सः ।। ६३ ।।
श्रीकृष्णस्पर्शमात्रेण संप्राप्य चेतनां सती ।।
प्राणाधिकं प्राणनाथं समाश्लिष्य चुचुम्ब ह ।। ६४ ।।
मनो जहार राधायाः कृष्णस्तस्य च सा मुने ।।
जगाम राधया सार्धं रसिको रतिमन्दिरम् ।। ६५ ।।
रत्नप्रदीपसंयुक्तं रत्नदर्पणसंयुतम् ।।
चारुचम्पकशय्याभिश्चन्दनाक्ताभी राजितम् ।। ६६ ।।
कर्पूरान्वितताम्बूलैर्भोगद्रव्यैः समन्वितम् ।।
उवाच राधया सार्धं कृष्णस्तत्र मुदान्वितः ।। ६७ ।।
राधया दत्तताम्बूलं चखाद मधुसूदनः ।।
रासेश्वरी कृष्णदत्तं ताम्बूलं बुभुजे मुदा ।। ६८ ।।
दत्तं चर्वितताम्बूलं राधायै प्रभुणा मुदा ।।
चखाद भक्त्वा सा तूर्णं प्रहस्य मदनातुरा ।। ६९ ।।
राधाचर्वितताम्बूलं ययाचे माधवो मुदा ।।
न ददौ राधिका भीता पपात चरणाम्बुजे ।। 4.28.७० ।।
एतस्मिन्नन्तरे तत्र सकामः सुरतोन्मुखः ।।
सुष्वाप राधया सार्धं रतितल्पे मनोहरे ।। ७१ ।।
शृङ्गाराष्टप्रकारं च विपरीतादिकं विभुः ।।
नखदन्तकराणां च प्रहारं च यथोचितम् ।। ७२ ।।
कामशास्त्रेषु यद्गोप्यं चुम्बनाष्टविधं परम् ।।
कामिनीनां मनोहारि चकार रसिकेश्वरः ।। ७३ ।।
अङ्गैरङ्गानि प्रत्यङ्गैः प्रत्यङ्गानि स्मरातुरः ।।
चकाराश्लेषणं तत्र कामुकीनां सुखावहम् ।।७४।।
शृङ्गारकुशलौ तौ तु कामशास्त्रसुपण्डितौ ।।
रतियुद्धविरामश्च न बभूव द्वयोरपि ।। ७५ ।।
एवं गृहे गृहे रम्ये नानामूर्तिं विधाय च।।
रेमे गोपाङ्गनाभिश्च सुरम्ये रासमण्डले ।। ७६ ।।
गोपीनां नव लक्षाणि गोपानां च तथैव च ।।
लक्षाण्यष्टादश मुने युक्तानि रासमण्डले ।। ७७ ।।
मुक्तकेशानि नग्नानि विच्छिन्नभूषणानि च ।।
वेषोच्छिन्नानि मत्तानि मूर्च्छितानि स्मरेण च ।।७८।।
कङ्कणानां किंकिणीनां वलयानां च नारद ।।
सद्रत्ननूपुराणां च शब्दयुक्तानि संततम् ।।७९।।
एवं कृत्वा स्थलक्रीडां ययुस्तानि जलं मुदा ।।
कृत्वा तत्र जलक्रीडां परिश्रान्तानि साम्प्रतम् ।। 4.28.८० ।।
तूर्णं जलात्समुत्थाय वासांसि परिधाय च ।।
ददृशुर्मुखपद्मानि सद्रत्नदर्पणेषु च ।। ८१ ।।
चन्दनागुरुकस्तूरीद्रव्याणि पुष्पमालिकाः ।।
मुदा परिदधुस्तानि संप्रापुश्चेतनानि च ।। ।। ८२ ।।
सकर्पूरं च ताम्बूलं भुक्त्वा सर्वाणि कौतुकात् ।।
ददृशुर्मुखपद्मानि सद्रत्ने दर्पणेऽमले ।। ८३ ।।
काचित्कामातुरा कृष्णं बलादाकृष्य कौतुकात् ।।
हस्ताद्वंशी निजग्राह वसनं च चकर्ष ह ।। ८४ ।।
काचित्कामप्रमत्ता च नग्नं कृत्वा तु माधवम् ।।
निजग्राह पीतवस्त्रं परिहस्य पुनर्ददौ ।।८५।।
युक्तिं शृण्वित्येवमुक्त्वा काचित्संगृह्य स्वामिनम् ।।
चुचुम्ब गण्डे बिम्बोष्ठे समाश्लिष्य पुनःपुनः ।।८६ ।।
सस्मितं सकटाक्षं च मुखचन्द्रं स्तनोन्नतम् ।।
काचिच्छ्रोणीं सुललितां दर्शयामास कामतः ।। ८७ ।।
काचित्कान्तं करे कृत्वा संस्थाप्य श्रोणिदेशतः ।।
चकार चूडानिर्माणं मालतीमाल्यसंयुतम् ।।८८।।
काचिच्चूडां समाकृष्य मयूरपिच्छकं ददौ ।।
गुञ्जामाल्यं च चूडायां वेष्टयामास काचन ।। ८९ ।।
प्रददौ स्वामिने कामात्प्रेमवर्धनहेतवे ।।
काचित्काञ्चित्समाकृष्य नग्नां कृत्वा तु कामतः ।। 4.28.९० ।।
प्रेषयामास कृष्णस्य क्रोडे चन्दनचर्चिते ।।
ननृतुश्च जगुः काश्चित्कान्तं कृत्वा तु कामतः ।। ९१ ।।
नर्तनं कारयामास तं च काचिद्बलेन च ।।
कृष्णश्च वस्त्रं कस्याश्च विचकर्ष कुतूहलात् ।। ९२ ।।
कांचित्कृत्वा तु नग्नां च कस्यैचिदंशुकं ददौ ।।
कृष्णो राधां समाकृष्य वासयामास वक्षसि।।९३।।
तस्याश्च कबरीं रम्यां सुनिर्माणं चकार ह ।।
सिन्दूरं च ददौ भाले कस्तूरीं बिन्दुभिः सह ।। ९४ ।।
अतिसूक्ष्मं चन्दनेन्दुं कौतुकात्तदधो ददौ ।।
पत्रावलीं सुललितां सुकपोले चकार ह ।।९५।।
वह्निशुद्धांशुकं चारु परिधार्य्य प्रयत्नतः ।।
पदोः सद्रत्नमंजीरे गृहीत्वा चरणाम्बुजे।।९६।।
नखनिर्मार्जनं कृत्वा सुन्दरं यावकं ददौ ।।
भूषणैर्भूषितां कृत्वा संप्रलिप्यानुलेपनैः ।। ९७ ।।
दत्त्वा च मालतीमालां चुचुम्ब च पुनः पुनः ।।
चारुलोचनपद्मे च चकाराञ्जनसंयुते ।। ९८ ।।
प्रददौ नासिकामध्ये दुर्लभं गजमौक्तिकम्।।
श्रोणिदेशे च स्तनयोर्नखच्छिद्रं चकार ह ।।९९।।
चकार दन्तदलनं पक्वबिम्बाधरे वरे ।।
सरसश्च तटे रम्ये पुष्पोद्याने सुनिर्जने।। 4.28.१०० ।।
बहिश्चन्द्रोदये रम्ये पुष्पचन्दनचर्चिते ।।
अगुरुचन्दनाक्तेन वायुना सुरभीकृते ।। १०१ ।।
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रुते ।।
बहुमूर्तीः संविधाय योगिनां परमो गुरुः ।। १०२ ।।
पुनश्चकार शृङ्गारं गोपीनां चित्तहारकः ।।
किंकिणीनां कङ्कणानां नूपुराणां च नारद ।। १०३ ।।
शृङ्गारोद्रेकतस्तत्र बभूव सुन्दरो रवः ।।
मूर्च्छामवापुस्ताः सर्वा नवसंगममात्रतः ।। १०४ ।।
बभूवुरचलास्पन्दाः पुलकाञ्चितविग्रहाः ।।
शृङ्गारविरते भूते संप्रापुश्चेतनां पुनः ।। १०५ ।।
नखदन्तप्रहारं च प्रचकार परस्परम् ।।
कृष्णः कररुहाघातं ददौ तासां कुचोपरि ।। १०६ ।।
श्रोणीदेशे सुकठिने नखचिह्नं चकार ह ।।
नीवी विस्रंसिता तासां कबरी क्षुद्रघण्टिका ।। १०७ ।।
दूरीभूतं सुवसनं सुवेषं सुमनोहरम् ।।
आलिङ्गनं नवविधं चुम्बनाष्टविधं मुदा ।। १०८ ।।
शृङ्गारं षोडशविधं चकार रसिकेश्वरः ।।
अङ्गैरङ्गानि प्रत्यङ्गैः प्रत्यङ्गानि च योषिताम् ।। १०९ ।।
चकारालिङ्गनं प्रीत्या कामुकीनां च कामुकः ।।
नारीणां षोडश कलाः शृङ्गारस्तत्प्रमाणकः ।। ।। 4.28.११० ।।
कलाभेदेन तद्भेदं कामशास्त्रविदो विदुः ।।
प्राकृतं द्वादशविधं चकार रसिकेश्वरः ।। १११ ।।
निरूपितं कामशास्त्रे चकारेशस्ततोऽधिकम् ।।
क्रीडारम्भे च मध्ये च विरतौ कर्म योषिताम् ।। ११२ ।।
प्रीत्यर्थमपि कर्तव्यं चकारेशस्ततोऽधिकम् ।।
गोपीकङ्कणरेखाभिः पादालक्तकचिह्नितः ।।
शुशुभे कृष्णदेहश्च यथाऽद्रिर्गैरिकेण च ।। ११३ ।।
एवंभूते पूर्णराससंभूते रासमण्डले ।।
समाजग्मुः सुराः सर्वे सकलत्राश्च सानुगाः ।। ११४ ।।
सुवर्णस्यन्दनस्थाश्च कौतुकात्स्वगणावृताः ।।
पुलकाञ्चितसर्वाङ्गाः कामबाणप्रपीडिताः ।। ११५ ।।
ऋषयो मुनयश्चैव सिद्धाश्च पितरस्तथा ।।
विद्याधराश्च गन्धर्वा यक्षराक्षसकिन्नराः ।।
सस्त्रीकाश्च समाजग्मुर्ददृशुश्च मुदाऽन्विताः ।। ११६ ।।
दिव्यस्यन्दनमारुह्य शातकौम्भविनिर्मितम् ।।
सुशोभितं च मणिना रत्नसारपरिच्छदम् ।। ११७ ।।
वह्निशुद्धांशुकेनैव वेष्टितं सुमनोहरम् ।।
श्वेतचामरयुक्तं च सद्रत्नदर्पणाम्बुजम् ।। ११८ ।।
शतचक्रं चित्रयुक्तं मनोयायि मनोहरम् ।।
सद्रत्नसारनिर्माणकलशोज्ज्वलशेखरम् ।। ११९ ।।
समाजगाम भगवान्पार्वत्या सह शंकरः ।।
वामपार्श्वे महाकालो दक्षिणे नन्दिकेश्वरः ।। 4.28.१२० ।।
पुरतः कार्तिकेयश्च स्वयं देवो गणेश्वरः ।।
पिङ्गलाक्षादयः सर्वे पार्षदाः परितस्तयोः ।। १२१ ।।
क्षेत्रपालादयः सर्वे तथाऽष्टौ भैरवेश्वराः ।।
वक्षःस्थलस्थिता दुर्गा सस्मिता वक्रलोचना ।। १२२ ।।
भारत्या सह ब्रह्मा च शातकौम्भरथस्थितः।।
वामे सप्तर्षयस्तस्य दक्षिणे सनकादयः ।।१२३।।
सुवर्णस्यन्दनस्थश्च धर्मः साक्षी च कर्मणाम्।।
वक्षस्थलस्थिता तस्य मूर्तिः स्मेरानना सती ।। १२४ ।।
पश्यन्ती पूर्णरासं च सकामा वक्रलोचना ।।
परितः पार्षदाः सर्वे ज्वलन्तो ब्रह्मतेजसा ।। १२५ ।।
शच्या सह महेन्द्रश्च रोहिण्या च कलानिधिः ।।
स्वाहा सार्द्धं स्वयं वह्निः सूर्यश्च संज्ञया सह ।। १२६ ।।
समाजगाम कामश्च रतिं कृत्वा च वक्षसि ।।
सर्वे ग्रहाश्च दिक्पाला आजग्मुः सकलत्रकाः ।। १२७ ।।
आकाशस्थाश्च ददृशुः सरासं रासमण्डलम् ।।
केचिच्च मुमुहुस्तत्र मूर्च्छामापुश्च केचन ।। १२८ ।।
मुहूर्तं च सुराः सर्वे सस्मिताश्च मुदाऽन्विताः।।
चन्दनद्रववृष्टिं च पुष्पवृष्टिं च चिक्षिपुः।।१२९।।
कस्तूरीयुक्तमाल्यानां वृष्टिं चक्रुर्मुनीश्वराः।।
रासं दृष्ट्वा देवपत्न्यः कामबाणप्रपीडिताः।।4.28.१३०।।
स्थले रतिरसं कृत्वा जगाम यमुनाजलम् ।।
राधया सह कृष्णश्च पूर्णब्रह्म सनातनः ।। १३१ ।।
गोपीभिः सह जग्मुश्च मायाः श्रीकृष्णरूपिकाः ।।
प्रपीडिताः कामबाणैः क्रीडां चक्रुर्जले मुदा ।। १३२ ।।
जलं ददौ राधिकायै सकामो माधवः स्वयम् ।।
ददौ सा च माधवाय कामार्तायाञ्जलित्रयम् ।। १३३ ।।
वस्त्रं जग्राह तस्याश्च सा च नग्ना बभूव ह ।।
मालां चिच्छेद कबरीं चकार शिथिलां हरिः ।। १३४ ।।
सिन्दूरपक्षकं लुप्तं वेषं च जलताडनैः ।।
भ्रूविचित्रमोष्ठरागं लुप्तं कज्जललोचनम् ।। १३५ ।।
तां च नग्नां समाश्लिष्य निममज्ज जले हरिः ।।
प्रकृत्याऽभ्यन्तरे क्रीडां सुतस्थौ च तया सह ।।१३६।।
तां च नग्नां दर्शयित्वा गोपिकां क्रीडया नताम् ।।
सस्मितां प्रेरयामास दूरतो यमुनाजले ।। १३७ ।।
सा वेगेन समुत्थाय बलाज्जग्राह माधवम्।।
गृहीत्वा मुरलीं कोपात्प्रेरयामास दूरतः ।। १३८ ।।
गृहीत्वा पीतवसनं तं चकार दिगम्बरम् ।।
वनमालां च चिच्छेद ददौ तोयं पुनः पुनः ।। १३९ ।।
हरिं पुनः समाकृष्य प्रेषयामास पाथसि ।।
गभीरे स्रोतसि मुने निममज्ज जगत्पतिः ।। 4.28.१४० ।।
उत्थाय माधवः शीघ्रं तां गृहीत्वा प्रहस्य च ।।
कृत्वा वक्षसि नग्नां च चुचुम्ब च पुनःपुनः।।
एवं ता मूर्तयः सर्वा गोपीभिः सह कौतुकात् ।।
क्रीडां विचक्रुर्यमुनातीरनीरे मनोहरे ।। १४२ ।।
तीरं गत्वा तया सार्धं हरिर्नग्नश्च मग्नया ।।
सा तं ययाचे वसनं स च तां सस्मितां सतीम् ।।१४३।।
राधिकायै ददौ वस्त्रं रम्यां मालां च माधवः ।।
प्रददौ हरये वस्त्रं वंशी रासेश्वरी तथा ।।१४४।।
चन्दनागुरुकस्तूरीं सर्वाङ्गे कुङ्कुमान्विताम्।।
कृष्णस्य परया भक्त्या ददौ श्रोणिस्थितस्य च ।। १४५ ।।
निर्माय चूडां ललितां कामिनीं चित्तमोहिनीम्।।
शोभनैर्मालतीमाल्यैश्चकार वेष्टनं पुनः ।। १४६ ।।
श्रीकृष्णो राधिकायाश्च कबरीं सुमनोहराम् ।।
कृत्वा कुण्डलसंस्कारं निर्ममे पत्रकावलीम् ।। १४७ ।।
ददौ ललाटे सिन्दूरं कस्तूरीबिन्दुभिः सह ।।
तदधश्चन्दनेन्दुं च सुसूक्ष्मं सुमनोहरम् ।। १४८ ।।
नखाङ्गं स्तनयोरूर्वोरुरस्येव घनं मुदा ।।
दत्त्वा तां वासयामास वह्निशुद्धांशुकेन वै ।। १४९ ।।
चन्दनागुरुकस्तूरीकुङ्कुमानां द्रवेण सः ।।
कृत्वा वक्षसि संलिप्य चुचुम्ब च मुहुर्मुहुः ।। 4.28.१५० ।।
पुनराश्लेषणं कृत्वा ददौ मालां गले पुनः ।।
भूषणैर्भूषितां कृत्वा मञ्जीरचरणे ददौ ।। १५१ ।।
अलक्तकं चरणयोर्नखेषु च ददौ पुनः ।।
एवं गोपाश्च गोपीनां विदधौ च पृथक्पृथक् ।। १५२ ।।
पुनः प्रजग्मुस्ता मत्ताः सुन्दरं रासमण्डलम्।।
पूर्णेन्दुचन्द्रिकायुक्तं रतियोग्यं सुनिर्जनम् ।।१५३।।
माधवीकेतकीकुन्दमालतीनां मनोहरैः ।।
चम्पयूथीमल्लिकानां पुष्पैश्च सुरभीकृतम् ।। १५४ ।।
दृष्ट्वा च स्फुटितं पुष्पं चयनं कर्तुमीश्वरी ।।
गोपीर्नियोजयामास कौतुकेन च राधिका ।। १५५ ।।
काश्चिन्नियोजयामास मालानिर्माणकर्मणि ।।
काश्चित्ताम्बूलसज्जेषु काश्चिञ्चन्दनघर्षणे।।।१५६।।
माला चन्दनताम्बूलं गोपीदत्तं च सुन्दरी ।।
ददौ कृष्णाय संप्रीत्या सस्मिता वक्रलोचना ।।१५७।।
काश्चिन्नियोजनं चक्रुः कृष्णसङ्गीतकर्मणि ।।
मृदङ्गमुरजादीनां वादनेषु च काश्चन ।। १५८ ।।
एवं रासे रतिं कृत्वा लीलया हरिणा सह ।।
विजहार च सर्वत्र निर्जनेषु मनोहरम् ।। १५९ ।।
पुष्पोद्यानेषु रम्येषु सरसां च तटेषु च ।।
कन्दरे कन्दरे रम्ये नदेषु च नदीषु च ।। 4.28.१६० ।।
अतीव निर्जनस्थाने श्मशाने गिरिगह्वरे ।।
वाञ्छितेषु च नारीणां त्रयस्त्रिंशद्वनेषु च ।। १६१ ।।
भाण्डीरे श्रीवने रम्ये कदम्बकानने तथा ।।
तुलसीकानने कुन्दवने चम्पककानने ।।१६२।।
निम्बारण्ये मधुवने जम्बीरकानने तथा ।।
नालिकेरवने पूगवने च कदलीवने ।। १६३ ।।
बदरीकानने बिल्ववने नारिङ्गकानने ।।
अश्वत्थकानने वंशवने दाडिमकानने ।। १६४ ।।
मन्दारकानने तालवने चूतवने तथा ।।
केतकीकाननेऽशोकवने खर्जूरकानने ।। १६५ ।।
आम्रातकवने जम्बूगहने शालकानने ।।
कटके कानने पद्मवने जातिवने मुने ।। १६६ ।।
न्यग्रोधगहने घोरे तथा श्रीखण्डकानने ।।
प्रहृष्टकेसरवने सर्वतोऽपि विलक्षणे ।। १६७ ।।
एवं रेमे कौतुकेन कामात्त्रिंशद्दिवानिशम् ।।
तथाऽपि मानसं पूर्णं न च किंचिद्बभूव ह ।। १६८ ।।
न कामिनीनां कामश्च शृङ्गारेण निवर्तते ।।
अधिकं वर्धते शश्वद्यथाऽग्निर्घृतधारया ।। १६९ ।।
जग्मुर्देवाः स्वगेहं च देव्यश्च मुनयस्तथा ।।
ते सर्वे प्रशशंसुश्च विस्मयं च ययुर्मुदा ।। 4.28.१७० ।।
गेहे गेहे नृपेन्द्राणां लेभिरे जन्म भारते ।।
दग्धाः कामाग्निनांऽशेन देव्यः शृङ्गारलालसाः ।। १७१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे रासक्रीडाप्रस्तावो नाम अष्टाविंशोऽध्यायः ।। २८ ।।