प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०२६ श्रीकृष्णजन्मखण्डः
अध्यायः ०२७
वेदव्यासः
अध्यायः ०२८ →

श्रीनारायण उवाच ।।
शृणु नारद वक्ष्यामि श्रीकृष्णचरितं पुनः ।।
गोपीनां वस्त्रहरणं वरदानं मनीषितम् ।। १ ।।
हेमन्ते प्रथमे मासि गोपिकाः काममोहिताः ।।
कृत्वा हविष्यं भक्त्या च यावन्मासं सुसंयुताः ।। २ ।।
स्नात्वा सूर्यसुतातीरे पार्वतीं वालुकामयीम् ।।
कृत्वाऽवाह्य च मन्त्रेण पूजां कुर्वन्ति नित्यशः ।। ३ ।।
चन्दनागुरुकस्तूरीकुङ्कुमैश्च मनोहरैः ।।
नानाप्रकारपुष्पैश्च माल्यैर्बहुविधैरपि ।। ४ ।।
धूपैर्दीपैश्च नैवेद्यैर्वस्त्रैर्नानाफलैर्मुने ।।
मणिमुक्ताप्रवालैश्च वाद्यैर्नानाविधैरपि ।। ५ ।।
हे देवि जगतां मातः सृष्टिस्थित्यन्तकारिणि ।।
नन्दगोपसुतं कान्तमस्मभ्यं देहि सुव्रते ।। ६ ।।
मन्त्रेणानेन देवेशीं परिहारं विधाय च ।।
ततः कृत्वा तु संकल्पं पूजयन् मूलमन्त्रतः ।। ७ ।।
मन्त्रस्तु सामवेदोक्तोऽयातयामः सबीजकः ।।
ॐ श्रीदुर्गायै सर्वविघ्नविनाशिन्यै नम इति ।।८ ।।
पुष्पं माल्यं च नैवेद्यं धूपं दीपं तथा शुभम् ।।
मन्त्रेणानेन तद्भक्त्या ददुः सर्वा मुदान्विताः ।। ९ ।।
प्रवालमालया भक्त्या चेमं मन्त्रं सहस्रधा ।।
जपं कृत्वा च स्तुत्वा च प्रणेमुः शिरसा भुवि ।। 4.27.१० ।।
सर्वमङ्गलमाङ्गल्ये सर्वकामप्रदे शिवे ।।
देहि मे वाञ्छितं देवि नमस्ते शंकरप्रिये ।। ११ ।।
इत्युक्त्वा च नमस्कारं कृत्वा दत्त्वा च दक्षिणाम्।।
नैवेद्यानि च सर्वाणि ब्राह्मणेभ्यो ययुर्गृहम् ।। १२ ।।
श्रीनारायण उवाच ।।
स्तवराजं शृणु मुने तुष्टुवुर्येन पार्वतीम् ।।
भक्त्या गोपाङ्गनाः सर्वाः सर्वाभीष्टफलप्रदाम् ।। १३ ।।
जगत्येकार्णवे घोरे रुद्रसूर्यविवर्जिते ।।
अञ्जनाकारतोयेन संप्लुते च चराचरे ।। १४ ।।
दत्तं पुरा ब्रह्मणे च हरिणा जलशायिना ।।
तस्मै दत्त्वा सर्वमिदं निद्रां भेजे जगत्पतिः ।। १५ ।।
नाभिपद्मे जगत्स्रष्टा मधुना कैटभेन च ।।
पीडितः परितुष्टाव मूलप्रकृतिमीश्वरीम् ।। १६ ।।
ब्रह्मोवाच ।।
दुर्गे शिवेऽभये माये नारायणि सनातनि ।।
जये मे मङ्गलं देहि नमस्ते सर्वमङ्गले ।। १७ ।।
दैत्यनाशार्थवचनो दकारः परिकीर्तितः ।।
उकारो विघ्ननाशार्थं वाचको वेदसंमतः ।। १८ ।।
रेफो रोगघ्नवचनो गश्च पापघ्नवाचकः ।।
भयशत्रुघ्नवचनश्चाकारः परिकीर्तितः ।। १९ ।।
स्मृत्युक्ति स्मरणाद्यस्या एते नश्यन्ति निश्चितम् ।।
अतो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता ।। 4.27.२० ।।
विपत्तिवाचको दुर्गश्चाकारो नाशवाचकः ।।
दुर्गं नश्यति या नित्यं सा दुर्गा परिकीर्तिता।।। २१ ।।
दुर्गो दैत्येन्द्रवचनोऽप्याकारो नाशवाचकः ।।
तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता ।। २२ ।।
शश्च कल्याणवचन इकारोत्कृष्टवाचकः ।।
समूहवाचकश्चैव वाकारो दातृवाचकः ।। २३ ।।
श्रेयःसङ्घोत्कृष्टदात्री शिवा तेन प्रकीर्तिता ।।
शिवराशिर्मूर्त्तिमती शिवा तेन प्रकीर्तिता ।। २४ ।।
शिवो हि मोक्षवचनश्चाकारो दातृवाचकः ।।
स्वयं निर्वाणदात्री या सा शिवा परिकीर्तिता ।। २५ ।।
अभयो भयनाशोक्तश्चाकारो दातृवाचकः ।।
प्रददात्यभयं सद्यः साऽभया परिकीर्तिता ।। २६ ।।
राज्यश्रीवचनो माश्च याश्च प्रापणवाचकः ।।
तां प्रापयति या सद्यः सा माया परिकीर्तिता ।। २७ ।।
माश्च मोक्षार्थवचनो याश्च प्रापणवाचकः ।।
तं प्रापयति या नित्यं सा माया परिकीर्तिता।।२८।।
नारायणार्धाङ्गभूता तेन तुल्या च तेजसा।।
सदा तस्य शरीरस्था तेन नारायणी स्मृता ।।२९ ।।
निर्गुणस्य च नित्यस्य वाचकश्च सनातनः ।।
सदा नित्या निर्गुणा या कीर्तिता सा सनातनी ।। 4.27.३० ।।
जयः कल्याणवचनो याकारो दातृवाचकः ।।
जयं ददाति या नित्यं सा जया परिकीर्तिता ।। ३१ ।।
सर्व मङ्गलशब्दश्च संपूणैश्वर्यवाचकः ।।
आकारो दातृवचनस्तद्दात्री सर्वमङ्गला ।।३२।।
नामाष्टकमिदं सारं नामार्थसहसंयुतम् ।।
नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ।। ३३ ।।
तस्मै दत्त्वा निद्रितश्च बभूव जगतां पतिः ।।
मधुकैटभौ दुर्गां तौ ब्रह्माणं हन्तुमुद्यतौ ।। ३४ ।।
स्तोत्रेणानेन स ब्रह्मा स्तुतिं नत्वा चकार ह ।।
साक्षात्स्तुता तदा दुर्गा ब्रह्मणे कवचं ददौ ।। ३५ ।।
श्रीकृष्णकवचं दिव्यं सर्वरक्षणनामकम् ।।
दत्त्वा तस्मै महामाया साऽन्तर्धानं चकार ह ।। ३६ ।।
स्तोत्रं कुर्वन्ति निद्रां च संरक्ष्य कवचेन वै ।।
निद्रानुग्रहतः सद्यः स्तोत्रस्यैव प्रभावतः ।। ३७ ।।
तत्राजगाम भगवान्वृषरूपी जनार्दनः ।।
शक्त्या च दुर्गया सार्धं शंकरस्य जयाय च ।। ३८ ।।
सरथं शंकरं मूर्ध्नि कृत्वा च निर्भयं ददौ।।
अत्यूर्ध्वं प्रापयामास जया तस्मै जयं ददौ ।। ३९ ।।
स्तोत्रस्यैव प्रभावेण संप्राप्य कवचं विधिः ।।
वरं च कवचं प्राप्य निर्भयं प्राप निश्चितम् ।। 4.27.४० ।।
ब्रह्मा ददौ महेशाय स्तोत्रं च कवचं वरम्।।
त्रिपुरस्य च संग्रामे सरथे पतिते हरौ ।। ४१ ।।
ब्रह्मास्त्रं च गृहीत्वा स सनिद्रं श्रीहरिं स्मरन् ।।
स्तोत्रं च कवचं प्राप्य जघान त्रिपुरं हरः ।। ४२ ।।
स्तोत्रेणानेन तां दुर्गां कृत्वा गोपालिका स्तुतिम्।।
लेभिरे श्रीहरिं कान्तं स्तोत्रस्यास्य प्रभावतः ।।४३।।
गोपकन्या कृतं स्तोत्रं सर्वमङ्गलनामकम् ।।
वांछितार्थप्रदं सद्यः सर्वविघ्नविनाशनम् ।। ४४ ।।
त्रिसन्ध्यं यः पठेन्नित्यं भक्तियुक्तश्च मानवः।।
शैवो वा वैष्णवो वाऽपि शाक्तो दुर्गात्प्रमुच्यते ।।४५।।
राजद्वारे श्मशाने च दावाग्नौ प्राणसंकटे ।।
हिंस्रजन्तुभयग्रस्तो मग्नः पोते महार्णवे ।।४६।।
शत्रुग्रस्ते च संग्रामे कारागारे विपद्गते ।।
गुरुशापे ब्रह्मशापे बन्धुभेदे च दुस्तरे ।।४७।।
स्थानभ्रष्टे धनभ्रष्टे जातिभ्रष्टे शुचाऽन्विते ।।
पतिभेदे पुत्रभेदे खलसर्पविषान्विते ।।४८।।
स्तोत्रस्मरणमात्रेण सद्यो मुच्येत निर्भयः ।।
वांछितं लभते सद्यः सर्वैश्वर्यमनुत्तमम् ।। ४९ ।।
इह लोके हरेर्भक्तिं दृढां च सततं स्मृतिम् ।।
अन्ते दास्यं च लभते पार्वत्याश्च प्रसादतः।।4.27.५०।।
इति श्रीब्रह्मवैवर्ते गोपकन्याकृतं सर्वमंगलास्तोत्रम् ।।
अनेन स्तवराजेन तुष्टुवुर्नित्यमीश्वरीम् ।।
प्रणेमुः परया भक्त्या यावन्मासं व्रजाङ्गनाः ।। ५१ ।।
एवं पूर्णे च मासे च समाप्तिदिवसे तथा ।।
स्नातुं प्रजग्मुर्गोप्यश्च वस्त्राण्याधाय तत्तटे ।।५२।।
नानाविधानि द्रव्याणि रत्नमूल्यानि नारद ।।
पीतलोहितशुक्लानि चारूणि मिश्रितानि च ।। ५३ ।।
तीरावृतान्यसंख्यानि तैश्च तीरं सुशोभनम् ।।
चन्दनागुरुकस्तूरी वायुना सुरभीकृतम् ।।५४।।
नैवेद्यैश्च बहुविधैः कालदेशोद्भवैः फलैः ।।
धूपैः प्रदीपैः सिन्दूरैः कुङ्कुमैश्च विराजितम् ।। ५५ ।।
जले क्रीडोन्मुखा गोप्यो बभूवुः कौतुकेन च ।।
नग्नाः क्रीडाभिरासक्ताः श्रीकृष्णार्पितमानसाः ।। ५६ ।।
दृष्ट्वा कृष्णश्च वस्त्राणि द्रव्याणि विविधानि च ।।
वासांस्यादाय वस्तूनि चखाद शिशुभिः सह ।।५७।।
गत्वा दूरं च गोपालास्तस्थुः सर्वे मुदाऽन्विताः।।
वस्त्राणि पुंजीकृत्यादावूचुः स्कन्धेऽतिलोलुपाः ।। ५८ ।।
श्रीदामा च सुदामा च वसुदामा तथैव च ।।
सुबलश्च सुपार्श्वश्च शुभाङ्गः सुन्दरस्तथा ।। ५९ ।।
चन्द्रभानो वीरभानः सूर्यभानस्तथैव च ।।
वसुभानो रत्नभानो गोपाला द्वादश स्मृताः ।। 4.27.६० ।।
श्रीकृष्णो बलदेवश्च प्रधानाश्च चतुर्दश ।।
गोपा हरेर्वयस्याश्च कोटिशः कोटिशो मुने ।। ६१ ।।
वस्त्राण्यादाय ते सर्वे तस्थुरेकत्र दूरतः ।।
शतशः पुञ्जिकास्तत्र स्थापयामासुरुन्मुखाः ।। ६२ ।।
किंचिद्वस्त्रं समादाय कृत्वा च पुञ्जिकां मुदा ।।
समारुह्य कदम्बाग्रमुवाच गोपिका हरिः ।। ६३ ।।
श्रीकृष्ण उवाच ।।
भोभो गोपालिकाः सर्वा विनष्टा व्रतकर्मणि ।।
कृत्वा विधानं मद्वाक्यं श्रुत्वा क्रीडत मन्मथात् ।। ६४ ।।
संकल्पिते व्रतार्हे च मासे मङ्गलकर्मणि ।।
यूयं नग्नाः कथं तोये व्रताङ्गहानिकारिकाः ।। ६५ ।।
परिधेयानि वासांसि पुष्पमाल्यानि यानि च ।।
व्रतार्हाणि च वस्तूनि केन नीतानि वोऽधुना ।। ६६ ।।
व्रते तु नग्ना या स्नाति तां रुष्टो वरुणः स्वयम्।।
वरुणानुचराश्चक्रुर्वासोवस्तूपनिर्हृतिम् ।। ६७ ।।
कथं यास्यथ नग्नाश्च न व्रतस्या भविष्यति।।
व्रताराध्या कथं सा च वस्तूनि किं न रक्षति ।।६८।।
चिन्तां कुरुत तां पूज्यां तुष्टाव बलिरीश्वरीम् ।।
युष्माकमीदृशी देवी न शक्ता वस्तुरक्षणे ।। ६९ ।।
कथं व्रतफलं सा वा दातुं शक्ता सुरेश्वरी ।।
फलं प्रदातुं या शक्ता सा शक्ता सर्वकर्मणि ।। 4.27.७० ।।
श्रीकृष्णस्य वचः श्रुत्वा चिन्तामापुर्व्रजस्त्रियः ।।
ददृशुर्यमुनातीरं वस्त्रवस्तुविहीनकम् ।।७१।।
चक्रुर्विषादं तोये च नग्नास्ता रुरुदुर्भृशम् ।।
क्व गतानि च वस्त्राणि वस्तूनीत्यूचुरत्र नः ।। ७२ ।।
कृत्वा विषादं तत्रैव तमूचुर्गोपकन्यकाः ।।
पुटाञ्जलियुताः सर्वा भक्त्या विनयपूर्वकम् ।।७३ ।।
गोपालिका ऊचुः ।।
परिधेयानि वस्त्राणि किंकरीणां सदीश्वर ।।
निबोधयात्मानमेव स्पर्शं कर्तुं त्वमर्हसि ।। ७४ ।।
व्रतार्हाणि च वस्तूनि देवस्वानि च साम्प्रतम् ।।
अदत्तानि मोचितानि ग्रहीतुं वेदविद्वद ।।७५।।
देहि धौतानि धृत्वा च करिष्यामो व्रतं वयम्।।
वस्तुनाऽन्येन गोविन्द वस्तूनां भक्षणं कुरु ।। ७६।।
एतस्मिन्नन्तरे तत्र श्रीदामा वस्त्रपुञ्जिकाम् ।।
दर्शयित्वा च ताः सर्वा दूरं दुद्राव तत्पुरः ।। ७७ ।।
दृष्ट्वा सवस्त्रं गोपालं सर्वासामीश्वरी परा ।।
सर्वा वयस्याश्चाववाच कोपयुक्ता जलप्लुता ।।७८।।
श्रीराधिकोवाच ।।
हे सुशीले शशिकले हे चन्द्रमुखि माधवि ।।
कदम्बमाले हे कुन्ति यमुने सर्वमङ्गले।।७९ ।।
हे पद्ममुखि सावित्रि पारिजाते च जाह्नवि।।
सुधामुखि शुभे पद्मे हे गौरि हे स्वयंप्रभे ।। 4.27.८० ।।
कालिके कमले दुर्गे हे सरस्वति भारति ।।
अपूर्णे रति हे गंगे चाम्बिके सति सुन्दरि ।। ८१ ।।
कृष्णप्रिये मधुमति चम्पे चन्दननन्दिनि ।।
यूयं सर्वाः समुत्थाय बद्ध्वाऽऽनयत बल्लवम् ।।८२।।
सर्वा राधाज्ञया तूर्णं समुत्थाय जलात्क्रुधा ।।
प्रजग्मुर्गोपिका नग्ना योनिमाच्छाद्य पाणिना ।। ८३ ।।
एतासां सहचारिण्यो गोप्यस्तूर्णं सहस्रशः ।।
प्रजग्मुस्तेन रूपेण कोपादारक्तलोचनाः ।। ८४ ।।
वेगेन दुद्रुवुः सर्वाः श्रीदामानं च बालिकाः ।।
वेगेन च प्रधावन्तं बिभ्रतं वस्त्रपुंजिकाम् ।। ८५ ।।
जगाम शीघ्रं श्रीदामा यत्र गोपाः सहांशुकाः ।।
जवेन दुद्रुवुर्गोप्यस्तत्पश्चाद्बलसंयुताः ।। ८६ ।।
वस्त्रचोरांश्च गोपांश्च वेष्टयामासुराशु ताः ।।
भिया प्रदुद्रुवुर्बाला यत्र कृष्णः सहांशुकः ।। ८७ ।।
श्रीकृष्णसहितान्बालान्वरयामासुराशु च ।।
गोपिकानां भिया गोपा ददुर्वस्त्राणि माधवम् ।। ८८ ।।
माधवः स्थापयामास स्कन्धे स्कन्धे तरोस्तथा।।
कदम्बवृक्षः शुशुभे वस्त्रैर्नानाविधैरपि ।।८९ ।।
वस्त्राणां पुंजिकाः सर्वाः स्कन्धेषु विनिधाय च ।।
उवाच गोपिकाः कृष्णः परिहासपरं वचः ।। 4.27.९० ।।
श्रीकृष्ण उवाच ।।
भो भो गोपालिका नग्ना इदानीं किं करिष्यथ ।।
वस्त्रयाञ्चां प्रकर्तुं च कुरुताशु पुटाञ्जलिम् ।। ९१ ।।
गत्वा वदत युष्माकमीश्वरीमथ राधिकाम् ।।
करोतु शीघ्रं वस्त्राणां याञ्चां कृत्वा पुटाञ्जलिम् ।।९२।।
अन्यथाऽहं न दास्यामि युष्मभ्यमंशुकानि च ।।
युष्माकमीश्वरी राधा किं करिष्यति मेऽधुना ।।९३।।
व्रताराध्या च या देवी सा वा मे किं करिष्यति।।
इत्येवं कथितं सर्वं ब्रूत यूयं च राधिकाम् ।। ९४ ।।
श्रीकृष्णवचनं श्रुत्वा ताः सर्वा गोपकन्यकाः ।।
वीक्ष्य लोचनकोणेन प्रजग्मू राधिकान्तिकम् ।। ९५ ।।
चक्रुर्निवेदनं गत्वा यदुवाच हरिः स्वयम् ।।
श्रुत्वा जहास सा राधा बभूव कामपीडिता ।। ९६ ।।
श्रुत्वा तासां च वचनं पुलकाञ्चितविग्रहा ।।
न जगाम हरेः स्थानं व्रीडया सस्मिता सती ।।९७।।
जले योगासनं कृत्वा दध्यौ कृष्णपदाम्बुजम् ।।
ब्रह्मेशानन्तधर्माणां वन्द्यमीप्सितदं परम् ।। ९८ ।।
स्मारंस्मारं पदाम्भोजं साऽश्रुसंपूर्णलोचना ।।
भावातिरेकात्प्राणेशं तुष्टाव निर्गुणं परम् ।। ९९ ।।
।। राधिकोवाच ।। ।।
गोलोकनाथ गोपीश मदीश प्राणवल्लभ ।।
हे दीनबन्धो दीनेश सर्वेश्वर नमोऽस्तु ते ।। 4.27.१०० ।।
गोपेश गोसमूहेश यशोदानन्दवर्धन ।।
नन्दात्मज सदानन्द नित्यानन्द नमोऽस्तु ते ।। १०१ ।।
शतमन्योर्मन्युभग्न ब्रह्मदर्पविनाशक।।
कालीयदमन प्राणनाथ कृष्ण नमोऽस्तु ते।। १०२ ।।
शिवानन्तेश ब्रह्मेश ब्राह्मणेश परात्पर ।।
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मबीज नमोऽस्तु ते ।।१०३।।
चराचरतरोर्बीज गुणातीत गुणात्मक ।।
गुणबीज गुणाधार गुणेश्वर नमोऽस्तु ते ।।१०४।।
अणिमादिकसिद्धीश सिद्धेः सिद्धिस्वरूपक ।।
तपस्तपस्विंस्तपसा बीजरूप नमोऽस्तु ते ।। १०५ ।।
यदनिर्वचनीयं च वस्तु निर्वचनीयकम् ।।
तत्स्वरूप तयोर्बीजं सर्वबीज नमोऽस्तु ते ।।१०६।।
अहं सरस्वती लक्ष्मीर्दुर्गा गङ्गा श्रुतिप्रसूः ।।
यस्य पादार्चनान्नित्यं पूज्या तस्मै नमोनमः ।। ।। १०७ ।।
स्पर्शने यस्य भृत्यानां ध्यानेन च दिवानिशम् ।।
पवित्राणि च तीर्थानि तस्मै भगवते नमः ।। १०८ ।।
इत्येवमुक्त्वा सा देवी जले संन्यस्य विग्रहम् ।।
मनः प्राणांश्च श्रीकृष्णे तस्थौ स्थाणुसमा सती ।। १०९ ।।
राधाकृतं हरेः स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।।
हरिभक्तिं च दास्यं च लभेद्राधागतिं ध्रुवम् ।। 4.27.११० ।।
विपत्तौ यः पठेद्भक्त्या सद्यः संपत्तिमाप्नुयात् ।।
चिरकालगतं द्रव्यं हृतं नष्टं च लभ्यते ।।१११।।
वस्तुवृद्धिर्भवेत्तस्य प्रसन्नं मानसं परम् ।।
चिन्ताग्रस्तः पठेद्भक्त्या परां निर्वृतिमाप्नुयात् ।।११२।।
पतिभेदे पुत्रभेदे मित्रभेदे च संकटे ।।
मासं भक्त्या यदि पठेत्सद्यः संदर्शनं लभेत् ।। ११३ ।।
भक्त्या कुमारी स्तोत्रं च शृणुयाद्वत्सरं यदि ।।
श्रीकृष्णसदृशं कान्तं गुणवन्तं लभेद्ध्रुवम् ।।११४।।
इति श्रीब्रह्मवैवर्ते श्रीकृष्णजन्मखण्डे राधाकृतं श्रीकृष्ण स्तोत्रम् ।।
जलस्था राधिका ध्यात्वा श्रीकृष्णचरणाम्बुजम् ।।
स्तुत्वैवं चक्षुरुन्मील्य दृष्ट्वा कृष्णमयं जगत् ।। ११५ ।।
ददर्श यमुनातीरं वस्त्रद्रव्यमयं मुने ।।
दृष्ट्वा तन्द्राऽथवा स्वप्नमिति मेने च राधिका ।।११६।।
यत्र स्थाने यदाधारे यद्द्रव्यं संस्थितं पुरा ।।
वस्त्रैश्च सहितं सर्वं तत्प्रापुर्गोपकन्यकाः ।। ११७ ।।
जलादुत्थाय ताः सर्वा व्रतं कृत्वा मनीषितम् ।।
संप्राप्य च वरं देव्यस्ता सर्वाः स्वालयं ययुः ।। ११८ ।।
नारद उवाच ।।
व्रतस्य किं विधानं च किं नाम किं फलं प्रभो ।।
कानि द्रव्याणि देयानि का देया तत्र दक्षिणा ।। ११९ ।।
व्रतान्ते किं रहस्यं च बभूव सुमनोहरम् ।।
व्यासं कृत्वा महाभाग वद नारायणीं कथाम् ।। ।। 4.27.१२० ।।
सूत उवाच ।।
नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः ।।
कथां कथितुमारेभे कवीन्द्राणां गुरोर्गुरुः ।। १२१ ।।
नारायण उवाच ।।
सर्वं व्रतविधानं च मत्तो वत्स निशामय ।।
ख्यातं गौरीव्रतं नाम मार्गे मासि कृतं स्त्रिया ।। ।। १२२ ।।
पुंसां च धर्मकामार्थमोक्षदं कृष्णभक्तिदम्।।
देशभेदे प्रसिद्धं च व्रतं पौर्वापरं स्मृतम् ।।१२३ ।।
कामदं कामुकानां च फलं कान्तनिमित्तकम् ।।
उपोष्य पूर्वदिवसे वस्त्रं प्रक्षाल्य संयता ।। १२४ ।।
प्रातश्च मार्गसंक्रान्त्यां भक्त्या गत्वा सरित्तटम् ।।
धृत्वा धौते च स्नात्वा च नानाद्रव्येण कन्यका ।। १२५।।
देवषट्कं च संपूज्य कृत्वा चावाहनं घटे ।।
गणेशं च दिनेशं च वह्निं नारायणं शिवम् ।। १२६ ।।
दुर्गां पंचोपचारैश्च संपूज्य व्रतमारभेत् ।।
घटाधः पिण्डिकां कृत्वा चतुरस्रां सुविस्तृताम् ।।
चन्दनागुरुकस्तूरीकुङ्कुमैश्च सुसंस्कृताम् ।। १२७।।
निर्माय बालुकानां च दुर्गां दशभुजां पराम् ।।
धृत्वा कपाले सिन्दूरं तदधश्चन्दनेन्दुकम् ।।१२८।।
तां ध्यात्वाऽऽवाहयेद्देवीं ततो भूत्वा पुटाञ्जलिः ।।
इमं मन्त्रं पठित्वाऽऽदौ ततः पूजां समारभेत्।।१२९।।
हे गौरि शंकरार्धाङ्गि यथा त्वं शंकरप्रिया ।।
तथा मां कुरु कल्याणि कान्तकान्तां सुदुर्लभाम्।। 4.27.१३० ।।
इमं मन्त्रं पठित्वा तु ध्यायेद्देवीं जगत्प्रसूम् ।।
ध्यानं तत्सामवेदोक्तं निगूढं सर्वकामदम् ।। १३१ ।।
शृणु नारद वक्ष्यामि मुनीन्द्राणां च दुर्लभम् ।।
ध्यायन्त्यनेन सिद्धाश्च दुर्गां दुर्गतिनाशिनीम् ।।१३२।।
शिवां शिवप्रियां शैवां शिववक्षःस्थलस्थिताम् ।।
ईषद्धास्यप्रसन्नास्यां सुप्रतिष्ठां सुलोचनाम् ।। १३३ ।।
नवयौवनसंपन्नां रत्नाभरणभूषिताम् ।।
रत्नकङ्कणकेयूररत्ननूपुरभूषिताम्।ा१३४।।
रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम्।।
मालती माल्यसंसक्तकबरभ्रमरान्विताम् ।। १३५ ।।
सिन्दूरतिलकं चारुकस्तूरीबिन्दुना सह ।।
वह्निशुद्धांशुकां रत्नकिरीटां सुमनोहराम् ।। ।। १३६ ।।
मणीन्द्रसारसंसक्तरत्नमालासमुज्ज्वलाम् ।।
पारिजातप्रसूनानां मालाजालानुलम्बिताम् ।। १३७ ।।
सुपीनकठिनश्रोणीं बिभ्रतीं च स्तनानताम् ।।
नवयौवनभारौघादीषन्नम्रां मनोहराम् ।। १३८ ।।
ब्रह्मादिभिः स्तूयमानां सूर्यकोटिसमप्रभाम् ।।
पक्वबिम्बाधरोष्ठीं च चारुचम्पकसन्निभाम्।।१३९।।
मुक्तापङ्क्तिविनिन्द्यैकदन्तराजिविराजिताम् ।।
मुक्तिकामप्रदां देवीं शरच्चन्द्रमुखीं भजे।। ।। 4.27.१४० ।।
ध्यात्वैवं मस्तके पुष्पं विन्यस्य च व्रती मुदा ।।
पुष्पं गृहीत्वा भक्त्या च पुनर्ध्यात्वा च पूजयेत् ।। १४१ ।।
दत्त्वा षोडशोपचारान्प्रहृष्टं तत्र नित्यशः ।।
पूर्वोक्तेनैव मन्त्रेण मुदा भक्त्या व्रते व्रती ।।१४२।।
पूर्वोक्तेनैव स्तोत्रेण स्तुत्वा च प्रणमेत्तदा ।।
कृत्वा प्रणामं भक्त्या च संयतः शृणुयात्कथाम् ।। १४३ ।।
नारद उवाच ।।
व्रतं व्रतविधानं च फलं च स्तोत्रमद्भुतम् ।।
अधुना श्रोतुमिच्छामि गौरीव्रतकथां शुभाम् ।। १४४ ।।
व्रतं केन कृतं पूर्वं भूमौ केन प्रकाशितम् ।।
एतत्सर्वं सुविस्तार्य वद संदेहभञ्जन ।। ।। १४५ ।।
श्रीनारायण उवाच ।।
कुशध्वजस्य हि सुता नाम्ना वेदवती सती ।।
तया कृतं व्रतमिदं महातीर्थे च पुष्करे ।। १४६ ।।
समाप्तिदिवसे साक्षाद्बभूव जगदम्बिका ।।
योगिनीलक्षसंयुक्ता सूर्यकोटिसमप्रभा ।। १४७ ।।
शातकुम्भविनिर्माणरथस्था परमेश्वरी ।।
ईषद्धास्यप्रसन्नास्या तामुवाच सुसंयुताम् ।। १४८ ।।
पार्वत्युवाच ।।
हे वेदवति भद्रं ते वरं वृणु यथेप्सितम् ।।
तव व्रतेन तुष्टाऽहं तुभ्यं दास्यामि वाञ्छितम् ।। १४९ ।।
पार्वतीवचनं श्रुत्वा दृष्ट्वा तां हृष्टमानसाम् ।।
पुटाञ्जलियुता साध्वी प्रणम्योवाच नारद ।। 4.27.१५० ।।
वेदवत्युवाच ।।
देवि नारायणं कान्तं मह्यं देहि मनीषितम् ।।
वरेऽन्यस्मिन्स्पृहा नास्ति दृढां भक्तिं च तत्पदे ।। १५१ ।।
श्रुत्वा वेदवतीवाक्यं प्रहस्य जगदम्बिका ।।
अवरुह्य रथात्तूर्णं तामुवाच हरिप्रियाम् ।। १५२ ।।
पार्वत्युवाच ।।
ज्ञातं सर्वं जगन्मातस्त्वं च लक्ष्मीः स्वयं सती ।।
भारतं पादरजसा पूतं कर्तुं समागता ।।
त्वत्पादरजसा साध्वि सद्यः पूता वसुंधरा ।। १५३ ।।
निखिलानि च तीर्थानि पूतानि परमेश्वरी ।।
व्रतं ते लोकशिक्षार्थं तपश्चर तपस्विनि ।। १५४ ।।
नारायणस्य कान्ता त्वं प्रिया जन्मनि जन्मनि ।।
भारावतरणे विष्णुर्वसुधामागमिष्यति ।। १५५ ।।
रामो दाशरथिः पूर्णः कर्तुं दस्युविनिग्रहम् ।।
ब्रह्मशापाच्च च्युतयोर्मोक्षणाय च भक्तयोः ।। १५६ ।।
अयोध्यायां च त्रेतायामाविर्भावो हरेरपि ।।
त्वमेव मिथिलां गच्छ विधाय शिशुविग्रहम् ।। १५७ ।।
त्वामिमां प्राप्य जनकोऽप्ययोनिसंभवां सुताम् ।।
पालयिष्यति यत्नेन सीता त्वं च भविष्यसि ।। १५८ ।।
गत्वा रामोऽपि मिथिलां त्वद्विवाहं करिष्यति ।।
नारायणस्य कान्ता त्वं कल्पे कल्पे भविष्यसि ।। १५९ ।।
इत्युक्त्वा तां समालिङ्ग्य पार्वती स्वालयं ययौ।।
गत्वा सा मिथिलां साध्वी शिशुरूपं विधाय च ।।4.27.१६०।।
लाङ्गलस्य च रेखायां सुखात्तस्थौ च मायया ।।
विलोक्य जनकस्तां च नग्नां मुद्रितलोचनाम् ।। १६१ ।।
तप्तकाञ्चनवर्णां च रुदन्तीं तेजसाऽन्विताम् ।।
दृष्ट्वा तां च गृहीत्वा च कृत्वा वक्षसि नारद ।। १६२ ।।
गच्छन्तं प्रति तत्रैव वाग्बभूवाशरीरिणी ।।
अयोनिसंभवां कन्यां कमलां ग्रहणं कुरु ।। १६३ ।।
नारायणस्ते जामाता भवितेत्येव मे वचः ।।
श्रुत्वा तदा देववाणीं गृहीत्वा कन्यकामृषिः ।। १६४ ।।
गत्वा ददौ स्वकान्तायै पालनाय मुदाऽन्वितः ।।
सा लब्धयौवना प्राप रामं दाशरथिं सती ।। १६५ ।।
व्रतस्यास्य प्रभावेण कान्तं त्रिजगतां पतिम् ।।
प्रकाशितं वशिष्ठेन पृथिव्यां भक्तिभावतः ।। १६६ ।।
राधा कृत्वा व्रतमिदं श्रीकृष्णं प्राणवल्लभम् ।।
गोपाङ्गनाश्च तं प्रापुर्व्रतस्यास्य प्रभावतः ।। १६७ ।।
इत्येवं कथिता विप्र कथा गौरीव्रतस्य च ।।
भारते च व्रतमिदं या करोति कुमारिका ।।
स्वामिनं कृष्णतुल्यं च सा प्राप्नोति न संशयः ।। १६८ ।।
श्रीनारायण उवाच ।।
एवं व्रतं च चक्रुस्ता यावन्मासं च गोपिकाः ।।
पूर्वस्तोत्रेण तां देवीं तुष्टुवुश्च दिनेदिने ।। १६९ ।।
समाप्तिदिवसे गोप्यो व्रतं कृत्वा मुदाऽन्विताः ।।
कण्वशाखोक्तस्तोत्रेण तुष्टुवुः परमेश्वरीम् ।। 4.27.१७० ।।
येन स्तोत्रेण तां स्तुत्वा सीता सत्यपरायणा ।।
सद्यः संप्राप कान्तं च रामं राजीवलोचनम् ।। १७१ ।।
जानक्युवाच ।।
शक्तिस्वरूपे सर्वेषां सर्वाधारे गुणाश्रये ।।
सदा शंकरयुक्ते च पतिं देहि नमोऽस्तु ते ।।१७२।।
सृष्टिस्थित्यंतरूपेण सृष्टिस्थित्यन्तरूपिणी ।।
सृष्टिस्थित्यन्तबीजानां बीजरूपे नमोऽस्तु ते ।।१७३।।
हे गौरि पतिमर्मज्ञे पतिव्रतपरायणे ।।
पतिव्रते पतिरते पतिं देहि नमोस्तु ते ।। १७४ ।।
सर्वमंगलमाङ्गल्ये सर्वमंगलसंयुते ।।
सर्वमंगलबीजे च नमस्ते सर्वमंगले ।। १७५ ।।
सर्वप्रिये सर्वबीजे सर्वाशुभविनाशिनि ।।
सर्वेशे सर्वजनके नमस्ते शंकरप्रिये ।। १७६ ।।
परमात्मस्वरूपे च नित्यरूपे सनातनि ।।
साकारे च निराकारे सर्वरूपे नमोऽस्तु ते ।। १७७ ।।
क्षुत्तृष्णेच्छा दया श्रद्धा निद्रा तन्द्रा स्मृतिः क्षमा ।।
एतास्तव कलाः सर्वा नारायणि नमोऽस्तु ते ।। १७८ ।।
लज्जा मेधा तुष्टिपुष्टी शान्तिसंपत्तिवृद्धयः ।।
एतास्तव कलाः सर्वाः सर्वरूपे नमोऽस्तु ते ।। १७९ ।।
दृष्टादृष्टस्वरूपे च तयोर्बीजफलप्रदे ।।
सर्वानिर्वचनीये च महामाये नमोऽस्तु ते ।। 4.27.१८० ।।
शिवे शंकरसौभाग्ययुक्ते सौभाग्यदायिनि ।।
हरिं कान्तं च सौभाग्यं देहि देवि नमोऽस्तु ते ।। १८१ ।।
स्तोत्रेणानेन याः स्तुत्वा समाप्तिदिवसे शिवाम् ।।
नमन्ति परया भक्त्या ता लभन्ते हरिं पतिम्।।१८२।।
इह कान्तसुखं भुक्त्वा पतिं प्राप्य परात्परम्।।
दिव्यं स्यन्दनमारुह्य यात्यन्ते कृष्णसन्निधिम् ।। १८३ ।।
इति श्रीब्रह्मवैवर्ते सीताकृतं पार्वतीस्तोत्रम् ।।
समाप्तिदिवसे राधा गोपीभिः सह संयुता ।।
देवीं प्रणम्य स्तुत्वा च व्रतं पूर्णं चकार ह ।। १८४ ।।
गोसहस्रं ब्राह्मणेभ्यः सुवर्णशतकं मुदा ।।
विप्राय दक्षिणां दत्त्वा स्वगृहं गन्तुमुद्यता ।। १८९ ।।
ब्राह्मणानां सहस्रं च भोजयामास सादरम् ।।
वाद्यानि वादयामास भिक्षुकाय धनं ददौ ।। १८६ ।।
एतस्मिन्नन्तरे तत्र दुर्गा दुर्गार्तिनाशिनी ।।
आविर्बभूव गगनाज्ज्वलन्ती ब्रह्मतेजसा ।। १८७ ।।
ईषद्धास्यप्रसनास्या योगिनीशतसंयुता ।।
सिंहस्था च दशभुजा रत्नालंकारभूषिता ।।१८८।।
शातकुम्भमयाद्दिव्याद्रत्नसारपरिच्छदात् ।।
अवरुह्य रथात्तूर्णमालिङ्ग्योरसि राधिकाम् ।।१८९।।
दृष्ट्वा गोपाङ्गना देवीं प्रणेमुश्च मुदाऽन्विताः ।।
आशिषं युयुजे दुर्गा वाञ्छासिद्धिर्भविष्यति ।। 4.27.१९० ।।
गोपिकाभ्यो वरं दत्त्वा ताः संभाष्य च सादरम् ।।
उवाच राधिकां दुर्गा स्मेराननसरोरुहा ।। १९१ ।।
पार्वत्युवाच ।।
राधे सर्वेश्वरप्राणादधिके जगदम्बिके ।।
व्रतं ते लोकशिक्षार्थं मायामानुषरूपिणि ।। १९२ ।।
गोलोकनाथं गोलोकं श्रीशैलं गिरिजातटम् ।।
श्रीरासमण्डलं दिव्यं वृन्दावनमनोहरम् ।। १९३ ।।
चरितं रतिचोरस्य स्त्रीणां मानसहारकम् ।।
विदुषः कामशास्त्राणां किंस्वित्स्मरसि सुन्दरि ।। १९४ ।।
श्रीकृष्णार्धाङ्गसंभूता कृष्णतुल्या च तेजसा ।।
तवांशकलया देव्यः कथं त्वं मानुषी सती ।। १९५ ।।
भवती च हरेः प्राणा भवत्याश्च हरिः स्वयम् ।।
वेदे नास्ति द्वयोर्भेदः कथं त्वं मानुषी सती ।। १९६ ।।
षष्टिवर्षसहस्राणि ब्रह्मा तप्त्वा तपः पुरा ।।
न ते ददर्श पादाब्जं कथं त्वं मानुषी सती ।। १९७ ।।
कृष्णाज्ञया च त्वं देवि गोपीरूपं विधाय च ।।
आगताऽसि महीं शान्ते कथं त्वं मानुषी सती ।। १९८ ।।
सुयज्ञो हि नृपश्रेष्ठो मनुवंशसमुद्भवः ।।
त्वत्तो जगाम गोलोकं कथं त्वं मानुषी सती ।। १९९ ।।
त्रिःसप्तकृत्वो निर्भूपां चकार पृथिवीं भृगुः ।।
तव मन्त्रेण कवचात्कथं त्वं मानुषी सती ।। 4.27.२०० ।।
शंकरात्प्राप्य त्वन्मन्त्रं सिद्धं कृत्वा च पुष्करे ।।
जघान कार्तवीर्यं च कथं त्वं मानुषी सती ।। २०१ ।।
बभञ्ज दर्पाद्दन्तं च गणेशस्य महात्मनः ।।
त्वत्तो नाम भयं चक्रे कथं त्वं मानुषी सती ।। २०२ ।।
मय्युद्धतायां कोपेन भस्मसात्कर्तुमीश्वरः ।।
ररक्षागत्य मत्प्रीत्या कथं त्वं मानुषी सती ।। २०३ ।।
कल्पे कल्पे तव पतिः कृष्णो जन्मनि जन्मनि ।।
व्रतं लोकहितार्थाय जगन्मातस्त्वया कृतम् ।। २०४ ।
अहो श्रीदामशापेन भारावतरणेन च ।।
भूमौ तवाधिष्ठानं च कथं त्वं मानुषी सती ।। २०५ ।।
अयोनिसंभवा त्वं च जन्ममृत्युजरापहा ।।
कलावतीसुता पुण्या कथं त्वं मानुषी सती ।। २०६ ।।
त्रिषु मासेष्वतीतेषु मधुमासे मनोहरे ।।
निर्जने निर्मले रात्रौ सुयोग्ये रासमण्डले ।। २०७ ।।
सर्वाभिर्गोपिकाभिश्च सार्धं वृन्दावने वने ।।
हर्षेण हरिणा सार्धं क्रीडा ते भविता सति ।। २०८ ।।
विधात्रा लिखिता क्रीडा कल्पे कल्पे महीतले ।।
तव श्रीहरिणा सार्धं केन राधे निवार्यते ।। २०९ ।।
यथा सौभाग्ययुक्ताऽहं हरस्य श्रीहरिप्रिये ।।
तथा सौभाग्ययुक्ता त्वं भव कृष्णस्य सुन्दरि ।। 4.27.२१० ।।
यथा क्षीरेषु धावल्यं यथा वह्नौ च दाहिका ।।
भुवि गन्धो जले शैत्यं तथा कृष्णे स्थितिस्तव ।। २११ ।।
देवी वा मानुषी वाऽपि गान्धर्वी राक्षसी तथा ।।
त्वत्तः परा च सौभाग्या न भूता न भविष्यति ।। २१२ ।।
परात्परो गुणातीतो ब्रह्मादीनां च वन्दितः ।।
स्वयं कृष्णस्तवाधीनो मद्वरेण भविष्यति ।। २१३ ।।
ब्रह्मानन्तशिवाराध्यो भविता त्वद्वशः सति ।।
ध्यानासाध्यो दुराराध्यः सर्वेषामपि योगिनाम् ।।२१४।।
त्वं च भाग्यवती राधे स्त्रीजातिषु न ते परा ।।
कृष्णेन सार्धं पश्चात्त्वं गोलोकं च गमिष्यसि ।।२१५।।
इत्युक्त्वा पार्वती सद्यस्तत्रैवान्तर्दधे मुने ।।
सार्धं गोपालिकाभिश्च राधिका गन्तुमुद्यता।।२१६।।
एतस्मिन्नन्तरे कृष्णो जगाम राधिकापुरः।।
राधा ददर्श श्रीकृष्णं किशोरं श्यामसुन्दरम्।।२१७।।
पीतवस्त्रपरीधानं नानालंकारभूषितम् ।।
आजानुमालतीमालावनमालाविभूषितम्।। २१८ ।।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम्।।
चन्दनोक्षितसर्वाङ्गं शरत्पङ्कजलोचनम् ।।२१९।।
शरत्पार्वणचन्द्रास्यं सद्रत्नमुकुटोज्ज्वलम् ।।
पक्वदाडिमबीजाभदशनं सुमनोहरम् ।। 4.27.२२० ।।
विनोदमुरलीहस्तन्यस्तलीलासरोरुहम् ।।
कोटिकन्दर्पलावण्यं लीलाधाममनोहरम् ।।२२१।।
गुणातीतं स्तूयमानं ब्रह्मानन्तशिवादिभिः।।
ब्रह्मस्वरूपं ब्रह्मण्यं श्रुतिभिश्चानिरूपितम्।।२२२।।
अव्यक्तमक्षराव्यक्तं ज्योतीरूपं सनातनम् ।।
माङ्गल्यं मङ्गलाधारं मङ्गलं मङ्गलप्रदम् ।। २२३ ।।
दृष्ट्वा तदद्भुतं रूपं संभ्रमात्प्रणनाम तम् ।।
तं दृष्ट्वा मूर्च्छिता राधा कामबाणप्रपीडिता ।। २२४ ।।
दर्शंदर्शं मुखाम्भोजं सस्मिता वक्रलोचना ।।
मुखस्याच्छादनं चक्रे व्रीडया च पुनः पुनः ।।२२५।।
दृष्ट्वा हरिस्तामुवाच प्रसन्नवदनेक्षणः ।।
गोपालिकासमूहानां सर्वेषां पुरतः स्थितः ।। २२६ ।।
श्रीकृष्ण उवाच ।। ।।
प्राणाधिके राधिके त्वं वरं वृणु मनीषितम् ।।
भो भो गोपालिका सर्वा वरं वृणुत वाञ्छितम्।।२२७।।
कृष्णस्य वचनं श्रुत्वा वरं वव्रे च राधिका ।।
गोपालिकाः प्रहृष्टाश्च सर्वसंकल्पपादपात् ।। २२८ ।।
राधिकोवाच ।।
त्वत्पादाब्जे मन्मनोलिः सततं भ्रमतु प्रभो ।।
पातुं भक्तिरसं पद्मे मधुपश्च यथा मधु।।२२९ ।।
मदीय प्राणनाथस्त्वं भव जन्मनि जन्मनि ।।
त्वदीयचरणाम्भोजे देहि भक्तिं सुदुर्लभाम्।। 4.27.२३० ।।
तव स्मृतौ गुणे चित्तं स्वप्ने ज्ञाने दिवानिशम् ।।
भवेन्निमग्नं सततमेतन्मम मनीषितम् ।। २३१ ।।
गोपालिका ऊचुः ।।
यथा राधां तथा नश्च प्राणबन्धो दिवानिशम् ।।
भविष्यसि प्राणनाथः पास्यसि प्रतिजन्मनि ।। २३२ ।।
आसां च वचनं श्रुत्वा तथाऽस्त्वेवमुवाच ह ।।
प्रसन्नवदनः श्रीमान्यशोदानन्दवर्धनः ।। २३३ ।।
क्रीडापद्मं राधिकायै सहस्रदलसंयुतम् ।।
ललितां मालतीमालां ददौ प्रीत्या जगत्पतिः ।।२३४।।
मालासमूहं पुष्पाणि गोपीभ्यो गोपिकापतिः ।।
प्रहस्य परमप्रीत्या प्रददावित्युवाच ह ।। २३९ ।।
श्रीकृष्ण उवाच ।।
त्रिषु मासेष्वतीतेषु यूयं क्रीडां मया सह ।।
रासमण्डलरम्ये च वृन्दारण्ये करिष्यथ ।। २३६ ।।
यथाऽहं च तथा यूयं नाहं भेदः श्रुतौ श्रुतः ।।
प्राणोऽहं चैव युष्माकं यूयं प्राणा मम प्रभोः ।। २३७ ।।
व्रतं वो लोकरक्षार्थं न हि स्वार्थमिदं प्रियाः ।।
सहागताश्च गोलोकाद्गमनं च मया सह ।। २३८ ।।
गच्छत स्वालयं शीघ्रं वोऽहं जन्मनि जन्मनि ।।
प्राणेभ्योऽपि गरीयस्यो यूयं मे नात्र संशयः ।। २३९ ।।
इत्युक्त्वा श्रीहरिस्तत्र तस्थौ सूर्यसुतातटे ।।
तस्थुर्गोपालिकाः सर्वा वीक्ष्य कृष्णं पुनःपुनः ।।4.27.२४०।।
सर्वाः प्रहृष्टवदनाः सस्मिता वक्रलोचनाः ।।
प्रीत्या चक्षुश्चकोराभ्यां मुखचन्द्रं पपुर्हरेः ।। २४१ ।।
ताः शीघ्रं प्रययुर्गेहं जयं दत्त्वा पुनःपुनः ।।
हरिश्च शिशुभिः सार्द्धं प्रसन्नः स्वालयं ययौ ।। २४२ ।।
इत्येवं कथितं सर्वं हरेश्चरितमङ्गलम् ।।
गोपीनां वस्त्रहरणं सर्वलोकसुखावहम् ।। २४३ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे गोपिकावस्त्रहरणप्रस्तावो नाम सप्तविंशोऽध्यायः ।। २७ ।।

सम्पाद्यताम्

तुलनीय - श्रीमद्भावतपुराणम् १०.२२