ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०३०

← अध्यायः ०२९ श्रीकृष्णजन्मखण्डः
अध्यायः ०३०
वेदव्यासः
अध्यायः ०३१ →


।। नारद उवाच ।। ।।
महामुने रहस्यं च श्रुतं ब्रह्मन्किमद्भुतम् ।।
मृते मुनौ किं चकार श्रीकृष्णो भक्तवत्सलः ।। १ ।।
श्रीनारायण उवाच ।।
दृष्ट्वा मृतं मुनिं कृष्णः संस्कारं कर्तुमुद्यतः ।।
कृत्वा वक्षसि तद्देहं रुरोदोच्चैर्यथा नरः ।।२।।
बाहुभ्यां च समाश्लिष्य पिपेषोद्रिक्तमोहतः ।।
निर्गतं भस्मनिकरं शवाद्वज्रांगघर्षणात् ।। ३ ।।
रक्तमांसास्थिहीनं तच्छरीरं च महात्मनः ।।
षष्टिवर्षसहस्राणि निराहारः कृतो मुने ।। ४ ।।
दग्धं लोहितमांसास्थि ज्वलता जठराग्निना ।।
बाह्यज्ञानविहीनस्य हरिपादाब्जचेतसः ।। ५ ।।
चितां चन्दनकाष्ठेन निर्माय मधुसूदनः ।।
कृत्वाऽग्निकार्यं तत्रैव स्थापयामास शोकतः ।। ६ ।।
ददौ चितायामग्निं च काष्ठं दत्त्वा शवोपरि ।।
ज्वलितायां चिता यां च मूर्च्छामाप क्षणं विभुः ।।७।।
तद्देहे भस्मसाद्भूते नेदुर्दुन्दुभयो दिवि ।।
बभूव पुष्पवृष्टिश्च तत्क्षणाद्गगनादहो ।। ८ ।।
एतस्मिन्नन्तरे तत्र रत्नसारविनिर्मितम् ।।
स्यन्दनं च मनोयायि वस्त्रमाल्यपरिच्छदम् ।। ९ ।।
पार्षदप्रवरैर्युक्तं श्रीकृष्णसदृशैर्वरैः ।।
आविर्बभूव गोलोकात्सुन्दरं पुरतो हरेः ।। 4.30.१० ।।
अवरुह्य रथात्तूर्णं पार्षदप्रवरा हरेः ।।
सर्वे समानरूपास्ते प्रणम्य राधिकेश्वरौ ११ ।।
धृतवन्तं सूक्ष्मदेहं प्रणमय्य मुनीश्वरम् ।।
रथे कृत्वा तु तं देहं जम्मुर्गोलोकमुत्तमम् ।। १२ ।।
गते मुनीन्द्रे गोलोकं वृन्दावनविनोदिनी ।।
बभूव विस्मिता साध्वी पप्रच्छ जगदीश्वरम् ।। १३ ।।
श्रीराधिकोवाच ।।
कोऽयं नाथ मुनिश्रेष्ठः सर्वावयवव क्रिमः ।।
अतिखर्वजनाकारस्तेजीयानतिकुत्सितः ।। १४ ।।
कथं वा निर्गतं भस्म देहादस्य किमद्भुतम् ।।
साक्षाद्विलीनं यत्तेज स्त्वत्पादाब्जेऽनलोपमम् ।। १५ ।।
रथस्थः पुण्यवान्सद्यो गोलकं च जगाम ह ।।
स्वात्मारामस्य यद्धेतो रोदनं ते बभूव ह ।। १६ ।।
त्वया कृतं च सत्कारमश्रुपूर्णेन चक्षुषा ।।
सर्वं विवरणं तूर्णं संव्यस्य कथय प्रभो ।। १७ ।।
राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः
कथां कथितुमारेभे युगान्तरगतामपि ।। १८ ।।
श्रीकृष्ण उवाच ।।
रहस्यमष्टावक्रीयं विख्यातं सर्वतः प्रिये ।।
पश्चाच्छ्रोष्यसि कालेन प्रसङ्गे विदुषां मुखात् ।।१९।।
अष्टावक्रो मुनीन्द्रोऽपि विख्यातो भुवनत्रये ।।
परिपूर्णं यद्यशसा जन्मना तज्जगत्त्रयम्।।4.30.२०।।
कृष्णस्य वचनं श्रुत्वा विमनस्का हरिप्रिया ।।
उवाच मधुरं यत्नाच्छुष्ककण्ठोष्ठतालुका ।। २१ ।।
राधिकोवाच ।।
यत्तृषालोर्मनः पूर्ण न बभूव सुधाम्बुधौ ।।
स वितृप्तो भवति किं गोष्पदोदकपानतः ।। २२ ।।
वेदानां वेदवक्तॄणां विधातुर्जनकस्य च ।।
महाविष्णोरीश्वरस्त्वं कोऽन्यो वक्ताऽस्ति त्वत्परः ।।२३।।
राधिकावचनं श्रुत्वा तुष्टः कृष्णो बभूव ह ।।
उवाच गोपनीयं च रहस्यं परमाद्भुतम् ।। २४ ।।
श्रीकृष्ण उवाच ।।
शृणु कान्ते प्रवक्ष्येऽहमितिहासं पुरातनम् ।।
श्रवणात्कथनाद्यस्य सर्वं पापं प्रणश्यति ।। २५ ।।
महाविष्णोर्नाभिपद्माद्बभूव जगतां विधिः ।।
ममांशस्य मत्कलया जलाकीर्णे जगत्त्रये ।। २६ ।।
पुत्रा बभूवुश्चत्वारो ब्रह्मणो मानसात्पुरा ।।
नारायणपराः सर्वे ज्वलन्तो ब्रह्मतेजसा ।। २७ ।।
शिशवः पञ्चवर्षीया नग्ना अज्ञानिनो यथा ।।
बाह्यज्ञानविहीनाश्च ब्रह्मतत्त्वविशारदाः ।। २८ ।।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।।
सनत्कुमारो भगवानेते चत्वार एव च ।।२९।।
तानुवाच जगद्धाता सृष्टिं कुरुत पुत्रकाः ।।
ते न तस्थुः पितुर्वाक्ये प्रययुस्तपसे मम ।।4.30.३०।।
विधाता विमनस्कश्च तनयेषु गतेषु च ।।
पितुर्दुःखाय प्रभवेत्पुत्रश्चेदवचस्करः ।। ३१ ।।
ज्ञानेन निर्ममे पुत्रान्स्वाङ्गेषु च तपोधनान् ।।
वेदवेदाङ्गविज्ञांश्च ज्वलतो ब्रह्मतेजसा ।।३२।।
अत्रिः पुलस्त्यः पुलहो मरीचिर्भृगुरङ्गिराः ।।
क्रतुर्वसिष्ठो वोढुश्च कपिलश्चासुरिः कविः ।।३३।।
शङ्कुः शङ्खः पञ्चशिखः प्रचेतास्ते तपोधनाः ।।
बहुकालं तपस्तप्त्वा चक्रुः सृष्टिं तदाज्ञया ।। ३४ ।।
कलत्रवन्तस्ते सर्वे संसारं कर्तुमु न्मुखाः ।।
बभूवुः पुत्रपौत्राश्च सर्वेषां च तपस्विनाम्।। ३९।।
तदस्तु च कथा बह्वी मुनिवंशानुकीर्तनी ।।
चार्वी पुण्यस्वरूपा च प्रकृतं शृणु सुन्दरि ।। ३६ ।।
प्रचेतसः सुतः श्रीमानसितो मुनिपुङ्गवः ।।
सकलत्रस्तपस्तेपे दिव्यं वर्षसहस्रकम् ।। ३७ ।।
न बभूव सुतस्तस्य प्राणांस्त्यक्तुं समुद्यतः ।।
तं सम्बोद्धुं बभूवाथ सत्या वागशरीरिणी।।३८।।
कथं त्यजसि प्राणांस्त्वं गच्छ शङ्करसन्निधिम् ।।
सिद्धं कुरु गृहीत्वा च मन्त्रं शङ्करवक्त्रतः ।। ३९ ।।
मन्त्राधिष्ठातृदेवीं ते सद्यः साक्षाद्भविष्यति ।।
वरेणाभीष्टदेव्याश्च पुत्रस्ते भविता धुवम् ।। 4.30.४० ।।
श्रुत्वैतच्चरितं विप्रो जगाम शिवसन्निधिम् ।।
योगिनामप्यगम्यं च शिवलोकं निरामयम् ।। ४१ ।।
सकलत्रो यथा योगी तुष्टाव योगिनां गुरुम् ।।
पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकन्धरः ।।४२।।
असित उवाच ।।
जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च ।।
योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ।। ४३ ।।
मृत्योमृर्त्युस्वरूपेण मृत्युसंसारखण्डन।।
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ।। ४४ ।।
कालरूपं कलयतां कालकालेश कारण ।।
कालादतीत कालस्य कालकाल नमोऽस्तु ते ।। ४५ ।।
गुणातीत गुणाधार गुणबीज गुणात्मक ।।
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ।। ४६ ।।
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।।
ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोस्तु ते ।। ४७ ।।
इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।।
दीनवत्साश्रुनेत्रश्च पुलकां चितविग्रहः ।। ४८ ।।
असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।।
वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ।। ४९ ।।
स लभेद्वै ष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।।
भवेदनाढ्यो दुःखी च मूको भवति पण्डितः ।। 4.30.५० ।।
अभार्यो लभते भार्यां सुशीलां च पतिव्र ताम् ।।
इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ।। ५१ ।।
इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।।
प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ।। ५२ ।।
श्रीकृष्ण उवाच ।।
समाकर्ण्य मुनेः स्तोत्रं भगवाञ्छंकरः स्वयम् ।।
उवाच ब्रह्मणः पुत्रं स्वभक्तं भक्तव त्सलः ।। ५१३ ।।
शंकर उवाच ।।
स्थिरो भव मुनिश्रेष्ठ जानामि तव वाञ्छितम् ।।
पुत्रस्ते भविता सत्यं मदंशेन च मत्समः ।।५४।।
दास्यामि मन्त्रमतुलं सर्वेषां च सुदुर्लभम् ।।
इत्युक्त्वा च ददौ मन्त्रं तवैव षोडशाक्षरम् ।। ५५ ।।
स्तोत्रं पूजाविधानं च कवचं परमाद्भुतम् ।।
संसारविजयं नाम पुरश्चरणपूर्वकम् ।।५६।।
वरं दातुमिष्टदेवी प्रत्यक्षा भवितेति च ।।
इत्युक्त्वा विरतो रुद्रः स तं नत्वा जगाम ह ।। ५७ ।।
जजाप परमं मन्त्रं सोऽसितः शतवत्सरम् ।।
साक्षाद्भूत्वा वरस्तस्मै त्वया दत्तः पुरा सति ।। ५८ ।।
पुत्रस्ते भविता सत्यं महाज्ञानी सुतेति च ।।
वरं दत्त्वा त्वमगमो गोलोकं मम सन्निधिम् ।। ५९ ।।
कालेन च सुतस्तस्य शिवांशेन बभूव ह ।।
ब्रह्मिष्ठो देवलो नाम्ना कन्दर्पसमसुन्दरः ।।4.30.६० ।।
सुयज्ञनृपतेः कन्यां रत्नमालावतीं मुदा ।।
तां सुन्दरीं विवाहेन जगृहे सर्वमोहिनीम् ।। ६१ ।।
स्थाने स्थाने च रहसि शतवर्षं तया सह ।।
स रेमे निपुणः श्रेष्ठः स्त्रीणां रमणकर्मणि ।। ६२ ।।
कालान्तरे स विरतो बभूव मुनिपुंगवः ।।
सुखं सर्वं परित्यज्य धर्मिष्ठः श्रीहरिं स्मरन् ।। ६३ ।।
उत्थाय रात्रौ शयनाद्विरक्तश्च तपोधनः ।।
स ययौ तपसे कान्ते गन्धमादनपर्वते ।।६४।।
निद्रां त्यक्त्वा च तत्कान्ता न दृष्ट्वा स्वामिनं सती ।।
विललाप भृशं शोकात्प्रदग्धा विरहाग्निना।।६५।।
उत्तिष्ठन्ती निर्विशन्ती रुरोदोच्चैर्मुहुर्मुहुः ।।
तप्तपात्रे यथा धान्यं बभूव तन्मनस्तदा ।। ६६ ।।
आहारं च परित्यज्य प्राणांस्तत्याज सुन्दरी ।।
चकार तत्सुतस्तस्याः कर्म निर्हरणादिकम् ।।६७।।
तपश्चकार स मुनिर्गन्धमादनगह्वरे ।।
दिव्यं वर्षसहस्रं च मम भक्तो जितेन्द्रियः ।।६८।।
तं ददर्श ह दैवेन रम्भा शृंगारलोलुपा।।
अतीवसुन्दरं शान्तं कन्दर्पमिव सुन्दरम् ।। ६९ ।।
सा च तं कथयामास निर्जने समुपस्थिता ।।
विधाय वेषं यत्नेन त्रैलोक्यचित्तमोहिनी ।। 4.30.७० ।।
रम्भोवाच ।।
निबोध साधो मद्वाक्यं कामिनीनां मनोहरम् ।।
त्यक्त्वा कठोरं रहसि भज मां सुखदायिकाम् ।। ७१ ।।
त्वं वरेषु वरः पृथ्व्यां वरारोहा स्वयंवरा ।।
विदग्धाया विदग्धस्य दुर्लभो नव संगमः ।। ७२ ।।
यज्ञं कुर्वन्ति भूपाला भारते स्वर्गहेतुकम् ।।
स्वर्गभोगनिमित्तं च भोगसारा वयं मुने ।। ७३ ।।
स्तनयोर्युग्ममूर्वोर्मे सुन्दरं मुखपंकजम् ।।
हास्यभ्रूभंगसहितं दृष्ट्वा को न लभेत्सुखम्।। ७४ ।।
स्त्रीरसः सुखसारश्च मुनीनामभिवाञ्छितः ।।
रसिकासुखसंभोगो निर्जने चातिदुर्लभः ।।७५।।
देवो वा मानवो वाऽपि गन्धर्वो वाऽथ राक्षसः ।।
स्त्रीसुखेष्वप्यविज्ञेयो रम्भाया रतिवञ्चितः।।७६।।
रहस्युपस्थितां कान्तां न भजेद्यो जितेन्द्रियः ।।
गात्रलोमप्रमाणाब्दं कुम्भीपाके वसेद्ध्रुवम् ।।७७।।
सत्यं तस्याश्च वधभाक्तच्छापेन प्रणश्यति ।।
विधाता मोहिनीशापादपूज्यो भुवनत्रये ।। ७८ ।।
येन त्यक्तोपस्थिता तं यथा पश्यति पुंश्चली ।।
स्वामिपुत्रस्वबन्धूनां न तथा घातकं रुषा ।। ७९ ।।
परं प्रियं च सर्वेषां जारं जानाति पुंश्चली ।।
यदि तेन परित्यक्ता तं हन्तुं सा तु दक्षिणा।।4.30.८०।।
पुंश्चली हिंस्रजन्तुभ्यो नवघातिभ्य एव च।।
दुष्टा शश्वद्दयाहीना दुरन्ता प्रतिजन्मनि ।। ८१ ।।
त्यज ध्यानं मुनिश्रेष्ठ भुंक्ष्वेदं तपसः फलम् ।।
रहस्युपस्थितां मां च गृहीत्वा सुचिरं सुखम् ।। ८२ ।।
स रम्भावचनं श्रुत्वा तामुवाच भयाकुलः ।।
हितं तथ्यं नीतिसारं परिणामसुखावहम् ।। ८३ ।।
देवल उवाच ।।
शृणु रम्भे प्रवक्ष्यामि वेदसारं परं वचः ।।
कुलधर्मोचितं सत्यं ब्राह्मणानां तपस्विनाम् ।। ८४ ।।
धर्मोऽयं युक्तकाले च स्वयोषिति रतो द्विजः ।।
सर्वत्र पूजितः शश्वदिह लोके परत्र च ।। ८५ ।।
ब्राह्मणः क्षत्रियो वैश्यो यो रतः परयोषिति ।।
याति तस्यापूजितस्य रुष्टा लक्ष्मीर्गृहादपि।। ८६ ।।
इहातिनिन्द्यः सर्वत्र नाधिकारी स्वकर्मसु ।।
परत्रैवान्धकूपे च यावद्वर्षशतं वसेत् ।।।७७ ।।
ग्राह्या चोपस्थिता स्त्री च गृहिणा न तपस्विना ।।
त्यागे दोषः कामिनीनां शापभाक्पापभाग्गृही ।। ८८ ।।
ब्रह्मा जगद्विधाताऽपि न विरक्तः कलत्रवान् ।।
त्यागे दोषस्तत्कदाचिन्नास्माकं त्यक्तयोषिताम् ।। ८९ ।।
स्वभार्यां च परित्यज्य यो गृह्णाति परस्त्रियम् ।।
यशोधनायुषां हानिर्भवेज्जीवन्मृतस्य च ।। 4.30.९० ।।
भुवि नास्ति यशो यस्य जीवनं तस्य निष्फलम् ।।
सुसंपदा किं राज्येन सुखेन च तपस्विनः ।। ९१ ।।
निष्कामेन च वृद्धेन मया किं ते प्रयोजनम्।।
सुवेषं सुन्दरं मातर्युवानं पश्य सुन्दरि।।९२।।
इत्येवं वचनं श्रुत्वा चुकोपाप्सरसां वरा ।।
उवाच भूयो वाक्यं तं त्रस्ता प्रस्फुरिताधरा ।। ९३ ।।
रम्भोवाच ।।
चारुचम्पकवर्णाभः कन्दर्पसमसुन्दरः ।।
तपःप्रभावात्सश्रीकः सुवेषः संमतः स्त्रियाः।।९४।।
त्वया विनाऽन्यं कं यामि को वास्ति त्वत्परः पुमान्।।
पुंश्चली त्वां परित्यज्य का जीवति स्मरा तुरा ।। ९५ ।।
शीघ्रं मां भज विप्रेन्द्र दग्धां कामाग्निना सदा ।।
कामो नश्यति मां त्वत्तो यथा रम्भां मतंगजः ।। ९६ ।।
न चेच्छापं प्रदास्यामि वद वेदविदां वर ।।
मां वा दारुणशापं वा सत्वरं ग्रहणं कुरु ।।९७।।
दग्धाः प्राणा मनोदग्धं स्वात्मा वा इति संततम्।।
नवशृङ्गारपीयूषपाननिर्वाणतां व्रजेत् ।। ९८ ।।
स्वान्तर्दुःखेन दुःखार्तो यो यं शपति निश्चितम्।।
तं शापं खण्डितुं शक्तो न विधाता जगत्पतिः ।। ९९ ।।
द्विजो रम्भावचः श्रुत्वा बभूव ध्यानतत्परः ।।
नोवाच किंचिन्मौनस्थः सा तं कोपाच्छशाप ह ।।4.30.१००।।
हे वक्रचित्त ते विप्र सर्वावयववक्रिमम् ।।
शरीरमञ्जनाकारं रूपयौवनवर्जितम् ।। १ ।।
अतीवविकृताकारं त्रिषु लोकेषु गर्हितम् ।।
पुरातनं तपो नष्टं सद्यो भवतु निश्चितम् ।। २ ।।
इत्युक्त्वा पुंश्चली कामात्कामलोकं जगाम ह ।।
अचिरेण मुनीन्द्रश्च न ददर्श हरेः पदम् ।।३।।
पदारविन्दविरहात्समुद्विग्नो बभूव ह।।
स्वाङ्गं च दृष्ट्वा विकृतं पूर्वपुण्यविवर्जितम्।।४ ।।
कृत्वाऽग्निकुण्डं शोकेन प्राणांस्त्यक्तुं समुद्यतः ।।
मया दृष्टो वरो दत्तो दिव्यज्ञानेन बोधितः ।।५।।
आश्वासश्च कृतः प्रीत्या ततः शान्तो बभूव ह ।।
अङ्गान्यष्टौ च वक्राणि दृष्ट्वा तूर्णं महामुनेः ।। ६ ।।
अष्टावक्रेति तन्नाम कौतुकेन मया कृतम् ।।
मद्वाक्यान्मलयद्रोणीमयमागम्य सत्वरः ।। ७ ।।
षष्टि वर्षसहस्राणि चकार परमं तपः ।।
तपोऽवसाने मद्भक्तो मया युक्तः कृतः प्रिये ।। ८ ।।
सर्वस्मिन्प्रलये नष्टे न मद्भक्तः प्रणश्यति।।
सुचिरेणैव तपसा ज्वलता जठराग्निना ।। ९ ।।
त्यक्ताहारस्यान्तरं च भस्मपूर्णं ततो मुनेः ।।
आगतं मलयद्रोणीं मुनिहेतोर्मया प्रिये ।। 4.30.११० ।।
अष्टावक्राच्च मद्भक्तो न भूतो न भविष्यति ।।
एवंभूतस्तपोनिष्ठः प्रपौत्रो ब्रह्मणो मुनिः ।। ११ ।।
निष्कलः पुंश्चली शापाद्ब्रह्माऽपूज्यो यथा पुरा ।।
इत्येवं कथितं सर्वं रहस्यं च महात्मनः ।।
सुखदं पुण्यदं गूढं किं भूयः श्रोतुमिच्छसि ।। ११२ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाप्रश्ने त्रिंशत्तमोऽध्यायः ।। ३०