प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३० श्रीकृष्णजन्मखण्डः
अध्यायः ०३१
वेदव्यासः
अध्यायः ०३२ →

।। श्रीराधिकोवाच ।।
किमाश्चर्यं श्रुतं नाथ चरितं सुमनोहरम् ।।
अधुना श्रोतुमिच्छामि ब्रह्मणः शापकारणम् ।। १ ।।
यो विधाता त्रिजगतां तपसां फलदायकः ।।
स कथं कुलटाशापादपूज्यश्च बभूव ह ।। २ ।।
श्रीकृष्ण उवाच ।।
मन्वन्तरे रैवतस्य सुचन्द्रो नृपपुंगव ।।
तपस्वी वैष्णवः श्रेष्ठो ज्ञानी परमधार्मिकः ।। ३ ।।
स च पूर्वं तपः कुर्वन्नाजगाम मम प्रिये ।।
इमां च मलयद्रोणीं भारतेषु मनोहराम् ।।४।।
तपश्चकार राजेन्द्रो वर्षाणां च सहस्रकम् ।।
जीर्णं तस्य शरीरं च कठोरेण तपस्विनः ।।५।।
वल्मीकाच्छादितं देहं दृष्ट्वा धाता कृपानिधिः ।।
आजगाम वरं दातुं तपःस्थानं सुनिर्जनम् ।।६।।
कमण्डलुजलेनैव मम देहोद्भवेन च।।
सिषेच तं च मन्त्रेण मया दत्तेन योगवित् ।। ७ ।।
कमण्डलुजलस्पर्शादुत्थाय नृपतिः स्वयम् ।।
ननाम भक्त्या जगतां स्रष्टारं च पुरः स्थितम्।।८।।
स तं नमन्तं राजानमुवाच कमलोद्भवः ।।
वरं वृण्विति राजेन्द्र यत्ते मनसि वाञ्छितम् ।। ९ ।।
तस्य तद्वचनं श्रुत्वा वरं वव्रे परात्परम् ।।
ममैव चरणे भक्तिं मदीयं दास्यमेव च ।।4.31.१०।।
कृपया च वरं ब्रह्मा दत्तवानभिवाञ्छितम् ।।
स च तत्पुरतस्तस्थौ कामदेवसमप्रभः ।।११।।
एतस्मिन्नन्तरे राजा ददर्श रथमुत्तमम् ।।
आकाशान्निपतन्तं वै शतसूर्यसमप्रभम् ।। १२ ।।
तेजसाऽऽच्छादितं सर्वं सुप्रदीप्तं दिशो दश ।।
रत्नेन्द्रसारनिर्माणं शतचक्रसमन्वितम् ।। १३ ।।
अमूल्यरत्नरचितं विचित्रकलशोज्ज्वलम् ।।
मुक्तामाणिक्यहीराणां मालाजालैश्च राजितम् ।। १४ ।।
सद्रत्नदर्पणैर्दीप्तैरतीव सुमनोहरम् ।।
भूषितं दिव्यवस्त्रैश्च श्वेतचामरकोटिभिः ।। १५ ।।
पारिजातप्रसूनानां मालाजालैः सुशोभितम् ।।
मनोयायि महाश्चर्यं नानाचित्रेण चित्रितम् ।।१६।।
वेष्टितं पार्षदैर्दिव्यै रत्नभूषणभूषितैः।।
चतुर्भुजैः श्यामलैश्च ज्वलद्भिः स्थिरयौवनैः ।। १७ ।।
पीतवस्त्रपरीधानैश्चन्दनागुरुचर्चितैः ।।
दृष्ट्वा रथस्थान्देवांश्च ननाम नृपतिर्मुदा ।। १८ ।।
सहसा तस्य शिरसि पुष्पवृष्टिर्बभूव ह ।।
नेदुर्दुन्दुभयः स्वर्गे चानकाश्च मनोहराः ।। १९ ।।
ऋषयो मुनयः सिद्धाः प्रकुर्वन्तो मुदाऽऽशिषम् ।।
प्रशशंसुः सुराः सर्वे राजानं हर्षनिर्भराः ।। 4.31.२० ।।
राजा च पार्षदान्ध्यात्वा तद्रूपश्च बभूव ह ।।
पार्षदास्तं रथे कृत्वा नीत्वा जग्मुर्ममालयम् ।। २१ ।।
मदीयः पार्षदो भूत्वा स च तस्थौ ममान्तिके ।।
ततः स्वमन्दिरं यान्तं ददर्श मोहिनी विधिम् ।।२२।।
पुष्पोद्याने च रम्ये च पुष्पचन्दनवायुना।।
सद्यो मुमोह तं दृष्ट्वा प्रदग्धा मदानानलैः।।२३।।
विलोक्य वक्रनयना जुगोप सस्मितं मुखम्।।
सिन्दूरबिन्दुं दधती कस्तूरीबिन्दुना सह।।२४।।
चारुचम्पकवर्णाभा सततं स्थिरयौवना।।
बृहन्नितम्बयुगला पीनश्रोणिपयोधरा ।।२५।।
शरत्पार्वणशुभ्रांशुप्रभामुष्टकरानना ।।
सूक्ष्मवस्त्रपरीधाना रत्नालंकारभूषिता ।। २६ ।।
त्रैलोक्यं मोहितुं शक्ता कटाक्षैरेव लीलया ।।
अतीव कामिनी शश्वद्गजेन्द्रमन्दगामिनी ।।२७।।
पुलकाञ्चितसर्वाङ्गी मूर्च्छां संप्राप वर्त्मनि ।।
सन्निरीक्ष्य च तां ब्रह्मा जगाम श्रीहरिं स्मरन् ।। २८ ।।
स विकारं न हि प्राप ह्यात्मारामो जितेंद्रियः ।।
ब्रह्मलोकं च संप्राप ब्रह्मा च जगतां पतिः ।। २९ ।।
सकामा सा च कुलटा बभूव हतचेतना ।।
दिवानिशं चिन्तयन्ती स्वप्ने ज्ञाने चतुर्मुखम् ।। 4.31.३० ।।
सर्वं जारं विसस्मार तत्याज हरिमीश्वरी ।।
उत्तिष्ठन्ती निवसती शयनं कुर्वती क्षणम् ।।३१।।
तप्तपात्रे यथा सस्यं भ्रमत्येव तथा पथि ।।
एतस्मिन्नन्तरे रम्भा विदग्धाऽप्सरसां वरा ।। ।। ३२ ।।
गच्छन्ती कामलोकं सा सकामा तेन वर्त्मना ।।
दृष्ट्वा सहचरीं तत्र शुष्ककण्ठोष्ठतालुकाम् ।।
अभिप्रायेण बुबुधे पप्रच्छ सस्मिता तदा ।। ३३ ।।
रम्भोवाच ।।
कथमेवंविधा त्वं हि त्रैलोक्यचित्तमोहिनि ।। ३४ ।।
वद शीघ्रं महाभागे रम्भाऽहं चेतनं कुरु ।।
कमुद्दिश्य सकामा त्वं गच्छ त्वं कान्तमीप्सितम् ।।३५।।
कुलटा सर्वसौभाग्या न वयं कुलपालिकाः ।।
सर्वे व्यग्रा इन्द्रियाणां सुखाय भुवनत्रये ।।३६।।
यान्ति प्राणा यतः काले का लज्जा तत्र जीविनाम् ।।
न चात्मनः परः कश्चित्प्रियोऽस्ति भुवनत्रये ।।३७।।
कान्तेऽपत्ये स्वबन्धौ च स्नेहो यः स्वात्महेतुकः ।।
सम्बन्धः स्वात्मनो यावत्तावत्स्नेहोऽस्ति तत्र वै ।। ३८ ।।
येषु यन्मानसं शश्वत्तेषां प्राणास्त एव हि ।।
गच्छन्तीं कामलोकं च सकामां पश्य मां प्रिये ।। ३९ ।।
सह सख्या समालोक्य मनसा गच्छ तं प्रियम् ।।
निबद्ध्य नीवी केशांश्च कृत्वा वेषमभीप्सितम् ।। 4.31.४० ।।
मुनिमोहनबीजं च तं मोहं कुरु मोहिनि ।।
कथयस्व महाभागे वचनं हृदयंगमम् ।। ४१ ।।
रक्षात्मानं प्रभावं च स्त्रीजातीनां जगत्त्रये ।।
स्वाभिप्रायश्च सुरतौ न प्रकाश्यः कदाचन ।।४२।।
स्वान्तं कान्तं स्वानुरक्तमृज्वीं सहचरीं विना ।।
तस्माद्यत्नेन हृद्वाक्यं प्रकाश्यं च प्रिये प्रिये ।। ४३ ।।
अन्यथा चोपहासाय मरणायैव कल्पते ।।
तस्याश्च वचनं श्रुत्वा सस्मिता सा सुलज्जिता ।।
हृद्यं च कथयामास यद्धेतोस्तादृशी गतिः ।। ४४ ।।
मोहिन्युवाच ।।
यावद्दृष्टो मया रम्भे निर्जने चतुराननः ।। ४५ ।।
तावन्मनो मेऽतिदग्धं शश्वन्मनसिजानलैः ।।
न दत्तमात्मने भक्ष्यमन्तरे न हि रोचते ।। ।। ४६ ।।
जानामि नाहमुदयं यामिनीशदिनेशयोः ।।
अधुना नहि भेदो मे सततं स्वप्नज्ञानयोः ।। ४७ ।।
मम प्राणाः प्रतीक्षन्ते तस्यालिङ्गनमेव च ।।
क्षणं विज्ञाय न चिरं यास्यन्ति नान्यथा प्रिये ।। ४८ ।।
कामज्वालाकलापैश्च स्वर्णाकारं कलेवरम् ।।
अनाहारेण चेदानीं बभूव दग्धशैलवत् ।।४९।।
गन्तुं स्थातुं न शक्ताऽहं शयनं कर्तुमुद्यता।।
धिगस्तु पुंश्चलीजातिं मामेव च विशेषतः ।।4.31.५०।।
कमुपायं करिष्यामि वद रम्भेऽतिसाम्प्रतम् ।।
लज्जां वाऽपि शरीरं वा विसृजामि च किं द्वयोः।।५१।।
मोहिनीवचनं श्रुत्वा प्रहस्याप्सरसां वरा ।।
तामुवाच हितं नीतमुपायं शुभकारणम् ।। ५२ ।।
रम्भोवाच ।।
एवमेतदहो भद्रे भद्रस्य कारणं तव ।।
सर्वं त्वपनयिष्यामि शृणूपायं भयं त्यज ।। ५३ ।।
कृत्वा वेषमपूर्वं च पूर्वमाराध्य मन्मथम् ।।
तेन सार्द्धं स्वयं गत्वा मोहं कुरु च भामिनि ।। ।।५४।।
जितेन्द्रियाणां प्रवरं साक्षान्नारायणात्मकम् ।।
विना कामसहायेन का शक्ता जेतुमीश्वरम् ।।५५।।
भज कामं तपः कृत्वा पुष्करे व्रज मोहिनि ।।
सद्यः साक्षात्स भविता दयालुर्योषितां प्रभुः ।।५६।।
इत्युक्त्वा तामप्सरसां प्रवरा काममन्तिकम् ।।
जगामेन्द्रियशान्त्यर्थं सा जगाम च पुष्करम् ।। ५७ ।।
पुष्करे च तपः कृत्वा कामं संप्राप्य मोहिनी ।।
जगाम तेन सार्द्धं च ब्रह्मलोकमनामयम् ।। ५८ ।।
ददर्श निर्जनस्थं च मोहिनी कमलोद्भवम् ।।
तमेव मोहनं कर्तुं समारेभे पुरः स्थिता ।। ५९ ।।
क्षणं ननर्त सुचिरं सुगानेन क्षणं जगौ ।।
संगीतं मम संबन्धि भक्तानां चित्तमोहनम् ।। 4.31.६० ।।
विधाता जगतां तस्याः श्रुत्वा संगीतमीप्सितम् ।।
पुलकाञ्चितसर्वाङ्गो मुमोह साश्रुलोचनः ।। ६१ ।।
दृष्ट्वा मुग्धं चतुर्वक्त्रं मोहिनी हृष्टमानसा ।।
कलाप्रमाणं भावं च चकार तत्र लीलया ।। ६२ ।।
स्वाङ्गं संदर्शयामास स्मेरभ्रूभङ्गपूर्वकम् ।।
का लज्जा तस्य संसारे यः कामहतचेतनः ।। ६३ ।।
विज्ञाय ब्रह्मा तद्भावं नतवक्त्रो बभूव ह ।।
प्रदाय तस्या दानं च विरतः श्रीहरिं स्मरन् ।। ६४ ।।
विज्ञाय ब्रह्मणो भावं शुष्ककण्ठोष्ठतालुका ।।
हतोद्यमा सा तुष्टाव कामं कामप्रदं वरम् ।। ६५ ।।
मोहिन्युवाच ।।
सर्वेन्द्रियाणां प्रवरं विष्णोरंशं च मानसम् ।।
तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते ।। ६६ ।।
स्वयमात्मा हि भगवाञ्ज्ञानरूपो महेश्वरः ।।
नमो ब्रह्मञ्जगत्स्रष्टस्तदुद्भव नमोऽस्तु ते ।। ६७ ।।
सृष्टिः सर्वशरीरेषु दृष्टिश्च योगिनामपि ।।
जगत्साध्य दुराराध्य दुर्निवार नमोऽस्तु ते ।।६८।।
सर्वाजित जगज्जेतर्जीव जीवमनोहर।।
रतिबीज रतिस्वामिन्रतिप्रिय नमोऽस्तु ते ।। ६९ ।।
शश्वद्योषिदधिष्ठान योषित्प्राणाधिकप्रिय ।।
योषिद्वाहन योषास्त्र योषिद्बन्धो नमोऽस्तु ते ।। 4.31.७० ।।
पतिसाध्यकराशेषरूपाधार गुणाश्रय ।।
सुगन्धिवातसचिव मधुमित्र नमोऽस्तु ते ।। ७१ ।।
शश्वद्योनिकृताधार स्त्रीसंदर्शनवर्धन ।।
विदग्धानां विरहिणां प्राणान्तक नमोऽस्तु ते ।। ७२ ।।
अकृपा येषु तेऽनर्थास्तेषां ज्ञानविनाशनम् ।।
अनूहरूपभक्तेषु कृपासिन्धो नमोऽस्तु ते ।। ७३ ।।
तपस्विनां च तपसां विघ्नबीजावलीलया ।।
मनः सकामं मुक्तानां कर्तुं शक्त नमोऽस्तु ते ।। ७४ ।।
तपःसाध्याश्चाराध्याश्च सदैवं पाञ्चभौतिकाः ।।
पञ्चेन्द्रियकृताधार पञ्चबाण नमोऽस्तु ते ।। ७५ ।।
मोहिनीत्येवमुक्त्वा तु मनसा सा विधेः पुरः ।।
विरराम नम्रवक्त्रा बभूव ध्यानतत्परा ।। ७६ ।।
उक्तं माध्यंदिने कान्ते स्तोत्रमेतन्मनोहरम् ।।
पुरा दुर्वाससा दत्तं मोहिन्यै गन्धमादने ।। ७७ ।।
स्तोत्रमेतन्महापुण्यं कामी भक्त्या यदा पठेत् ।।
अभीष्टं लभते नूनं निष्कलङ्को भवेद् ध्रुवम् ।।७८।।
चेष्टां न कुरुते कामः कदाचिदपि तं प्रियम् ।।
भवेदरोगी श्रीयुक्तः कामदेवसमप्रभः ।।
वनितां लभते साध्वीं पत्नीं त्रैलोक्यमोहिनीम् ।। ७९ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे मोहिनी स्तोत्रवर्णनं नामैकत्रिंशोऽध्यायः ।। ३१ ।।