ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०३२

← अध्यायः ०३१ श्रीकृष्णजन्मखण्डः
अध्यायः ०३२
वेदव्यासः
अध्यायः ०३३ →

श्रीकृष्ण उवाच ।।
मोहिनीस्तवनेनैव कामस्तुष्टो बभूव ह ।।
चकार शरसंधानमन्तरिक्षे स्थितः स्वयम् ।। १ ।।
मन्त्रपूतं महास्त्रं च चिक्षेप पितरं मुदा ।।
बभूव चञ्चलो ब्रह्मा कामास्त्रेण च कामुकः ।। २ ।।
क्षणं निरीक्षणं चक्रे मोहिन्यास्ये पुनःपुनः ।।
ज्ञानं प्राप्य तदा धाता विरराम हरिं स्मरन् ।।३।।
बुबुधे मनसा सर्वं चरितं मन्मथस्य च ।।
शशाप तं सुतमपि विधाता क्रोधविह्वलः ।। ४ ।।
हे काम यौवनोन्मत्त मूढैश्वर्येण गर्वित ।।
भविता दर्पभङ्गस्ते गुरोर्मे हेलनादिति ।। ५ ।।
हतोद्यमो जगामाशु मन्मथो मधुना सह ।।
ब्रह्मणः शापभीतश्च शुष्ककण्ठोष्ठतालुकः ।। ६ ।।
इत्युवाच जगद्धाता मोहिनीं मदनातुराम् ।।
चतुर्वक्त्रं च पश्यन्तीं सस्मितं वक्रचक्षुषा ।। ७ ।।
ब्रह्मोवाच ।।
मातर्मोहिनि गच्छ त्वं निष्फलं कर्म चात्र ते ।।
ज्ञातस्तवाभिप्रायश्च नाहं योग्योऽस्य कर्मणः ।। ८ ।।
वेदे जुगुप्सितं कर्म तदेव कर्तुमक्षमः ।।
वेदकर्ता स्वयमहं व्यवस्थाकारको भवे ।। ९ ।।
अकीर्तिं वेदवक्तुश्च निन्द्यं च किमतः परम् ।।
उपस्थिता च या योषिदत्याज्या रागिणामपि ।।4.32.१०।।
श्रुतौ श्रुतमिति त्याज्या सर्वदैव तपस्विनाम् ।।
अहो सर्वैः परित्याज्या पुंश्चली च विशेषतः ।। ११ ।।
धनायुःप्राणयशसां नाशिनी दुःखदायिनी ।।
स्वकार्यतत्परा शश्वत्परकार्यविनाशिनी ।।१२।।
निष्ठुरा नवघातिभ्यः सर्वापद्बीजरूपिणी ।।
विद्युद्दीप्तिर्जले रेखा लोभान्मैत्री यथा भवेत् ।। १३ ।।
परद्रोहाद्यथा संपत्कुलटाप्रेम तत्समम् ।।
सर्वेभ्यो हिंस्रजन्तुभ्यो विपद्बीजा सदैव हि ।।१४।।
यो विश्वसेत्तां संमूढो विपत्तस्य पदेपदे ।।
त्वं च रूपवती धन्या वञ्चिता कामुकैः सदा।।१५।।
यूनां संपत्स्वरूपा च विषतुल्या तपस्विनाम्।।
त्वमेवाप्सरसां श्रेष्ठा सर्वदा स्थिरयौवना ।।१६।।
तवैव कर्म योग्यं च युवानं पश्य सुन्दरि ।।
त्वं विदग्धा च योषित्सु विदग्धान्वेषणं कुरु ।। १७ ।।
विदग्धाया विदग्धेन संगमो गुणवान्भवेत् ।।
जरातुरोऽहं वृद्धश्च तपस्वी वैष्णवो द्विजः ।।१८।।
अस्वतन्त्रः पराधीनः का रतिः पुंश्चलीषु मे ।।
अये वत्से गच्छ शीघ्रं विहाय पितरं च माम् ।।१९।।
नात्राऽहं च जगत्स्रष्टा तस्मात्तव पिता सदा।।
मन्मथं चंद्रमित्रं च जयन्तं नलकूबरम् ।। 4.32.२० ।।
स्वर्वैद्यौ चंद्रतनयं दितिपुत्रांश्च सुंदरान् ।।
कामशास्त्रेषु निष्णातान्रतिकर्मविशारदान् ।। ।। २१ ।।
या मां यासि हि तांस्त्यक्त्वा सा विदग्धा च कामुकी ।।
सदा संभोगविषये स्त्रियं प्रार्थयते पुमान् ।।२२ ।।
स्त्री चेत्प्रयाति पुरुषं विपरीतं विडम्बनम् ।।
सर्वेषां चैव रत्नानां स्त्रीरत्नं दुर्लभं परम् ।।२३ ।।
स्वयं प्रार्थयते स्वामी न तु स्वामिनमेव च।।
योषिज्जातिषु धिक् ताश्च स्वयं याः समुपस्थिताः।।२४।।
भवेद्दूरं स्वल्पमूल्यं रत्नं स्वयमुपस्थितम् ।।
नित्यं पुमान्स्त्रियं याति स्त्री वा याति च न प्रियम् ।। २५ ।।
लोकाचारेषु वेदेषु न स्त्री याति परप्रियम् ।।
स्ववस्तु भुङ्क्ते यः काले शास्त्रोक्तविधिपूर्वकम् ।।२६।।
स पूज्यो न भवेत्पूज्यो यद्रतिः परवस्तुषु ।।
कः कस्य शत्रुरबले निशामय जगत्त्रये ।। २७ ।।
स्वेन्द्रियाः शत्रवः सर्वे शत्रुता यन्निमित्ततः ।।
वेदोक्ताचरणे सर्वं मित्रं च जगतां जगत् ।। २८ ।।
कृते वेदविरुद्धे च मित्रं शत्रुर्भवेद्ध्रुवम् ।।
वेदोक्तं कृतवन्तं च हरिस्तुष्टो दिवानिशम् ।। २९ ।।
हरौ तुष्टे जगत्तुष्टं तस्मिन्रुष्टे भवो रिपुः ।।
कुत्रास्ति कुलटाजातिः साध्वीजातिश्च कुत्र वा ।। 4.32.३० ।।
स्वकीयाचरणात्सर्वं भवे भवति कर्मणः ।।
स्त्रीजातिः प्रकृतेरंशा नारायणविनिर्मिता ।। ३१ ।।
दुःशीला पुंश्चली निन्द्या सुशीला च पतिव्रता ।।
पतिव्रतास्तु त्रिविधाः पुंश्चलीषु च योषितः ।। ३२ ।।
तासामेवंविधा नास्ति स्वयं याति परप्रियम् ।।
स्त्रीजातीनां च मध्ये च काऽस्त्येवं कुलकज्जला ।।३३।।
भवे रत्यै स्वयं दृष्ट्वा वेषं कृत्वा प्रयाति तम् ।।
क्षोभिता यदि पश्यन्ती भक्ष्यद्रव्यमसाध्यकम् ।। ।।३४।।
वैकुल्यान्नहि तत्साध्यं सामान्यमेव केवलम् ।।
इत्येवमुक्त्वा जगतां विधाता विरराम च ।।
वक्तुं समुद्यता सा च कोपप्रस्फुरिताधरा ।। ३५ ।।
मोहिन्युवाच ।।
ज्ञातं सर्वं जगद्धातश्चरितं तव सांप्रतम् ।। ३६ ।।
त्वया निबोधिता नीतिर्मनो मे न स्थिरं भवेत् ।।
भूतं त्वयि विशिष्टं च यावद्दृष्टः क्षणे भवान् ।।३७।।
त्वद्वक्त्रदृष्टिमात्रेण सर्वे जाराश्च विस्मृताः ।।
देहं कामाग्निना दग्धं यदा त्यक्तुं समुद्यता ।। ३८ ।।
निषिषेध च मां रम्भा प्रददौ मन्त्रमीदृशम् ।।
तदा कामसहायेन त्वत्समीपं समागता ।।३९।।
समधुस्तव शापेन स जगाम हतोद्यमः ।।
अहो गन्तुमशक्ताऽहं त्वया यद्यपि भर्त्सिता ।। 4.32.४० ।।
सर्वाङ्गेष्वेव मे जाड्यं बभूव सांप्रतं विभो ।।
कृपां कुरु कृपासिन्धो न मां हन्तुं त्वमर्हसि ।। ४१ ।।
तवाश्लेषणमात्रेण विज्वराऽहं सुनिश्चितम् ।।
त्वमेव जगतां धाता कुलटाऽहं च कर्मणा ।। ४२ ।।
सन्तो गर्वं न कुर्वन्ति कर्मसाध्याश्च जीविनः ।।
कश्चित्प्रयाति यानेन वहन्ति तं च केचन ।।४३।।
करं गृह्णाति नृपतिः कर्मणा ददति प्रजाः ।।
कश्चित्सिंहासनस्थश्च नृपमात्रश्च कश्चन ।। ४४ ।।
कर्मणा वाहकाः केचित्केचिद्वाहनपालकाः ।।
सूकरीजठरं कश्चिन्संप्रयाति स्वकर्मणा ।। ४५ ।।
कश्चिच्छच्याश्च जठरं तव पुत्राश्च केचन ।।
केचित्कृत्वा हरेर्भक्तिं कर्मणा तस्य पार्षदाः ।। ४६ ।।
केचिद्भवन्ति कृमयो विष्ठायां दैवदोषतः ।।
स्वर्गं प्रयान्ति राजेन्द्राः केचिच्च स्वस्वकर्मणा ।। ४७ ।।
केचित्प्रयान्ति नरकं विण्मूत्रे तत्र पच्यते ।।
कर्मणा कश्चिदिन्द्रेन्द्रः सुराणां प्रवरः स्वयम्।।४८।।
केचित्सुरा नराः केचित्केचिच्च क्षुद्रजन्तवः ।।
केचिच्च कर्मणा विप्रा वर्णश्रेष्ठा महीतले ।। ४९ ।।
केचिद्भूपा वैश्यशूद्राः केचिच्च म्लेच्छजातयः।।
केचित्स्वकर्मणा प्राज्ञा ज्ञानेन सर्वदर्शिनः ।।4.32.५०।।
केचिन्मूर्खाः केचिदन्धाः स्वाङ्गहीनाश्च केचन ।।
केचिच्छास्त्रं बोधयन्ति शिष्यवर्गान्स्वकर्मणा ।।५१।।
केचित्पठन्ति सर्वार्थं जानन्ति गुरुवक्त्रतः ।।
भवन्ति कर्मणा केचिद्देहे स्थावरजङ्गमे ।।५२।।
तपस्वी नवघाती च त्वं च ब्रह्मा च कर्मणा ।।
काचित्स्वकर्मणा साध्वी पूज्येह च परत्र च ।।५३।।
काचिद्वेश्या तदाहारं भुङ्क्ते कृत्वाऽङ्ग विक्रयम् ।।
स्वर्वेश्याऽहं सुरपुरे सुरभोग्या सुपूजिता ।।५४।।
येषामालिङ्गनेनैव कर्मणां खण्डनं भवेत् ।।
मनः स्वभावबीजं च स्वभावः कर्मबीजकः ।। ९९ ।।
तत्कर्मफलबीजं च सर्वेषां जनको हरिः ।।
फलं ददाति नियतं कर्मद्वारा विभुः स्वयम् ।। ५६ ।।
सर्वेभ्यो बलवान्नित्यं कर्मरूपी जनार्दनः ।।
कुतो हेतोर्निंन्दिताऽहं त्वयैव भर्त्सिता कथम् ।। ५७ ।।
जगत्स्रष्टुरीश्वरस्य पादाब्जं द्रष्टुमागता ।।
स्वप्ने यस्य पदद्वन्द्वं न हि पश्यन्ति योगिनः ।। ५८ ।।
तमीश्वरं पतिं कर्तुमिच्छया स्वयमागता ।।
गत्वा हि कस्यचित्स्थानमस्पृश्येह परत्र च ।। ५९ ।।
कस्यचित्पादरजसा यशसा भान्ति योषितः ।।
इत्युक्त्वा मोहिनी शीघ्रं गत्वोवास हरेः पुरः ।। 4.32.६० ।।
स्वयं विधाता जगतां चकम्पे कुलटाभयात् ।।
सस्मिता वक्रनयना कामभावं चकार ह ।। ६१ ।।
स्वाङ्गं च दर्शयामास कामबाणप्रपीडिता ।।
एतस्मिन्नन्तरे कामः सर्वज्ञः सर्वयोगवित् ।। ६२ ।।
आविर्भूय पञ्च बाणान्निचिक्षेप च ब्रह्मणि ।।
सम्मोहनं समुद्वेगं बीजस्तम्भितकारणम् ।। ६३ ।।
उन्मत्तबीजं ज्वलदं शश्वच्चेतनहारकम् ।।
एतान्प्रक्षिप्य मदनोऽप्यन्तरिक्षस्थितः स्वयम्।।६४।।
किंकरान्प्रेषयामास संमोहाय पितुर्मुदा ।।
वसन्तं कोकिलालीश्च गन्धवातं मनोहरम् ।। ६५ ।।
नियुज्याभ्यन्तरं गत्वा तद्विकारं चकार ह ।।
पुंस्कोकिलः कलं रावमुवाच तत्समीपतः।।।
षट्पदः सुन्दरं सूक्ष्मं जुगुञ्जे पुरतः स्थितः।।
शश्वद्ववौ गन्धवहो मन्दोऽतिशीतलः प्रिये ।। ६७ ।।
सततं मुदितस्तत्र बभ्राम च मधुः स्वयम् ।।
पुलकाञ्चितसर्वाङ्गो बभूव जगतां विधिः ।। ६८ ।।
ददर्श मोहिनी भावं प्रहस्य च पुनः पुनः ।।
अतीव वक्रनयना कामास्त्रहतचेतना ।। ६९।।
विधाता बुबुधे सर्वं सर्वबन्धनिबन्धनम्।।
नियन्तुं न मनः शक्तः सस्मार श्रीहरिं भिया ।। 4.32.७० ।।
तुष्टाव मनसा कृष्णं शान्तं हृत्पङ्कजस्थितम् ।।
द्विभुजं मुरलीहस्तं हरिं पीताम्बरं परम् ।। ७१ ।।
अतीव कमनीयं च किशोरं स्थिरयौवनम् ।।
रत्नालंकारभूषाढ्यं सस्मितं श्यामसुन्दरम् ।। ७२ ।।
ब्रह्मोवाच ।।
रक्ष रक्ष हरे मां च निमग्नं कामसागरे ।।
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसंकटे ।। ७३ ।।
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ।।
अतीव निर्मलज्ञानचक्षुःप्रछन्नकारणे ।। ७४ ।।
जन्मोर्मिसंघसहिते योषिन्नक्रौघसंकुले ।।
रतिस्रोतःसमायुक्ते गंभीरे घोर एव च ।। ७५ ।।
प्रथमामृतरूपे च परिणामविषालये ।।
यमालयप्रदेशाय मुक्तिद्वारातिविस्मृते।।७६।।
बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम् ।।
स्वयं च त्वं कर्णधारः प्रसीद मधुसूदन ।।७७।।
मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि।।
सन्ति विश्वेश विधयो हे विश्वेश्वर माधव ।। ७८ ।।
न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः ।।
तथापि नः स्पृहा कामे त्वद्भक्तिव्यवधायके।।७९ ।।
हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ।।
त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ।। 4.32.८० ।।
इत्युक्त्वा जगतां धाता विरराम सनातनः ।।
ध्यायंध्यायं मत्पदाब्जं शश्वत्सस्मार मामिति ।। ८१ ।।
ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।।
स चैवाकर्ण्य विषये न निमग्नो भवेद्ध्रुवम् ।। ८२ ।।
मम मायां विनिर्जित्य संज्ञानं लभते ध्रुवम् ।।
इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत् ।। ८३ ।।
।। इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे ब्रह्ममोहिनीसंवादे द्वात्रिंशोऽध्यायः ।। ३२ ।।