प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०३४

← अध्यायः ०३३ श्रीकृष्णजन्मखण्डः
अध्यायः ०३४
वेदव्यासः
अध्यायः ०३५ →

।। श्रीकृष्ण उवाच ।। ।।
एतस्मिन्नन्तरे तत्र शंकरः समुपस्थितः ।।
सस्मितो वृषभेन्द्रस्थो विभूतिभूषणः स्वयम् ।। १ ।।
व्याघ्रचर्माम्बरधरो नागयज्ञोपवीतकः ।।
स्वर्णाकारजटाधारमर्धचन्द्रं च सन्दधत् ।। २ ।।
त्रिशूलपट्टिशकरो बिभ्रत्खट्वाङ्गमुत्तमम् ।।
सद्रत्नसाररचितस्वरयन्त्रकरो मुदा ।। ३ ।।
वाहनादवरुह्याशु भक्तिनम्रात्मकन्धरः ।।
प्रणम्य कमलाकान्तं वामे चोवास भक्तितः।।४।।
आजग्मुर्मुनयः सर्वे सुराः शक्रादयस्तथा।।
आदित्या वसवो रुद्रा मनवः सिद्धचारणाः ।। ५ ।।
पुलकाञ्चितसर्वाङ्गास्तुष्टुवुः पुरुषोत्तमम् ।।
प्रणम्य तं शिवं सर्वे सुराश्च नम्रकन्धराः।। ६ ।।
एतस्मिन्नन्तरे तत्र संगीतं शंकरो जगौ ।।
कृत्वाऽतीव सुतालं च स्वरयन्त्रसमन्वितः ।।७ ।।
आवयोश्च गुणाख्यानं राससंबन्धि सुन्दरम् ।।
समयोचितरागेण मनोमोहनकारिणा ।। ८।।
यत्र कण्ठैकमानेन चैकतानेन चारुणा।।
पदभेदविरामेण गुरुणा लघुना क्रमात्।। ।। ९ ।।
गमकेनातिदीर्घेण मदेन मधुरेण च ।।
भवेऽतिदुर्लभं सृष्टं प्रीत्या स्वेन विनिर्मितम् ।। 4.34.१० ।।
पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रः पुनःपुनः ।।
तदेव श्रुतिमात्रेण मूर्च्छां प्रापुर्विचेतनाः ।। ११ ।।
बभूवु रुद्ररूपाश्च मुनयः पुरतः प्रिये ।।
रुद्ररूपाः सुराः सर्वे विधातृहरिपार्षदाः ।। १२ ।।
नारायणश्च लक्ष्मीश्च गायकश्च शिवः स्वयम् ।।
जलपूर्णं च वैकुण्ठं दृष्ट्वा त्रस्तोऽहमीश्वरि ।। १३ ।।
गत्वा मूर्तीर्विनिर्माय सर्वाश्च तादृशीरिति ।।
तत्स्वरूपास्तदस्त्राश्च तत्स्ववाहनभूषणाः ।। १४ ।।
तत्स्वभावास्तन्मनस्कास्तत्तद्विषयमानसाः ।।
स्थानं निर्माय परितो वैकुण्ठस्य चतुर्दिशि ।। १५ ।।
तदधिष्ठातृदेवी च आजगाम स्वमालयम् ।।
शरीरजा सुराणां सा बभूव सुरनिम्नगा ।। १६ ।।
मुक्तिदा च मुमुक्षूणां भक्तानां हरिभक्तिदा ।।
कोटिजन्मार्जितं पापं विविधं पापिनामहो ।। १७ ।।
यस्याश्च स्पर्शवायोश्च संपर्केण विनश्यति ।।
किं वा न जाने प्राणेशि स्पर्शदर्शनयोः फलम् ।। १८ ।।
किमुत स्नानजन्यं च कथयामि निरूपणम् ।।
सर्वतीर्थात्परं पृथ्व्यां पुष्करं परिकीर्तितम् ।। १९ ।।
वेदोक्तं च तदेवास्याः कलां नार्हंति षोडशीम् ।।
भगीरथेन चानीता तेन भागीरथी स्मृता ।। 4.34.२० ।।
गामागता स्रोतसोंऽशाद्गङ्गा तेन प्रकीर्तिता ।।
जानुद्वारा पुरा दत्ता जह्नुनाऽऽपीय कोपतः ।। २१ ।।
तस्य कन्यास्वरूपा सा जाह्नवी तेन कीर्तिता ।।
भीष्मः स्वयं वसुर्जातस्तस्यांशात्तेन भीष्मसूः ।। २२ ।।
धाराभिस्तिसृभिः स्वर्गं पृथिवीमतलं तथा ।।
ममाज्ञया च गच्छन्ती तेन त्रिपथगामिनी ।। २३ ।।
प्रधानधारया स्वर्गे सा च मन्दाकिनी स्मृता ।।
योजनायुतविस्तीर्णा प्रस्थे च योजना स्मृता ।। २४ ।।
क्षीरतुल्यजला शश्वदत्युत्तुङ्गतरङ्गिणी ।।
वैकुण्ठाद्ब्रह्मलोकं च ततः स्वर्गं समागता ।। २५ ।।
स्वर्गाद्धिमाद्रिमार्गेण पृथिवीमागता मुदा ।।
सा धाराऽलकनंदाख्या लवणोदेन मिश्रिता ।। ।। २६ ।।
शुद्धस्फटिकसंकाशा बहुवेगवती सती ।।
पापिनां पापशुष्केन्धं दग्धुं पावकरूपिणी ।। २७ ।।
अहो सगरवंशेभ्यो निर्वाणमुक्तिदायिनी ।।
वैकुण्ठगामिगी सा च सोपानरूपिणी वरा ।।२८ ।।
अतोऽपि मृत्युसमये सतां पुण्यस्वरूपिणाम् ।।
आदौ पादौ च संन्यस्य मुखे तोयं प्रदीयते ।। २९ ।।
गङ्गासोपानमारुह्य सन्तो यान्ति निरामयम् ।।
आब्रह्मलोकं संलंघ्य रथस्थाश्च निरापदः ।। ।। 4.34.३० ।।
दैवात्पुरा प्राक्तनेन मग्नं चेत्कृतपातकैः ।।
लोमप्रमाणवर्षं च मोदन्ते हरिमन्दिरे ।। ३१ ।।
ततो भोगो भवेत्तेषां निश्चितं पापपुण्ययोः ।।
अतिस्वल्पेन कालेन कालव्यूहं च बिभ्रताम् ।। ३२ ।।
ततः पुण्यवतां गेहे लब्ध्वा जन्म च भारते ।।
संप्राप्य निश्चलां भक्तिं भवन्ति हरिरूपिणः ।। ३३ ।।
मृतद्विजानां देहांश्च दैवाच्छूद्रा वहन्ति चेत् ।।
पदप्रमाणवर्षं च तेषां च नरके स्थितिः ।। ३४।।
ततस्तेषां च साहाय्यं करोति हरिरूपिणी।।
ददाति मुक्तिं तेभ्योऽपि क्रमेण च कृपामयी।।३५।।
जन्म पुण्यवतां गेहे कारयित्वा च भारते।।
स्थलं ददाति वैकुण्ठे निश्चितं जन्मभिस्त्रिभिः ।। ३६ ।।
यात्रां कृत्वा तु यः शुद्धौ स्नातुं याति सुरेश्वरीम् ।।
पदप्रमाणवर्षं च वैकुण्ठे मोदते ध्रुवम् ।। ३७ ।।
गङ्गां प्राप्यानुषङ्गेण स्नाति चेत्समलो नरः ।।
मुच्यते सर्वपापेभ्यः पुनर्यदि न लिप्यते ।। ३८ ।।
कलौ पञ्च सहस्राब्दं स्थितिस्तस्याश्च भारते ।।
तस्यां च विद्यमानायां कः प्रभावः कलेरहो ।। ३९ ।।
कलौ दशसहस्राणि वर्षाणि प्रतिमा मम।।
तिष्ठन्ति च पुराणानि प्रभावस्तत्र कः कलेः ।। 4.34.४० ।।
अतलं याति या धारा सा च भोगवती स्मृता ।।
पयःफेननिभा शश्वदतिवेगवती सदा ।। ४१ ।।
आकरामूल्यरत्नानां मणीन्द्राणां च संततम् ।।
नागकन्याश्च यत्तीरे क्रीडन्ति स्थिरयौवनाः ।। ४२ ।।
स्वयं देवी च वैकुण्ठं वेष्टयित्वा च संततम् ।।
सहस्रयोजना प्रस्थे दैर्घ्ये च लक्षयोजना ।। ४३ ।।
अस्या विनाशः प्रलये नास्त्येव दुहितुर्मम ।।
नानारत्नाकरं दिव्यं तत्तीरं सुमनोहरम् ।। ४४ ।।
इत्येवं कथितं सर्वं जाह्नवीजन्म पुण्यदम् ।।
ब्रह्मणश्च प्रतीकारो मोहिनीशापता शृणु ।। ४५ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे जाह्नवीजन्मप्रस्तावो नाम चतुस्त्रिंशोऽध्यायः।। ।। ३४ ।।