ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०३५

← अध्यायः ०३४ श्रीकृष्णजन्मखण्डः
अध्यायः ०३५
वेदव्यासः
अध्यायः ०३६ →

।। श्रीकृष्ण उवाच ।।
नारायणश्च ब्रह्माणमुवाच कृपया पुनः ।।
दृष्ट्वा गङ्गां च सर्वे तां मम मायां च मेनिरे ।। १ ।। ।।
।। श्रीनारायण उवाच ।।
उत्तिष्ठ गच्छ भद्रं ते भविष्यति चतुर्मुख ।।
अत्र स्नात्वाऽभिशप्तस्त्वं पूतो भव ममाज्ञया।।२।।
त्वं चेत्सत्यं स्वयं पूतः स्पर्शं वाञ्छन्ति तानि ते ।।
वैष्णवेशस्य तीर्थानि सर्वाणि सततं मुने।।३।।
तथापि शापमुक्तस्त्वमत्र प्रकृतिहेलनात् ।।
अहंकारश्च सर्वेषां पापबीजममङ्गलम् ।। ४ ।।
शीघ्रं त्वं गच्छ गोलोकं ममालयं परात्परम् ।।
प्रकृत्यंशां मङ्गलदां तत्र प्राप्स्यसि भारतीम् ।। ५ ।।
प्रकृतिं भज कल्याण सृष्टिबीजस्वरूपिणीम् ।।
अहो कल्पान्तपर्यन्तं तपस्तप्तं त्वयाऽधुना।।६।।
तव मन्त्रं न गृह्णन्ति केऽपि वेश्याऽभिशापतः ।।
यदन्यदेवपूजायां तव पूजा भविष्यति ।। ७ ।।
त्वमेव जगतां धाता स्वात्मारामश्च योषितः ।।
सर्वरूपी च पूजः च सर्वदेहेषु सर्वतः ।। ८ ।।
तदा ममाज्ञया ब्रह्मा स्नात्वा च जाह्नवीजले ।।
शीघ्रं जगाम गोलोकं मां प्रणम्य जगद्गुरुः ।। ९ ।।
ते देवा मुनयः सर्वे प्रजग्मुः स्वालयं मुदा ।।
सुनिर्मलं मम यशो गायन्तश्च पुनःपुनः ।। 4.35.१० ।।
विधिरागत्य गोलोकं संप्राप्य भारतीं सतीम् ।।
सर्वविद्याधिदेवीं तां मद्वक्त्राब्जविनिर्मिताम् ।।११ ।।
वागीश्वरीं च संप्राप्य ब्रह्मा प्रमुदितः स्वयम् ।।
कामास्त्राणां च व्यापारमनुमेने स्वयं विभुः।।१२।।
तत आगत्य मां नत्वा प्राप्य त्रैलोक्यमोहिनीम् ।।
क्रीडां चकार भगवान्स्थानेस्थानेऽतिनिर्जने।।१३।।
रतिं चिरतरं कृत्वा विरराम स्वयं विधिः ।।
वागीश्वरीमुवाचेदं त्वं वै ब्रह्मा च कर्मणा ।। १४ ।।
काचित्स्वकर्मणा साध्वी पूज्या च स्थिरयौवना ।।
तवैव कर्मयोगं च युवानं पश्य सुन्दरि ।। १५ ।।
विदग्धाया विदग्धेन संगमो गुणवान्भवेत् ।।
जरातुरोऽहं वृद्धश्च तपस्वी वैष्णवो द्विजः ।। १६ ।।
अस्वतन्त्रः पराधीनः का रतिः पुंश्चलीषु मे ।।
आजगाम ब्रह्मलोकं पुनरेव निजालयम् ।। १७ ।।
ददृशुब्रर्ह्मलोकस्थास्तां देवीं कौतुकान्विताः ।।
अतीव सुन्दरीं रम्यां शुभ्रवर्णां च सस्मिताम् ।। १८ ।।
शरच्छीतांशुवदनां शरत्पङ्कजलोचनाम् ।।
पक्वबिम्बप्रभामुष्टदीप्तौष्ठाधरपल्लवाम् ।।१९।।
मुक्तापङ्क्तिविनिन्द्यैकदन्तपङ्क्तिमनोहराम्।।
रत्नकेयूरवलयरत्ननूपुरशोभिताम् ।। 4.35.२० ।।
रत्नकुण्डलयुग्मेन कर्णमूलविराजिताम् ।।
रत्नेन्द्रसारहारेण वक्षःस्थलसमुज्ज्वलाम् ।। २१ ।।
वह्निशुद्धांशुकं सूक्ष्मं बिभ्रतीं नवयौवनाम् ।।
अतीव कमनीयां च पीनश्रोणिपयोधराम् ।। २२ ।।
वीणापुस्तकहस्तां च व्याख्यामुद्राकरां वराम् ।।
ते च निर्मञ्छनं कृत्वा चक्रुः परममङ्गलम् ।। २३ ।।
पुरीं प्रवेशयामासुर्ब्रह्माणं भारतीं मुदा ।।
ब्रह्मा तया सह क्रीडां चकार स दिवानिशम् ।। २४ ।।
अतीव सुखसंभोगे निमग्नः सततं मुदा ।।
गूढे सर्वपुराणेषु किं पुनः श्रोतुमिच्छसि ।। २९ ।।
।।श्रीनारायण उवाच ।।
प्राणेशवचनं श्रुत्वा प्रहस्य परमेश्वरी ।।
भूयोऽपि परिपप्रच्छ कौतुकान्मानसं पुरा ।। २६ ।।
श्रीराधिकोवाच ।।
ब्रह्मा कथं न जग्राह वेश्यां स्वयमुपस्थिताम् ।।
न कर्मक्षेत्रे रहसि फलदाता च कर्मणाम् ।। २७ ।।
उपस्थितायास्त्यागे च महान्दोषो हि योषितः ।।
ज्ञात्वा देवो विधाता स कथं तत्याज मोहिनीम् ।। २८ ।।
श्रीनारायण उवाच ।।
राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः ।।
पाद्मकल्पस्य वृत्तान्तमुवाच परमेश्वरीम् ।। २९ ।।
श्रीकृष्ण उवाच।।
शृणु कान्ते प्रवक्ष्यामि पुरावृत्तान्तमीप्सितम् ।।
अकथ्यं गोपनीयं च महतामभिनिन्दितम् ।। 4.35.३० ।।
एकदा च प्रजाः स्रष्टुं विधाता प्रेरितो मया ।।
ससर्ज मनसा पुत्राञ्ज्वलतो ब्रह्मतेजसा।। ३१ ।।
सनकं च सनन्दं च सनातनमनुत्तमम् ।।
सनत्कुमारं वोढुं च कविं पञ्चशिखं विभुम् ।।३२ ।।
असितं कपिलं सिद्धं सिद्धान्मम कुलोद्भवान्।।
तान्नग्नान्पञ्चवर्षीयान्पिता स्रष्टुं जगाद ह।। ३३ ।।
प्रजाः स्रष्टुं प्रेरकं च जनकं तेऽवमन्य च ।।
प्रजग्मुस्तपसे तूर्णं ममार्चनपरायणाः ।। ३४ ।।
तदा रुष्टो जगद्धाता पुनः पुत्रान्विनिर्ममे ।।
रुद्रानेकादश वरान्रुदतो भीमविग्रहान् ।। ३५ ।।
तस्मिन्प्रयुज्य तरसा पुनः पुत्रान्विनिर्ममे ।।
योगी योगेन मां ध्यात्वा स्वात्मारामः स्वविग्रहे ।। ३६ ।।
वसिष्ठं पुलहं चैव क्रतुमङ्गिरसं तथा ।।
भृगुमत्रिं पुलस्त्यं च दक्षं कर्दममेव च ।। ३७ ।।
मरीचिं च विनिर्माय प्रजाः स्रष्टुं नियुज्य च ।।
प्रहृष्टमानसः पुत्रं कन्यैका च ससर्ज ह ।। ३८ ।।
कृष्णस्य कामिनः पुत्रः कामदेवो बभूव ह ।।
कन्या षोडशवर्षीया रत्नभूषणभूषिता ।। ३९ ।।
उवाच पुत्रं स विधिः सुदीप्तं पुरतः स्थितम् ।।
दुर्निवार्यं मत्कलांशं स्वात्मारामं मनोहरम् ।। 4.35.४० ।।
ब्रह्मोवाच ।।
स्त्रीपुंसोः क्रीडनार्थाय मुदा त्वं च विनिर्मितः ।।
हृष्टियोगेन सर्वेषामधिष्ठानं करिष्यसि ।। ४१ ।।
संमोहनं समुद्वेगं बीजस्तंभितकारणम् ।।
उन्मत्तबीजं ज्वलदं शश्वच्चेतनहारकम् ।। ४२ ।।
प्रगृह्यैतान्मया दत्तान्सर्वान्संमोहनं कुरु ।।
दुर्निवार्यो मम वराद्भव वत्स भवेषु च ।। ४३ ।।
बाणान्दत्त्वैवमुक्त्वा च प्रहृष्टश्च जगद्विधिः ।।
दृष्ट्वोवाच दुहितरं वरं दातुं समुद्यतः ।। ४४।।
एतस्मिन्नन्तरे कामो मनसाऽऽलोच्य मन्त्रणाम् ।।
कर्तुं शस्त्रपरीक्षां च बाणांश्चिक्षेप ब्रह्मणि ।। ४५ ।।
मंत्रपूतैश्च बाणैश्च दुर्वार्यैः स्मरणेन च ।।
अतिविद्धो महायोगी मूर्च्छितो हतचेतनः।। ४६ ।।
क्षणेन चेतनां प्राप्य ददर्शाग्रे च कन्यकाम् ।।
तां संभोक्तुं मनश्चक्रे सा दुद्राव भिया सती ।। ४७ ।।
दृष्ट्वा पश्चाच्च पितरं धावन्तं हतचेतनम् ।।
जगाम शरणं शीघ्रं भ्रातॄणां च तपस्विनाम् ।। ४८ ।।
ते तां समीपे संस्थाप्य तमूचुः पितरं क्रुधा ।।
हितं तथ्यं च वेदोक्तं नीतिसारं परं वचः ।। ४९ ।।
ऋषय ऊचुः ।।
अहो किमेतज्जनक कर्म तेऽतिविगर्हितम् ।।
नीचानां चरितं यत्तत्करोषि त्वं जगद्विधे ।। 4.35.५० ।।
पश्यन्ति सततं सन्तः प्रसूमिव परस्त्रियम् ।।
ये ते सर्वत्र पूज्याश्च परत्रेह जितेन्द्रियाः ।।५१ ।।
त्वं स्वयं वेदकर्ता च कन्यां संभोक्तुमिच्छसि ।।
कन्या च मातृवर्गेषु प्रविष्टा च श्रुतौ श्रुता ।। ५२ ।।
गुरोः पत्नी राजपत्नी विप्रपत्नी च या सती ।।
पत्नी च भ्रातृसुतयोर्मित्रपत्नी च तत्प्रसूः ।। ५३ ।।
प्रसूः पित्रोस्तथा भ्रातुः पत्नी श्वश्रूः स्वकन्यकाः ।।
जननी तत्सपत्नी च भगिनी सुरभी तथा ।। ५४ ।।
स्वाभीष्टसुरपत्नी च धात्रिकाऽन्नप्रदायिका ।।
गर्भधात्री स्वनाम्ना च भयात्त्रातुश्च कामिनी ।। ५५ ।।
एता वेदप्रणीताश्च सर्वेषां मातरः स्मृताः।।
एतास्वपि च सर्वासु न्यूनता नास्ति कासु च ।।५६।।
कन्यादाताऽन्नदाता च ज्ञानदाताऽभयप्रदः ।।
जन्मदो मन्त्रदो ज्येष्ठभ्राता च पितरः स्मृताः ।।५७ ।।
एता वहन्ति ये मूढा य एताञ्जनकानपि ।।
पच्यन्ते नरके ते च यावद्वै ब्रह्मणो वयः ।। ५८ ।।
तानन्धकूपे संस्थाप्य दूरतो यमकिङ्कराः।।
कुर्वन्ति ताडनं शश्वत्पुरीषं पाययन्ति च ।। ५९ ।।
त्वमेव विश्वकर्ता च शास्ता वै शमनस्य च ।।
वयं विधाता जगतां तेन गृह्णासि कन्यकाम् ।। 4.35.६० ।।
अस्माकं पुरतो दूरं गच्छ कामार्तमानस।।
न कुर्मो भस्मसात्कर्तुं शक्ताश्च जनकं वयम् ।।६१।।
गुरोर्दोषसहस्राणि क्षन्तुमर्हन्ति पण्डिताः ।।
सर्वघ्नं तं विनिघ्नन्ति नीतिज्ञाः स्वगुरुं विना ।।६२।।
गृह्णन्ति यदि सर्वस्वं शपन्तं निष्ठुरं गुरुम् ।।
साधवस्तं न निन्दन्ति प्रणमन्ति स्वभक्तितः ।।६३।।
ये द्विषन्ति च निन्दति गुरुमिष्टं सुरात्परम् ।।
पच्यन्ते तेऽन्धकूपे च यावच्चन्द्रदिवाकरौ।।६४।।
पुरीषं भुञ्जते नित्यं क्षुभिता यमताडनैः ।।
सर्पप्रमाणकीटैश्च दंशिताश्च दिवानिशम् ।। ६५।।
इत्येवमुक्त्वा मुनयः प्रणेमुस्तत्पदाम्बुजम् ।।
सर्वं भवति दैवेन प्रशान्तमनसा ध्रुवम् ।। ६६ ।।
उन्मुखा मुनयः सर्वे बभूवुश्च स्वकर्मणि।।
ब्रह्मा शरीरं संत्यक्तुं व्रीडया च समुद्यतः ।।६७।।
योगेन भित्त्वा षट्चक्रं सर्वान्प्राणान्निरुद्ध्य च।।
ब्रह्मरन्ध्रं समानीय तत्याज स्वेन वर्त्मना ।।६८।।
मनसा श्रीहरिं स्मृत्वा नमस्कारं चकार ह ।।
न मे मनः परद्रव्ये भविता स्तोकमीश्वर ।।६९।।
प्राणत्यागात्परं दुःखमयशश्च यशस्विनाम् ।।
बभूव हृदि कृत्वैकं ब्रह्मा लीनश्च ब्रह्मणि।। ।। 4.35.७० ।।
कन्या तातं मृतं दृष्ट्वा विलप्य च भृशं मुहुः।।
योगेन देहं तत्याज सा प्रलीना च ब्रह्मणि।।७१।।
मृतं तातं च भगिनीं दृष्ट्वा च मुनिपुंगवाः ।।
सस्मरुः श्रीहरिं कोपात्स्वात्मारामं विलप्य च ।।७२।।
नारायणो मदंशश्च कृपयाऽऽगत्य सत्वरम् ।।
ब्रह्माणं जीवयामास ब्रह्मज्ञानात्सुतां च ताम् ।।७३।।
ब्रह्मा पुरो हरिं दृष्ट्वा वरं वव्रे स्म वाञ्छितम् ।।
भक्तिं त्वच्चरणे शश्वन्निश्चलामनपायिनीम् ।।७४।।
ब्रह्माणं विरसं दृष्ट्वा तमुवाच कृपानिधिः ।।
प्रबोधवचनं सत्यं नीतिसारं मनोहरम् ।। ७५ ।।
श्रीनारायण उवाच ।।
शृणु ब्रह्मन्प्रवक्ष्येऽहं मुखमुत्तोल्य सांप्रतम् ।।
त्यज लज्जां जगन्नाथ हृदयज्वररूपिणीम् ।। ७६ ।।
सत्कीर्तिरपकीर्तिर्वा सुप्रतिष्ठाप्युपद्रवः ।।
क्षुद्राणां चैव महतां भवत्येव स्वकर्मणा ।।७७।।
सर्वेषामपि सर्वेभ्यः स्वकर्म बलवत्तरम् ।।
तस्मात्सन्तः प्रकुर्वन्ति नित्यं सत्कर्म संततम् ।। ७८ ।।
केचित्कुर्वन्ति निर्मूलं सर्वेषामपि कर्मणाम् ।।
कृतं कर्म परं भुक्त्वा हरिपादाब्जचेतसः ।।७९ ।।
कुकर्मणश्चापकीर्तिस्ततो लज्जा भवेद्ध्रुवम् ।।
सुकर्मणः सुप्रतिष्ठा सर्वत्र निर्मलं यशः ।। 4.35.८० ।।
कालेन रजसा देहो बलं रूपं शुभाशुभम् ।।
कीर्तिर्या त्रिगुणा चैव मोहश्चापयशो विधे ।। ८१ ।।
ऋणव्रणापवादाश्च जन्तूनां यान्ति कालतः ।।
महतां तौ च पूर्वोक्तौ नेतरश्च कदाचन ।। ८२ ।।
सदाऽपकीर्तिर्वसति परस्त्रीषु च वस्तुषु।।
तस्मात्ते नैव गृह्णन्ति सन्तः स्वक्लेशकारणे ।। ८३ ।।
स्मर मामन्तरे ब्राह्मे मदीयं विषयं कुरु।।
अतस्ते न मनो लोलं भविता परवस्तुषु ।। ८४ ।।
योषिद्रूपा च मे माया सर्वेषां मोहकारिणी ।।
लीलया कुरुते मोहं स्वात्मारामस्य संततम् ।। ८५ ।।
नानामुद्राश्रये देशे रागिणो संततं रतिः।।
स्तनाभिधे मांसपिण्डेऽधरे लालालयेऽशुचौ ।।८६।।
श्रोणिवक्त्रस्तनं तासां कामदेवालयं सदा ।।
तस्मात्ते न हि पश्यन्ति सन्तो हि धर्मभीरवः ।।८७।।
को धर्मः किं यशस्तेषां का प्रतिष्ठा च किं तपः।।
किं बुद्धिर्विद्या दानं च परस्त्रीषु च यन्मनः ।। ८८ ।।
इहाप्यपयशो दुःखं नरकेषु परत्र च ।।
वासः प्रहारस्तेषां च ताडनैः कृमिभक्षणैः ।। ८९ ।।
दुःखबीजं सुखं मत्वा मूढाश्च दैवदोषतः ।।
परस्त्रीसेवनं प्रीत्या कुर्वन्ति संततं मुदा ।। 4.35.९० ।।
उत्तमा मत्पदाम्भोजं सत्कर्म मध्यमाः सदा ।।
स्मरन्ति शश्वदधमाः परस्त्रीसेवनं मुदा ।। ९१ ।।
विपत्तिः संततं तस्य परवस्तुषु यन्मनः ।।
विशेषतः परस्त्रीषु सुवर्णेषु च भूमिषु ।। ९२ ।।
दैवात्परस्त्रियं दृष्ट्वा विरमेद्यो हरिं स्मरन् ।।
दृष्ट्वा परसुवर्णं च हस्तप्रक्षालनाच्छुचिः ।। ९३ ।।
सततं नैव संसक्ताः सन्तः स्वस्त्रीषु कामतः ।।
यक्ष्मव्याधिज्ञानहानिलोकनिन्दाभयेन च ।।९४।।
तपस्विनस्तपस्यायां शास्त्रचिन्तासु पण्डिताः।।
योगिनो योगचिन्तासु वेदार्थेषु च वैदिकाः ।।९५।।
साध्यश्च पतिसेवासु गृहस्था गृहकर्मसु ।।
विषयेषु विषयिणो मद्भक्ता मम सेवने ।। ९६ ।।
एते नियुक्ता एतेषु सभासु च प्रशंसिताः।।।
वेदोक्ताचरणेनैव तद्विरुद्धेन निन्दिताः ।।९७।।
सर्वे नित्यं प्रशंसन्ति शश्वत्सन्मार्गगामिनम् ।।
हालिका अपि निन्दन्ति कुवर्त्मगामिनं विधे ।।९८।।
भविता न परस्त्रीषु परवस्तुषु ते मनः ।।
अद्यप्रभृति जीवन्तं निविष्टं मद्वरेण च ।। ९९ ।।
मदीयविषये बाह्ये मया दत्तं कुरु प्रियम् ।।
अन्तरा मत्पदाम्भोजचिन्तां विघ्नविनाशिनीम् ।। 4.35.१०० ।।
कन्या भवतु मे ब्रह्मन्कामदेवस्य कामिनी ।।
रतिर्नाम परित्याज्या रत्यधिष्ठातृदेवता ।।१०१।।
इत्येवमुक्त्वा ब्रह्माणमाश्वास्य कमलापतिः ।।
जगाम नित्यं वैकुण्ठं वृन्दावनविनोदनः ।। १०२ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाकृष्णसंवादो नाम पञ्चत्रिंशोऽध्यायः ।। ३५ ।।