प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०४७

← अध्यायः ०४६ श्रीकृष्णजन्मखण्डः
अध्यायः ०४७
वेदव्यासः
अध्यायः ०४८ →


नारद उवाच ।।
अथ क्रीडांतरे राधा किं पप्रच्छ हरिं विभुम् ।।
कां कथां कथयामास कथ्यतां करुणानिधे ।। १ ।।
।। श्रीनारायण उवाच ।। ।।
उत्थाय सुखसंभोगाद्राधां कृत्वा पुरो हरिः ।।
उवास मलयद्रोणीं वटमूले मनोहरे ।। २ ।।
राधा तं परिपप्रच्छ सस्मितं सुमनोहरम् ।।
दर्पभङ्गः वज्रभृतो निगूढं श्रुतिसुन्दरम् ।। ३ ।।
।। श्रीराधिकोवाच ।।
श्रुतं यशः शूलभृतो दर्पभङ्गश्च दैवतः ।।
पार्वत्या दर्पभङ्गश्च विवाहश्च तयोरहो ।।४।।
अधुना श्रोतुमिच्छामि दर्पभङ्गं हरेर्हरे ।।
शेषाणां च क्रमेणैव वद व्यस्य जगद्गुरो ।। ५ ।।
श्रीकृष्ण उवाच ।।
दर्पभंगं सुरपतेस्त्रिषु लोकेषु विश्रुतम् ।।
कर्णपीयूषमतुलं सुन्दरं शृणु सुन्दरि ।। ६ ।।
पुरा शतमखो दर्पात्कृत्वा शतमखान्मुदा ।।
बभूव सर्वदेवानामध्यक्षः संपदा युतः ।। ७ ।।
दिनेदिने तदैश्वर्यं वर्द्धते तपसां फलात् ।।
दीक्षां तं कारयामास सिद्धमन्नं बृहस्पतिः ।।८।।
स जजाप महामन्त्रं पुष्करे शतवत्सरम् ।।
बभूव मन्त्रसिद्धश्च परिपूर्णमनोरथः ।। ९ ।।
ब्रह्मस्वरूपां प्रकृतिं संपन्मूढो न मन्यते ।।
सा तं शशाप स्वगुरोः शापं लेभेऽतिकोपतः।।।।4.47.१०।।
एकदा प्रकृतेः शापाद्धतबुद्धिः स्वसंसदि।।
गुरुं दृष्ट्वा समुत्थाय न ननाम मुदाऽन्वितः ।। ११ ।।
बृहस्पतिस्ततः कोपान्नोवास गृहमाययौ ।।
न तस्थौ तारकाभ्याशे तपसे काननं ययौ ।। १२ ।।
उवाच मनसा दीनो यातु संपद्धरेरिति ।।
अथ शक्रो मतिं प्राप्य क्व गतोऽतो मदीश्वरः ।।१३।।
इत्युक्त्वा वेगतः पीठाज्जगाम तारकान्तिकम्।।
प्रणम्य मातरं भक्त्या नतस्कन्धः पुटाञ्जलिः ।।।। १४ ।।
सर्वं निवेदनं कृत्वा रुरोदोच्चैर्मुहुर्मुहुः ।।
पुत्रस्य रोदनं दृष्ट्वा रुरोद तारका भृशम् ।। १५ ।।
वत्स गच्छ गृहं नैव गुरुं द्रक्ष्यसि साम्प्रतम् ।।
दुर्दिनान्ते गुरुं प्राप्य पुनर्लक्ष्मीमवाप्स्यसि ।। १६।।
अधुना कर्मणां भोगं भुङ्क्ष्व मूढ दुराशय।।
दुर्दिने स्वगुरौ दोषः सुदिने परितोषणम् ।।१७।।
सुदिनं दुर्दिनं शक्र कारणं सुखदुःखयोः ।।
इत्युक्त्वा तारका देवी विरराम पतिव्रता ।। १८ ।।
जगाम शक्रः स्नानार्थं स्वर्णदीं सुमनोहराम् ।।
ददर्श तत्र रुचिरां मार्जन्तीं च नितम्बिनीम् ।।१९।।
सस्मितां सकटाक्षां तामहल्यां गौतमप्रियाम् ।।
दृष्ट्वा च विपुलश्रोणीं स्तनयुग्मं मनोहरम् ।।4.47.२०।।
स तस्याः शक्रः संपश्यन्मुमोह काममोहितः ।।
पुनः स चेतनां प्राप्य विहाय स्नानमीश्वरि ।। २१ ।।
मूर्तिं विधाय तद्भर्तुस्तत्समीपं जगाम ह ।।
गत्वा तु स्निग्धवस्त्रां तां समाकृष्य स्मरातुरः ।। २२।।
चकार विविधं तत्र शृंगारं सुमनोहरम् ।।
मूर्च्छां संप्राप कामेन तन्द्रां च मुनिकामिनी ।।२३।।
निश्चेष्टा सुखसंभोगान्निश्चेष्टस्त्रिदशाधिपः ।।
एतस्मिन्नन्तरे तप्त्वा समागत्य मुनीश्वरः ।। २४ ।।
ददर्श गेहे मिथुनं मैथुने च रतिप्रिये ।।
दृष्ट्वा चुकोप स मुनिर्ज्वलन्निव हुताशनः ।। २५ ।।
विज्ञानेनातिरोषेण बभञ्ज सुरतिक्षणम् ।।
शक्रः स चेतनां प्राप्य दृष्ट्वा च मुनिपुंगवम् ।। २६ ।।
कालस्वरूपं त्रासेन दधार चरणाम्बुजम् ।।
कोपरक्तास्यनयनो देवं पादानतं भिया ।।
उवाच नीतिवचनं गौतमः शरणागतम् ।। २७ ।।
गौतम उवाच ।।
धिक् त्वामिन्द्र सुरश्रेष्ठ कश्यपात्मज पण्डित ।। २८ ।।
प्रपौत्र जगतां स्रष्टुर्बुद्धिस्ते कथमीदृशी ।।
मातामहः स्वयं दक्षोऽदितिर्माता पतिव्रता ।। २९ ।।
कर्मसाध्यः स्वभावश्च कुलधर्मं प्रबाधते ।।
वेदं विज्ञाय ज्ञानी त्वं योनिलुब्धोऽसि कर्मणा ।। 4.47.३० ।।
योनीनां च सहस्रं च तव गात्रे भवत्विह ।।
पूर्णवर्षं च सततं योनिगन्धं त्वमाप्नुहि ।। ३१ ।।
ततः सूर्यं समाराध्य योनिश्चक्षुर्भविष्यति ।।
मम प्राणेश्वरी दुष्टा येन मूढ त्वया कृता ।। ३२ ।।
मच्छापेन गुरोः कोपाद्भ्रष्टश्रीर्भव साम्प्रतम् ।।
गुरोरपेक्षया मूढ प्राणा नापहृतास्तव ।। ३३ ।।
तेजस्विनोऽतिबन्धोर्मे बंधुभेदभिया सुर ।।
उत्तिष्ठोत्तिष्ठ देवेन्द्र गच्छ वत्स स्वमन्दिरम् ।। ३४।।
क्षुभाशुभं च यत्किंचित्सर्वं कर्मोद्भवं भवेत् ।।
महामुनीन्द्रवचनाद्गतः शक्रश्च पुष्करम् ।।।२७।।
चकाराराधनं भक्त्या नैष्कृत्यं च चकार ह ।।
पादानतामहल्यां तामुवाच मुनिपुंगवः ।। ३६ ।।
वनं गत्वा चिरं तिष्ठ विधाय मूर्तिमश्मनः ।। ।।
अकामां चकमे शक्रः सर्वं जानाम्यहं प्रिये ।। ३७ ।।
तथा च परभोग्या मे न भोग्या व्रजाधमे ।।
परवीर्यं यदुदरे कामतोऽकामतोऽपि वा ।।३८।।
अहल्ये याति दैवेन तदुपायं निशामय ।।
अकामतो न च दुष्टा सा प्रायश्चित्तेन शुद्ध्यति ।।३९।।
कामभोगेन त्याज्या सा कर्मभोगेन शुद्ध्यति ।।
पितृपाके दैवपाके पूजायां नाधिकारिणी ।।4.47.४० ।।
षष्टिवर्षसहस्राणि कालसूत्रं प्रयाति सा।।
षष्टिवर्षसहस्राणि क्षयं कृत्वा स्वकर्मणः ।। ४१ ।।
स्वामिनो वचनात्सा तु प्रणम्य स्वामिनं भिया ।।
नाथ नाथेति कुर्वन्ती रुदन्ती वनमाप सा ।। ४२ ।।
षष्टिवर्षसहस्राणि भुक्त्वा भोगं मुनिप्रिया ।।
श्रीरामचरणस्पर्शात्सद्यः शुद्धा बभूव ह ।।४३।।
त्रैलोक्यमोहनं रूपं विधाय मुनिकामिनी ।।
जगाम गौतमाभ्याशं मुनिः संप्राप्य सुन्दरीम् ।। ४४ ।।
अथ शक्रस्य वृत्तांतं परमं शृणु सुन्दरि ।।
पापघ्नं पुण्यबीजं तत्संव्यस्य कथयामि ते ।। ४५ ।।
एकदा च गुरोः कोपात्प्रकृतेरवहेलनात् ।।
ब्रह्महत्या वज्रभृतो बभूव हतचेतसः ।। ४६ ।।
शक्रस्त्यक्तगुरुर्दैवग्रस्तो दैत्यनिपीडितः ।।
जगाम शरणं भीतो ब्रह्माणं जगतां गुरुम् ।।।। ४७ ।।
तदाज्ञया विश्वरूपं चकार च पुरोहितम् ।।
बभूव तत्र विश्वस्तो दैवाद्बुद्धिहतो हरिः ।। ४८ ।।
दैत्यदौहित्रस्य भावं विज्ञाय च विचक्षणः ।।
प्रचिच्छेद शिरस्तस्य तीक्ष्णबाणेन लीलया ।। ४९ ।।
विश्वरूपपिता त्वष्टा श्रुत्वा सद्यश्चुकोप ह ।।
इंद्रशत्रो विवर्द्धस्वेत्युक्त्वा यज्ञं चकार ह ।। 4.47.५० ।।
यज्ञकुंडात्समुत्तस्थौ वृत्रो नाम महासुरः ।।
चकार निग्रहं कोपाद्देवानामवलीलया।। ५१ ।।
शक्रो महामुनेरस्थ्नां वज्रं कृत्वा सुदारुणम् ।।
जघान वृत्रं देवानां कंटकं दैत्यमर्दनः ।। ५२ ।।
ब्रह्महत्या शुनासीरं दुद्राव हतचेतनम् ।।
रक्तवस्त्रपरीधाना वृत्रस्त्रीवेषधारिणी ।। ५३ ।।
सप्ततालप्रमाणा सा शुष्ककण्ठोष्ठतालुका ।।
ईषाप्रमाणदशना महाभीतं चकार तम् ।। ९४ ।।
धावंतं परिधावंती बलिष्ठा हतचेतनम् ।।
खड्गहस्ता दयाहीना वेगेन परिधावति ।। ५५ ।।
इंद्रो दृष्ट्वा च तां घोरां स्मारंस्मारं गुरोः पदम् ।।
विवेश मानससरो मृणालसूक्ष्मसूत्रतः ।। ५६।।
तत्र गंतुं न शक्ता सा ब्रह्मणः शापकारणात् ।।
सा तस्थौ वटशाखायां सरसस्तटसन्निधौ ।। ५७ ।।
अथात्र नहुषो भूपस्त्रिलोकेशो बभूव ह ।।
स ययाचे शचीं देवान्बलिष्ठो दुर्बलानपि ।। ५८ ।।
शची श्रुत्वा महाभीता तारकां शरणं ययौ ।।
तारा निर्भर्त्स्य स्वपतिं भृत्यपत्नीं ररक्ष च ।। ५९ ।।
शचीमाश्वास्य स्वगुरुर्जगाम तत्सरो मुदा ।।
आजुहाव शुनासीरं कातरं हतचेतनम् ।। 4.47.६० ।।
बृहस्पतिरुवाच ।।
उत्तिष्ठोत्तिष्ठ हे वत्स भयं किं ते मयि स्थिते ।।
त्वदीश्वरं स्वरेणैव निशामय भयं त्यज ।।
स्वरं बृहस्पतेर्ज्ञात्वा सर्वसिद्धीश्वरो हरिः ।। ६१ ।।
सूक्ष्मरूपं परित्यज्य स्वरूपं च दधार सः ।।
उत्थाय सद्यः संभ्रातो गुरुं तं सूर्यवर्चसम् ।।६२।।
दृष्ट्वा ननाम संप्रीत्या संप्रीतं त्यक्तकोपकम् ।।
पदांबुजे निपतितं रुदंतं भयविह्वलम् ।। ६३ ।।
निधाय वक्षसि प्रेम्णा रुरोद प्रेमविह्वलः ।।
रुदंतं वाक्पतिं तुष्टं तुष्टाव त्रिदशेश्वरः ।।
पुटांजलिः पुलकितो भक्तिनम्रात्मकंधरः ।। ६४ ।।
इंद्र उवाच ।।
क्षमस्व भगवन्दोषं कृपां कुरु कृपानिधे ।। ६५ ।।
भृत्यापराधं सततं न गृह्णाति सदीश्वरः ।।
स्वभार्यासु स्वशिष्येषु स्वभृत्येषु सुतेषु च ।। ६६ ।।
दुर्बलः सबलो वाऽपि को दंडं कर्तुमक्षमः ।।
त्रिषु कोटिषु देवेषु देवकोऽहमपंडितः ।।६७।।
त्वत्प्रसादात्सुरश्रेष्ठ कृपया वर्द्धितस्त्वया ।।
संहर्तुमीशस्त्वं सर्वमहं को वापि कीटवत् ।। ६८ ।।
स्वयं विधातुः पौत्रश्च पुनः स्रष्टुं स्वयं क्षमः ।।
इति तस्य स्तवं श्रुत्वा परितुष्टो गुरुः स्वयम् ।।
उवाच वचनं प्रीत्या प्रसन्नवदनेक्षणः ।। ६९ ।।
गुरुरुवाच ।।
स्थिरो भव महाभाग निश्चलां कमलां लभ ।। 4.47.७० ।।
संप्राप्य परमैश्वर्यं पूर्वस्माच्च चतुर्गुणम् ।।
गच्छामरावतीं वत्स राज्यं कुरु पुरंदर ।। ७१ ।।
हतशत्रुर्मत्प्रसादाद्गत्वा पश्य शचीं सतीम् ।।
इत्येवमुक्त्वा स गुरुः सशिष्यो गंतुमुद्यतः ।। ७२ ।।
ददर्श पुरतो घोरां ब्रह्महत्यां सुदुःसहाम् ।।
दृष्ट्वा शक्रो महाभीतस्तं गुरुं शरणं ययौ ।। ७३ ।।
बृहस्पतिर्महाभीतः सस्मार मधुसूदनम् ।।
एतस्मिन्नंतरे तत्र वाग्बभूवाशरीरिणी ।। ७४ ।।
स्वल्पाक्षरा च बह्वर्था तां शुश्राव बृहस्पतिः ।।
संसारविजयं नाम सर्वाशुभविनाशनम् ।। ७५ ।।
राधिके वचनं श्रुत्वा शिष्यं रक्षाधुनेति च।।
तदा त्वत्कवचं दत्त्वा शिष्याय शिष्यवत्सलः ।।७६।।
चकार भस्मसात्तां च हुंकारेणैव लीलया ।।
तदा शिष्यं गृहीत्वा च गत्वा ताममरावतीम् ।।७७।।
ददर्श च्छिन्नभग्नां च शत्रुणा वचनाद्गुरोः ।।
भर्तुरागमनं श्रुत्वा शची संहृष्टमानसा ।।७८।।
प्रणम्य च गुरुं भक्त्या स्वकांतं प्रणनाम सा ।।
श्रुत्वाऽऽगमनमिंद्रस्य समाजग्मुः सुराः प्रिये ।।
ऋषयो मुनयश्चैव हर्षगद्गदमानसाः ।।७९ ।।
योजयामास सत्कारं निर्मातुममरावतीम् ।।
पूर्णमब्दशतं शिल्पी निर्ममे त्वमरावतीम्।। 4.47.८० ।।
नानारत्नविचित्राढ्यां मणिरत्नेंद्रनिर्मिताम् ।।
मनोहरां निरुपमां न हि तुष्टो यया हरिः ।।८१।।
विश्वकर्मा गृहं गंतुं न शशाक विनाऽऽज्ञया।।
परमोद्विग्नचित्तश्च ब्रह्माणं शरणं ययौ ।। ८२ ।।
विज्ञाय तदभिप्रायं तमुवाच विधिः स्वयम् ।।
तव कर्मक्षयादेव तावच्छ्वो भवितेति च ।।८३।।
श्रुत्वा तद्वचनं कारुः शीघ्रं प्रापामरावतीम् ।।
ब्रह्मा जगाम वैकुण्ठे प्रणम्योवाच मातरम् ।।८४।।
हरिर्ब्रह्माणमाश्वास्य प्रस्थाप्य स्वगृहं च तम् ।।
विप्ररूपं समास्थाय चाजगामामरावतीम् ।। ८५ ।।
दण्डी छत्त्री शुक्लवासा बिभ्रत्तिलकमुज्ज्वलम् ।।
अतिखर्वः शुक्लदंतः सस्मितः सुमनोहरः ।। ८६ ।।
वयसाऽतिशिशुर्बुद्ध्या ज्ञानवृद्ध्या विचक्षणः ।।
स्वयं विधातुर्धाता च दाता च सर्वसंपदाम् ।। ८७ ।।
इंद्रद्वारे समुत्तिष्ठन्द्वारपालमुवाच ह ।।
ब्रूहीदं ब्रह्मणो द्वारे शीघ्रं त्वां द्रष्टुमागतः ।। ८८ ।।
इत्येवं वचनं श्रुत्वा द्वारि ज्ञानं चकार तम् ।।
स च शीघ्रं समागम्य ददर्श ब्राह्मणार्भकम् ।। ८९ ।।
बालकानां बालिकानां समूहैः परिवेष्टितम् ।।
हसद्भिश्च महोत्साहात्सस्मितं तेजसाऽन्वितम् ।। 4.47.९० ।।
प्रणनाम हरिर्भक्त्या तं हरिं शिशुरूपिणम् ।।
आशिषं युयुजे प्रीत्या तं हरिर्भक्तवत्सलः ।। ९१ ।।
मधुपर्कादिकं दत्त्वा शक्रः पूजां चकार तम् ।।
पप्रच्छागमनं कस्माद्वदेति विप्रबालकम् ।। ९२ ।।
इंद्रस्य वचनं श्रुत्वा तमुवाच द्विजार्भकः ।।
मेघ गम्भीरया वाचा बृहस्पतिगुरोर्गुरुः ।। ९३ ।।
ब्राह्मण उवाच ।।
समागतोऽहं त्वां द्रष्टुं प्रष्टुं वचनमीप्सितम् ।।
चित्रं नगरनिर्माणं समाकर्ण्याद्भुतं हरे ।। ९४ ।।
कतिवर्षं च निर्माणे भवान्संकल्पितो यथा ।।
कतिचित्तां विश्वकर्मा निर्माणं वा करिष्यति ।।।। ९५ ।।
एवंभूतं च निर्माणं न केनैंद्रेण निर्मितम् ।।
नैवंविधं सुनिर्माणे विश्वकर्मा परः क्षमः ।।९६।।
बालकस्य वचः श्रुत्वा जहास स सुरेश्वरः ।।
संपन्मदातिमत्तश्च पुनः पप्रच्छ बालकम् ।। ९७ ।।
कतींद्राणां समूहश्च त्वया दृष्टः श्रुतोऽथवा ।।
विश्वकर्मा कतिविधस्तं मे ब्रूहि शिशोऽधुना ।। ९८ ।।
शक्रस्य वचनं श्रुत्वा प्रहस्य विप्रबालकः ।।
तमुवाच श्रुतिसुखं पीयूषसदृशं वचः ।। ९९ ।।
।। ब्राह्मण उवाच ।।
जानामि कश्यपं तात तव तातं प्रजापतिम् ।।
मुनिं मरीचिनामानं तत्रालं च तपोनिधिम् ।। 4.47.१०० ।।
नाभिपद्मोद्भवं विष्णोः स्तुत्वा तं विधिमीश्वरम् ।।
रक्षितारं च तं विष्णुं परं सत्त्वगुणान्वितम् ।। १ ।।
एकार्णवं च प्रलयं सत्त्वशून्यं भयानकम् ।।
सृष्टिं कतिविधां शक्र कल्पं कतिविधं ध्रुवम् ।। २ ।।
ब्रह्मांडं च कतिविधं ब्रह्मविष्णुमहेश्वरान् ।।
ब्रह्माण्डेषु कतिविधानिन्द्रान्को गन्तुमीश्वरः ।।३।।
यदि संख्याऽस्ति रेणूनां धरायां च सुराधिप ।।
तथापि संख्या शक्राणां नास्त्येवेति विदुर्बुधाः ।।४।।
शक्रस्यायुश्चाधिकारो युगानामेकसप्ततिः ।।
अष्टाविंशतिशक्राणां पतनेऽहर्निशं विधेः ।। ५ ।।
विधेरष्टोत्तरशतमायुरेव प्रमाणतः।।
सुरेंद्राणां च का संख्या नास्ति संख्या विधेरपि ।। ६ ।।
ब्रह्मांडसंख्या यत्र क्व ब्रह्मविष्णुमहेश्वराः ।।
महाविष्णोर्लोमकूपोद्भवे तोये सुनिर्मले ।। ७।।
ब्रह्मांडेऽस्ति यथा नौका भवतोये च कृत्रिमा ।।
एवं लोम्नः प्रमाणेन ब्रह्मांडाः संत्यसंख्यकाः ।। ८ ।।
ब्रह्मांडे च कतिविधाः सुराः संत्येव त्वत्समाः ।।
एतस्मिन्नंतरे तत्र ददर्श पुरुषोत्तमः ।। ९ ।।
पिपीलिकासमूहं च व्यायतं धनुषां शतम् ।।
क्रमशस्तान्संनिरीक्ष्य जहासोच्चैर्द्विजार्भकः ।।4.47.११०।।
नोवाच किंचिन्मौनी च गंभीरः सगणो यथा।।
दृष्ट्वा हास्यं विप्रवटोर्गाथां श्रुत्वाऽतिविस्मितः ।।
पप्रच्छ च पुनर्विप्रं शुष्ककंठोष्ठतालुकः ।। ११ ।।
इंद्र उवाच ।।
कथं हससि विप्रेंद्रं मां शीघ्रं कारणं वद ।।
त्वं वा को मायया च्छन्नः शिशुरूपी गुणार्णवः ।। १२।।
इंद्रस्य वचनं श्रुत्वा तमुवाच द्विजार्भकः ।।
आध्यात्मिकं नीतिसारं ज्ञानबीजं परं वरम् ।। १३ ।।
ब्राह्मण उवाच ।।
दृष्टः पिपीलिकासंघो हेतुरस्य निगूढकः ।। १४ ।।
मा मां पृच्छ शोकबीजं तवान्यज्ञानकारणम् ।।
सांसारिकाणां संसारवृक्षमूलनिकृंतनम् ।।१५।।
अज्ञानतमसिच्छन्नं ज्ञानदीपमनुत्तमम् ।।
निगूढं सर्ववेदेषु सिद्धानामपि दुर्लभम् ।। १६ ।।
योगिनां प्राणतुल्यं च मूढाहंकारभंजनम् ।।
इत्युक्त्वा तत्र संतस्थौ सस्मितो द्विजपुंगवः ।।
पुनः पप्रच्छ शक्रस्तं शुष्ककंठोष्ठतालुकः ।। १७ ।।
शक्र उवाच ।।
ब्रूहि विप्रबटो शीघ्रं ज्ञानदीपं पुरातनम् ।।
न जानामि शिशुः कस्त्वं ज्ञानराशिः स्वमूर्तिमान् ।। १८ ।।
इंद्रस्य वचनं श्रुत्वा विप्ररूपी जनार्दनः ।।
ज्ञानं भाषितुमारेभे योगींद्राणां सुदुर्लभम् ।। १९ ।।
ब्राह्मण उवाच ।।
सृष्टः पिपीलिकासंघ एकैकः क्रमशो मया ।। 4.47.१२० ।।
सर्वे स्वकर्मणा शक्र शक्रीभूताः सुरालये ।।
अधुना कर्मणा सर्वे क्रमशो भूतजन्मनाम् ।। २१ ।।
अतीतकाले संप्राप्ता भूतजातिं पिपीलिकाम् ।।
कर्मणा जीविनो यांति वैकुंठं च निरामयम् ।। २२ ।।
कर्मणा ब्रह्मलोकं च शिवलोकं च कर्मणा ।।
स्वर्गं स्वर्गसमास्थानं पातालं च स्वकर्मणा ।। २३ ।।
कर्मणा नरकं घोरं स्वात्मदुःखैककारणम् ।।
कर्मणा सूकरीगर्भं कर्मणा क्षुद्रजीवनम् ।। २४ ।।
कर्मणा पशुपत्नीनां कर्मणा पक्षियोषिताम् ।।
कर्मणा कीटयोनिं च वृक्षत्वं च स्वकर्मणा ।।२५।।
स्वकर्मणा सुखी दुःखी सेव्यः सेवक एव च ।।
कर्मणा ब्राह्मणत्वं च दैवं चापि स्वकर्मणा ।। २६ ।।
स्वकर्मणा च प्रेतत्वं ब्रह्मत्वं च स्वकर्मणा ।।
कर्मणा व्याधियुक्तश्च कर्मणेवातिसुन्दरः ।। २७ ।।
कर्मणा स्वाङ्गहीनश्च स्वाङ्गवृद्धश्च कर्मणा ।।
विधाता कर्मसूत्रेण फलदाता च जीविनाम् ।। २८ ।।
कर्म स्वभावसाध्यं च स्वभावोऽभ्यासजीवकः ।।
इत्येवं कथितं सर्वमाध्यात्मिकपरं वचः ।। २९ ।।
सुखदं पुण्यदं सारं नरकार्णवतारकम् ।।
संसारः स्वप्नवत्सर्वं देवेन्द्र सचराचरम्।।4.47.१३०।।
मृत्युश्च मस्तकस्थायी सर्वेषां कालयोगतः ।।
जलबुद्बुदवत्सर्वं जीविनां च शुभाशुभम् ।। ३१ ।।
शक्र शश्वद्भ्रमत्येव नाविष्टस्तत्र पण्डितः ।।
इत्येवमुक्त्वा विप्रश्च तत्र तस्थौ च सस्मितः ।। ३२ ।।
विस्मितास्त्रैदशाध्यक्षो नात्मानं बहु मन्यते ।।
एतस्मिन्नन्तरे शीघ्रमाजगाम मुनीश्वरः ।। ३३ ।।
अतिवृद्धो महायोगी ज्ञानेन वयसा महान् ।।
कृष्णाजिनी जटाधारी बिभ्रत्तिलकमुज्ज्वलम् ।।।। ३४ ।।
वक्षःस्थले रोमचक्रं बिभर्ति मस्तके कटम् ।।
स्थितं सर्वं मध्यदेशे किंचिदुत्पाटितं स्फुटम् ।। ३५ ।।
समागत्य द्वयोर्मध्ये तस्थौ स्थाणुवदेव सः ।।
महेन्द्रो ब्राह्मणं दृष्ट्वा प्रणनाम मुदाऽन्वितः ।। ३६ ।।
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ।।
पप्रच्छ कुशलं विप्रं चकार विनयं पुनः ।। ३७ ।।
तुष्टावातिथिभावेन मुदा सादरपूर्वकम् ।।
विप्रार्भकस्तेन सार्द्धं संभाषां च चकार सः ।।
स्ववाञ्छितं परं प्राह सर्वं विनयपूर्वकम् ।। ३८ ।।
बालक उवाच ।।
कुतस्त्वमागतो विप्र किन्नाम तव वा वद ।।
को वाऽत्रागमने हेतुर्निवासः केन हेतुना ।। ३९ ।।
कटं कथं मस्तके ते लोमचक्रं च वक्षसि ।।
अत्युन्नतं मध्यदेशे किंचिदुत्पाटितं मुने ।।।। 4.47.१४० ।।
मां चेत्कृपाऽस्ति ते विप्र सर्वं संव्यस्य कथ्यताम् ।।
अत्यद्भुतमिदं सर्वं श्रोतुं कौतूहलं मम ।। ४१ ।।
स शिशोर्वचनं श्रुत्वा तमुवाच महामुनिः ।।
सर्वं स्वकीयवृत्तान्तं शक्रस्य पुरतो मुदा ।।४२।।
मुनिरुवाच ।। अल्पायुषा मया विप्र कुत्रापि न कृता गृहाः ।।
न विवाहश्चोपजीव्यं भिक्षोपजीविनाऽधुना ।। ४३ ।।
लोमशेति च मन्नाम हेतुर्विप्रस्य दर्शनम् ।।
वर्षणातपशान्त्यर्थं मस्तकस्थं कटं मम ।। ४४ ।।
वक्षस्थलस्थितं रोमचक्रं तत्कारणं शृणु ।।
सांसारिकाणां भयदं विवेकजननं परम् ।। ४५ ।।
आयुःसंख्याप्रमाणं मे लोमचक्रं च वक्षसि ।।
शक्रैकपतनं विप्र लोमैकोत्पाटनं मम ।। ४६।।
उत्पादितानि लोमानि तेन मध्ये स्थितानि च ।।
ब्रह्मणो द्विपरार्धे च मम मृत्युर्निरूपितः ।। ४७ ।।
असंख्यविधयो ब्रह्मन्मरिष्यन्ति मृता अपि ।।
कलत्रेण च पुत्रेण गृहेण किं प्रयोजनम् ।। ४८ ।।
ब्रह्मणः पतने चक्षुर्निमेषश्च हरेर्भवेत् ।।
तत्पादपद्ममतुलं चिन्तयामि निरंतरम् ।। ४९ ।।
दुर्लभं श्रीहरेर्दास्यं भक्तिर्मुक्तिर्गरीयसी ।।
स्वप्नवत्सर्वमैश्वर्यं तद्भक्तिव्यवधायकम् ।। 4.47.१५० ।।
इदं मद्गुरुणा दत्तं शंभुना ज्ञानमुत्तमम् ।।
विना भक्तिं न गृह्णामि सालोक्यादिचतुष्टयम् ।। ५१ ।।
इत्येवमुक्त्वा स मुनिर्जगाम शिवसन्निधिम् ।।
शिशुरूपी हरिस्तत्रैवान्तर्धानं चकार ह ।। ५२ ।।
इन्द्रस्तु स्वप्नवद्दृष्ट्वा बभूव तत्र विस्मितः ।।
तृष्णामात्रं च संपत्तौ नास्त्येव परमेश्वरे ।। ५३ ।।
विश्वकर्माणमानीय प्रियमुक्त्वा शतक्रतुः ।।
दत्त्वा रत्नानि संपूज्य तं प्रस्थापितवान्गृहम् ।। ५४ ।।
सर्वं विन्यस्य पुत्रे च शरणं गन्तुमुद्यतः ।।
शचीं राज्यश्रियं त्यक्त्वा विवेकी क्षयकामुकः ।। ५५ ।।
दृष्ट्वा विवेकिनं कान्तं हृदयेन विदूयता ।।
शची जगाम शोकार्ता संत्रस्ता शरणं गुरोः ।। ५५ ।।
सर्वं निवेदनं कृत्वा समानीय बृहस्पतिम् ।।
बोधयामास शक्रं तं नीतिसारेण कामिनी।।५७।।
गुरोः शास्त्रविशेषं च दम्पतीरससंयुतम्।।
विधाय च स्वयं प्रीत्या पाठयामास तं मुदा ।। ५८ ।।
मुनिः शास्त्रविशेषं च बोधयामास वाक्पतिः ।।
स चकार तदा राज्यं वृन्दावन विनोदिनि ।। ५९ ।।
इत्येवं कथितं सर्वं शक्रदर्पविमोचनम् ।।
साक्षाद्दृष्टो दर्पभङ्गो नन्दयज्ञे सुरेश्वरि ।। 4.47.१६० ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णराधासंवादे सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।