ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०४६
← अध्यायः ०४५ | श्रीकृष्णजन्मखण्डः अध्यायः ०४६ वेदव्यासः |
अध्यायः ०४७ → |
राधिकोवाच ।।
सुचिरं च मृतं कामं शंकरेण च जीवितम् ।।
रतिः पुनः प्रियं प्राप्य किं चकार मुदाऽन्विता ।। १ ।।
स्त्रीणां स्वस्वामिविच्छेदो मरणादतिदुष्करः ।।
पुनः संमेलनं भर्तुः सुखं परमदुर्लभम् ।। २ ।।
शिवः सतीं तां संप्राप्य सङ्गे मङ्गलकर्मणि।।
चिरं प्रनष्टविरहः किं चकार मुदाऽन्वितः ।। ३ ।।
कलत्रविरहः पुंसां सर्वशोकात्सुदुष्करः ।।
पुनः संमीलनं तस्याः प्राणदानाधिकं सुखम् ।। ४ ।।
रतिः पुंसो विरहिणी शिवः स्त्रीविरही चिरम् ।।
द्वयोर्द्वयोश्च संप्राप्तौ किं बभूव द्वयोः सुखम् ।। ५ ।।
तदेवं श्रोतुमिच्छामि परं कौतूहलं मम ।।
कृपया विदुषां श्रेष्ठ सव्यासं कथय प्रभो ।। ६ ।।
मेलनं शक्तिशिवयो रतिमन्मथयोस्ततः ।।
शोकापहं श्रुतवतां सर्वमङ्गलकारणम् ।। ७ ।।
नारायण उवाच ।।
इत्युक्त्वा राधिका देवी सस्मिता विरराम ह ।।
कृष्णस्तद्वचनं श्रुत्वा सस्मितस्तामुवाच ह ।। ८ ।।
कृष्ण उवाच ।।
मृतं कामं पुनः प्राप्य कामार्ता कामकामिनी ।।
स्वालयं तं समानीय हरोद्वाहगृहादहो ।। ९ ।।
भर्तुः सुवेषं विविधं स्वात्मनः स्वालिभिर्मुदा ।।
कारयामास यत्नेन सा रती रमणोत्सुका ।। 4.46.१० ।।
ज्ञात्वा कामस्तु तद्भावं कामशास्त्रविधायकः ।।
रत्नयानं समारुह्य जगाम स्वालयाद्वनम् ।। ११ ।।
शैलेशैलेऽतिरम्ये च नद्यांनद्यां नदेनदे ।।
द्वीपेद्वीपे सिन्धुतटे पुष्पोद्याने मनोहरे ।। १२ ।।
काञ्चने भूमिनिकरे वटमृलेऽतिनिर्जने ।।
नदीपुलिनभूम्यां च पुष्पिते पुष्पकानने ।। १३ ।।
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रुते ।।
सुगन्धिवायुनाऽऽकीर्णे दधती जलसीकरम् ।। १४ ।।
चित्तेषु चेतनानां च हरणं योषितामहो ।।
कलामानप्रकारेण शृङ्गारं च चकार सा ।।१५।।
पूर्णमब्दशतं दिव्यं स रेमे वामया सह ।।
दिवानिशं न बुबुधे संसक्तः सततं मुदा ।। १६ ।।
तस्थतुस्तौ च तत्रैव संसक्तौ सततं मुदा ।।
सुरतौ च न विरतौ रतिशास्त्रविशारदौ ।। १७ ।।
पतिविच्छेदसंतापं विजहौ सा रतिर्मुदा ।।
प्राप्य रत्नमपहृतं कः क्षणं त्यक्तुमुत्सहेत् ।। १८ ।।
इत्येवं कथितं सर्वं रतिसंतापकारणम् ।।
शृङ्गारं शक्तिशिवयोरतुलं शृणु राधिके ।। १९ ।।
शृण्वतां कर्णपीयूषं परमाश्चर्यमीप्सितम् ।।
सर्वसंतापहरणं सुखदं पुण्यदं शुभम् ।। 4.46.२० ।।
वसञ्छ्वशुरगेहे स पार्वत्या सह शंकरः ।।
तदनुज्ञां समादाय क्रीडार्थं प्रययौ वनम् ।। २१ ।।
रत्नस्यन्दनमारुह्य रत्नसारपरिच्छदम्।।
रत्नसारेण खचितं रचितं विश्वकर्मणा ।। २२ ।।
शतशृङ्गे सुवसने मलये गन्धमादने ।।
नन्दने पुष्पभद्रे च पारिभद्रे च भद्रके।।२३।।
पुलिन्दे च कलिन्दे च पुंड्रे पिंडारकेंऽधके ।।
वनेवनेऽतिरम्ये च सागराणां तटेतटे ।। २४ ।।
निकटेऽस्तगिरेः पार्श्ववटमूले मनोहरे ।।
चकार करुणां यत्र परित्यज्य सती शिवम् ।। २५ ।।
नानास्थानेषु रहसि पशुपक्षिविवर्जिते ।।
यथामनोरथंगामी स रेमे वामया सह ।। २६ ।।
यत्रयत्र शिवं नीत्वा बभ्राम धरणीतलम् ।।
तत्सर्वं दर्शयामास सतीं शंभुर्मुदाऽन्वितः ।। २७ ।।
कृत्वा विहारं सुचिरं न पूर्णं मानसं तयोः ।।
महाशृङ्गारमारेभे सहस्राब्दं जगत्पिता ।। २८ ।।
मायातीतोऽतिमायेशो मायासक्तः स्वमायया ।।
कालं न बुबुधे योगी सुखेन कालकारकः ।। २९ ।।
शक्तिशक्तिमतोस्तत्र न बभूव परिश्रमः ।।
जहतोः सर्वसंतापमन्योन्यविरहोद्भवम् ।। 4.46.३० ।।
सुखसंसक्तमनसोः पुलकाञ्चितगात्रयोः ।।
कामबाणमूर्च्छितयोः पुष्पशय्याशयानयोः ।। ३१ ।।
नग्नयोः सुखसंभोगाद्रतिशास्त्रविधिज्ञयोः ।।
नखदन्तप्रहारैश्च क्षतविक्षतदेहयोः ।। ३२ ।।
चन्दनागुरुकस्तूरीसिन्दूरबिन्दुलिप्तयोः।।
निबद्धकेशकबरीश्लथयोश्छिन्नमाल्ययोः।। ३३ ।।
वसनानां नूपुराणां कङ्कणानां च सुन्दरि ।।
वलयानां कुण्डलानां शब्दैः क्रीडां प्रकुर्वतोः ।। ३४ ।।
पुष्पतल्पं दलितयोर्बाष्पोत्कर्षं च बिभ्रतोः ।।
तेजसा समयोः शश्वत्क्रीडया कौतुकेन च ।। ३९ ।।
भारेण विश्वंभरयोर्भाराक्रान्ता वसुन्धरा ।।
सा विदीर्णा चकम्पे च सशैलवनसागरा।।३६।।
तयोर्भरभराक्रान्तधरायाश्च भरेण च ।।
भाराक्रान्तो हि शेषश्च तद्भरार्तोऽपि कच्छपः ।। ३७ ।।
कच्छपस्य भरेणैव सर्वाधारा समीरणाः ।।
महाविक्लवयुक्ताश्च सर्वप्राणाश्च स्तम्भिताः ।। ३८ ।।
स्तम्भितेषु समीरेषु त्रिलोका भयविह्वलाः ।।
ब्रह्मादयः सुराः सर्वे वैकुण्ठं शरणं ययुः ।। ३९ ।।
सर्वं निवेदनं चक्रुर्नारायणपदाम्बुजे ।।
नारायणश्च भगवानुवाच कमलोद्भवम् ।। 4.46.४० ।।
श्रीनारायण उवाच ।।
शृङ्गारभङ्गसमयो भविता नाधुना विधे ।।
कालप्रयुक्तं कार्यं च सिद्धं तत्समयोचितम् ।। ४१ ।।
पूर्णे वर्षसहस्रे च स्वेच्छया विरमिष्यति ।।
शंभोः संयोगमिष्टं च को भेदं कर्तुमीश्वरः ।।४२।।
स्त्रीपुंसो रतिविच्छेदमुपायेन करोति यः ।।
तस्य स्त्रीपुंसयोर्भेदो भवेज्जन्मनिजन्मनि ।। ४३ ।।
यात्यन्ते कालसूत्रे च वर्षलक्षं स पातकी ।।
भ्रष्टज्ञानो नष्टकीर्तिरलक्ष्मीको भवेदिह।।४४।।
रम्भायुक्तं शक्रमिमं चकार विरतं रतौ ।।
महामुनीन्द्रो दुर्वासास्तत्स्त्रीभेदो बभूव ह ।। ४५ ।।
पुनरन्यां स संप्राप्य निषेव्य शूलपाणिनम् ।।
दिव्यवर्षसहस्रं च विजहौ विरहज्वरम् ।। ४६ ।।
रोहिणीसहितं चन्द्रं चकार विरतं रतौ ।।
महर्षिर्गौतमस्तस्य स्त्रीविच्छेदो बभूव ह ।। ४७ ।।
पुनः शिवं समाराध्य प्राप्याहल्यां च पुष्करे ।।
दिव्यवर्षसहस्रं च विजहौ विरहज्वरम् ।। ४८ ।।
मुनिः स्वभार्यासंसक्ते दिवसे निर्जने वने ।।
ब्रह्माण्डकसुतं नीत्वा चकार विरतं रुषा ।। ४९ ।।
बभूव पुत्रविच्छेदस्तस्य कल्पान्तरे पुनः ।।
शिवं निषेव्य संप्राप्य पुत्रं तत्याज विक्लवम् ।। 4.46.५० ।।
हरिश्चन्द्रो हालिकं च वृषल्या सह संयुतम् ।।
वारयामास निश्चेष्टं निर्जने तत्फलं शृणु ।। ५१ ।।
भ्रष्टः श्रीराज्यवित्तेभ्यस्तं चकारावलीलया ।।
विश्वामित्रो महर्षिश्च ताडयामास तं पुरा ।।।। ५२ ।।
ततः शिवं समाराध्य दातारं सर्वसंपदाम् ।।
सद्यो जगाम वैकुण्ठं सगणो मम मन्दिरम् ।। ५३ ।।
आजामिलं द्विजश्रेष्ठं वृषल्या सह संयुतम् ।।
न भिया वारयामासुः सुरास्तं चापि केचन ।। ५४ ।।
निष्पन्ने कर्मभोगे च स मद्भक्तो मुमोच ह ।।
मन्नामस्मृतिमात्रेण चाजगाम ममालयम् ।। ५५ ।।
सर्वं निषेकसाध्यं च निषेको बलवान्विधे ।।
निषेकफलदाताऽहं निषेकः केन वार्यते ।। ५६ ।।
दिव्यं वर्षसहस्रं च शंभोः संभोगकर्मकृत् ।।
निषेकफलदातुस्तु निषेकफलसंचयम् ।। ५७ ।।
पूर्णे वर्षसहस्रे च गत्वा तत्र महेश्वरः ।।
येन वीर्यं पतेद्भूमौ तत्करिष्यति निश्चितम् ।।९८ ।।
तत्र वीर्ये च भविता स्कन्दको भक्ततारकः ।।
सदा भद्रस्वरूपोऽहं भयं किं वो मयि स्थिते ।। ५९ ।।
अधुना त्वं गृहं गच्छ भगवान्स्वगणैः सह ।।
करोतु शंभुः संभोगं पार्वत्या सह निर्जने।।।। 4.46.६० ।।
इत्युक्त्वा कमलाकान्तः शीघ्रं स्वान्तःपुरं ययौ ।।
स्वालयं प्रययुर्देवाः शिवः स्वस्थो रतौ रतः ।। ६१ ।।
नारायण उवाच ।।
इत्युक्त्वा राधिकां कृष्णः सकटाक्षां च सस्मिताम् ।।
जगाम चन्दनवनं निर्जने च तया सह ।। ६२ ।।
अतीव निर्जनं रम्यं वायुना सुरभीकृतम् ।।
पुष्पोद्यानैः समाकीर्णं तत्र क्रीडां चकार ह ।। ६३ ।।
पुष्पतल्पसमाकीर्णे परपुष्टरुतश्रुते ।।
भ्रमरवध्वनि संयुक्ते कामिनीनां मनोहरे ।। ६४ ।।
कृष्णसंभोगमात्रेण सुखसंमूर्च्छिता च सा ।।
अतीव मूर्च्छितः कृष्णो राधाङ्गस्पर्शमात्रतः ।।।। ६५ ।।
तस्थतुस्तत्र संयुक्तौ राधारासेश्वरौ मुने ।।
अतीवरतिनिश्चेष्टौ किं भूयः श्रोतुमिच्छसि ।। ६६ ।।
इत्येवं मङ्गलं कर्म यः शृणोति समाहितः ।।
कदाचिद्बन्धुविच्छेदो न भवेत्तस्य नारद ।।६७।।
महाशोकार्णवे मग्नो भेदे पुत्रकलत्रयोः।।
मद्भृत्यानां च बन्धूनां मासं श्रुत्वा लभेद्ध्रुवम् ।। ६८ ।।
सूत उवाच ।।
इत्युक्त्वा धर्मपुत्रश्च विरराम महामुनिः ।।
पुनः संप्रष्टुमारेभे देवर्षिः कौतुकान्वितः ।। ६९ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे मंगलवर्णनं नाम षट्चत्वारिंशोऽध्यायः ।। ४६ ।।