प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०४९

← अध्यायः ०४८ श्रीकृष्णजन्मखण्डः
अध्यायः ०४९
वेदव्यासः
अध्यायः ०५० →

।। श्रीकृष्ण उवाच ।।
सूर्यः प्रणम्य ब्रह्माणं मुदायुक्तस्तदाज्ञया ।।
चकार विनयं प्रीत्या तेजस्वी त्रिगुणात्मकः ।। १ ।।
अथ वह्नेरुपाख्यानं सावधानं निशामय ।।
गोपनीयं पुराणेषु कर्णपीयूषमुत्तमम् ।।२।।
त्रैलोक्यं भस्मसात्कर्तुमेकदाऽग्निः समुद्यतः।।
शततालप्रमाणान्तां शिखां कृत्वा भयानकीम्।।३।।
क्षुभितः कुपितश्चैव भृगोः शापस्य कारणात् ।।
स्वं च तेजस्विनं मत्वा तुच्छं मत्वाऽन्यमात्मनः ।।४।।
एतस्मिन्नन्तरे विष्णुराजगामावलीलया।।
वह्नेस्तां दाहिकीं शक्तिं तां जहार पुरः स्थितः ।। ५ ।।
मायया शिशुरूपी च तमुवाच जनार्दनः ।।
सस्मितो विनयं कृत्वा भक्तिनम्रात्मकन्धरः ।। ६ ।।
शिशुरुवाच ।।
कथं रुष्टोऽसि भगवन्भवान्मां कारणं वद ।।
त्रैलोक्यं भस्मसात्कर्तुमुद्यतोऽसि निरर्थकम् ।।७।।
त्वमेव भृगुणा शप्तो भृगोश्च दमनं कुरु ।।
एकापराधात्त्रैलोक्यं भस्मीकर्तुं न चार्हसि ।। ८ ।।
विश्वं च ब्रह्मणा सृष्टं तस्य पाता स्वयं हरिः ।।
संहर्ता भगवान्रुद्र एवमेव क्रमो भवेत् ।। ९ ।।
तत्कथं भस्मसात्कर्तुमीश्वरे शंकरे स्थिते ।।
रक्षितारं हरिं जित्वा संहारं कुरु सत्वरम् ।। 4.49.१० ।।
इत्युक्त्वा ब्राह्मणबटुः शरपत्रं पुरः स्थितम् ।।
अतिशुष्कं करे धृत्वा दग्धं कर्तुं ददौ मुदा ।।११।।
दृष्ट्वा शुष्केन्धनो वह्निर्लेलिहानो भयानकः ।।
स वव्रे शिखया विप्रं मेघेन शशिनं यथा ।। १२ ।।
न च दग्धं शुष्कपत्रं लोमैकं च शिशोस्तथा ।।
दृष्ट्वा व्रीडायुतो वह्निर्निस्तब्धो हि शिशोः पुरः ।।१३।।
कृत्वा वह्नेर्दर्पभङ्गमन्तर्धानं चकार सः ।।
वह्निः स्वमूर्तिं संहृत्य स्वस्थानं भीतवद्ययौ ।। १४ ।।
उक्तो वह्नेर्दर्पभङ्गः परं वै श्रोतुमिच्छसि ।।
नित्यनूतनमाख्यानं देवानां दर्पमोचनम् ।। १५ ।।
श्रीराधिकोवाच ।।
शेषाणां दर्पभंगं च क्रमेण कथय प्रभो ।।
कथापीयूषधारांते श्रुत्वा तृप्येत को भुवि ।। १६ ।।
श्रीनारायण उवाच ।।
राधिकावचनं श्रुत्वा सस्मितो भगवान्प्रभुः ।।
कथां कथितुमारेभे श्रुत्वा रम्यां पुरातनीम् ।। १७ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे अग्निदर्पमोचनं नामैकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।। ।।