प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०४९ श्रीकृष्णजन्मखण्डः
अध्यायः ०५०
वेदव्यासः
अध्यायः ०५१ →

।। श्रीकृष्ण उवाच ।।
दुर्वाससो दर्पभङ्गं कथयामि शृणु प्रिये ।।
महामुनेर्योगतश्च रुद्रांशस्यातितेजसः ।।१।।
एकदा चाम्बरीषश्च कृत्वा च द्वादशीव्रतम् ।।
पारणं कर्तुमारेभे भोजयित्वा द्विजान्बहून् ।। २ ।।
एतस्मिन्नन्तरे तत्र चाजगाम मुनिः स्वयम् ।।
क्षुधार्तश्च तृषार्त्तश्च विष्णुव्रतपरायणः ।। ३ ।।
मां भोजय महाभागेत्येवं स नृपमुक्तवान् ।।
राजा भक्त्या ददौ तस्मै परमान्नं सुधोपमम् ।। ४ ।।
सकेशं पायसं दृष्ट्वा राजानं शप्तुमुद्यतः ।।
जटां निकृत्य शिरसः स्थापयामास भूतले ।। ५ ।।
जटामध्यात्समुद्भूतो ज्वलदग्निशिखोपमः ।।
सप्ततालप्रमाणश्च पुरुषः प्रलयांतकः।। ६ ।।
नृपश्रेष्ठं स राजानं कोपेन हन्तुमुद्यतः ।।
भयेन कम्पिताः सर्वे शुष्ककण्ठोष्ठतालुकाः ।।७।।
सस्मार च महाभीतो राजा मम पदाम्बुजम् ।।
सर्वविघ्रस्योपशमः स्मृतिमात्राद्बभूव ह ।। ८ ।।
एतस्मिन्नन्तरे चक्रं दुर्निवार्यं सुदर्शनम् ।।
तेजसा मम तुल्यं च कोटिसूर्यप्रभोपमम् ।। ९ ।।
आविर्बभूव सहसा सभामध्ये च घूर्णितम् ।।
निकृत्य कृत्यापुरुषं दुद्राव मुनिपुङ्गवम् ।। 4.50.१० ।।
सशैल सागरां पृथ्वीं काञ्चनीं भूमिमुत्तमाम् ।।
भ्रामयित्वा महीं सर्वां पुनर्दुद्राव तं मुनिम् ।। ११ ।।
धावन्तं मुक्तकेशं तं भीतं कातरमातुरम्।।
तेजसाऽऽच्छाद्य सूर्यं तं दीप्तिं कुर्वन्तमुत्तमाम् ।।१२।।
कैलासं सप्तवर्गं च ब्रह्मलोकमनामयम् ।।
विप्रेन्द्रो भ्रमणं कृत्वा वैकुण्ठं शरणं ययौ ।। १३।।
पादपद्मे पतन्तं च ददर्श विप्रपुङ्गवम् ।।
कृपया च कृपासिन्धुर्ददौ विप्राय निर्भयम् ।। १४ ।।
नारायणवरेणैव बभूव विज्वरो द्विजः।।
पुनर्ययौ हरिं स्तुत्वा नृपगेहं तदाज्ञया।।१५।।
राजा मुनीन्द्रं संप्राप्य भोजयामास पायसम् ।।
स्वयं च पारणं चक्रे सस्त्रीकः सहबान्धवः।।१६।।
राजानमाशिषं कृत्वा भुक्त्वा विप्रो गृहं ययौ ।।
मया नियोजितं चक्रं भक्तानां रक्षणाय च ।। १७।।
नश्यन्ति सर्वे प्रलये न मे भक्तः प्रणश्यति।।
सर्वे देवा मम प्राणा भक्ताः प्राणाधिका मम।।१८।।
त्वं च लक्ष्मीर्महामाया सावित्री वा सरस्वती।।
ब्रह्मा शंभुरनन्तश्च धर्मश्च ब्राह्मणास्तथा।।१९।।
गोपाङ्गनाश्च गोपाश्च सर्वे प्रियतमा मम।।
तेभ्यः प्रियाः परा भक्ताः प्रियो भक्तान्न कश्चन ।।4.50.२०।।
दत्त्वा सुदर्शनं चक्रं भक्तानां रक्षणाय च।।
तथापि न प्रतीतिर्मे स्वयं द्रष्टुं प्रयामि तान्।।२१।।
दुर्वाससो दर्पभङ्गः श्रुतो मत्तः सुरेश्वरि ।।
आज्ञापय महाभागे किं भूयः श्रोतुमिच्छसि ।। २२ ।।
श्रीराधिकोवाच ।।
धन्वन्तरेर्दर्पभङ्गं कथयस्व जगद्गुरो ।।
पुराणे गोपनीयं च श्रोतुं कौतूहलं मम ।। २३ ।।
श्रीनारायण उवाच ।।
राधिकावचनं श्रुत्वा जहास मधुसूदनः ।।
कथां कथितुमारेभे श्रुतिरम्यां पुरातनीम् ।। २४ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे दुर्वाससो दर्पभङ्गो नाम पञ्चाशत्तमोऽध्यायः ।। ५० ।।