प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०५३ श्रीकृष्णजन्मखण्डः
अध्यायः ०५४
वेदव्यासः
अध्यायः ०५५ →

नारद उवाच ।।
अतः परं किं रहस्यं बभूव मुनिसत्तम ।।
कथं जगाम भगवान्मथुरां नन्दमन्दिरात् ।। १ ।।
नन्दो दधार प्राणांश्च विच्छेदेन हरेः कथम् ।।
गोपाङ्गना यशोदा वा कृष्णैकतानमानसाः ।।२।।
चक्षुर्निमेषविच्छेदाद्या राधा न हि जीवति ।।
कथं दधार सा देवी प्राणान्प्राणेश्वरं विना ।। ३ ।।
येये तत्सङ्गिनो गोपाः शयनासनभोगतः ।।
कथं विसस्मरुस्ते च तादृशं बांधवं व्रजे ।।४ ।।
श्रीकृष्णो मथुरां गत्वा किं किं कर्म चकार सः ।।
स्वर्गारोहणपर्यन्तं तद्भवान्वक्तुमर्हति ।। ५ ।।
श्रीनारायण उवाच ।।
कंसश्चकार यज्ञं च समाहूतो धनुर्मखम् ।।
जगाम तत्र भगवांस्तेन राज्ञा निमन्त्रितः ।। ६ ।।
राजा प्रस्थापयामास चाक्रूरं भगवत्प्रियम् ।।
अक्रूरः प्रेरितो राज्ञा गत्वा च नन्दमन्दिरम्।। ७ ।।
श्रीकृष्णं च गृहीत्वा स सगणं मथुरां गतः ।।
कृष्णः श्रीमथुरां गत्वा जघान नृपतिं मुने ।। ८ ।।
जघान रजकं चैव चाणूरं मुष्टिकं गजम् ।।
चकार पित्रोरुद्धारं बान्धवानां च बान्धवः ।। ९ ।।
कुब्जया सह शृङ्गारं कृत्वा च कौतुकेन च ।।
तं च प्रस्थापयामास गोलोकं गोपिकापतिः ।। 4.54.१० ।।
चकार कृपया विष्णुर्मालाकारस्य मोक्षणम् ।।
कृपया चोद्धवद्वारा बोधयामास गोपिकाः ।। ११ ।।
तदोपनीतो भगवानवन्तीनगरं ययौ ।।
चकार विद्याग्रहणं मुनेः सांदीपनेर्गुरोः ।। १२ ।।
ततो जित्वा जरासन्धं निहत्य यवनेश्वरम् ।।
उग्रसेनं च नृपतिं चकार विधिपूर्वकम् ।। १३ ।।
गत्वा समुद्रनिकटं निर्माय द्वारकां पुरीम् ।।
जहार रुक्मिणीं देवीं जित्वा नृपतिसंघकम् ।।१४ ।।
कालिंदीं लक्ष्मणां शैब्यां सत्यां जांबवतीं सतीम् ।।
मित्रविंदां नाग्नजितीं समुद्वाहं चकार सः ।। १५ ।।
निहत्य नरकं भूपं रणेन दारुणेन च ।।
पत्नीषोडशसाहस्रं विहारं च चकार सः ।। १६ ।।
जहार पारिजातं च जित्वा शक्रं च लीलया ।।
चिच्छेद बाणहस्तांश्च जित्वा च चन्द्रशेखरम् ।। १७ ।।
पौत्रस्य मोक्षणं कृत्वा पुनरागत्य द्वारकाम् ।।
आत्मानं दर्शयामास लोकांश्च प्रतिमन्दिरम् ।।१८ ।।
योगे च वसुदेवस्य तीर्थयात्राप्रसंगतः ।।
प्राणाधिष्ठातृदेवीं च ददर्श तत्र राधिकाम् ।। १९ ।।
पूर्णे च शतवर्षे च सुदाम्नः शापमोक्षणे ।।
पुनर्ययौ तया सार्द्धं पुण्यं वृन्दावनं वनम् ।। 4.54.२० ।।
पुनश्चतुर्दशाब्दं च तया सार्धं जगत्पतिः ।।
चकार रासं रासे च पुण्यक्षेत्रे च भारते ।। २१ ।।
पूर्णमेकादशाब्दं च निवृत्य नन्दमंदिरे ।।
मथुरायां द्वारकायां पूर्णमब्दशतं विभुः ।। २२ ।।
चकार भारहरणं पृथिव्यां पृथुविक्रमः।।
पंचविंशतिवर्षे च शतवर्षाधिकं मुने ।। २३ ।।
तिष्ठञ्जगाम गोलोकं पृथिव्यां च पुरातनः ।।
यशोदायै च नन्दाय वृषभानाय धीमते ।। २४ ।।
राधामात्रे कलावत्यै ददौ सामीप्यमोक्षणम् ।।
कृष्णेन सार्द्धं गोपी च राधिका च कुतूहलात् ।। २५ ।।
निबध्य धर्मसेतुं च वेदोक्तं च युगे युगे ।।
इत्येवं कथितं सर्वं समासेन महामुने ।।२६।।
श्रीकृष्णचरितं रम्यं चतुर्वर्गफलप्रदम् ।।
ब्रह्मादिस्तम्बपर्यन्तं सर्वं नश्वरमेव च ।।२७।।
भज तं परमानन्दं सानन्दं नन्दनन्दनम् ।।
स्वेच्छामयं परं ब्रह्म परमात्मानमीश्वरम्।।२८।।
परमव्ययमव्यक्तं भक्तानुग्रहविग्रहम् ।।
सत्य नित्यं स्वतंत्रं च सर्वेशं प्रकृतेः परम् ।। २९ ।।
निर्गुणं च निरीहं च निराकारं निरञ्जनम् ।। 4.54.३० ।।
इति श्रीब्रह्मैववर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णराधिकासंवादो नाम चतुष्पञ्चाशत्तमोऽध्यायः ।। ५४ ।। ।।

श्रीकृष्णार्पणमस्तु ।।

।। पूर्वार्द्धं समाप्तम् ।। ।।

।। शुभं भवतु ।।

इदं पुस्तकं मुम्बय्यां श्रीकृष्णदासात्मजेन क्षेमराजेन स्वकीये श्रीवेङ्कटेश्वर ( स्टीम् ) मुद्रणयन्त्रालयेऽङ्कयित्वा प्रकाशितम् ।

संवत् १९८८, शकाब्दाः १८५३