ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०५३

← अध्यायः ०५२ श्रीकृष्णजन्मखण्डः
अध्यायः ०५३
वेदव्यासः
अध्यायः ०५४ →

।। नारद उवाच ।।
समतीते पूर्णरासे किं चकार जगत्पतिः ।।
रहस्यं किं बभूवाथ तद्भवान्वक्तुमर्हति ।। १ ।।
श्रीनारायण उवाच ।।
रासं निवर्त्य रासे च रासेश्वर्या समन्वितः ।।
स्वयं रासेश्वरस्तस्माद्यमुनापुलिनं ययौ ।। २ ।।
तत्र स्नात्वा जलं पीत्वा निर्मलं निर्मले जले ।।
सार्द्धं गोपाङ्गनाभिश्च जलक्रीडां चकार सः ।। ३ ।।
ततो जगाम भगवान्भाण्डीरं राधया सह ।।
गोपाङ्गनाश्च स्वगृहान्प्रययुर्विरहातुराः ।। ४ ।।
क्रीडां चकार रहसि भाण्डीरे मालतीवने ।।
मालतीपुष्पशय्यायां रम्यायां रमणोत्सुकः ।। ५ ।।
कृत्वा क्रीडां च तत्रैव वासन्तीकाननं ययौ ।।
रेमे तत्रैव रासेशो वसन्ते सुमनोहरे ।। ६ ।।
तत्रैव रमणं कृत्वा ययौ चन्दनकाननम् ।।
चन्दनोक्षितसर्वांगो गृहीत्वा चन्दनोक्षितम्।। १७ ।।
रम्ये चन्दनतल्पे च स्निग्धे चन्दनपल्लवे ।।
पूर्णचन्द्रे समुदिते विजहार तया सह ।। ८ ।।
कृत्वा विहारं तत्रैव ययौ चम्पककाननम् ।।
रम्ये चम्पकतल्पे च चकार रतिमीश्वरी।। ९ ।।
रतिं निर्वर्त्य तत्रैव ययौ पद्मवनं प्रभुः ।।
पद्मपत्रसमाकीर्णे तल्पेऽतिसुमनोहरे ।। 4.53.१०।।
सार्धं तत्र पद्ममुख्या शीतेन पद्मवायुना।।
चकार सुखसंभोगं ययौ निद्रां तया सह ।। ११ ।।
विहाय निद्रां निद्रेशो ददर्श निद्रितां प्रियाम् ।।
शयानां पद्मतल्पे च सुखसंभोगमात्रतः ।। १२ ।।
दृष्ट्वा मुखं च घर्माक्तं शरच्चन्द्रविनिंदितम् ।।
अतिसंलुप्तसिन्दूरं लुप्तं कज्जलमुल्बणम् ।। १३ ।।
संलुप्ताधररागं च संलुप्तगण्डपत्रकम् ।।
विस्रस्तकबरीभारं नेत्रोत्पलविमुद्रितम् ।। १४ ।।
रत्नकुण्डलयुग्मेनामूल्येन परिशोभितम् ।।
राजितं मौक्तिकेनैव गजराजोद्भवेन च ।। १५ ।।
प्रेम्णा स्वसूक्ष्मवस्त्रेण वह्निशुद्धेन माधवः ।।
चकार मार्जनं भक्त्या तद्वक्त्रं भक्तवत्सलः ।। १६ ।।
केशसंमार्जनं कृत्वा निर्माय कबरीं हरिः ।।
माधवीमालतीमालाजालेन परिशोभिताम् ।। १७ ।।
रत्नपट्टसूत्रबद्धां वामवक्त्रां मनोहराम् ।।
अतीव वर्तुलाकारां कुन्दपुष्पसुशोभिताम् ।। १८ ।।
ददौ सिन्दूरतिलकमधश्चन्दनमुज्ज्वलम् ।।
कस्तूरीबिन्दुना सार्द्धं परितः परिशोभिताम् ।। १९ ।।
चकार पत्रकं गण्डयुग्मे चित्रविचित्रितम् ।।
प्रददौ कज्जलं भक्त्या नेत्रोत्पलसमुज्ज्वलम् ।। ।। 4.53.२० ।।
चकाराधररागं च राधायाश्चानुरागतः ।।
कर्णभूषणयुग्मं च चकारातीव निर्मलम् ।। २१ ।।
अमूल्यरत्नहारं च स्तनभार युगोज्ज्वलम् ।।
ददौ कण्ठे च वैकुण्ठो मणिराजिविराजितम् ।। २२ ।।
वह्निशुद्धांशुकं दिव्यममूल्यं विश्वरत्नतः ।।
वासयामास वसनं कस्तूरीकुङ्कुमाक्तकम् ।। २३ ।।
प्रददौ पादयुगले रत्नमञ्जीररञ्जितम् ।।
चकारालक्तकं भक्त्या पादुङ्गुलिनखेषु च ।।२४।।
चकार सेवां सेव्यायाः सेव्यस्त्रिजगतां सताम् ।।
अहो सेवकसंभक्त्या श्वेतेन चामरेण च ।। २५ ।।
सर्वभावविदां श्रेष्ठो बोधज्ञः कामशास्त्रवित् ।।
कामिनीं बोधयामास वासयामास वक्षसि ।। २६ ।।
प्रेम्णा च प्रददौ तस्यै सद्रत्नदर्पणं शुभम् ।।
सुवेषदर्शनार्थं च मुखचन्द्रं च मार्जितुम् ।। २७।।
नानापुष्पैर्विरचितामम्लानां चन्दनोक्षिताम् ।।
गण्डे सौभाग्ययुक्तायाः सौभाग्येन ददौ हरिः ।। २८ ।।
कस्तूरीकुङ्कमाक्तं च सुगन्धिचन्दनं ततः ।।
ददौ प्रियायाः सर्वाङ्गे प्रियः प्रेमभरेण च ।। २९ ।।
पारिजातस्य कुसुमं दत्तं रहसि ब्रह्मणा ।।
प्रददौ तत्कबर्यां च ललितायां च नारद ।। 4.53.३० ।।
कमलं निर्मलं दिव्यं सहस्रदलमुज्ज्वलम् ।।
शिवेन दत्तं रहसि ददौ तद्दक्षिणे करे ।। ३१ ।।
अतिसारं मणीन्द्राणां मणिरत्नं च कौस्तुभम् ।।
दत्तं रहसि धर्मेण तस्यै सुप्रीतये ददौ ।। ३२।।
आसवं रत्नपात्रस्थं दस्रदत्तं च निर्जने ।।
पानार्थं प्रददौ तस्यै कामोन्मादकरं परम्।।३३।।
मालतीमाधवीकुन्दमन्दारचम्पकादिकम्।।
पुष्पं सद्रत्नपात्रस्थं तस्यै सुप्रीतये ददौ ।। ३४ ।।
सुदुर्लभं च ताम्बूलं कर्पूरादिसुसंस्कृतम् ।।
भक्षणं कारयामास समयज्ञश्च तां प्रियाम् ।। ३५ ।।
सुदुर्लभं च विश्वेषु वाक्पतेः परिनिर्मितम् ।।
अनुत्तमममूल्यं च वरुणेन रहःस्थले ।। ३६ ।।
अतिसूक्ष्ममनुपमं दत्तं भक्त्या विराजितम् ।।
वासयामास वसनं कृत्वा नग्नां च कौतुकात् ।। ३७ ।।
देवराजेन दत्तं च गजराजेन्द्रमौक्तिकम् ।।
नासिकाभूषणं चारु तस्यै सुप्रीतये ददौ ।। ३८ ।।
एतस्मिन्नन्तरे तत्र सुशीलाद्याश्च गोपिकाः ।।
षष्टिः सत्सहचर्यश्च राधायाः सुप्रतिष्ठिताः ।। ३९ ।।
षष्टिसत्कोटिगोपीभिः सार्धं संहृष्टमानसाः ।।
आययुः पादचिह्नेन प्रियस्य वहतः प्रियाम् ।। 4.53.४० ।।
काश्चिच्चंदनहस्ताश्च काश्चिच्चामरवाहिकाः ।।
काश्चित्कस्तूरिहस्ताश्च मालाहस्ताश्च काश्चन ।। ४१ ।।
काश्चित्सिंदूरहस्ताश्च काश्चित्कंकतिकाकराः ।।
काश्चिदलक्तककरा वस्त्रहस्ताश्च काश्चन ।। ४२ ।।
काश्चिद्दर्पणहस्ताश्च पुष्पपात्रधरा वराः ।।
काश्चित्क्रीडापद्महस्ता मालाहस्ताश्च काश्चन ।। ४३ ।।
काश्चिदासवहस्ताश्च काश्चिद्भूषणवाहिकाः ।।
करतालकराः काश्चिन्मृदंगवाहिकाः पराः ।। ४४ ।।
स्वरयंत्रकराः काश्चिद्वीणाहस्ताश्च काश्चन ।।
षट्त्रिंशद्रागरागिण्यो गोपिकारूपधारिकाः ।। ४५ ।।
गोलोकादागतायाश्च भारतं राधया सह ।।
काश्चिज्जगुश्च ननृतुस्तत्रागत्य च काश्चन ।। ४६ ।।
काश्चिच्चक्रुश्च सेवां च राधायाः श्वेतचामरैः ।।
काश्चिच्चक्रुश्च देव्याश्च पादसंवाहनं मुदा ।।४७।।
काचिद्ददौ च ताम्बूलं भक्षणार्थे महामुने ।।
एवं कौतुकयुक्तश्च पुण्ये वृन्दावने वने ।। ।। ४८ ।।
प्रतस्थौ गोपिकासार्द्धं राधावक्षःस्थलस्थितः ।।
क्षणं पपौ च माध्वीकं प्रियया सह माधवः ।। ४९ ।।
क्षणं चखाद ताम्बूलं क्षणं निद्रां ययौ मुदा ।।
क्षणं चकार शृङ्गारं रत्ननिर्मितमन्दिरे ।। 4.53.५० ।।
क्षणं जलविहारं च चकार यमुनाजले ।।
इत्येवं कथिता वत्स रासक्रीडा हरेरहो ।।५१।।
स्वेच्छामयस्यात्मनश्च परिपूर्णतमस्य च ।।
निर्गुणस्य स्वतन्त्रस्य परस्य प्रकृतेः प्रभोः ।।५२।।
ब्रह्मविष्णुशिवादीनामीश्वरस्य परस्य च ।।
कृष्णजन्मरहस्यं च बालक्रीडनमीप्सितम्।।५३।।
उक्तं किशोरचरितं किं भूयः श्रोतुमिच्छसि ।। ५४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णरासक्रीडावर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ।। ५३ ।।