प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६२ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ६३
[[लेखकः :|]]
अध्यायः ६४ →


अथ त्रिषष्टितमोध्यायः
नारायण उवाच
अथ कंसो विचिन्त्यैवं दृष्ट्वा दुःस्वप्नमेव च ।
समुद्विग्नो महाभीतो निराहारो निरुत्सुकः ।। १ ।।

पुत्रं मित्रं बन्धुगणं बान्धवं च पुरोहितम् ।
समानीय सभामध्ये तानुवाच सुदुःखितः ।। २ ।।

कंस उवाच
मया दृष्टो निशीथे यो दुःस्वप्नो हि भयप्रदः ।
निबोधत बुधाः सर्वे बान्धवाश्च पुरोहिताः ।। ३ ।।

बिभ्रती रक्तपुष्पाणां मालां सा रक्तचन्दनम् ।
रक्ताम्बनं खड्गतीक्ष्णं खर्परं च भयंकरम् ।। ४ ।।

प्रकृत्याट्टाट्टहासं च लोलजिह्वा भयंकरी ।
अतीव वृद्धा कृष्णाङ्गी नगरे मम नृत्यति ।। ५ ।।

मुक्तकेशी छिन्ननासा कृष्णा कृष्णाम्बारप्रिया ।
विधवा सा महाशूद्री मामालिङ्गितुमिच्छति ।। ६ ।।

मलिनं चैलखण्डं च बिभ्रती रूक्षमूर्धजान् ।
दधती चूर्णतिलकं कपोलै मम वक्षसि ।। ७ ।।

कृष्णवर्णानि पक्वानि च्छिन्नभिन्नानि सत्यक ।
पतन्ति कृत्वा शब्दांश्च शश्वत्तालफलानि च ।। ८ ।।

कुचैलो विकृताकारो म्लेच्छो हि रूक्षमूर्धजः ।
ददाति मह्यं भूषायां छिन्नभिन्नकपर्दकान् ।। ९ ।।

महारुष्टा च दिव्या स्त्री पतिपुत्रवती सती ।
बभञ्ज पूर्णकुम्भं च साऽभिशप्य पुनः पुनः ।। १० ।।

अम्लानामोंडूमालां च रक्तचन्दनचर्चिताम् ।
ददाति मङ्यं विप्रश्च महारुष्टोऽतिशप्य च ।। ११ ।।

क्षणमङ्गारवृष्टिश्च भस्मवृष्टिः क्षणं क्षणम् ।
क्षणं क्षणं रक्तवृष्टिर्भवेच्च नगरे मम ।। १२ ।।

वानरं वायसं श्वानं भल्लूकं सूकरं खरम् ।
पश्यामि विकटाकारं शब्दं कुर्वन्तमुल्बणम् ।। १३ ।।

पश्यामि शुष्ककाष्ठानां राशिमम्लानकज्जलम् ।
अरुणोदयवेलायां कपींश्चिन्ननखानि च ।। १४ ।।

पीतवस्त्रपरिधाना शुक्लचन्दनचर्चिता ।
बिभ्रती मालतीमालां रत्नभूषणभूषिता ।। १५ ।।

क्रीडाकमलहस्ता सा सिन्दूरबिन्दुशोभिता ।
कृत्वाऽभिशापं मां रुषटा याति मन्मन्दिरात्सती ।। १६ ।।

पाशहस्तांश्च पुरुषान्मुक्तकेशान्भयंकरान् ।
अतिरूक्षांश्च पश्यामि विशातो नगरं मम ।। १७ ।।

नग्ननारी सुक्तकेशी नृत्यन्ती च गृहे गृहे ।
अतीव विकृताकारां पश्यामि सस्मितां सदा ।। १८ ।।

छिन्ननासा च विधवा महाशूद्री दिगम्बरा ।
सा तैलाभ्यङ्गितं मां च करोत्यतिभयंकरी ।। १९ ।।

निर्वाणाङ्गारयुक्ताश्च भस्मबूर्णा दिगम्बरा ।
अतिप्रभातसमये चित्राः पश्यामि सस्मिताः ।। २० ।।

पश्यामि च विवाहं च नृत्यगीतमनोहरम् ।
रक्तवस्त्रपरीधानान्पुरिषान्रक्तमीर्धजान् ।। २१ ।।

रक्तं वमन्तं पुरुषं नृत्यन्तं नग्नमुल्बणम् ।
धावन्तं च शयानं च पश्यामि सस्मितं सदा ।। २२ ।।

राहुग्रस्तं च गगने मण्डलं चन्द्रसूर्ययौः ।
एककालेच पश्यामि सर्वग्रासं च बान्धवाः ।। २३ ।।

उल्कापातं धूमकेतुं भूकम्पं राष्ट्रविप्लवम् ।
झञ्झावातं महोत्पातं पश्यामि च पुरोहित ।। २४ ।।

वायुना घूर्णमानांश्च च्छिन्नस्कन्धान्महीरुहान् ।
पतितान्पर्वताश्चैव पश्यामि पृथिवीतले ।। २५ ।।

पुरुषं छिन्नशिरसं रृत्यन्तं नग्नमुच्छ्रितम् ।
मुण्डमालाकरं घोरं पश्यामि च गृहे गृहे ।। २६ ।।

दग्थं सर्वाश्रमं भक्मपूर्णमङ्गारसंकुलम् ।
हाहाकारं च कुर्वन्तं सर्वं पश्यामि सर्वतः ।। २७ ।।

इत्येवमुक्त्वा राजा स विरराम सभातले ।
दृषद्वा (श्रृत्वा) स्वप्तं बान्धवाश्च न तमुक्त्वानिशश्वसुः ।। २८ ।।

जहार चेतनां सद्यः सत्यकश्च पुरोहितः ।
मत्वा विनाशं कंसस्य यजमानस्य नारद ।। २९ ।।

रुरोद नारीवर्गश्च पिता माता च शोकतः ।
मेने विनाशकालं च सद्यः स्वयमुपस्थितम् ।। ३० ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo कंसदुःखप्न-
कथनं नाम त्रिषष्टितमोऽध्यायः ।। ६३ ।।