प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६३ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ६४
[[लेखकः :|]]
अध्यायः ६५ →

अथ चतुःषष्टितमोऽध्यायः
नारायण उवाच
सर्व कृत्वा परामर्शं सत्यकश्च पुरोहितः ।
बुद्धिमाञ्छुक्रशिष्यश्च तमुवाच हितं मुने ।। १ ।।

सत्यक उवाच
भयं त्यज महाभाग भयं किं ते मयि स्थिते ।
कुरु यागं महेशस्य मर्वारिष्टविनाशनम् ।। २ ।।

यागो धनुर्मखो नाम बह्वन्नो बहुदक्षिणः ।
दुःशप्नानां नाशकरः शत्रुभीतिविनाशकः ।। ३ ।।

आध्यात्मिकमाधिदैवमाधिभौतिकमुत्कटम् ।
एषां त्रिविधोत्पातानां खण्डनो भूतिवर्धंनः ।। ४ ।।

यागे समाप्ते शंभुश्च जरामृत्युहरं वरम् ।
ददाति साक्षाद्भवति दाता च सर्वसंपदाम् ।। ५ ।।

चकारेमं च यागं च पुरा बाणो महाबलः ।
नन्दी परशुरामश्च भल्लश्च बलिनां वरः ।। ६ ।।

पुरा ददौ धनुरिदं शिवो नन्दीश्वराय च ।
यागेन भूत्वा सिद्धः स ददौ बाणाय धार्मिकः ।। ७ ।।

कृत्वा यागं महासिद्धो ददौ रामाय पुष्करे ।
तुभ्यं ददौ परशुरामः कृपया च कृपानिधिः ।। ८ ।।

सहस्रहस्तपरिमितं दैर्ध्येऽतिकठिनं नृप ।
दशहस्तप्रशस्तं च शंकरेच्छाविनिर्मितम् ।। ९ ।।

पशुपतेः पशुपतं युक्तयानेन दुर्वहम् ।
सर्वे भङ्क्तुं न शक्ताश्च देवं नारायणं विना ।। १० ।।

यागे च धनुषः पूजां शंकरस्य तु शंकरे ।
कुरु शीघ्रं शुभार्थं च सर्वान्कुरु निमन्त्रणम् ।। ११ ।।

अस्मिन्यागे धनुर्भङ्गो भवेद्यदि नराधिप ।
विनाशो यजमानस्य भविष्यति न संशयः ।। १२ ।।

भग्ने धनुषि यागश्च भग्नो भवति निश्चितम् ।
फलं ददाति को वाऽत्र चानिष्पन्ने च कर्मणि ।। १३ ।।

ब्रह्मा च धनुषो मूले मध्ये नारायणः स्वयम् ।
अग्रे चोग्रप्रतापश्च महादेवो महामते ।। १४ ।।

धनुर्हि त्रिविकारं च सद्रत्नखचितं वरम् ।
ग्रीष्ममध्याङ्नमार्तंण्डप्रभाप्रच्छन्नकारण् ।। १५ ।।

अशक्तश्च नमयितुमनन्तश्च महाबलः ।
सुर्यश्च कार्तिकेयश्च का कथाऽन्यस्य भूमिप ।। १६ ।।

त्रिपुरारिः पुराऽनेन जघान त्रिपुरं मुदा ।
निर्भयं कुरु स्वच्छन्दं मङ्गलार्ह महोत्सवम् ।। १७ ।।

मत्यकस्य वचः श्रुत्वा चन्द्रवंशविवर्धनः ।
उवाच कंसः सर्वार्थे सततं च हितैषिणम् ।। १८ ।।

कंस उवाच
वसुदेवगृहे जज्ञे मद्वधी कुरनाशनः ।
स्वच्छन्दं नन्दगेहे च वर्धते नन्दनन्दनः ।। १९ ।।

मद्वन्धुवर्गाञ्छूरांश्च मन्त्रिणः सुविशारदान् ।
भगिनीं पूतनां पूतां जघान बालको बली ।। २०।।
गोवर्धनं दधार्रककरेण बलवर्धनः ।
महेन्द्रस्य च शूरस्य चकार च पराभवम् ।। २१ ।।

ब्रह्माणं दर्शयामास ब्रह्मरूपं चराचरम् ।
निवहं बारवत्सानां चकार कृत्रिमं मुदा ।। २२ ।।

तमेव बलिनं हन्तुं मन्त्रणां कुरु सत्यक ।
मम शत्रुर्विना तेन नास्तिह धरणीतले ।। २३ ।।

नहि स्वर्गे न पाताले त्रिषु लोकेषु निश्चितम् ।
सन्ति सन्तश्च राजानः सर्वत्र मम बान्धवाः ।। २४ ।।

महातपस्वी ब्रह्मा च तपस्वीं शंकरः स्वयाम् ।
विष्णुः सर्वत्र सर्वात्मा समदर्शो सनातनः ।। २५ ।।

नन्दपुत्रं निहत्याहं त्रिषु लोकेषु पूजितः ।
मार्वभौमो भविष्यामि सप्तद्वीपेश्वरो महान् ।। २६ ।।

स्वर्गे निहत्य शक्रं च दुर्बलं दैत्यनिर्जितम् ।
भविष्यामि महेन्द्रश्च तत्र निर्जित्य भास्करम् ।। २७ ।।

यक्ष्मग्रस्तं च चन्द्रं च ममैव पूर्वपूरुषम् ।
वायुं कुबेरं वरुणं यमं जेष्यामि निश्चितम् ।। २८ ।।

गच्छ नन्दव्रजं शीघ्रं नन्दं च नन्दनन्दनम् ।
तद्भ्रातरं च बलिनं बलमानय संप्रतम् ।। २९ ।।

कंसस्य वचनं श्रुत्वा तमुवाच स सत्यकः ।
हितं सत्यं नीतिसारं परं सामयिकं तथा ।। ३० ।।

सत्यक उवाच
अक्रूरमुद्धवं वाऽपि वसुदेवमथापि वा ।
प्रस्थापय महाभाग नन्दव्रजमभीप्सितम् ।। ३१ ।।

सत्यकस्य वचः श्रुत्वा वसन्तं तत्र संसदि ।
स्वर्णसिंहासनस्थं च वसुदेवमुवाच सः ।। ३२ ।।

कंम उवाच
तत्तवज्ञो नीतिशास्त्राणां त्वमुपायविशारदः ।
व्रज नन्दव्रजं बन्धो वसुदेव मुतालयम् ।। ३३ ।।

वृषभानं च नन्दं च बलं च नन्दनन्दनम् ।
शीघ्रमानय यज्ञेऽत्र सर्वं गोकुलवासिनम् ।। ३४ ।।

गृहीत्वा पत्रिकां दूता गच्छन्तु च चतुर्दिश्म् ।
नृपान्मुनिगणान्सर्वान्कर्तुं विज्ञापनं मुदा ।। ३५ ।।

नृपस्य वचनं श्रुत्वा शुष्ककण्ठोष्ठतालुकः ।
उवाच वचनं ब्रह्मन् हृदयेन विदूषता ।। ३६ ।।

वसुदेव उवाच
नियुक्तमत्र राजेन्द्र गमनं मम सांप्रतम् ।
विज्ञापितुं नन्दव्रजं नन्दं वा नन्दनन्दनम् ।। ३७ ।।

यद्यायातो नन्दपुत्रो यागो ते च महोत्सवे ।
अवश्यं तद्विरोधश्च भविष्यति त्वया सह ।। ३८ ।।

तमहं च समानीय कारयिष्यामि संयुतम् ।
इति मे न हि भद्रं च विध्नस्तस्य तवापि च ।। ३९ ।।

पित्राऽऽनोतो मृतः कृष्ण इति सर्वो वदिष्यति ।
वसुदेवः सुतद्वारा जघान नृपमेव च ।। ४० ।।

द्वयोरेकतरस्यापि सद्यो मृत्युर्भविष्यति ।
पतिष्यन्ति च शूराश्च नास्ति युद्धं निरामिषम् ।। ४१ ।।

वसुदेववचः श्रुत्वा रक्तपङ्कचलोचनः ।
खड्गं गृहीत्वा तं हन्तुं प्रययौ नृपतीश्वरः ।। ४२ ।।

हाहेति कृत्वा पुत्रं च वारयामास तत्क्षणम् ।
उग्रसेनो महाराजमतीव बलवान्मुने ।। ४३ ।।

स्वपीठाद्वसुदेवश्च कोपाविष्टो गृहं ययौ ।
अक्रूरं प्रेरयामास गन्तुं नन्दव्रजं नृपः ।। ४४ ।।

दूतान्प्रस्थापयामास शीघ्रं प्रतिदिशं तथा ।
आययुर्मुनयः सर्वे नृपश्च सपरिच्छदा ।। ४५ ।।

दिक्पालाश्च सुराः सर्वे ब्राह्मणाश्च तपस्विनः ।
सनकश्च सनन्दश्च वोढुः पञ्चशिखस्तथा ।। ४६ ।।

सनत्कुमारो भगवान्प्रज्वलन्ब्रह्मतेजसा ।
कपिलश्चासुरिः पैलः सुमन्तुश्च सनातनः ।। ४७ ।।

पुलहश्च पुलस्त्यश्च भृसुश्च क्रतुरङ्गिराः ।
मरीचिः कश्यपश्चैव दक्षोऽत्रिश्च्यवनस्तथा ।। ४८ ।।

भरद्वाजश्च व्यासश्च गौतमश्च पराशरः ।
प्रचेताश्च वसिष्ठश्च संवर्तश्च बृहस्पतिः ।। ४९ ।।

कात्यायनो याज्ञवल्क्योऽप्युत्तङ्कः सौभरिस्तथा ।
पर्वतो देवलश्चैव जैगीषव्यश्च जैमिनिः ।। ५० ।।

विश्वामित्रश्च सुतपाः पिप्पलः शाकटायनः ।
जाबालिर्जाङ्गलिश्चैव पिशलिश्च शिलालिकः ।। ५१ ।।

आस्तौकश्च जगत्कारुस्तथा कल्याणमित्रकः ।
दुर्वासा वामदेवश्च ऋष्यश्रृङ्गो विभाण्डकः ।। ५२ ।।

पथिः कविः कणादश्च गौशिकः पाणिनिस्तथा ।
कौत्सोऽद्यमर्षणश्चैव वाल्मीकिर्लोमहर्षणः ।। ५३ ।।

मार्कणडेयो मृकण्डुश्च पर्शुरामश्च सांकृतिः ।
अगस्त्यश्च तथा वान्तस्तथाऽन्ये मुनयो मुने ।। ५४ ।।

सशिष्याश्च सपुत्राश्च ब्राह्मणाश्च तपस्विनः ।
जरासंधो दन्तवक्रो दाम्भिको द्रविडाधिपः ।। ५५ ।।

शिशुपालो भीष्मकश्च भगदत्तश्च मुद्गलः ।
धार्तराष्ट्रो धूमकेशो धूम्रकेतुश्च शम्बरः ।। ५६ ।।

शल्यः सत्राजितः शङ्कुर्नृपाश्चान्ये महाबलाः ।
भीष्मो द्रोणः कृपाचार्यो ह्यश्वत्थामा महाबलाः ।। ५७ ।।

भूरिश्रवाश्च शाल्वश्च कैकेयः कौशलस्तथा ।
सर्वान्संभाषयामास महाराजो यथोचितम्
सत्यको यज्ञदिवसे चकार च शुभक्षणम् ।। ५८ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo कंसयज्ञ-
कथानं नाम चतुःषष्टितमोध्यायः ।। ६४ ।।