प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६४ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ६५
[[लेखकः :|]]
अध्यायः ६६ →

अथ पञ्चषष्टितमोऽध्यायः
नारायम उवाच
कंसस्य वचनं श्रुत्वा सोऽक्रूरो धर्मिणां वरः ।
उवाच चौद्धवं शान्तं शान्तः प्रहृष्टमानसः ।। १ ।।

अक्रूर उवाच
सुप्रभाताऽद्य रजनी बभूव मे शुभं दिनम् ।
तुष्टाश्च गुरवो विब्रा देवा मामिति निश्चितम् ।। २ ।।

कोटिजन्मार्जितं पुण्यं मम स्वयमुपस्थितम् ।
बभूव मे समुत्पन्नं यद्यत्कर्म शुभाशुभम् ।। ३ ।।

चिच्छेद बन्धनिगडं मम बद्धस्य कर्मणा ।
कारागाराश्च संसारान्मुक्तो यामि हरेःपदम् ।। ४ ।।

सुहृदर्थो कृतोऽहं च कंसेन विदुषा रुषा ।
वरेण तुल्यो देवस्य क्रोधो मम बभूव ह ।। ५ ।।

व्रजराज समाहर्तुं व्रजं यास्यामि सांप्रतम् ।
द्रक्ष्यामि परमं पूज्यं भुक्तिमुक्तिप्रदायिनम् ।। ६ ।।

नवीनजलदश्यामं नीलेन्दीवरनोचनम् ।
पीतवस्त्रसमायुक्तकटिदेशविराजितम् ।। ७ ।।

धूलिधूसरिताङ्गं च किंवा चन्दनचर्चितम् ।
अथाव नवनीताक्तमङ्गं द्रक्ष्यामि सस्मितम् ।। ८ ।।

किंवा विनोदमुरलीं वादयन्तं मनोहरम् ।
किंवा गवां समूहं च चारजन्तमितस्ततः ।। ९ ।।

किंवा वसन्तं गच्छन्तं शयानं वा सुनिश्चितम् ।
निद्रेशं कीदृशं चाद्य सुदृष्ट्वा च शुभे क्षणो ।। १० ।।

यत्पादपद्मं ध्यायन्ते ब्रह्मविष्णुशिवादयः ।
न हि जानाति यस्यान्तमनन्तोऽनन्तविग्रहः ।। ११ ।।

यत्प्रभावं न जानन्ति देवाः सन्तश्च संततम् ।
स्य स्तोत्रे जडीभूता भीता देवी सरस्वती ।। १२ ।।

दासीनियुक्ता यद्दास्यो महालक्षमीश्च लक्षीता ।
गङ्मा यस्य पदाम्भोजान्निःसृता सत्तव रूमिणी ।। १३ ।।

जन्ममृत्युजराव्याधिहरा त्रिभुवनात्परा ।
दर्शनस्पर्शनाभ्यां च नृणां पातकनाशिनी ।। १४ ।।

ध्यायते यत्पदाम्भोजं दुर्गा दुर्गविनाशिनी ।
त्रेलोक्यजननी देवी मुलप्रकृतिरीश्वरी ।। १५ ।।

लोम्नां कूपेषु विश्वानि महाविष्णोश्च यस्य च ।
असंख्यानि विचित्राणि स्थूलात्स्थूलतरस्य च ।। १६ ।।

स च यत्षोडशांशश्च यस्य सर्वेश्वरस्य च ।
तं द्रष्टुं यामि हे बन्धो मायामानुषरूपिणम् ।। १७ ।।

सर्व सर्वान्तरात्मानं सर्वज्ञं प्रकृतेः परम् ।
ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् ।। १८ ।।

निर्गुणं च निरीहं च निरानन्दं निराश्रयम् ।
परमं परमानन्दं सानन्दं नन्दनन्दनम् ।। १९ ।।

स्वेच्छामयं सर्वपरं सर्वबीजं सनातनम् ।
वदन्ति योगिनः शश्वद्ध्यायन्तेऽहर्निशं शिशुम् ।। २० ।।

मन्वन्तरसहस्रं च निराहारः कृशोदरः ।
पद्मे पाद्मस्तपस्तेपे पुरा पाद्मं तु यत्कृते ।। २१ ।।

पुनः कुरु तपस्यां च तदा द्रक्ष्यसि मामिति ।
सकृच्छब्दं च शुश्राव न ददर्श तथाऽपि तम् ।। २२ ।।

तावत्कालं पुनस्तप्त्वा वरं प्राप ददर्श तम् ।
ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुद्धव ।। २३ ।।

पुरा शंभुस्तपस्तेपे यावद्वै ब्रह्मणो वयः ।
ज्योतिर्मण्डलमध्ये च गोलोके तं ददर्श सः ।। २४ ।।

सर्वतत्तवं सर्वसिद्धं ममतत्वं परं वरम् ।
संप्राप तत्पदाम्भोजे भक्तिं च निर्मलां पराम् ।। २५ ।।

चकाराऽत्मसमं तं च यो भक्तो(क्तं)भक्तवत्सलः ।
ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुद्धव ।। २६ ।।

सहस्रशक्रपातान्तं निराहारः कृशोदरः ।
यस्यानन्तस्तपस्तेपे भक्त्या च परमात्मनः ।। २७ ।।

तदा चाऽऽत्मसमं ज्ञानंददौ तस्मै य ईश्वाः ।
ईदृशं परमेशं च द्रक्ष्याo ।। २८ ।।

सहस्रशक्रपातान्तं धर्मस्तेपे च यत्तपः ।
तदा बभूव साक्षी स धर्मिणां सर्वकर्मिणाम् ।। २९ ।।

शास्ता च फलदाता च यत्प्रसादान्नृणामिह ।
सर्वेशमीदृशमहो द्रक्ष्याo ।। ३० ।।

अष्टाविंशतिरिन्द्राणां पतने यद्दिवानिशम् ।
एवं क्रमेण मासाब्दैः शताब्दं ब्रह्मणो वयः ।। ३१ ।।

अहो यस्य निमेषेण ब्रह्मणः पतनं भवेत् ।
ईदृशं परमात्मानं द्रक्ष्याo ।। ३२ ।।

नास्ति भूरजसा संख्या यथैव ब्रह्मणां तथा ।
तथैव बन्धो विश्वानां तदाधारो महाविराट् ।। ३३ ।।

विशवे विश्वे च प्रत्येकं ब्रह्म विष्णुशिवादयः ।
मुनयो मनवः मिद्धा मानवाद्याश्चराचराः ।। ३४ ।।

यत्षोडशांशः स विराट् सृष्टो नष्टश्च लीलया ।
ईदृशं सर्वशास्तारं द्रक्ष्याo ।। ३५ ।।

इत्योवमुक्त्वाऽक्रूरश्च पुलकाञ्चितविग्रहः ।
मूर्च्छां प्राप साश्रुनेत्रोदध्यो तच्चरणाम्बुजम् ।। ३६ ।।

बभूव भक्तिपूर्णश्च स्मारं स्मारं पदाम्बुजम् ।
कृत्वा प्रदक्षिणं वाऽपि कृष्णस्य परमात्मनः ।। ३७ ।।

उद्धवश्च तमाश्लिष्य प्रशशंक पुनः पुनः ।
स च शीघ्रं ययौ गेहमकूरोऽपि स्वमन्दिरम् ।। ३८ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo अक्रूरहर्षोत्कर्षकथनं
नाम पञ्चषष्टि,मोऽध्यायः ।। ६५ ।।