प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६६ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ६७
[[लेखकः :|]]
अध्यायः ६८ →

अथा सप्तषष्टितमोऽध्यायः
नारायण उवाच
विरहव्याकुलां दृष्ट्वा मामिनीं काममोहनः ।
कृत्वा वक्षसि तां कृष्णो ययौ क्रीडासरोवरम् ।। १ ।।

राजराजेश्वरी राधा कृष्णवक्षसि राजते ।
सौदामिनीव जलदे नदीने गगने मुने ।। २ ।।

रेमे स रमया सार्धं कृपया च कृपानिधिः ।
द्वयोर्द्वयोर्यथा स्वर्णंमण्योर्मारकतो मणिः ।। ३ ।।

रत्ननिर्माणपर्यङ्के रत्नेन्द्रसारनिर्मिते ।
नत्नप्रदीपे ज्वलति रत्नभूषणभूषितः ।। ४ ।।

रत्नभूषाभूषितया रासरत्नश्च कौतुकात् ।
रसरत्नाकरे रम्ये निमग्नो रसिकेश्वरः ।। ५ ।।

रासे रासेश्वरी राधा रामेश्वरमुवाच सा ।
सुरतौ विरतौ सत्यां विरते न मनोरथे ।। ६ ।।

राधिकोवाच
प्रफुल्लाऽहं त्वया नाथ मृता म्लाना च त्वां विना ।
यथा महौषधिगणः प्रभाते भाति भास्करे ।। ७ ।।

नक्तं दीपशिखेवाहं त्वया सार्धं त्वया विना ।
दिने दिने यथा क्षीणा कृष्णपक्षे विधोः कला ।। ८ ।।

तव वक्षसि मे दीप्तिः पूर्णंचन्द्रप्रभासमा ।
सद्यो मृता त्वया त्यक्ता कुह्वां चन्द्रकला यथा ।। ९ ।।

ज्वलदग्निशिखेवाहं घृताहुत्या त्वया सह ।
त्वया विनाऽहं निर्वाणा शिशिरे पद्मिनी यथा ।। १० ।।

चिन्ताज्वरजराग्रस्ता मत्तस्त्वयि गतेऽप्यहम् ।
अस्तंगते रवौ चन्द्रे ध्वान्दग्रस्ता धरा यथा ।। ११ ।।

भ्रष्टो वेषस्त्वां विना मे रुपयौवनचेतनम् ।
तारावली परिभ्रष्टा सूर्यसूतोदये यथा ।। १२ ।।

त्वमेवाऽऽत्मा च सर्वेषां मम नाथो विशेषतः ।
तनुर्यथाऽऽत्मना त्यक्ता तथाऽहं च त्वया विना ।। १३ ।।

पञ्चप्राणात्मकस्त्वं मे मृताऽहं च त्वया विना ।
दृष्टेश्च गोलकौ जद्वद्दृष्टिः पुत्तलिकां विना ।। १४ ।।

स्थलं यथा चित्रयुक्तं त्वया सार्धमहं तथा ।
असंस्कृता त्वया हीना तृणाच्छन्ना यथा मही ।। १५ ।।

त्वया सार्धमहं कृष्ण चित्रयुक्तेव मृन्मयी ।
त्वां विना जलधौताऽहं विरूपा मृन्मयीव च ।। १६ ।।

गोपाङ्गनानां शोभा च त्वया रासेश्वरेण च ।
हारे स्वर्णविकारे च श्वेतेन मणिना सह ।। १७ ।।

व्रजराज त्वया सार्ध राजन्ते राजराजयः ।
यथा चन्द्रेण नभसि ताराराजिर्विराजते ।। १८ ।।

त्वया शोभा यशोदाया नन्दस्य नन्दनन्दन ।
यथा शाखाफलस्कन्धैस्तरुराजिर्विराजते ।। १९ ।।

त्वया कार्ध गोकुलेश सोभा गोकुलवासिनाम् ।
यथा सर्वा लोकराजी राजेन्द्रेण विराजते ।। २० ।।

रामस्यापि च रासेश त्वया शोभा मनोहरा ।
राजते देवराजेन यथा स्वर्गेऽमरावती ।। २१ ।।

वृन्दावनस्य वृक्षाणां त्वं च शोभा पतिर्गतिः ।
अन्योषां च वनानां च बलवान्केसरी यथा ।। २२ ।।

त्वया विना यशोदा य निमग्ना शोकसागरे ।
अप्राप्य वत्सं मुरभिः क्रोशन्ती व्याकुला यथा ।। २३ ।।

आन्दोलयन्ति नन्दस्य प्राणा दग्धं च मानसम् ।
त्वया विना तप्तपात्रे यथा धान्यसमूहकः ।। २४ ।।

इत्युक्त्वा परमप्रेम्णा सा पतन्ती हरेः पदे ।
पुनराध्यात्मिकेनैव बोधयामास तां विभुः ।। २५ ।।

आध्यात्मिको महायोगी मोहसंछेदकारणम् ।
यथा पर्शुश्च वृक्षाणां तीक्ष्णधारश्च नारद ।। २६ ।।

नारद उवाच
आध्यात्मिकं महायोगं वद वेदविदां वर ।
शोकच्छेदं च लोकानां श्रोतुं कौतुहलं मम ।। २७ ।।

नारायण उवाच
आध्यात्मिको महायोगो न ज्ञातो योगिनामवि ।
स च नानाप्रकारश्च सर्वं वेत्ति हरिः स्वयम् ।। २८ ।।

किंचिदाध्यात्मिकं चैव गोनोके राधिकेश्वरः ।
सुप्रीतः कथायामास त्रिपुरारिं यथा मुने ।। २९ ।।

सहस्रेन्द्रनिपातान्तं तपः कुर्वन्तमीश्वरम् ।
श्रेष्ठं ज्येष्ठं वैष्णवानां वरिष्ठं च तपस्विनाम् ।। ३० ।।

पुष्करे दुष्करं तप्त्वा पाद्मे पाद्मं च पद्मजः ।
दृष्ट्वा तं सादरं कृष्ण उवाच किंचिदेवतम् ।। ३१ ।।

शतेन्द्रपातपर्यन्तं कठोरेण कृशोदरम् ।
निश्चेष्टमस्थिसारं च कृपया च कृपानिधिः ।। ३२ ।।

सिंहक्षेत्रे पुरा धर्मं मत्तातं धर्मिणां वरम् ।
चतुर्दशेन्द्रावच्छिन्नं तपस्तप्त्वा कृशोदरम् ।। ३३ ।।

पपाठाऽऽयात्मिकं किंचित्कृपया च कृपानिधिः ।
किचिच्छतेन्द्रावच्छिन्नं मां तपन्तमुवाच सः ।। ३४ ।।

किंचित्सनत्कुमारं च तपन्तं सुचिरं परम् ।
सुतपन्तमनन्तं च किंचिच्चोवाच नारद ।। ३५ ।।

चिरं तपन्तं कपिलं हिमशैले तपस्विनम् ।
पुष्करे भास्करे किंचित्तपन्तं दुष्करं तपः ।। ३६ ।।

उवाच किंचित्प्रह्लादं किंचिद्दुर्वाससं भृगुम् ।
एवं निगूढं भक्तं च कृप्या भक्तवत्सलः ।। ३७ ।।

क्रीडाकनोवरे रम्ये यदुवाच कृपानिधिः ।
शोकार्तां राधिकां तच्च कथायामि निशामय ।। ३८ ।।

विरसं रसिकां दृष्ट्वा वासयित्वा च वक्षसि ।
उवाचाऽऽध्यात्मिकं किंचिद्योगिनीं योगिनां गुरुः ।। ३९ ।।

श्रीकृष्ण उवाच
जातिस्मरे स्मराऽऽत्मानं कथं विस्मरसि प्रिये ।
सर्वं गोलोकवृत्तान्तं सुदाम्नः शापमेव च ।। ४० ।।

शापात्किंचिद्दिनं दीने त्वद्विच्छेदो मया सह ।
भविष्यति महाभागे मेलनं पुनरावयोः ।। ४१ ।।

पुनरेव गमिष्यामि गोलोकं तं निजालयम् ।
गत्वा गोपाङ्गनाभिश्च गोपैर्गोलोकवासिभिः ।। ४२ ।।

अधुनाऽऽध्यात्मिकं किंचित्तवां वदामि निशामय ।
शोकध्नं हर्षदं सारं सुखदं मानसस्य च ।। ४३ ।।

अहं सर्वान्तरात्मा च निर्लिप्तः सर्वकर्मसु ।
विद्यमानश्च सर्वेषु सर्वत्रादृष्ट एव च ।। ४४ ।।

वायुश्चरति सर्वत्र यथैव सर्ववस्तुषु ।
न च लिप्तस्तथैवाहं साक्षी च सर्वकर्मणाम् ।। ४५ ।।

जीवो मत्प्रतिबिम्बश्च सर्वत्र सर्वजीविषु ।
भोक्ता शुभाशुभानां च कर्ता च कर्मणां सदा ।। ४६ ।।

यथा चलघटेष्वेव मण्डलं चन्द्रमुर्ययोः ।
भग्नेषु तेषु संश्लिष्टस्तयोरेव तथा मयि ।। ४७ ।।

जीवः श्लिष्टस्तथा काले मृतेषु जीविषु प्रिये ।
आवां च विद्यमानौ च सततं सर्वजन्तुषु ।। ४८ ।।

आधारश्चाहमाधेयं कार्य च कारणं विना ।
अये सर्वाणि द्रव्याणि नश्वराणि च सुन्दरि ।। ४९ ।।

आविर्भावाधिकाः कुत्र कुत्रचिन्न्यूनमेव च ।
ममांशाः केऽपि देवाश्च केचिद्देवाःकलास्तथा ।। ५० ।।

केचित्कलाः कलांशांशास्तदंशांशाश्च केचन ।
मदंशा प्रकृतिः सूक्ष्मा साच मूर्त्याच पञ्चधा ।। ५१ ।।

सरस्वती च कमला दुर्गा त्वं चापि वेदसूः ।
सर्वे देवाः प्राकृतिका यावन्तो मूर्तिधारिणः ।। ५२ ।।

अहमात्मा नित्यदेही भक्तध्यानानुरोधतः ।
ये ये प्रकृतिका राधे ते नष्टाः प्राकृते लये ।। ५३ ।।

अहमेवाऽऽसमेवाग्रे पश्चादप्यहमेव च ।
यथाऽहं च तथा त्वं च यथा धावल्यदुग्धयोः ।। ५४ ।।

भेदः कदाऽपि न भवेन्निश्चितं च तथाऽऽवयोः ।
अहं महान्विराट् सुषटौ विश्वानि यस्य लोमसु ।। ५५ ।।

अंशस्त्वं तत्र महती स्वांशेन तस्य कामिनी ।
आहं क्षुद्रविराट् सृष्टौ विश्वं यन्नाभिपद्मतः ।। ५६ ।।

अयं विष्णोर्लोमकूपे वासो मे चांशतः सति ।
तस्य स्त्री त्वं च बृहती स्वाशने सुभगा तथा ।। ५७ ।।

तस्य विश्वे च प्रत्येकं ब्रह्मविष्णुशिवादयः ।
ब्रह्मविष्णुशिवा अंशाश्चान्ये चापि च मत्कलाः ।। ५८ ।।

मत्कलांशांशकलया सर्वे देवि चराचराः ।
वैकुण्ठे त्वं महालक्ष्मीरहं तत्र चतुर्भुजः ।। ५९ ।।

स च विश्वाद्बहिश्चोर्ध्वं यथा गोलोक एव च ।
सरस्वती त्वं सत्ये च सावित्री ब्रह्मणः प्रियाः ।। ६० ।।

शिवलोके शिवा त्व्रं च मूलप्रकृतिरीश्वरी ।
विनाश्य दुर्गं दुर्गा च सर्वदुर्गतिनाशिनी ।। ६१ ।।

स एव दक्षकन्या च सा एव शैलकन्यका ।
कैलासे पार्वती तेन सौभाग्या शिववक्षसि ।। ६२ ।।

स्वांशेन त्वं सिन्धुकन्या क्षीरोदे विष्णुवक्षसि ।
अहं स्वाशेन सृष्टौ च ब्रह्मविष्णुमहेश्वराः ।। ६३ ।।

त्वं च लक्ष्मी शिवा धात्री सावित्री च पृथक्पृथक् ।
गोलोके च स्वयं राधा रासे रासेश्वरी सदा ।। ६४ ।।

वृन्दा दृन्दावने रम्ये विरजा विरजातटे ।
सा त्वं सुदामशापेन भारतं पुण्यमागता ।। ६५ ।।

पूतं कर्तुं भारतं च वृन्दारण्यं च सुन्दरि ।
त्वत्कलांशांशकलया विश्वेषु सर्वयोषितः ।। ६६ ।।

यायोषित्सा च भवती यः पुमान्सोऽहमेव च ।
अहं च कलया वह्निस्त्वं स्वाहा दाहिका प्रिया ।। ६७ ।।

त्वया सह समर्थोऽहं नालं दग्धुं च त्वां विना ।
अहं दीप्तिमतां सूर्यः कलया त्वं प्रभाकरी ।। ६८ ।।

संज्ञा त्वं च त्वया भामि त्वां विनाऽहं न दीप्तिमान् ।
अहं च कलया चन्द्रस्त्वं च शोभा च रोहिणी ।। ६९ ।।

मनोहरस्त्वया सार्धं त्वां न च सुन्दरः ।
अहमिन्द्रश्च कलया स्वर्गलक्ष्मीश्च त्वं शची ।। ७० ।।

त्वया सार्धं देवराजो हतश्रीश्च त्वया विना ।
अहंधर्मश्च कलया त्वं च मूर्तिश्च धर्मिणी ।। ७१ ।।

नाहं शक्तो धर्मकृत्यो त्वां च धर्मक्रियां विना ।
अहं यज्ञश्च कलया त्वं च स्वांशेन दक्षिणा ।। ७२ ।।

त्वया सार्धं च फलदोऽप्यकमर्थस्त्वया विना ।
कलया पिदृलोकोऽहं स्वांशेन त्वं स्वधा सती ।। ७३ ।।

त्वयाऽलं कव्यदाने च सदा नालं त्वया विना ।
अहं पुमांस्त्वं प्रकृतिर्न स्रष्टाऽहं त्वया विना ।। ७४ ।।

त्वं च संवत्स्वरूपाऽहमीश्वरश्च त्वया सह ।
लक्ष्मीयुक्तस्त्वया लक्ष्मया निः श्रीकश्च त्वया दिना ।। ७५ ।।

यथा नालं कुलालश्च घटं कर्तुं मृदा विना ।
अहं शेषश्च कलया स्वांशेन त्वं वसुंधरा ।। ७६ ।।

त्वां सस्यरत्नाधारां च बिभर्मि मूर्ध्नि सुन्दरि ।
त्वं च कान्तिश्च शान्तिश्च भूतिर्मूर्तिमती सती ।। ७७ ।।

तुष्टिः पुष्टिः क्षमा लज्जा क्षुधा तृष्णा परा दया ।
निद्रा श्रद्धा च तन्द्रा च मूर्च्छा च संनतिः क्रिया ।। ७८ ।।

मूर्तिरूपा भक्तिरूपा देहिनां देहरूपिणी ।
ममाऽऽधारा सदा त्वं च तवाऽत्माऽहं परस्परम् ।। ७९ ।।

यथा त्वं च तथाऽहं च समौ प्रकृतिपूरुषौ ।
न हि सृष्टिर्भवेद्देवि द्वयोरेकतरं विना ।। ८० ।।

इत्युक्त्वा परमात्मा च राधां प्राणाधिकां प्रियाम् ।
कृत्वा वक्षसि सुप्रीतो बोधयामास नारद ।। ८१ ।।

स च कीडानियुक्तश्च बभूव रत्नमन्दिरे ।
तथा च राधाया सार्धं कामुक्या सह कामुकः ।। ८२ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo आध्यत्मिक-
योगकथनं नाम सप्तषष्टितमोऽध्यायः ।। ६७ ।।