प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६७ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ६८
[[लेखकः :|]]
अध्यायः ६९ →

अथाष्टषष्टितमोऽध्यायः
नारायण उवाच
कृत्वा क्रीडां समुत्थाय पुष्पतल्पात्पुरातनः ।
निद्रितां प्राणसदृशीं बोधयामास तत्क्षणम् ।। १ ।।

वस्त्राञ्चलेन संस्कृत्य कृत्वा तन्निर्मलं मुखम् ।
उवाच मधुरं शान्तं शान्तां च मधुसूदनः ।। २ ।।

श्रीकृष्ण उवाच
अयि तिष्ठक्षणं राधे रासेश्वरि शुचिस्मिते ।
व्रज बृन्दावनं वाऽपि व्रजं व्रज व्रजेश्वरि ।। ३ ।।

रासाधिष्ठातृतेवि त्वं रासं रासे कुरु क्षणम् ।
ग्रामे ग्रामे यथा सन्ति सर्वत्र ग्रामदेवताः ।। ४ ।।

प्रियारलिनिवहैः सार्धं क्षणं चन्दनकाननम् ।
क्षणं वा चम्पकवनं घच्छ वा तिष्ठ सुन्दरि ।। ५ ।।

क्षणं गृहं च यास्यामि विशिष्टं कार्यमस्ति मे ।
विदायं देहि मे प्रीत्या क्षणं मां प्राणवल्लभे ।। ६ ।।

प्राणाधिष्ठातृदेवी त्वं प्राणाश्च त्वयि सन्ति मे ।
प्राणी विहाय प्रणांश्च कुत्र स्थातुं क्षमः प्रिये ।। ७ ।।

त्वयि मे मानसं शश्वत्तवं मे संसारवासना ।
त्वत्तो मम प्रिया नास्ति त्वमेव शंकरात्प्रिया ।। ८ ।।

प्राणा मे शंकरः सत्यं त्वं च प्राणाधिका सति ।
इत्युक्त्वा तां समाश्लिष्य भगवान् गन्तुसुद्यतः ।। ९ ।।

अक्रूरागमनं ज्ञात्वा सर्वज्ञः सर्वसाधनः ।
आत्मा पाता च सर्वेषां सर्वोपकारकारकः ।। १० ।।

दृष्ट्वा तमेव गच्छन्तमुत्सुकं भिन्नमानसम् ।
उवाच राधिका देवी हृदयेन विदूयता ।। ११ ।।

राधिकोवाच
हे नाथ रमणप्रेष्ठ श्रेष्ठश्च प्रेयसां मम ।
हे कृष्ण हे रमानाथ व्रजेश मा द्रज व्रजम् ।। १२ ।।

अधुना त्वां प्राणनाथ पश्यामि भिन्नमानसम् ।
गते त्वयि मम प्रेम गतं सौभाग्यमेव च ।। १३ ।।

क्व यासि मां विनिक्षिप्य गम्भीरे शोकसागरे ।
विरहव्याकुलां दीनां त्वय्येव शरणागताम् ।। १४ ।।

न यास्यामि पुनर्गेहं यास्यामि काननान्तरम् ।
कृष्ण कृष्णेति कृष्णेति गायं गायं दिवानिशम् ।। १५ ।।

न यास्याम्यथवाऽरण्यं यास्यामि कामसागरे ।
तत्र त्वत्कामनां कृत्वा त्यक्ष्यामि च कलेवरम् ।। १६ ।।

यथाऽऽकाशो यथाऽऽत्मा च यथा चन्द्रो था रविः ।
तथा त्वं यासि मत्पार्श्वे निबद्धो वसनाञ्चले ।। १७ ।।

अधुना यासि नैराश्यं कृत्वा मे दीनवत्सल ।
न युक्तं हि परित्यक्तुं दीनां मां शरणागताम् ।। १८ ।।

यत्पादपद्मं धयायन्ते ब्रह्मविष्णुशिवादयः ।
त्वां मायया गोपवेषं कथं जानामि मत्सरी ।। १९ ।।

कृतं यद्देव दुर्नीतमपराधसहस्रकम् ।
यदुक्तं पतिभावेन चाभिमानेन तत्क्षम ।। २० ।।

चूर्णोभूतश्च मद्गर्वो दूरीभूतो मनोरथः ।
विज्ञातुमात्मसौभाग्यं किमन्यत्कथयामि ते ।। २१ ।।

ज्ञात्वा गर्गमुखच्छ्रुत्वा मोहिता तव मायया ।
त्वां च वक्तुं न शक्नोमि प्रेम्णा वा भक्तिपाशतः ।। २२ ।।

यासि चेन्मां परित्यज्य सकलङ्को भविष्यसि ।
त्वत्पुत्रपौत्रा नश्यन्ति ब्रह्ममोपानलेन च ।। २३ ।।

क्षणं युगशतं मन्ये त्वां विना प्राणवल्लभम् ।
कथं शताब्दं त्वां त्यक्त्वा बिभर्मि जीवनं प्रभी ।। २४ ।।

इत्युक्त्वा राधिका मोपात्पपात धरणीतले ।
मूर्च्छं संप्राप सहसा जहार चेतनां मुने ।। २५ ।।

कुष्णस्तां मूर्च्छितां दृष्ट्वा कृपया च कृपानिधिः ।
चेतनां कारयित्वा च वासयामास वक्षसि ।। २६ ।।

बोधयामास विविधं योगैःशोकविखण्डनैः ।
तथाऽपि शोकं त्यक्तुं च न शशाक शुचिस्मिता ।। २७ ।।

सामान्यवस्तुविश्लेषीनृणां शोकाय केवलम्।
देहात्मनोश्च विच्छेदः क्व सुखाय प्रकल्पते ।। २८ ।।

न ययौ तत्र दिवसे व्रजराजो व्रजं पति ।
क्रीडासरोवराभ्याशं प्रययौ राधाया सह ।। २९ ।।

तत्र गत्वा पुनः क्रीडां चकार च तया सह ।
विजहौ क्रिहज्वालां रासे रासेश्वरी मुदा ।। ३० ।।

राधा सा स्वामिना सार्धं पुष्पचन्दनचर्चिता ।
पुष्पचन्दनतल्पे च तस्थौ रहसि नारद ।। ३१ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्माखo उत्तo नारदनाo राधाशोक-
विमोचनं नामाष्टषष्टितमोऽध्यायः ।। ६८ ।।