ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०७२
← अध्यायः ७१ | ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः) अध्यायः ७२ [[लेखकः :|]] |
अध्यायः ७३ → |
अथ द्विसप्ततितमोऽध्यायः
नारायण उवाच
अथ कृष्णो गुरुं नत्वा निर्गम्य शिबिरान्मुने ।
आरुह्य स्वर्गयानं च शुभां मधुपुरीं ययौ ।। १ ।।
विवेश मथुरां रम्यां सहाक्रूरगणैः समम् ।
निर्जित्य शक्रनगरी शोभायुक्तां मनोहराम् ।। २ ।।
रत्नश्रेष्ठेन खचितां रचितां विश्वकर्मणा ।
अमूल्यरत्नकलशो राजितैश्च विराजनाम् ।। ३ ।।
राजमर्गशतैरिष्टैर्वैष्टितां रुचिरैर्वरैः ।
चन्द्राकारैश्चन्द्रसारैर्मणिमिः परिसंस्कृतैः ।। ४ ।।
विचित्रैर्मणिसारैश्च वीथीशतविनिर्मितैः ।
शोभितैर्वणिजैः श्रेष्ठैः पुण्यवस्तुसमन्वितैः ।। ५ ।।
सरोवरसहस्रैश्च परितः परिशोभितम् ।
शुध्धस्फटिसंकाशैः पद्मरागविराजितैः ।। ६ ।।
रत्नालंकारभूषाढ्यैः शोभितां पद्मिनीगणैः ।
स्यिरयौवनसंयुक्तैर्निमेषरहितैः परैः ।। ७।।
शाक्षरैरूर्ध्ववदनैः कृष्णदर्शनलालसैः ।
भ्रूभङ्गलीलालोलैश्च शश्वच्चञ्चललोचनैः ।। ८ ।।
शश्वत्कामसमायुक्तैः पीनश्रोणिपयोधरेः ।
कोमलाङ्गैर्मध्यकूपै रतिरासविशारदैः ।। ९ ।।
रत्ननिर्माणयानानां कोटिभिः परिशोभिताम् ।
भूषणैर्भूषिताभिश्च चित्रेताभिश्च चित्रकैः ।। १० ।।
नानाप्रकारश्रीयुक्तां पुष्पोद्यानत्रिकोटिभिः ।
नानापुष्पैः पुष्पिताभिर्युक्ताभिर्मधुसूदनैः ।। ११ ।।
माधुर्यमधुसंयुक्तैर्मधुलुब्धैर्मुदाऽन्वितैः ।
माध्वीकमधुमत्तैश्च युक्तैर्मंधुकरीचयैः ।। १२ ।।
नानाप्रकारदुर्गेश्च दुर्गम्यां वैरिणां गणैः ।
रणितां रणकैः शाश्चद्रक्षाशास्त्रविशारदैः ।। १३ ।।
त्रिकोट्ट्याट्टालिकाभिश्च संयुक्तां सुमनोहराम् ।
रचितां किल सद्रत्नैर्विचित्रैर्विश्वकर्मणा ।। १४ ।।
एवंभूतां च मथुरां दृष्ट्वा कमललोचनः ।
ददर्श पथि कुब्जां तां वृद्धामतियरादुराम् ।। १५ ।।
यान्तों दण्डसहायेन चातिनम्रां नमद्वलीम् ।
रूक्षितां विकृताकारां बिभ्रतीं चन्दनद्रवम् ।। १६ ।।
कस्तूरीकुङ्कुमाक्तं च स्पर्शमात्रेण नारद ।
सुगन्धिमकरन्देन गन्धाढ्यं सुमनोहरम् ।। १७ ।।
सादृष्ट्वा सस्मिता वृद्धा श्रीकान्तं शान्तमीश्वरम् ।
श्रीयुक्तं श्रीनिवासं तं श्रीबीजं श्रीनिकेतनम् ।। १८ ।।
प्रणम्य सहसा मूधर्ना भक्तिनम्रा पुटाञ्जलिः ।
प्रददौ चन्दनं तस्य गात्रेश्यामलसुन्दरे ।। १९ ।।
गात्रेषु तद्गणानां च स्वर्णपात्रकरा वरा ।
कृत्वा प्रदक्षिणं कृष्णं प्रणनाम पुनः पुनः ।। २० ।।
श्रीकृष्णदृष्टिमात्रेण श्रीयुक्ता सा बभूव ह ।
सहसा श्रीसमा रम्या रूपेण यौवनेन च ।। २१ ।।
वहिशुद्धांशुवसना रत्नभूषणभूषिता ।
यथा द्वादशवर्षोया कन्या धन्या मनोहरा ।। २२ ।।
बिम्बोष्ठी सस्मिता श्यामा तप्तकाञ्चनसंनिभा ।
सुश्रोणी सुदती बिल्वफलतुल्यपयोधरा ।। २३ ।।
अमूल्यरत्ननिर्माणहारसारविराजिता ।
गजेन्द्रराजगमना रत्नमञ्जीररञ्जिता ।। २४ ।।
बिभ्रती कबरीभारं मालतीमाल्यवेष्टितम् ।
रक्षितं वामभागेन रुचिरं वर्तुलाकृतिम् ।। २५ ।।
सिन्दूरबिन्दुं दधतों दाडिमीकुसुमाकृतिम् ।
कस्तूरी बिन्दुमुपरि सार्ध चन्दनबिन्दुभिः ।। २६ ।।
रन्नदर्पणाहस्ता च प्रशस्ता रतिकर्मसु ।
श्रीकृष्णं वरयामास लोललोचनकोणतः ।। २७ ।।
श्रीवासस्तां समाश्वस्य ययौ स्थानान्तरं परम् ।
कृतार्थरूपा सा प्रीत्या ययौ पद्मयथाऽऽलयम् ।। २८ ।।
स ददर्श स्वभवनं यया पद्यालयालयम् ।
रत्नशय्याविरचितं सद्रत्नसारनिर्मितम् ।। २९ ।।
रत्नप्रदीपराजीभी राजिताभिश्च राजितम् ।
रत्नदर्पणराजैश्च राजितं परितस्ततः ।। ३० ।।
सिन्दूरवस्त्रताम्बूलं श्चेतचामरमाल्यकम् ।
बिभ्रतीभिश्च दासीभिर्वेष्टितं दाससंघकैः ।। ३१ ।।
तत्र गत्वा च भुक्त्वा च मिष्टान्नं परमं मुदा ।
सुष्वाप रत्नपर्यङ्के सा दासीभिश्च सेविता ।। ३२ ।।
सकर्पूरं च ताम्बूलं कस्तूरीकुङ्कुमान्वितम् ।
चन्दनं स्थापयामास स्वतल्पे हरये सती ।। ३३ ।।
मालतीमाल्ययुगलं कर्पूरादिसुवासितम् ।
शीतलं सलिलं स्वादु मिष्टान्नं स्वसमीपतः ।। ३४ ।।
कर्मणा मनसा वाचा चिन्तयन्ती हरेः पदम् ।
हरेरागमनं चापि मुखचन्द्रं मनोहरम् ।। ३५ ।।
जगत्कृष्णमयं शश्वत्पश्यन्ती कामुकी मुने ।
कोटिकन्दर्पलीलाभं कामसक्तं च कामुकम् ।। ३६ ।।
ततो तदर्श श्रीकृष्णो मालाकारं मनोहरम् ।
मालासमूहं बिभ्रन्तं गच्छन्तं राजमन्दिरम् ।। ३७ ।।
सोऽपि दृष्ट्वा च श्रीकान्तं प्रणम्य शिरशा भुवि ।
ददौ माल्यसमूहं च कृष्णाय परमात्मने ।। ३८ ।।
कृष्णस्तस्मै वरं दत्तवा स्वदास्यमतिदुर्लभम् ।
माल्यं गृहीत्वा प्रययौ राजमार्गे वरं वरः ।। ३९ ।।
ततो ददर्श रजकं बिभ्रतं वस्त्रपुञ्जकम् ।
अहंकृतिबलिष्ठं च सततं योवनोद्वतम् ।। ४० ।।
वस्त्रं ययाचे तं कृष्णो विनयेन महामुने ।
स तस्मै न ददौ वस्त्रं तमुवाच च निष्ठुरम् ।। ४१ ।।
गोरक्षकाणां त्वद्योग्यं वस्त्रमेतत्सुदुर्लभम् ।
राजयोग्यं च हे मूढ हे गोपजनवल्लभ ।। ४२ ।।
गृहीत्वा गोपकन्याश्च कन्यालोलुप लम्पट ।
यद्विहारः कृतस्तत्र वृन्दारण्येऽप्यराजके ।। ४३ ।।
न चात्र तादृशं कर्म राज्ञः कंसस्य वर्त्मंनि ।
विद्यमानोऽत्र राजेन्द्रः शास्ता दुष्टस्य तत्क्षणम् ।। ४४ ।।
रजकस्य वचः श्रुत्वा जहास मधुसूदनः ।
जहास बलदेवश्च साक्रूरो गोपवर्गकः ।। ४५ ।।
तं निहत्य चपेटेन जग्राह वस्त्रपुञ्जकम् ।
वस्त्रं संधारयामास श्रीकृष्णः सगणस्तथा ।। ४६ ।।
रत्नयानेन गोनोकं पार्षदेर्वेष्टितेन च ।
ययौ रजकराजश्च धृत्वा दिव्यकलेवरम् ।। ४७ ।।
शश्वद्यौवनयुक्तं च जरामृत्युहरं वरम् ।
पीतवस्त्रसमायुक्तं सस्मितं श्यामसुन्दरम् ।। ४८ ।।
बभूव सोऽपि गोलोके पार्षदेषु च पार्षदः ।
कृष्णस्याऽऽगमनं तत्र सस्मार सततं वशी ।। ४९ ।।
अस्तं गतो दिनकरोऽप्यक्रूरः स्वगृहं ययौ ।
कृष्णस्यानुमतिं प्राप्य कृष्णोऽपि कस्यचिद्गृहम् ।। ५० ।।
वैष्णवस्य कुविन्दस्य तस्मिन्नस्तधनस्य च ।
सानन्दो नन्दसहितो बलदेवादिभिर्युतः ।। ५१ ।।
स भक्तः पूजयामास प्रणम्य श्रीनिकेतनम् ।
तस्मै ददौ स्वदास्यं च वरं ब्रह्मादिदुर्लभम् ।। ५२ ।।
पर्यङ्के सुषुपुः सर्वे भुक्त्वा मिष्टान्नसुत्तमम् ।
निद्रां च लेभे सा कुब्जा निद्रेशोऽपिययौ मुदा ।। ५३ ।।
गत्वा ददर्श कुब्जां तां रत्नतल्पे च निद्रिताम् ।
दासीगणैः परिवृतां सुन्दरीं कमलामिव ।। ५४ ।।
बोधयामास तां कृष्णो न दासीस्वपि निद्रिताः ।
तामुवाच जगन्नाथो जगन्नाथप्रियां सतीम् ।। ५५ ।।
श्रीभगवानुवाच
त्यज निद्रां महाभागे शृङ्गारं देहि सुन्दरि ।
पुरा शूर्पणखा त्वं च भगिनीं रावणस्य च ।। ५६ ।।
रामजन्मनि मद्धेतोस्त्वया कान्ते तपः कृतम् ।
तपःप्रभावान्मां कान्तं भज श्रीकृष्णजन्मनि ।। ५७ ।।
अधुना सुखसंयोगं कृत्वा गच्छ ममाऽऽलयम् ।
सुदुर्लभं च गोलोकं जरासृत्युहरं परम् ।। ५८ ।।
इत्युकत्वा श्रीनिवासश्च कृत्वातामेव वक्षसि ।
नग्नां चकार शृङ्गारं चुम्बनं चापि कामुकीम् ।। ५९ ।।
स सस्मिता च श्रीकृष्णं नवसंगमलज्जिता ।
चुचुम्ब गण्डे क्रोडे तं चकार कमला यथा ।। ६० ।।
सुरतेर्विरतिर्नास्ति दंपती रतिपण्डितौ ।
नानाप्रकारसुरतं बभूव तत्र नारद ।। ६१ ।।
स्तनश्रोणियुगं तस्या विक्षतं च चकार ह ।
भगवान्नखरैस्तीक्ष्णैर्दशनैरधरं वरम् ।। ६२ ।।
निशावसानसमये वीर्याधानं चकार सः ।
सुखसंभोगभोगेन मूर्च्छामाप च सुन्दरी ।। ६३ ।।
तत्राऽऽजगामतां तन्द्रा कृष्णवक्षःस्थलस्थिताम् ।
बुबुधे न दिवारात्रं स्वर्ग मर्त्य जलं स्थलम् ।। ६४ ।।
सुप्रभाता च रजनी बभूव रजनीपतिः ।
पत्युर्व्यतिक्रमेणैव लज्जयेव मलीमसः ।। ६५ ।।
अथाजगाम गोलोकाद्रथो रत्नविनिर्मितः ।
जगाम तेन तं लोकं धृत्वा दिव्यकलेवरम् ।। ६६ ।।
वह्निशुद्धां शुकाधानं रत्नभूषणभूषितम् ।
प्रतप्तकाञ्चनाभासं नित्यं जन्मादिवर्जितम् ।। ६७ ।।
सा बभूव च तत्रैव गोपी चन्द्रमुखी मुने ।
गोप्यः कतिविधास्तस्या बभूवुः परिचारिकाः ।। ६८ ।।
भगवानपि तत्रैव क्षणं स्थित्वा स्वमन्दिरम् ।
जगाम यत्र नन्दश्च सानन्दो नन्दनन्दनः ।। ६९ ।।
अथ कंसो निशायां च निद्रायां भयविह्वलः ।
ददर्श दुःखदुःस्वप्नमात्मनो मृत्युसूचकम् ।। ७० ।।
ददर्श सूर्यं भूमिस्थं चतुःखण्डं नभश्च्युतम् ।
दशखण्डे चन्द्रबिम्बं भूमिस्थं खाच्च्युतं मुने ।। ७१ ।।
पुरुषान्विकृताकारान्रज्जुहस्तान्दिगम्बरान् ।
विधवां शूद्रपत्नीं च नग्नां च च्छिन्ननासिकाम् ।। ७२ ।।
हसन्तीं चूर्णतिलकां श्वेतकृष्णोच्चमूर्धजाम् ।
खड्गखर्परहस्तां च लोलजिह्वां च बिभ्रतीम् ।। ७३ ।।
रुण्डमालासमायुक्तां गर्दभं महिषं वृषम् ।
भल्लूकं सूकरं काकं गृध्रं कह्कं च वानरम् ।। ७४ ।।
विरजं कुक्कुरं नक्रं शृगालं भस्मपुञ्जकम् ।
अस्थिराशिं तालफलं केशं कार्पासमुल्बणम् ।। ७५ ।।
निर्वाणाङ्गारमिल्कां च शवं सर्त्यं चिताश्रितम् ।
कुलालतैलकाराणां चक्रं वक्रं कपर्दकम् ।। ७६ ।।
श्मशानं दग्धकाष्ठं च शुष्ककाष्ठं कुणं तृणाम् ।
गच्छन्तं च कबन्धं च नदन्तं मृतमस्तकम् ।। ७७ ।।
दग्धस्थानं भस्मयुतं तडागं जलवर्जितम् ।
दग्धमत्स्यं च लोहं च निर्वाणदग्धकाननम् ।। ७८ ।।
गलत्कुष्ठं च वृषलं नग्नं च सुक्तसूर्धचम् ।
अतीव रूपटं विप्रं च शपन्तं गुरुमीदृशाम् ।। ७९ ।।
अतीवरुष्टं भिक्षुं च योगिनं वैष्णवं नरम् ।
एवं दृष्ट्वा समुत्थाय कथयामास मातरम् ।। ८० ।।
पितरं भ्रातरं पत्नीं रुदतीं प्रेमविह्वलम् ।।
मञ्चकान्कारयामस स्थापयामास हस्तिनम् ।। ८१ ।।
मल्लसैन्यं च योद्धारं कारयामास मङ्गलम् ।
सभां च कारयामास पुण्यं स्वस्त्ययनं शिवम् ।। ८२ ।।
यत्नेन योजयामास योगे युक्तं पुरोहितम् ।
उवास मञ्चके रम्ये धृत्वा खड्गं विलक्षणम् ।। ८३ ।।
रणे नियोजयामास योद्धारं युद्धकोविदम् ।
वासयामास राजेन्द्रान्ब्राह्मणांश्च मुनीश्वरान् ।। ८४ ।।
ब्राह्मणाश्च सुहृद्वर्गान्धर्मिष्ठान्रणकोविदान् ।
अथाऽऽजगम गोविन्दो रामेण सह नारद ।। ८५ ।।
महेशस्य धनुर्मध्यं बभञ्ज तत्र लीलया ।
शब्देन तस्य मथुरा बधिरा च बभूव ह ।। ८६ ।।
विषादं प्राप कंसश्च मुदं च देवकीसुतः ।
उपस्थितः सभामद्धे गजं मल्लं निहत्य च ।।
योगी ददर्श तं देवं परमात्मानमीश्वरम् ।। ८७ ।।
यथा हृत्पद्ममध्यस्थं तादृशं बहिरेव च ।
राजेन्द्ररूपं राजानः शास्तारं दण्डधारिणा म् ।। ८८ ।।
पिता माता दुग्धमुखं स्तनान्धं बालकं यथा ।
कामिन्यः कोटिकन्दर्पलीलालावप्यधारिणम् ।। ८९ ।।
कंसश्च कालपुरुषं वैरिणं तस्य बान्धवाः ।
मल्ला मृत्युप्रदं चैव प्राणतुल्यं च यादवाः ।। ९० ।।
नमस्कृत्य मुनीन्विप्रान्पितरं मातरं गुरुम् ।
जगाम मञ्चकाम्याशं हस्ते कृत्वा सुदर्शनम् ।। ९१ ।।
दृष्टावा भक्तं भक्तबन्धुः कृपया च कृपानिधिः ।
आकृष्य मञ्चकात्कंकं जघान लीलया मुने ।। ९२ ।।
राजा ददर्श विश्वं च सर्वं कृष्णमयं परम् ।
पुरतो रत्नयानं च हीरकाहारभूषितम् ।। ९३ ।।
ययौ विष्णुपदं स्फीतो दिब्यरूपं विधाय च ।
तेजो विवेश परमं कृष्णपादाम्बुजे मुने ।। ९४ ।।
निवृत्य तस्य सत्कारं ब्राह्मणेम्यो धरं ददौ ।
ददौ राज्यं राजछत्रमुग्रसेनाय धीमते ।। ९५ ।।
स बभूव नृपेन्द्रश्च चन्द्रवंशसमुद्भवः ।
विललाप कंसमाता पत्नीवर्गश्च तत्पिता ।। ९६ ।।
बान्धवा मातृवर्गश्च भगिनी भ्रातृकामिनी ।
दर्शनं देहि राजेन्द्र समुत्तिष्ठ नृपासने ।। ९७ ।।
राज्यं रक्ष धनं रक्ष बान्धवं बलमेव च ।
क्व यासि बान्धवान्हित्वा त्वमनाथान्महाबल ।। ९८ ।।
ब्रह्मादिस्तम्बपर्यन्तमसंख्यं विश्वमेव च ।
सर्वं चराचराधारं यः सृजत्येव लीलया ।। ९९ ।।
ब्रह्मेशशेषधर्माश्च दिनेशश्च गणेश्वरः ।
मुनीन्द्रवर्गो देवेन्द्रो ध्यायते यमहर्निशम् ।। १०० ।।
वेदाः स्तुपन्ति यं कृष्णं स्तौति भीता सरस्वती ।
स्तौति यं प्रकृतिर्हृष्टा प्राकृतं प्रकृतेः परम् ।। १०१ ।।
स्वेच्छामयं निरीहं च निर्गुणं च निरञ्जनम् ।
परात्परतरं ब्रह्म परमात्मानमीश्वरम् ।। १०२ ।।
नित्यं ज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् ।
नित्यानन्दं च नित्यं च नित्यमक्षरविग्रहम् ।। १०३ ।।
सोऽवतीर्णों हि भगवान्भारावतरणाय च ।
गोपालबालवेषश्च मायेशो मायया प्रभुः ।। १०४ ।।
स यं हन्ति च सर्वेशो रक्षिता तस्य कः पुमान् ।
स यं रक्षति सर्वात्मा तस्य हन्ता न कोऽपि च ।। १०५ ।।
इत्येवमुक्त्वा सर्वश्च विरराम महामुने ।
ब्राह्मणान्भोजयामास तेभ्यः सर्वं धनं ददौ ।। १०६ ।।
भगवानपि सर्वात्मा जगाम पितुरन्तिकम् ।
छित्तवा च लोहनिगडं तयोर्मोक्षं चकार सः ।। १०७ ।।
ननाम दण्डवद्भमौ मातरं पितरं तथा ।
तुष्टाव भक्त्तया देवेशो भक्तिनम्रात्मकंधरः ।। १०८ ।।
श्रीभगवानुवाच
पितरं मातरं विद्यामन्त्रदं गुरुमेव च ।
यो न पुष्णाति पुरुषो यावज्जीवं च सोऽशुचिः ।। १०९ ।।
सर्वेषामपि पूज्यानां पिता वन्द्यो महान् गुरुः ।
पितुः शतगुणैर्माता गर्भधारणपोषणात् ।। ११० ।।
माता च पृथिवीरूपा सर्वेभ्यश्च हिरैषिणी ।
नास्ति मातुः परो बन्धुः सर्वेषां जगतीतले ।। १११ ।।
विद्यामन्त्रप्रदः कत्यं मातुः परतनो गुरुः ।
न हि तस्मात्परः कौऽपि वन्द्यः पूज्यश्च वेदतः ।। ११२ ।।
इत्येवमुक्त्वा श्रीकृष्णो बलभद्रो ननाम च ।
माता चकारतौ क्रोडे पिता च सादरं मुने ।। ११३ ।।
मिष्टान्नं परमं तौ च भोजयामास ब्राह्मणान् ।
वसुर्वसुसमूहं च ब्राह्मणेभ्यो ददौ मुदा ।। ११४ ।।
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo कंसवधवसुदेव-
देवकीमोक्षणं नाम द्विसप्ततितमोध्यायः ।। ७२ ।।