प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ७३ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ७४
[[लेखकः :|]]
अध्यायः ७५ →

अथ चतुःसप्ततितमोऽध्यायः
नारायण उवाच
श्रीकृष्णः परमानन्दः परिपूर्णतमः प्रभुः ।
परमात्मा च परमो भक्तानुग्रहकारकः ।। १ ।।

भुवो भारावतरणो निर्गुणः प्रकृतेः परः ।
परात्पनस्तु भगवान्ब्रह्मेशशेषवन्दितः ।। २ ।।

तुष्टो नन्दस्तवं श्रुत्वा तमुवाच जगत्पतिः ।
आगच्छन्तं गोकुलाच्च विरहज्वरकातरम् ।। ३ ।।

श्रीभगवानुवाच
गच्छ नन्दव्रजं नन्द त्यज शोकं भ्रमं भुवि ।
शृणु सत्यं परं ज्ञानं शोकग्रन्थिनिकृन्तनम् ।। ४ ।।

वायुश्च भूमिराकाशो जलं तेजश्च पञ्चमम् ।
उक्तः श्रुतिगणैरेतैः पञ्चभूतैश्च नित्यशः ।। ५ ।।

सर्वैषां देहिनां तात देहश्च पाञ्चभौतिकः ।
मिथ्याभ्रमः कृत्रिमश्च स्वप्नवन्माययाऽन्वितः ।। ६ ।।

देहं गृह्णन्ति सर्वैषां पञ्चभूतानि नित्यशः ।
मायासंकेतरूपं तदभिज्ञानं भ्रमात्मकम् ।। ७ ।।

को वा कस्य सुनस्तात का स्त्री कस्य पतिस्तु वा ।
कर्मणा भ्रमणं शश्वत्सर्वेषां भूरिजन्मनि ।। ८ ।।

कर्मणा जायन्ते जन्तुः कर्मणैव प्रलीयते ।
सुखं दुःखं भयं शोकं कर्मणा च प्रपद्यते ।। ९ ।।

केषां वा जन्म स्वर्गेषु केषां वा ब्रह्मणो गृहे ।
केषां विप्रेषु क्षत्रेषु केषां वा बैश्यशूद्रयोः ।। १० ।।

अतिनीचेषु केषां वा केषां कृमिषु विट्सु च ।
पशुपक्षिषु केषां वा केषां वा क्षुद्रजन्तुषु ।। ११ ।।

पुनः पुनर्भ्रमन्त्येव सर्वे तात स्वकर्मणा ।
करोति कर्म निर्मूलं मद्भक्तो मत्पियः सदा ।। १२ ।।

सत्यं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् ।
पञ्चविंशत्सहस्राणां युगान्ते निधनं मनोः ।। १३ ।।

मनोः समं महेन्द्रस्य परमायुर्विनिर्मितम् ।
चतुर्दशेन्द्रविच्छित्तौ ब्रह्मणो दिनमुच्यते ।। १४ ।।

एवं परिमिता रात्रिः कालविद्भर्विनिर्मिता ।
एवं परिमिता मासा वर्षं च परिनिश्चितम् ।। १५ ।।

ब्रह्मणश्च वर्षशतं परमायुर्विनिर्मितम् ।
निमेषमात्रं कालोऽयं ब्रह्मणो निधने मम ।। १६ ।।

ब्रह्मादितृणपर्यन्तं सर्वं विश्वे विनिर्मितम् ।
सत्योऽहं परमात्मा च भक्तानुग्रहविग्रहः ।। १७ ।।

मन्मन्त्रोपासकः सत्यो देहं त्यक्त्वा धरासु च ।
यास्यत्येव हि गोलोकं छित्वा कर्म पुरातनम् ।। १८ ।।

असंख्यब्रह्मणां पाते न भवेत्तस्य पातनम् ।
गृह्णति नित्यं स्वं देहं जन्ममृत्युजरापहम् ।। १९ ।।

न नन्द मम भक्तानामशुभं विद्यते क्वचित् ।
नित्यं सुदर्शनं तं च परिरक्षति मर्वतः ।। २० ।।

मत्तो हि बलवान्भक्तश्चिन्तितोऽहं न चिन्तितः ।
अहं स्वामी च तस्यैव न मे स्वामी पिता प्रसूः ।। २१ ।।

पुत्रबुद्धिं परित्यज्य भज मां ब्रह्मरूपिणम् ।
छित्तवा च ब्रह्मनिगडं गोलोकं तद्व्रज स्वयम् ।। २२ ।।

कथयस्व यशोदां च गोपीं गोपगणां व्रज ।
तैश्च सर्वैर्जनैः शोकं त्यज स्वमन्दिरं व्रज ।। २३ ।।

इत्येवमुक्त्वा भगवान्विरराम च संसदि ।
पप्रच्छ पुनरेवं तं नन्दश्चाऽऽनन्दसंप्लुतः ।। २४ ।।

नन्द उवाच
वद सांसारिकं ज्ञानं येन यास्यामि त्वत्पदम् ।
मूढोऽहं परमानन्द श्रुतीनां जनको भवान् ।। २५ ।।

नन्दस्य वचनं श्रुत्वा सर्वज्ञो भगवान्स्वयम् ।
आह्निकं कथयायास श्रुतिभिर्न श्रुतं हि यत् ।। २६ ।।

इतिo श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo भगवन्नन्दसंवादे
चतुः सप्ततितमोऽध्यायः ।। ७४ ।।