प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ७४ ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः ७५
[[लेखकः :|]]
अध्यायः ७६ →

अथ पञ्चसप्ततितमोऽध्यायः
श्रीभगवानुवाच
शृणु नन्द प्रवक्ष्यामि ज्ञानं च परमाद्भुतम् ।
सुगोपनीयं वेदेषु पुराणेषु च दुर्लभम् ।। १ ।।

न विश्वासो हि नारीषु संततं कुलटासु च ।
मोक्षमार्गार्गलास्वेव भ्रममायास्वमूषु च ।। २ ।।

हरिभक्तेरसाध्वीनां विरुद्धासु युतासु च ।
बीजरूपासु नाशानां प्रमदासु व्रजेश्वर ।। ३ ।।

नित्यं च प्रातरुत्थाय रात्रिवासो विहाय च ।
अभीष्टदेवं हृत्पद्मे ब्रह्मरन्ध्रे गृरुं परम् ।। ४ ।।

विचिन्त्य मनसा प्रातःकृत्यं कृत्वा सुनिश्चितम् ।
स्नानं करोति सुप्राज्ञो निर्मलेषु जलेषु च ।। ५ ।।

न संकल्पं च कुरुते भक्तः कर्मनिकृन्तनः ।
स्नात्वा हरिं स्मरेत्संध्यां कृत्वा याति गृहं प्रति ।। ६ ।।

प्रक्षाल्य पादौ प्रविशेन्निधाय धौतवाससी ।
पूजयोत्परमात्मानं मामेव मुक्तिकारणम् ।। ७ ।।

शालग्रामे मणौ यन्त्रे प्रतिमायां जलेऽपि च ।
तथा च विप्रे गवि च गुरुष्वेवं विशेषतः ।। ८ ।।

घटिऽष्टदलपद्मे च पात्रे चन्दननिर्मिते ।
आवाहनं च सर्वत्र शालग्रामे जलेन च ।। ९ ।।

मन्त्रानुरूपध्यानेन ध्यात्वा मां पूजयेद्व्रती ।
षोडशोपचारद्रव्याणि दद्यान्मूलेन भक्तितः ।। १० ।।

श्रीदामानं मुदामानं वसुदामानमेव च ।
वीरभानुं शूरभानुं गोपान्पञ्च प्रपूजयेत् ।। ११ ।।

सुनन्दनन्दकुमुदं पार्षदं मे सुदर्शनम् ।
लक्ष्मीं सरस्वतीं दुर्गां राधां गङ्गां वसुंधराम् ।। १२ ।।

गुरुं च तुलसीं शंभुं कार्तिकेयं विनायकम् ।
नवग्रहांश्च दिक्पालान्परितः पूजयेत्सुधीः ।। १३ ।।

देवषट्कं च संपूज्य सर्वादौ विघ्नविघ्नतः ।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवम् ।। १४ ।।

श्रुतौ विनिर्मितान्देवान्मोक्षदान्कर्मकृन्तनान् ।
गणेशं विघ्ननाशाय सूर्यं व्याधिविनाशिने ।। १५ ।।

वह्निं प्राप्तिनिमित्तेन शान्तौ शुद्धौ भवेद्ध्रुवम् ।
विष्णुं मोक्षनिमित्तेन ज्ञानदानाय शंकरम् ।। १६ ।।

बुद्धिमुक्तिनिमित्तेन पार्वतीं पूजयेत्सुधीः ।
पुष्पाञ्जलित्रयं दत्त्वा स्वस्तोत्रं कवचं पठेत् ।। १७ ।।

गुरुं प्रणम्य संपूज्य तत्पश्चात्प्रणमेत्सुरम् ।
कृत्वाऽऽह्रिकं च संपूज्य यथासुखमुदीरितम् ।। १८ ।।

समाचरेत्स्वकर्मैतद्वेदोक्तं स्वात्मशुद्धये ।
विष्ठां न पश्येत्प्राज्ञश्च व्याधिबीजस्वरूपिणीम् ।। १९ ।।

मूत्रं च व्याधिबीजं च परं नरककारणम् ।
लिङ्गंयोनिं पापदुःखव्याधिदारिद्र्यदायिनीम् ।। २० ।।

उरुं मुखं स्तनं स्त्रीणां कटाक्षं हास्यमेव च ।
विनाशबीजं रूपं च विपदां कारणं सदा ।। २१ ।।

दिवाभोगं च स्वस्त्रीणां स्वालापं परिवर्जयेत् ।
रोगाणो कारणं चैव चक्षुषोः कर्णयोस्तथा ।। २२ ।।

एकतारं च गगनं न पश्येत्तु रुजां भयात् ।
दैवाद्दृष्ट्वा हरिं स्मृत्वा सप्तधा नारदं जपेत् ।। २३ ।।

अस्तकाले रविं चन्द्रं न पश्येद् व्याधिकारणम् ।
खण्डं मसुदितं चन्द्रं न पश्येद् व्याधिकारणम् ।। २४ ।।

जलस्थं च रविं चन्द्रं दृष्ट्वा शोकं लभेन्नरः ।
बन्धुविच्छेदहेतुं च न पश्येत्परमैथुनम् ।। २५ ।।

एकत्र शयनं स्थानं भोजनं च गतिं तथा ।
न कुर्यात्पापिना सार्धं सर्वं नाशस्य लक्षणम् ।। २६ ।।

आलापाद्गात्रसंस्पर्शाच्छयनाश्रयभोजनात् ।
संचरन्ति ध्रुवं पापास्तैलविन्दुरिवाम्भसा ।। २७ ।।

हिंस्रजन्तुसमीपं च न गच्छेद्दुःखकारणम् ।
खलेन सार्ध मिलनं न कुर्याच्छोककारणम् ।। २८ ।।

ब्राह्मणानां गवां चैव वैष्णवानां विशेषतः ।
न कुर्याद्धिंसनं हानिं सर्वनाशस्य कारणम् ।। २९ ।।

देवदेवलविप्राणां वैष्णवानां तथैव च ।
वित्तं धनं च नहरेत्सर्वनाशस्य कारणम् ।। ३० ।।

स्वदत्तं परदत्तं वा ब्रह्मवित्तं हरेत्तु यः ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ।। ३१ ।।

गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ।
श्वापदः शतजन्मानि गण्डकः सप्तजन्मनि ।। ३२ ।।

घोटकः सप्तजन्मानि कुम्भीरः पञ्चजन्मसु ।
पुंश्चलीनां योनिकीटं शतजन्मसु निश्चितम् ।। ३३ ।।

व्रणकीटं च तेषां शतजन्मसु नारद ।
गोधिका सप्तजन्मानि गर्दभः सप्तजन्मसु ।। ३४ ।।

सप्तजन्मानि मार्जारो नकुलश्त्रेषु जन्मसु ।
उच्चैःश्रवा जन्मशतं खरश्चापि तथैव च ।। ३५ ।।

क्रूरसर्पश्च शार्दूलो महिषः सप्तजन्मसु ।
भेकश्च शतजन्मानि च्छागलः सप्तजन्मसु ।। ३६ ।।

भल्लूकः शतजन्मानि शृगालो लक्षजन्मसु ।
ततो जलौका भवति ब्रह्मस्वहरणाद्ध्रुवम् ।। ३७ ।।

कुम्भीपाके च पच्यन्ते पापिनो ब्रह्मणः शतम् ।
दक्षिणां विप्रमुद्दिश्य तत्कालं चैन्न दीयते ।। ३८ ।।

एकरात्रे व्यतीते तु तद्दानं द्विगुणं भवेत् ।
मासे शतगुणं प्रोक्तं द्विमासे तु सहस्रकम् ।। ३९ ।।

संवत्सरे व्यतीते तु स दाता नरकं व्रजेत् ।
दात्रा न दीयते मूर्खो ग्रहीता च न याचते ।। ४० ।।

उभौ तौ नरकं यातो दाता व्याधियुतो भवेत् ।
विप्राणां हिसनं कृत्वा वंशहानिं लभेद्ध्रुवम् ।। ४१ ।।

धनं लक्ष्मीं परित्यज्य भिक्षुकश्च भवेद्व्रजन् ।
देवं च ब्रह्मणं दृष्ट्वा न नमेद्यो लभेच्छुचम् ।। ४२ ।।

न कुर्याद्गुरुभक्तिं यो लभते रौरवं शुचम् ।
य स्त्री मूढा दुराचारा स्वपतिं हरिरूपिणम् ।। ४३ ।।

न पश्येत्तर्जनं कृत्वा कुम्भीपाके व्रजेद्ध्रुवम् ।
वाक्तर्जनाद्भवेत्काको हिंसनात्सूकरो भवेत् ।। ४४ ।।

सर्पो भवति कोपैन दर्पेण गर्दभो भवेत् ।
कुक्कुरी च कुवाक्येनाप्यन्धश्च विषदर्शनात् ।। ४५ ।।

पतिव्रता च वैकुण्ठं पत्या सह व्रजेद्ध्रुवम् ।
शिवं दुर्गां गणपतिं सूर्य विप्रं च वैष्णवम् ।। ४६ ।।

विष्णुं निन्दति यो मूढः स महारौरवं व्रजेत् ।
पितरं मातरं पुत्रं सतीं भार्यां गुरुं तथा ।। ४७ ।।

अनाथां भगिनीं कन्यां विनिन्द्य नरकं व्रजेत् ।
विप्रभक्तिविहीनाश्च क्षत्रविट्शूद्रयोनिजा ।। ४८ ।।

हरिभक्तिविहीनाश्च पच्यन्ते नरमे ध्रुवम् ।
पतिभक्तिविहीनाश्च युवत्यश्च नराधमाः ।। ४९ ।।

शालग्रामजलं विष्णुप्रसादं ये च भुञ्जते ।
तीर्य पुनन्ति ते विप्राः शतं पुंसां वसुंधराम् ।। ५० ।।

पितृन्देवान्समम्यर्च्य खादन्मासं द्विजः शुचिः ।
यो भक्षति वृथा मांसं स महारौरवं व्रजेत् ।। ५१ ।।

मत्स्यांश्च कामतो जग्ध्वा चोपवासं वसेद्द्विजः ।
प्रायश्चित्तं ततः कुर्याद्व्रतं चान्द्रायणं चरेत् ।। ५२ ।।

कामतो ब्राह्मणो मत्स्यं भुङ्क्ते यो ज्ञानदुर्बलः ।
सोऽशुचिः सततं नन्द हन्ति पुण्यं पुराकृतम् ।। ५३ ।।

विष्णोरुच्चिष्टभोजी यो मत्स्यं मांसं न खादति ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ।। ५४ ।।

एकादशीं ये कुर्वन्ति कृष्णजन्माष्टमीव्रतम् ।
शतजन्मकृतात्पापान्मुच्यन्ते नात्र संशयः ।। ५५ ।।

यद्बालये यच्च कौमारे वार्धके यच्च यौवने ।
भस्मीभूतानि कुर्वन्ति पातकानि कृतानि च ।। ५६ ।।

एकादशीदिने भुङ्क्ते कृष्णजन्माष्टमीव्रते ।
त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः ।। ५७ ।।

आतुरे नियमो न स्यादपि वृद्धे च बालके ।
भक्तस्य द्विगुणं दत्त्वा ब्राह्मणाय शुचिर्भवेत् ।। ५८ ।।

यो भुङ्क्ते शिवरात्रौ च श्रीरामनवमीदिने ।
उपवासे समर्थश्च स महारौरवं व्रजेत् ।। ५९ ।।

कुहूपूर्णेन्दुसंक्रान्तिचतुर्दश्यष्टमीषु च ।
नरश्चाण्डालयोनिः स्यात्स्त्रीतैलमांससेवनात् ।। ६० ।।

मत्स्यं मांसं मसूरं च कांस्यपात्रे च भोजनम् ।
आर्द्रकं रक्तशाकं च रवौ च परिवर्जयेत् ।। ६१ ।।

अन्यथा नरकं याति कुम्भीपाकं न संशयः ।
रजस्वरान्नं वेश्यान्नं मदिरान्नं व्रजेश्वर ।। ६२ ।।

यो भुङ्क्ते ब्राङ्मणो दैवाद्विड्भोजी स भवेद्ध्रुवम् ।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ।। ६३ ।।

स भवेदशुचिर्नित्यं भस्मान्तं तस्य सूतकम् ।
नारी वेश्या प्रतिज्ञेया चतुष्पुरुषगामिनी ।। ६४ ।।

पाके च पितृदेवानामधिकारो न तद्भवेत् ।
यद्ग्रामयाजिनामन्नं शूद्रश्राद्धान्नभोजनम् ।। ६५ ।।

भुक्त्वा च नरकं याति यावच्चन्द्रदिवाकरौ ।
शूद्राणां श्राद्धदिवसे तदन्नं भुञ्जते द्धिजाः ।। ६६ ।।

कुम्भीपाके च पच्यन्ते यावद्वै ब्रह्मणः शतम् ।
यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते श्राद्धदिनेऽन्यतः ।। ६७ ।।

सुरापीति स विज्ञेयः सर्वधर्मबहिष्कृतः ।
असिजीवी मषीजीवी देवलो वृषवाहकः ।। ६८ ।।

शूद्राणां शवदाही च यो हि शूद्रापतिद्धिजः ।
स शूद्रवद्वहिष्कार्यस्तदन्नं विट्समं सताम् ।। ६९ ।।

नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ।
स शूद्रवद्बहिष्कार्यः सवंस्माद्द्विजकर्मणः ।। ७०
संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदह्नाकुरुते कर्म न तस्य फलभाग्भवेत् ।। ७१ ।।

वाममन्त्रोपासकश्च ब्राह्माणो नरकं व्रजेत् ।
नदीगर्भे च गर्ते च दृक्षमूले जलान्तिके ।। ७२ ।।

देवान्तिके सस्यभूमौ पुरीषं नोत्सृजेद्बुधः ।
वल्मीकमूषकोत्खातां मृदमन्तर्जलां तथा ।। ७३ ।।

शौचावशिष्टां गेहाच्च नाऽऽदद्याल्लेपसंभवाम् ।
अन्तःप्राणिपिपील्यां च हलोत्खातां व्रजेश्वर ।। ७४ ।।

आलवालोत्थितां चैव सस्यक्षेत्रोत्थितां तथा ।
वृक्षमूलोत्थितां नन्द नदीगर्भोत्थितां तथा ।। ७५ ।।

परित्यजेन्मृदस्त्वेताः सकलाः शौचसाधने ।
कूष्माण्डघातिका या स्त्री दीवनिर्वाणकः पुमान् ।। ७६ ।।

सप्तजन्म भवेद्रोगी दरिद्रो जन्मजन्मनि ।
प्रदीपं शिवलिङ्गंच शालग्रामं मणिंतथा ।। ७७ ।।

प्रतिमां यज्ञसूत्रं च सुवर्ण शङ्खमेव च ।
हीरकं च तथा मुक्तां गोमूत्रं गोमयं घृतम् ।। ७८ ।।

शालग्रामशिलातोयं भूमौ त्यक्त्वा व्रजेदधः ।
दरिद्रः कृपणः कुष्ठी वंशहीनोऽप्यभार्यकः ।। ७९ ।।

भूमिहीनः प्रजाहीनो बन्धुहीनश्च कुत्सितः ।
अन्धः पङ्गुर्वा खर्वश्च खञ्जश्चैवाङ्गहीनकः ।। ८० ।।

भवेत्कमेण पापी स ह्येतान्भूमौ त्यजेतु यः ।
दिवसे संध्ययोर्निद्रां स्त्रीसंभोगं करोति यः ।। ८१ ।।

सप्तजन्म भवेद्रोगी दरिद्रः सप्तजन्मसु ।
उदिते जगतीनाथे यः कुर्याद्दन्तधावनम् ।। ८२ ।।

स पापिष्ठः कथं ब्रूते पूजयामि जनार्दनम् ।
मृद्भस्मगोसकृत्विण्डैस्तथा बालुकयाऽपि वा ।। ८३ ।।

कृत्वा लिङ्कं सकृत्पूजय वसेत्कल्पशतं दिवि ।
सहस्रपूजनात्सोऽपि लभते वाञ्छितं फलम् ।। ८४ ।।

लक्षं च पूजयेद्यस्तु शिवत्वं लभते ध्रुवम् ।
जीवन्मुक्तो भवेद्विप्रो लिङ्गमभ्यर्चयेतु यः ।। ८५ ।।

शिवपूजाविहीनश्च ब्राह्मणो नरकं व्रजेत् ।
मत्पूजितं प्रियतमं शिवं निन्दन्ति ये नराः ।। ८६ ।।

पच्यन्ते निरये तावद्यावद्वै ब्रह्मणः शतम् ।
पूजिते शिवलिङ्गे च यदि स्यात्केशवालुका ।। ८७ ।।

स महान्धो वालुकया केशेन यवनो भवेत् ।
क्षुद्रो दरिद्रः कृपणो व्याधिः स्यात्कुत्सिते यथा ।। ८८ ।।

सर्वेभ्यो मानहानिः स्याज्जायते नीचयोनिषु ।
सर्वेषु प्रियपात्रेषु ब्रह्मणश्च मम प्रियः ।। ८९ ।।

ब्रह्मणाच्च प्रिया लक्ष्मीः सततं वक्षसि स्थिता ।
ततोऽधिका प्रिया राधा प्रिया भक्तास्ततोऽधिकाः ।। ९० ।।

ततोऽधिकः शंकरो मे नास्ति मे शंकरात्प्रियः ।
महादेव महादेव महादेवेति वादिरः ।। ९१ ।।

पश्चाद्यामि च संतृप्तो नामश्रवणलोभतः ।
मनो मे भक्तमूले च प्राणा राधात्मका ध्रुवम् ।। ९२ ।।

आत्मा मे शंकरस्थानं शिवः प्राणाधिकश्च यः ।
आद्या नारायणी शक्तिः सृष्टिस्थित्यन्तकानिणी ।। ९३ ।।

कनोमि च यथा सृष्टिं यया ब्रह्मादिदेवताः ।
यया जयति विश्वं च यया सृष्टिःप्रजायते ।। ९४ ।।

यया विना जगन्नाश्ति मया दत्ता शिवाय सा ।
दया निद्रा च क्षुत्तृप्तिस्तृष्ण श्रद्धा क्षमा धृतिः ।। ९५ ।।

तुष्टिः पुष्टिस्तथा शान्तिर्लज्जाधिदेवता हि सा ।
वैसुण्ठे सा महालक्ष्मीर्गोलोके राधिका सती ।। ९६ ।।

मर्त्ये लक्ष्मीश्च क्षीरोदे दक्षकन्या सती य सा ।
सा दुर्गा मेनकाकन्या दैत्यदुर्गतिनाशिनी ।। ९७ ।।

स्वर्गलक्ष्मीश्च दुर्गा सा शक्रादीनां गृहे गृहे ।
सा वाणी सा च सावित्री विद्याधिष्ठातृदेवता ।। ९८ ।।

वह्नौ स दाहिकाशक्तिः प्रभाशक्तिश्च भास्करे ।
शोभाशक्तिः पूर्णचन्द्रे जले शक्तिश्च शीतता ।। ९९ ।।

सस्यप्रसूता शक्तिश्च धारणा च धरासु सा ।
ब्राह्मण्यशक्तिर्विप्रेषु देवशक्तिःसुरेषु सा ।। १०० ।।

तपस्विनां तपस्या का गृहिणां गृहदेवता ।
मुक्तिशक्तिश्च मुक्तानामाशा सांसारिकस्य सा ।। १०१ ।।

मद्भक्तानां भक्तिशक्तिर्मयि भक्तिप्रदा सदा ।
नृपाणां राज्यलक्ष्मीश्च वणिजां लभ्यरूपिणी ।। १०२ ।।

परि संसारसिन्धूनां त्रयीतत्त्वा तु तारिणी ।
सत्सु सद्बुद्धिरूपा सा मेधाशक्तिस्वरूपिणी ।। १०३ ।।

व्याख्याशक्तिः श्रुतौ शास्त्रे दातृशक्तिश्च दातृषु ।
क्षत्त्रादीनां विप्रभक्तिः पतिभक्तिः सतीसु च ।। १०४ ।।

एवं रूपा च या शक्तिर्मया दत्ता शिवाय सा ।
एवं ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।।
प्रश्नं करोषि यद्यन्मां तत्सर्वं कथयामि ते ।। १०५ ।।

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भसवन्नन्दसंo
पञ्चसप्ततितमोध्यायः ।। ७५ ।।